Library·Badarayana: Brahmasutra, with Samkara's Sarirakamimamsabhasya·1

Badarayana: Brahmasutra, with Samkara's Sarirakamimamsabhasya 1

समाकर्षात् ऽअसद्वा इदमग्र आसीत्ऽ (तै। २।७) इति नात्रासन्निरात्मकं कारणत्वेन श्राव्यते । यतः ऽअसन्नेव स भवति । असद्ब्रह्मेति वेद चेत् । अस्ति ब्रह्मेति चेद्वेद । सन्तमेनं ततो विदुःऽ इत्यसद्वादापवादेनास्तित्वलक्षणं ब्रह्मान्नमयादिकोशपरम्परया प्रत्यगात्मानं निर्धार्य ऽसो ऽकामयतऽ इति तमेव प्रकृतं समाकृष्य सप्रपञ्चां सृष्टिं तस्माच्छ्रावयित्वा ऽतत्सत्यमित्याचक्षतेऽ इति चोपसंहृत्य ऽतदप्येष श्लोको भवतिऽ इति तस्मिन्नेव प्रकृतेर्ऽथे श्लोकमिममुदाहरति- ऽअसद्वा इदमग्र आसीत्ऽ इति । यदि त्वसन्निरात्मकमस्मिञ्छ्लोके ऽभिप्रेयेत ततो ऽन्यसमाकर्षणे ऽन्यस्योदाहरणादसंबद्धं वाक्यमापद्येत । तस्मान्नामरूपव्याकृतवस्तुविषयः प्रायेण सच्छब्दः प्रसिद्ध इति तद्व्याकरणाभावापेक्षया प्रागुत्पत्तेः सदेव ब्रह्मासदिवासीदित्युपचर्यते । एषैव ऽअसदेवेदमग्र आसीत्ऽ (छा। ३।१९।१) इत्यत्रापि योजना । ऽतत्सदासीत्ऽ इति समाकर्षणात् । अत्यन्ताभावाभ्युपगमे हि तत्सदासीदिति किं समाकृष्येत । ऽतद्धैक आहुरसदेवेदमग्र आसीत्ऽ (छा। ६।२।१) इत्यत्रापि न श्रुत्यन्तराभिप्रायेणायमेकीयमतोपन्यासः । क्रियायामिव वस्तुनि विकल्पस्यासंभवात् । तस्माच्छ्रुतिपरिगृहीतसत्पक्षदार्ढ्यायैवायं मन्दमतिपरिकल्पितस्यासत्पक्षस्योपन्यस्य निरास इति द्रष्टव्यम् । ऽतद्धेदं तर्ह्यव्याकृतमासीत्ऽ (बृ। १।४।७) इत्यत्रापि न निरध्यक्षस्य जगतो व्याकरणं कथ्यते, ऽस एष इह प्रविष्ट आनखाग्रेभ्यःऽ इत्यध्यक्षस्य व्याकृतकार्यानुप्रवेशित्वेन समाकर्षात् । निरध्यक्षे व्याकरणाभ्युपगमे ह्यनन्तरेण प्रकृतावलम्बना स इत्यनेन सर्वनाम्ना कः कार्यानुप्रवेशित्वेन समाकृष्येत । चेतनस्य चायामात्मनः शरीरे ऽनुप्रवेशः श्रूयते । प्रविष्टस्य चेतनत्वश्रवणात् ऽपश्यंश्चक्षुः शृण्वञ्श्रोत्रं मन्वानो मनःऽ इति । अपिच यादृशमिदमद्यत्वे नामरूपाभ्यां व्याक्रियमाणं जगत्साध्यक्षं व्याक्रियत एवमादिसर्गे ऽपीति गम्यते । दृष्टविपरीतकल्पनानुपपत्तेः । श्रुत्यन्तरमपि ऽअनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणिऽ (छा। ६। ३।२) इति साध्यक्षामेव जगतो व्याक्रियां दर्शयति । व्याक्रियत इत्यपि कर्मकर्तरि लकारः सत्येव परमेश्वरे व्याकर्तरि सौकर्यमपेक्ष्य द्रष्टव्यः । यथा लूयते केदारः स्वयमेवेति सत्येव पूर्णके लवितरि । यद्वा कर्मण्येवैष लकारोर्ऽथाक्षिप्तं कर्तारमपेक्ष्य द्रष्टव्यः । यथा गम्यते ग्राम इति ॥ १५ ॥ ---------------------- फ़्न्: तत् तत्र ब्रह्मणि । श्लोको मन्त्रः । अध्यक्षः कर्ता । चक्षुर्द्रष्टा, श्रोत्रं श्रोता, मनो मन्तेत्युच्यते । अद्यत्वे इदानीम् । ५ बालक्याधिकरणम् । सू। १६-१८

