कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः प्रतिपादितं ब्रह्मणो लक्षणम् । प्रतिपादितं च ब्रह्मविषयं गतिसामान्यं वेदान्तवाक्यानाम् । प्रतिपादितं च प्रधानस्याशब्दत्वम् । तत्रेदमपरमाशङ्कते- न जन्मादिकरणत्वं ब्रह्मणो ब्रह्मविषयं वा गतिसामान्यं वेदान्तवाक्यानां प्रतिपत्तुं शक्यम् । कस्मात् । विगानदर्शनात् । प्रतिवेदान्तं ह्यन्यान्या सृष्टिरुपलभ्यते क्रमादिवैचित्र्यात् । तथाहि- क्वचित् ऽआत्मन आकाशः संभूतःऽ (तै। २।१) इत्याकाशादिकासृष्टराम्नायते । क्वचित्तेजादिका- ऽतत्तेजो ऽसृजतऽ (छा। ६।२।३) इति । क्वचित्प्राणादिका- ऽस प्राणमसृजत प्राणाच्छ्रद्धाम्ऽ (प्र। ६।४) इति क्वचिदक्रमेणैव लोकानामुत्पत्तिराम्नायते- स इमांल्लोकानसृजत । अम्भो मरीचीर्मरमापः (ऐ। उ। ४।२।१) इति । तथा क्वचिदसत्पूर्विका सृष्टिः पठ्यते- ऽअसद्वा इदमग्र आसीत्ततो वै सदाजयतऽ (तै। २।७) इति । असदेवेदमग्र आसीत्तत्सदासीत्तत्समभवत् (छा। ३।१९।१) इति च । क्वचिदसद्वादनिराकरणेन सत्पूर्विका प्रक्रिया प्रतिज्ञायते- ऽतद्धैक आहुरसदेवेदमग्र आसीत्ऽ इत्युपक्रम्य ऽकुतस्तु खलु सोम्यैवं स्यादिति होवाच कथमसतः सज्जायेतेति सत्त्वेव सोम्येदमग्र आसीत्ऽ (छा। ६।२।१,२) इति । क्वचित्स्वयङ्कर्तृकैव व्याक्रिया जगतो निगद्यते- ऽतद्धेदं तर्ह्यव्याकृतमासीत्तन्नामरूपाभ्यामेव व्याक्रियतऽ (बृ। १।४।७) इति । एवमनेकधा विप्रतिपत्तिर्वस्तुनि च विकल्पस्यानुपपत्तेर्न वेदान्तवाक्यानां जगत्कारणावधारणपरता न्याय्या । स्मृतिन्यायप्रसिद्धायां तु कारणान्तरपरिग्रहो न्याय्य इति । एवं प्राप्ते ब्रूमः - सत्यपि प्रतिवेदान्तं सृज्यमानेष्वाकाशादिषु क्रमादिद्वारके विगाने न स्रष्टरि किञ्चिद्विगानमस्ति । कुतः । यथा व्यपदिष्टोक्तेः । यथाभूतो ह्येकस्मिन्वेदान्ते सर्वज्ञः सर्वेश्वरः सर्वात्मैको ऽद्वितीयः कारणत्वेन व्यपदिष्टस्तथाभूत एव वेदान्तान्तरेष्वपि व्यपदिश्यते । तद्यथा- ऽसत्यं ज्ञानमनन्तं ब्रह्मऽ (तै।२।१) इति । अत्र तावज्ज्ञानशब्देन परेण च तद्विषयेण कामयितृत्ववचनेन चेतनं ब्रह्म न्यरूपयदपरप्रयोज्यत्वेनेश्वरं कारणमब्रवीत् । तद्विषयेणैव परेणात्मशब्देन शरीरादिकोशपरंपरया चान्तरनुप्रवेशनेन सर्वेषामन्तः प्रत्यगात्मानं निरधारयत् । ऽबहु स्या प्रजायेयऽ(तै। २।६) इति चात्मविषयेण बहुभवनानुशंसनेन सृज्यमानानां विकाराणां स्रष्टुरभेदमभाषत । तथा ऽइदं सर्वमसृजत यदिदं किञ्चऽ (तै।२।६) इति समस्तजगत्सृष्टिनिर्देशेन प्राख्सृष्टेरद्वितीयं स्रष्टारमाचष्टे । तदत्र यल्लक्षणं ब्रह्म कारणत्वेन विज्ञातं तल्लक्षणमेवान्यत्रापि विज्ञायते- ऽसदेव सेम्येदमग्र आसीदेकमेवाद्वितीयम्ऽ ऽतदैक्षत बहु स्यां प्रजायेयेति । तत्तेजो ऽसृजतऽ (छा। ६।