samākarṣāt 'asadvā idamagra āsīt' (tai. 2.7) iti nātrāsannirātmakaṃ kāraṇatvena śrāvyate / yataḥ 'asanneva sa bhavati / asadbrahmeti veda cet / asti brahmeti cedveda / santamenaṃ tato viduḥ' ityasadvādāpavādenāstitvalakṣaṇaṃ brahmānnamayādikośaparamparayā pratyagātmānaṃ nirdhārya 'so 'kāmayata' iti tameva prakṛtaṃ samākṛṣya saprapañcāṃ sṛṣṭiṃ tasmācchrāvayitvā 'tatsatyamityācakṣate' iti copasaṃhṛtya 'tadapyeṣa śloko bhavati' iti tasminneva prakṛter'the ślokamimamudāharati- 'asadvā idamagra āsīt' iti / yadi tvasannirātmakamasmiñchloke 'bhipreyeta tato 'nyasamākarṣaṇe 'nyasyodāharaṇādasaṃbaddhaṃ vākyamāpadyeta / tasmānnāmarūpavyākṛtavastuviṣayaḥ prāyeṇa sacchabdaḥ prasiddha iti tadvyākaraṇābhāvāpekṣayā prāgutpatteḥ sadeva brahmāsadivāsīdityupacaryate / eṣaiva 'asadevedamagra āsīt' (chā. 3.19.1) ityatrāpi yojanā / 'tatsadāsīt' iti samākarṣaṇāt / atyantābhāvābhyupagame hi tatsadāsīditi kiṃ samākṛṣyeta / 'taddhaika āhurasadevedamagra āsīt' (chā. 6.2.1) ityatrāpi na śrutyantarābhiprāyeṇāyamekīyamatopanyāsaḥ / kriyāyāmiva vastuni vikalpasyāsaṃbhavāt / tasmācchrutiparigṛhītasatpakṣadārḍhyāyaivāyaṃ mandamatiparikalpitasyāsatpakṣasyopanyasya nirāsa iti draṣṭavyam / 'taddhedaṃ tarhyavyākṛtamāsīt' (bṛ. 1.4.7) ityatrāpi na niradhyakṣasya jagato vyākaraṇaṃ kathyate, 'sa eṣa iha praviṣṭa ānakhāgrebhyaḥ' ityadhyakṣasya vyākṛtakāryānupraveśitvena samākarṣāt / niradhyakṣe vyākaraṇābhyupagame hyanantareṇa prakṛtāvalambanā sa ityanena sarvanāmnā kaḥ kāryānupraveśitvena samākṛṣyeta / cetanasya cāyāmātmanaḥ śarīre 'nupraveśaḥ śrūyate / praviṣṭasya cetanatvaśravaṇāt 'paśyaṃścakṣuḥ śṛṇvañśrotraṃ manvāno manaḥ' iti / apica yādṛśamidamadyatve nāmarūpābhyāṃ vyākriyamāṇaṃ jagatsādhyakṣaṃ vyākriyata evamādisarge 'pīti gamyate / dṛṣṭaviparītakalpanānupapatteḥ / śrutyantaramapi 'anena jīvenātmanānupraviśya nāmarūpe vyākaravāṇi' (chā. 6. 3.2) iti sādhyakṣāmeva jagato vyākriyāṃ darśayati / vyākriyata ityapi karmakartari lakāraḥ satyeva parameśvare vyākartari saukaryamapekṣya draṣṭavyaḥ / yathā lūyate kedāraḥ svayameveti satyeva pūrṇake lavitari / yadvā karmaṇyevaiṣa lakāror'thākṣiptaṃ kartāramapekṣya draṣṭavyaḥ / yathā gamyate grāma iti // 15 // ---------------------- FN: tat tatra brahmaṇi / śloko mantraḥ / adhyakṣaḥ kartā / cakṣurdraṣṭā, śrotraṃ śrotā, mano mantetyucyate / adyatve idānīm / 5 bālakyādhikaraṇam / sū. 16-18

Sanskrit only: no published translation is held for this verse.

जगद्वाचित्वात् कौषीतकिब्राह्मणे बालाक्यजातशत्रुसंवादे श्रूयते- ऽयो वै बालाक एतेषां कर्ता यस्य वै तत्कर्म स वेदितव्यःऽ (कौ। ब्रा। ४।१९) इति । तत्र किं जीवो वेदितव्यत्वेनोपदिश्यत उत मुख्यः प्राण उत परमात्मेति विशयः । किं तावत्प्राप्तम् । प्राण इति । कुतः । ऽयस्य वैतत्कर्मऽ इति श्रवणात् । परिस्पन्दलक्षणस्य च कर्मणः प्राणाश्रयत्वात् । वाक्यशेषे च ऽअथास्मिन्प्राण एवैकधा भवतिऽ इति प्राणशब्ददर्शनात् । प्राणशब्दस्य च मुख्ये प्राणे प्रसिद्धत्वात् । ये चैते पुरस्ताद्धालाकिना ऽआदित्ये पुरुषश्चन्द्रमसि पुरुषःऽ इत्येवमादयः पुरुषा निर्दिष्टास्तेषामपि भवति प्राणः कर्ता प्राणावस्थाविशेषत्वादित्यादिदेवतात्मनाम् । ऽकतम एको देव इति प्राण इति स ब्रह्म त्यदित्याचक्षते (बृ। ३।९।९) इति श्रुत्यन्तरप्रसिद्धेः । जीवो वायमिह वेदितव्यतयोपदिश्यते । तस्यापि धर्माधर्मलक्षणं कर्म शक्यते श्रावयितुम् ऽयस्य वैतत्कर्मऽ इति । सो ऽपि भोक्तृत्वाद्भोगोपकरणभूतानामेतेषां पुरुषाणां कर्तोपपद्यते । वाक्यशेषे च जीवलिङ्गमवगम्यते । यत्कारणं वेदितव्यतयोपन्यस्तस्य पुरुषाणां कर्तुर्वेदनायोपेतं बालाकिं प्रति बुबोधयिषुरजातशत्रुः सुप्तं पुरुषमामन्त्र्यामन्त्रणशब्दाश्रवणात्प्राणादीनामभोक्तृत्वं प्रतिबोध्य यष्टिघातोत्थानात्प्राणादिव्यतिरिक्तं जीवं भोक्तारं प्रतिबोधयति । तथा परस्तादपि जीवलिङ्गमवगम्यते- ऽतद्यथा श्रेष्ठी स्वैर्भुङ्क्ते यथा वा स्वाः श्रेष्ठिन भुञ्जन्त्येवमेवैष प्रज्ञात्मैतैरात्मभिर्भुङ्क्ते एवमेवैत आत्मान एतमात्मानं भुञ्जन्तिऽ (कौ। ब्रा। ४।२०) इति । प्राणभृत्त्वाच्च जीवस्योपपन्नं प्राणशब्दत्वम् । तस्माज्जीवमुख्यप्राणयोरन्यतर इह ग्रहणीयो न परमेश्वरः, तल्लिङ्गानवगमादिति । एवं प्राप्ते ब्रूमः - परमेश्वर एवायमेतेषां पुरुषाणां कर्ता स्यात् । कस्मात् । उपक्रमसामर्थ्यात् । इह हि बालाकिरजातशत्रुणा सह ऽब्रह्म ते ब्रवाणिऽ इति संवदितुमुपचक्रमे । स च कतिचिदादित्याद्यधिकरणान्पुरुषानमुख्यब्रह्मदृष्टिभाज उक्त्वा तूष्णीं बभूव । तमजातशत्रुः ऽमृषा वै खलु मा संवदिष्टा ब्रह्म ते ब्रवाणिऽ इत्यमुख्य ब्रह्मवादितयापोद्य तत्कर्तारमन्यं वेदितव्यतयोपचिक्षेप । यदि सो ऽप्यमुख्यब्रह्मदृष्टिभाक् स्यादुपक्रमो बाध्येत । तस्मात्परमेश्वर एवायं भवितुमर्हति । कर्तृत्वं चैतेषां पुरुषाणां न परमेश्वरादन्यस्य स्वातन्त्र्येणावकल्पते । ऽयस्य वैतत्कर्मऽ इत्यपि नायं परिस्पन्दलक्षणस्य धर्माधर्मलक्षणस्य वा कर्मणो निर्देशः । तयोरन्यतरस्याप्यप्रकृतत्वात् । असंशब्दितत्वाच्च । नापि पुरुषाणामयं निर्देशः । एतेषां पुरुषाणां कर्तेत्येव तेषां निर्दिष्टत्वात् । लिङ्गवचनविगानाच्च नापि पुरुषविषयस्य करोत्यर्थस्य क्रियाफलस्य वायं निर्देशः, कर्तृशब्देनैव तयोरपपात्तत्वात् । पारिशेष्यात्प्रत्यक्षसंनिहितं जगत्सर्वनाम्नैतच्छब्देन निर्दिश्यते । क्रियत इति च तदैव जगत्कर्म । ननु जगदप्यप्रकृतमसंशब्दितं च । सत्यमेतत् । तथाप्यसति विशेषोपादाने साधारणेनार्थेन संनिधानेन संनिहितवस्तुमात्रस्यायं निर्देश इति