२।१,३) इति । तथा ऽआत्मा वा इदमेक एवाग्र आसीन्नान्यकिञ्चन मिषत् । स ईक्षत लोकान्नु सृजैऽ (ऐउ। ४।१।१,२) इति च । एवञ्जातीयकस्य कारणस्वरूपनिरूपणपरस्य वाक्यजातस्य प्रतिवेदान्तमविगीतार्थत्वात् । कार्यविषयं तु विगानं दृश्यते क्वचिदाकाशादिका सृष्टिः क्वचित्तेजादिकेत्येवञ्जातीयकम् । नच कार्यविषयेण विगानेन कारणमपि ब्रह्म सर्ववेदान्तेष्वविगीतमधिगम्यमानमविवक्षितं भवितुमर्हतीति शक्यते वक्तुम् । अतिप्रसङ्गात् । समाधस्यति चाचार्यः कार्यविषयमपि विगानं ऽन वियदश्रुतेःऽ (ब्रसू। २।३।१) इत्यारभ्य भवेदपि कार्यस्य विगीतत्वमप्रतिपाद्यत्वात् । नह्ययं सृष्ट्यादिप्रपञ्चः प्रतिपादयिषितः । नहि तत्प्रतिबद्धः क्वचित्पुरुषार्थो दृश्यते श्रूयते वा । नच कल्पयितुं शक्यते, उपक्रमोपसंहाराभ्यां तत्र तत्र ब्रह्मविषयैर्वाक्यैः साकमेकवाक्यताया गम्यमानत्वात् । दर्शयति च सृष्ट्यादिप्रपञ्चस्य ब्रह्मप्रतिपत्त्यर्थताम्- ऽअन्नेन सोम्य शुङ्गेनापो मूलमन्विच्छद्भिः सोम्य शुङ्गेन तेजो मुलमन्विच्छ तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छऽ (छा।६।८।४) इति । मृदादिदृष्टान्तैश्च कार्यस्य कारणेनाभेदं वदितुं सृष्ट्यादिप्रपञ्चः श्राव्यत इति गम्यते । तथाच संप्रदायविदो वदन्ति- ऽमृल्लोहविस्फुलिङ्गाद्यैः सृष्टिर्या चोदितान्यथा । उपायः सो ऽवताराय नास्ति भेदः कथञ्चन ॥ ऽ (माण्डू। ३।१५) इति । ब्रह्मप्रतिपत्तिप्रतिबद्धं तु फलं श्रूयते- ऽब्रह्मविदाप्नोति परम्ऽ (तै। २।१) ऽतरति शोकमात्मवित्ऽ (छा। ७।१।३) ऽतमेव विदित्वातिमृत्युमेतिऽऽ (श्वं। ३।८) इति । प्रत्यक्षावगमं चेदं फलम् । ऽतत्त्वमसिऽ इत्यसंसार्यात्मत्वप्रतिपत्तौ सत्यां संसार्यात्मत्वव्यावृत्तेः ॥ १४ ॥ यत्पुनः कारणविषयं विगानं दर्शितम्- ऽअसद्वा इदमग्र आसीत्ऽ इत्यादि तत्परिहर्तव्यम् । अत्रोच्यते- ---------------------- फ़्न्: आदिग्रहणादक्रमो ऽपि गृह्यते । अंमयशरीरप्रचुरस्वर्गलोको ऽम्भःशब्दार्थः । सूर्यरश्मिव्याप्तो ऽन्तरिक्षलोको मरीचयः । मरो मरणधर्मा मर्त्यः । अब्बहुलाः पाताललोक आप इति श्रुत्यर्थः । प्रक्रिया सृष्टिः । तत् तत्र कारणे । एके बाह्याः । तद्विषयेण ब्रह्मविषयेण । मिषत् सव्यापारम् । अविरुद्धार्थकत्वात् । शुङ्गेन कार्येण । अन्यथान्यथेति वीप्सा द्रष्टव्या । अवताराय ब्रह्मधीजन्मने । अतस्तदन्यथात्वे ऽपि ब्रह्मणि न भेदः । ज्ञेये विगानं न ।
kāraṇatvena cākāśādiṣu yathāvyapadiṣṭokteḥ pratipāditaṃ brahmaṇo lakṣaṇam / pratipāditaṃ ca brahmaviṣayaṃ gatisāmānyaṃ vedāntavākyānām / pratipāditaṃ ca pradhānasyāśabdatvam / tatredamaparamāśaṅkate- na janmādikaraṇatvaṃ brahmaṇo brahmaviṣayaṃ vā gatisāmānyaṃ vedāntavākyānāṃ pratipattuṃ śakyam / kasmāt / vigānadarśanāt / prativedāntaṃ hyanyānyā sṛṣṭirupalabhyate kramādivaicitryāt / tathāhi- kvacit 'ātmana ākāśaḥ saṃbhūtaḥ' (tai. 2.1) ityākāśādikāsṛṣṭarāmnāyate / kvacittejādikā- 'tattejo 'sṛjata' (chā. 6.2.3) iti / kvacitprāṇādikā- 'sa prāṇamasṛjata prāṇācchraddhām' (pra. 6.4) iti kvacidakrameṇaiva lokānāmutpattirāmnāyate- sa imāṃllokānasṛjata / ambho marīcīrmaramāpaḥ (ai. u. 4.2.1) iti / tathā kvacidasatpūrvikā sṛṣṭiḥ paṭhyate- 'asadvā idamagra āsīttato vai sadājayata' (tai. 2.7) iti / asadevedamagra āsīttatsadāsīttatsamabhavat (chā. 3.19.1) iti ca / kvacidasadvādanirākaraṇena satpūrvikā prakriyā pratijñāyate- 'taddhaika āhurasadevedamagra āsīt' ityupakramya 'kutastu khalu somyaivaṃ syāditi hovāca kathamasataḥ sajjāyeteti sattveva somyedamagra āsīt' (chā. 6.2.1,2) iti / kvacitsvayaṅkartṛkaiva vyākriyā jagato nigadyate- 'taddhedaṃ tarhyavyākṛtamāsīttannāmarūpābhyāmeva vyākriyata' (bṛ. 1.4.7) iti / evamanekadhā vipratipattirvastuni ca vikalpasyānupapatterna vedāntavākyānāṃ jagatkāraṇāvadhāraṇaparatā nyāyyā / smṛtinyāyaprasiddhāyāṃ tu kāraṇāntaraparigraho nyāyya iti / evaṃ prāpte brūmaḥ - satyapi prativedāntaṃ sṛjyamāneṣvākāśādiṣu kramādidvārake vigāne na sraṣṭari kiñcidvigānamasti / kutaḥ / yathā vyapadiṣṭokteḥ / yathābhūto hyekasminvedānte sarvajñaḥ sarveśvaraḥ sarvātmaiko 'dvitīyaḥ kāraṇatvena vyapadiṣṭastathābhūta eva vedāntāntareṣvapi vyapadiśyate / tadyathā- 'satyaṃ jñānamanantaṃ brahma' (tai.2.1) iti / atra tāvajjñānaśabdena pareṇa ca tadviṣayeṇa kāmayitṛtvavacanena cetanaṃ brahma nyarūpayadaparaprayojyatveneśvaraṃ kāraṇamabravīt / tadviṣayeṇaiva pareṇātmaśabdena śarīrādikośaparaṃparayā cāntaranupraveśanena sarveṣāmantaḥ pratyagātmānaṃ niradhārayat / 'bahu syā prajāyeya'(tai. 2.6) iti cātmaviṣayeṇa bahubhavanānuśaṃsanena sṛjyamānānāṃ vikārāṇāṃ sraṣṭurabhedamabhāṣata / tathā 'idaṃ sarvamasṛjata yadidaṃ kiñca' (tai.2.6) iti samastajagatsṛṣṭinirdeśena prākhsṛṣṭeradvitīyaṃ sraṣṭāramācaṣṭe / tadatra yallakṣaṇaṃ brahma kāraṇatvena vijñātaṃ tallakṣaṇamevānyatrāpi vijñāyate- 'sadeva semyedamagra āsīdekamevādvitīyam' 'tadaikṣata bahu