गम्यते न विशिष्टस्य कस्यचित् । विशेषसंनिधानाभावात् । पूर्वत्र च जगदेकदेशभूतानां पुरुषाणां विशेषोपादानदविशेषितं जगदेवेहोपादीयत इति गम्यते । एतदुक्तं भवति- य एतेषां पुरुषाणां जगदेकदेशभूतानां कर्ता, किमनेन विशेषेण, यस्य कृत्स्नमेव जगदविशेषितं कर्मेति । वाशब्द एकदेशावच्छिन्नकर्तृत्वव्यावृत्त्यर्थः । ये बालाकिना ब्रह्मत्वाभिमताः पुरुषाः कीर्तितास्तेषामब्रह्मत्वख्यापनाय विशेषोपादानम् । एवं ब्राह्मणपरिव्राजकन्यायेन सामान्यविशेषाभ्यां जगतः कर्ता वेदितव्यतयोपदिश्यते । परमेश्वरश्च सर्वजगतः कर्ता सर्ववेदान्तेष्ववधारितः ॥ १६ ॥ ---------------------- फ़्न्।:एतज्जगद्यस्य कर्म । क्रियत इति व्युत्पत्त्या कार्यमित्यर्थः । स प्राणः । त्यत् परोक्षम् । यत्कारणं यस्माज्जीवं बोधयति तस्मादस्ति सुप्तोत्थापनं जीवलिङ्गमिति योजना । ब्राह्मण भोजयितव्याः परिव्राजकश्चेत्युक्ते सामान्यविशेषाभ्यां संनिहितसर्वब्राह्मणवत् ।

jagadvācitvāt kauṣītakibrāhmaṇe bālākyajātaśatrusaṃvāde śrūyate- 'yo vai bālāka eteṣāṃ kartā yasya vai tatkarma sa veditavyaḥ' (kau. brā. 4.19) iti / tatra kiṃ jīvo veditavyatvenopadiśyata uta mukhyaḥ prāṇa uta paramātmeti viśayaḥ / kiṃ tāvatprāptam / prāṇa iti / kutaḥ / 'yasya vaitatkarma' iti śravaṇāt / parispandalakṣaṇasya ca karmaṇaḥ prāṇāśrayatvāt / vākyaśeṣe ca 'athāsminprāṇa evaikadhā bhavati' iti prāṇaśabdadarśanāt / prāṇaśabdasya ca mukhye prāṇe prasiddhatvāt / ye caite purastāddhālākinā 'āditye puruṣaścandramasi puruṣaḥ' ityevamādayaḥ puruṣā nirdiṣṭāsteṣāmapi bhavati prāṇaḥ kartā prāṇāvasthāviśeṣatvādityādidevatātmanām / 'katama eko deva iti prāṇa iti sa brahma tyadityācakṣate (bṛ. 3.9.9) iti śrutyantaraprasiddheḥ / jīvo vāyamiha veditavyatayopadiśyate / tasyāpi dharmādharmalakṣaṇaṃ karma śakyate śrāvayitum 'yasya vaitatkarma' iti / so 'pi bhoktṛtvādbhogopakaraṇabhūtānāmeteṣāṃ puruṣāṇāṃ kartopapadyate / vākyaśeṣe ca jīvaliṅgamavagamyate / yatkāraṇaṃ veditavyatayopanyastasya puruṣāṇāṃ karturvedanāyopetaṃ bālākiṃ prati bubodhayiṣurajātaśatruḥ suptaṃ puruṣamāmantryāmantraṇaśabdāśravaṇātprāṇādīnāmabhoktṛtvaṃ pratibodhya yaṣṭighātotthānātprāṇādivyatiriktaṃ jīvaṃ bhoktāraṃ pratibodhayati / tathā parastādapi jīvaliṅgamavagamyate- 'tadyathā śreṣṭhī svairbhuṅkte yathā vā svāḥ śreṣṭhina bhuñjantyevamevaiṣa prajñātmaitairātmabhirbhuṅkte evamevaita ātmāna etamātmānaṃ bhuñjanti' (kau. brā. 4.20) iti / prāṇabhṛttvācca jīvasyopapannaṃ prāṇaśabdatvam / tasmājjīvamukhyaprāṇayoranyatara iha grahaṇīyo na parameśvaraḥ, talliṅgānavagamāditi / evaṃ prāpte brūmaḥ - parameśvara evāyameteṣāṃ puruṣāṇāṃ kartā syāt / kasmāt / upakramasāmarthyāt / iha hi bālākirajātaśatruṇā saha 'brahma te bravāṇi' iti saṃvaditumupacakrame / sa ca katicidādityādyadhikaraṇānpuruṣānamukhyabrahmadṛṣṭibhāja uktvā tūṣṇīṃ babhūva / tamajātaśatruḥ 'mṛṣā vai khalu mā saṃvadiṣṭā brahma te bravāṇi' ityamukhya brahmavāditayāpodya tatkartāramanyaṃ veditavyatayopacikṣepa / yadi so 'pyamukhyabrahmadṛṣṭibhāk syādupakramo bādhyeta / tasmātparameśvara evāyaṃ bhavitumarhati / kartṛtvaṃ caiteṣāṃ puruṣāṇāṃ na parameśvarādanyasya svātantryeṇāvakalpate / 'yasya vaitatkarma' ityapi nāyaṃ parispandalakṣaṇasya dharmādharmalakṣaṇasya vā karmaṇo nirdeśaḥ / tayoranyatarasyāpyaprakṛtatvāt / asaṃśabditatvācca / nāpi puruṣāṇāmayaṃ nirdeśaḥ / eteṣāṃ puruṣāṇāṃ kartetyeva teṣāṃ nirdiṣṭatvāt / liṅgavacanavigānācca nāpi puruṣaviṣayasya karotyarthasya kriyāphalasya vāyaṃ nirdeśaḥ, kartṛśabdenaiva tayorapapāttatvāt / pāriśeṣyātpratyakṣasaṃnihitaṃ jagatsarvanāmnaitacchabdena nirdiśyate / kriyata iti ca tadaiva jagatkarma / nanu jagadapyaprakṛtamasaṃśabditaṃ ca / satyametat / tathāpyasati viśeṣopādāne sādhāraṇenārthena saṃnidhānena saṃnihitavastumātrasyāyaṃ nirdeśa iti gamyate na viśiṣṭasya kasyacit / viśeṣasaṃnidhānābhāvāt / pūrvatra ca jagadekadeśabhūtānāṃ puruṣāṇāṃ viśeṣopādānadaviśeṣitaṃ jagadevehopādīyata iti gamyate / etaduktaṃ bhavati- ya eteṣāṃ puruṣāṇāṃ jagadekadeśabhūtānāṃ kartā, kimanena viśeṣeṇa, yasya kṛtsnameva jagadaviśeṣitaṃ karmeti / vāśabda ekadeśāvacchinnakartṛtvavyāvṛttyarthaḥ / ye bālākinā brahmatvābhimatāḥ puruṣāḥ kīrtitāsteṣāmabrahmatvakhyāpanāya viśeṣopādānam / evaṃ brāhmaṇaparivrājakanyāyena sāmānyaviśeṣābhyāṃ jagataḥ kartā veditavyatayopadiśyate / parameśvaraśca sarvajagataḥ kartā sarvavedānteṣvavadhāritaḥ // 16 // ---------------------- FN.:etajjagadyasya karma / kriyata iti vyutpattyā kāryamityarthaḥ / sa prāṇaḥ / tyat parokṣam / yatkāraṇaṃ yasmājjīvaṃ bodhayati tasmādasti suptotthāpanaṃ jīvaliṅgamiti yojanā / brāhmaṇa bhojayitavyāḥ parivrājakaścetyukte sāmānyaviśeṣābhyāṃ saṃnihitasarvabrāhmaṇavat /

Sanskrit only: no published translation is held for this verse.

जीवमुख्यप्राणलिङ्गान् नेति चेत् तद्व्याख्यातम् अत यदुक्तं वाक्यशेषगताज्जीवलिङ्गान्मुख्यप्राणलिङ्गाच्च तयोरेवान्यतरस्येह ग्रहणं न्याय्यं न परमेश्वरस्येति । तत्परिहर्तव्यम् । यत्रोच्यते- परिहृतं चैतत् ऽनोपासात्रैविध्यादाश्रितत्वादिह तद्योगात्ऽ (ब्र। सू। १।१।३१) इत्यत्र । त्रिविधं ह्यत्रोपासनमेवं सति प्रसज्ज्येत जीवोपासनं मुख्यप्राणोपासनं ब्रह्मोपासनं चेति । न चैतन्न्याय्यम् । उपक्रमोपसंहाराभ्यां हि ब्रह्विषयत्वमस्य वाक्यस्यावगम्यते । तत्रोपक्रमस्य तावद्ब्रह्मविषयत्वं दर्शितम् । उपसंहारस्यापि निरतिशयफलश्रवणाद्ब्रह्मविषयत्वं दृश्यते- ऽसर्वान्पाप्मनो ऽपहृत्य सर्वेषां च भूतानां श्रैष्ठ्यं स्वाराज्यमाधिपत्यं पर्येति य एवं वेदऽ इति । नन्वेवं सति प्रतर्दनवाक्यनिर्णयेनैवेदमपि वाक्यं निर्णीयेत । न निर्णीयते । ऽयस्य चैतत्कर्मऽ इत्यस्य ब्रह्मविषयत्वेन तत्रानिर्धारितत्वात् । तस्मादत्र जीवमुख्यप्राणशङ्का पुनरुत्पद्यमाना निर्वर्त्यते । प्राणशब्दो ऽपि ब्रह्मविषयो दृष्टः ऽप्राणबन्धनं हि सोम्य मनःऽ (छा। ६।