syāṃ prajāyeyeti / tattejo 'sṛjata' (chā. 6.2.1,3) iti / tathā 'ātmā vā idameka evāgra āsīnnānyakiñcana miṣat / sa īkṣata lokānnu sṛjai' (ai.u. 4.1.1,2) iti ca / evañjātīyakasya kāraṇasvarūpanirūpaṇaparasya vākyajātasya prativedāntamavigītārthatvāt / kāryaviṣayaṃ tu vigānaṃ dṛśyate kvacidākāśādikā sṛṣṭiḥ kvacittejādiketyevañjātīyakam / naca kāryaviṣayeṇa vigānena kāraṇamapi brahma sarvavedānteṣvavigītamadhigamyamānamavivakṣitaṃ bhavitumarhatīti śakyate vaktum / atiprasaṅgāt / samādhasyati cācāryaḥ kāryaviṣayamapi vigānaṃ 'na viyadaśruteḥ' (bra.sū. 2.3.1) ityārabhya bhavedapi kāryasya vigītatvamapratipādyatvāt / nahyayaṃ sṛṣṭyādiprapañcaḥ pratipādayiṣitaḥ / nahi tatpratibaddhaḥ kvacitpuruṣārtho dṛśyate śrūyate vā / naca kalpayituṃ śakyate, upakramopasaṃhārābhyāṃ tatra tatra brahmaviṣayairvākyaiḥ sākamekavākyatāyā gamyamānatvāt / darśayati ca sṛṣṭyādiprapañcasya brahmapratipattyarthatām- 'annena somya śuṅgenāpo mūlamanvicchadbhiḥ somya śuṅgena tejo mulamanviccha tejasā somya śuṅgena sanmūlamanviccha' (chā.6.8.4) iti / mṛdādidṛṣṭāntaiśca kāryasya kāraṇenābhedaṃ vadituṃ sṛṣṭyādiprapañcaḥ śrāvyata iti gamyate / tathāca saṃpradāyavido vadanti- 'mṛllohavisphuliṅgādyaiḥ sṛṣṭiryā coditānyathā / upāyaḥ so 'vatārāya nāsti bhedaḥ kathañcana // ' (māṇḍū. 3.15) iti / brahmapratipattipratibaddhaṃ tu phalaṃ śrūyate- 'brahmavidāpnoti param' (tai. 2.1) 'tarati śokamātmavit' (chā. 7.1.3) 'tameva viditvātimṛtyumeti'' (śvaṃ. 3.8) iti / pratyakṣāvagamaṃ cedaṃ phalam / 'tattvamasi' ityasaṃsāryātmatvapratipattau satyāṃ saṃsāryātmatvavyāvṛtteḥ // 14 // yatpunaḥ kāraṇaviṣayaṃ vigānaṃ darśitam- 'asadvā idamagra āsīt' ityādi tatparihartavyam / atrocyate- ---------------------- FN: ādigrahaṇādakramo 'pi gṛhyate / aṃmayaśarīrapracurasvargaloko 'mbhaḥśabdārthaḥ / sūryaraśmivyāpto 'ntarikṣaloko marīcayaḥ / maro maraṇadharmā martyaḥ / abbahulāḥ pātālaloka āpa iti śrutyarthaḥ / prakriyā sṛṣṭiḥ / tat tatra kāraṇe / eke bāhyāḥ / tadviṣayeṇa brahmaviṣayeṇa / miṣat savyāpāram / aviruddhārthakatvāt / śuṅgena kāryeṇa / anyathānyatheti vīpsā draṣṭavyā / avatārāya brahmadhījanmane / atastadanyathātve 'pi brahmaṇi na bhedaḥ / jñeye vigānaṃ na /
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.