८।२) इत्यत्र । जीलिङ्गमप्युपक्रमोपसंहारयोर्ब्रह्मविषयत्वादभेदाभिप्रायेण योजयितव्यम् ॥ १७ ॥ ---------------------- फ़्न्।:श्रैष्ठ्यं गुणाधिक्यम्, आधिपत्यं नियनितृत्वम्, स्वाराज्यमनियम्यत्वमिति भेदः ।

jīvamukhyaprāṇaliṅgān neti cet tadvyākhyātam ata yaduktaṃ vākyaśeṣagatājjīvaliṅgānmukhyaprāṇaliṅgācca tayorevānyatarasyeha grahaṇaṃ nyāyyaṃ na parameśvarasyeti / tatparihartavyam / yatrocyate- parihṛtaṃ caitat 'nopāsātraividhyādāśritatvādiha tadyogāt' (bra. sū. 1.1.31) ityatra / trividhaṃ hyatropāsanamevaṃ sati prasajjyeta jīvopāsanaṃ mukhyaprāṇopāsanaṃ brahmopāsanaṃ ceti / na caitannyāyyam / upakramopasaṃhārābhyāṃ hi brahviṣayatvamasya vākyasyāvagamyate / tatropakramasya tāvadbrahmaviṣayatvaṃ darśitam / upasaṃhārasyāpi niratiśayaphalaśravaṇādbrahmaviṣayatvaṃ dṛśyate- 'sarvānpāpmano 'pahṛtya sarveṣāṃ ca bhūtānāṃ śraiṣṭhyaṃ svārājyamādhipatyaṃ paryeti ya evaṃ veda' iti / nanvevaṃ sati pratardanavākyanirṇayenaivedamapi vākyaṃ nirṇīyeta / na nirṇīyate / 'yasya caitatkarma' ityasya brahmaviṣayatvena tatrānirdhāritatvāt / tasmādatra jīvamukhyaprāṇaśaṅkā punarutpadyamānā nirvartyate / prāṇaśabdo 'pi brahmaviṣayo dṛṣṭaḥ 'prāṇabandhanaṃ hi somya manaḥ' (chā. 6.8.2) ityatra / jīliṅgamapyupakramopasaṃhārayorbrahmaviṣayatvādabhedābhiprāyeṇa yojayitavyam // 17 // ---------------------- FN.:śraiṣṭhyaṃ guṇādhikyam, ādhipatyaṃ niyanitṛtvam, svārājyamaniyamyatvamiti bhedaḥ /

Sanskrit only: no published translation is held for this verse.

अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्याम् अपि चैवम् एके अपिच नैवात्र विवदितव्यं जीवप्रधानं वेदं वाक्यं स्याद्ब्रह्मप्रधानं वेति । यतो ऽन्यार्थं जीवपरामर्शं ब्रह्मप्रतिपत्त्यर्थमस्मिन्वाक्ये जैमिनिराचार्यो मन्यन्ते । कस्मात् । प्रश्नव्याख्यानाभ्याम् । प्रश्नस्तावत्सुषुप्तपुरुषप्रतिबोधनेन प्राणादिव्यतिरिक्ते जीवे प्रतिबोधिते पुनर्जीवव्यतिरिक्तविषयो दृश्यते- ऽक्वैष एतद्बालाके पुरुषो ऽशयिष्ट क्व वा एतदभूत्कुत एतदागात्ऽ (कौब्रा। ४।१९) इति । प्रतिवचनमपि ऽयदा सुप्तः स्वप्नं न कञ्चन पश्यत्यथास्मिन्प्राण एवैकधा भवतिऽ इत्यादि ऽएतस्मादात्मनः प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोकाःऽ (कौब्रा। ४।२०) इति च । सुषुप्तिकाले च परेण ब्रह्मणा जीव एकतां गच्छति । परस्माच्च ब्रह्मणः प्राणादिकं जगज्जायत इति वेदान्तमर्यादा । तस्माद्यत्रास्य जीवस्य निःसंबोधतास्वच्छतारूपः स्वाप उपाधिजनितविशेषविज्ञानरहितं स्वरूपं, यतस्तद्धंशरूपमागमनं, सो ऽत्र परमात्मा वेदितव्यतया श्रावित इति गम्यते । अपिचैवमेके शाखिनो वाजसनेयिनो ऽस्मिन्नेव बालाक्यजातशत्रुसंवादे स्पष्टं विज्ञानमयशब्देन जीवमाम्नाय तद्व्यतिरिक्तं परमात्मानमामनन्ति- ऽय एष विज्ञानमयपुरुषः क्वैष तदाभूत्कुत एतदागात्ऽ (बृ। २।१।१६) इति प्रश्ने । प्रतिवचने ऽपि ऽय एषो ऽन्तर्हृदय आकाशस्तस्मिञ्शेतेऽ इति । आकाशशब्दश्च परमात्मनि प्रयुक्तः ऽदहरो ऽस्मिन्नन्तराकाशःऽ (छा। ८।१।१) इत्यत्र । ऽसर्व एत आत्मनो व्युच्चरन्तिऽ इति चोपाधिमतामात्मनामन्यतो व्युच्चरणमामनन्तः परमात्मानमेव कारणत्वेनामनन्तीति गम्यते । प्राणनराकरणस्यापि सुषुप्तपुरुषोत्थापनेन प्राणादिव्यतिरिक्तोपदेशो ऽभ्युच्चयः ॥ १८ ॥ ---------------------- फ़्न्: निःसंबोधता विशेषधीशून्यता । स्वच्छता विक्षेपमलशून्यत्वम् । ६ वाक्यान्वयाधिकरणम् । सू। १९-२२

anyārthaṃ tu jaiminiḥ praśnavyākhyānābhyām api caivam eke apica naivātra vivaditavyaṃ jīvapradhānaṃ vedaṃ vākyaṃ syādbrahmapradhānaṃ veti / yato 'nyārthaṃ jīvaparāmarśaṃ brahmapratipattyarthamasminvākye jaiminirācāryo manyante / kasmāt / praśnavyākhyānābhyām / praśnastāvatsuṣuptapuruṣapratibodhanena prāṇādivyatirikte jīve pratibodhite punarjīvavyatiriktaviṣayo dṛśyate- 'kvaiṣa etadbālāke puruṣo 'śayiṣṭa kva vā etadabhūtkuta etadāgāt' (kau.brā. 4.19) iti / prativacanamapi 'yadā suptaḥ svapnaṃ na kañcana paśyatyathāsminprāṇa evaikadhā bhavati' ityādi 'etasmādātmanaḥ prāṇā yathāyatanaṃ vipratiṣṭhante prāṇebhyo devā devebhyo lokāḥ' (kau.brā. 4.20) iti ca / suṣuptikāle ca pareṇa brahmaṇā jīva ekatāṃ gacchati / parasmācca brahmaṇaḥ prāṇādikaṃ jagajjāyata iti vedāntamaryādā / tasmādyatrāsya jīvasya niḥsaṃbodhatāsvacchatārūpaḥ svāpa upādhijanitaviśeṣavijñānarahitaṃ svarūpaṃ, yatastaddhaṃśarūpamāgamanaṃ, so 'tra paramātmā veditavyatayā śrāvita iti gamyate / apicaivameke śākhino vājasaneyino 'sminneva bālākyajātaśatrusaṃvāde spaṣṭaṃ vijñānamayaśabdena jīvamāmnāya tadvyatiriktaṃ paramātmānamāmananti- 'ya eṣa vijñānamayapuruṣaḥ kvaiṣa tadābhūtkuta etadāgāt' (bṛ. 2.1.16) iti praśne / prativacane 'pi 'ya eṣo 'ntarhṛdaya ākāśastasmiñśete' iti / ākāśaśabdaśca paramātmani prayuktaḥ 'daharo 'sminnantarākāśaḥ' (chā. 8.1.1) ityatra / 'sarva eta ātmano vyuccaranti' iti copādhimatāmātmanāmanyato vyuccaraṇamāmanantaḥ paramātmānameva kāraṇatvenāmanantīti gamyate / prāṇanarākaraṇasyāpi suṣuptapuruṣotthāpanena prāṇādivyatiriktopadeśo 'bhyuccayaḥ // 18 // ---------------------- FN: niḥsaṃbodhatā viśeṣadhīśūnyatā / svacchatā vikṣepamalaśūnyatvam / 6 vākyānvayādhikaraṇam / sū. 19-22

Sanskrit only: no published translation is held for this verse.

वाक्यान्वयात् बृहदारण्यके मैत्रेयीब्राह्मणे ऽधीयते- ऽन वा अरे पत्युः कामायऽ इत्युपक्रम्य ऽन वा अरे सर्वस्य कामाय सर्वं प्रियं भवत्यात्मनस्तु कामाय सर्वं प्रियं भवत्यात्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेय्यात्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेनेदं सर्वं विदितम्ऽ । (बृ। ४।५।६) इति, तत्रैतद्विचिकित्स्यते- किं विज्ञानात्मैवायं द्रष्टव्यश्रोतव्यत्वादिरूपेणोपदिश्यत आहोस्वित्परमात्मेति । कुतः पुनरेषा विचिकित्सा । प्रियसंसूचितेनात्मना भोकत्रोपक्रमाद्विज्ञानत्मोपदेश इति । किं तावत्प्राप्तम् । विज्ञानात्मोपदेश इति । कस्मात् । उपक्रमसामर्थ्यात् । पतिजायापुत्रवित्तादिकं हि भोग्यभूतं सर्वं जगदात्मार्थतया प्रियं भवतीति प्रियसंसूचितं भोक्तारमात्मानमुक्रम्यानन्तरमिदमात्मनो दर्शनाद्युपदिश्यमानं कस्यान्यस्यात्मनः स्यात् । मध्ये ऽपि ऽइदं महद्भूतमनन्तमपारं विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति न प्रेत्य संज्ञास्तिऽ इति प्रकृतस्यैव महतो भूतस्य द्रष्टव्यस्य भूतेभ्यः समुत्थानं विज्ञानात्मभावेन ब्रुवन्विज्ञानात्मनं एवेदं द्रष्टव्यत्वं दर्शयति । तथा ऽविज्ञातारमरे केन विजानीयात्ऽ इति कर्तृवचनेन शब्देनोपसंहरन्विज्ञानात्मानमेवेहोपदिष्टं दर्शयति । तस्मादात्मविज्ञानेन सर्वविज्ञानं भोक्त्रर्थत्वाद्भोग्यजातस्यौपचारिकं द्रष्टव्यमिति । एवं प्राप्ते ब्रूमः परमात्मोपदेश एवायम् । कस्मात् । वाक्यान्वयात् । वाक्यं हीदं पौर्वापर्येणावेक्ष्यमाणं परमात्मानंप्रति अन्वितावयवं लक्ष्यते । कथमिति, तदुपपाद्यते- ऽअमृतत्वस्य तु नाशास्ति वित्तेनऽ इति याज्ञवल्क्यादुपश्रुत्य ऽयेनाहं नामृता स्यां किमहं तेन कुर्यां यदेव भगवान्वेद तदेव मे ब्रूहिऽ इत्यमृतत्वमाशासानाय मैत्रेय्या याज्ञवल्क्य आत्मविज्ञानमिदमुपदिशति । नचान्यत्र परमात्मविज्ञानादमृत्वमस्तीति श्रुतिस्मृतिवादा वदन्ति । तथा चात्मविज्ञानेन सर्वविज्ञानमुच्यमानं नान्यत्र परमकारणविज्ञानान्मुख्यमवकल्पते । नचैतदौपचारिकमाश्रयितुं शक्यं, यत्कारणमात्मविज्ञानेन सर्वविज्ञानं प्रतिज्ञायानन्तरेण ग्रन्थेन तदेवोपपादयति- ऽब्रह्म तं परादाद्यो ऽन्यत्रात्मनो ब्रह्म वेदऽ इत्यादिना । यो हि ब्रह्मक्षत्रादिकं जगदात्मनोन्यत्र स्वातन्त्र्येण लब्धसद्भावं पश्यति तं मिथ्यादर्शिनं तदेव मिथ्यादृष्टं ब्रह्मक्षत्रादिकं जगत्पराकरोतीति भेददृष्टिमपोद्य ऽइदं सर्वं यदयमात्माऽ इति सर्वस्य वस्तुजातस्यात्माव्यतिरेकमवतारयति । दुन्दुभ्यादिदृष्टान्तैश्च (बृ। ४।५।८) तमेवाव्यतिरेकं द्रढयति । ऽअस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदःऽ ( बृ। ४।५।११) इत्यादिना च प्रकृतस्यात्मनो नामरूपकर्मप्रपञ्चकारणतां व्याचक्षाणः परमात्मानमेनं गमयति । तथैवैकायनप्रक्रियायामपि (बृ। ४।५।१२) सविषयस्य सेन्द्रियस्य सान्तःकरणस्य प्रपञ्चस्यैकायनमनन्तरमबाह्यं कृत्स्नं प्रज्ञानघनं व्याचक्षाणः परमात्मानमेनं गमयति । तस्मात्परमात्मन एवायं दर्शनाद्युपदेश इति गम्यते ॥ १९ ॥ यत्पुनरुक्तं प्रियसंसूचितोपक्रमाद्विज्ञानात्मन एवायं दर्शनाद्युपदेश इति, अत्र ब्रूमः - ---------------------- फ़्न्: इदं प्रत्यक् । महदपरिच्छिन्नम् । भूतं सत्यम् । अनन्तं नित्यम् । अपारं सर्वगतं चेदेकरसम् । विज्ञातारं विज्ञानकर्तारम् । न वित्तेन तत्साध्येन कर्मणेत्यर्थः । ऽनान्यः पन्थाऽ, ऽन कर्मणाऽ इत्यादयः श्रुतिवादाः । ऽज्ञानादेव तु कैवल्यंऽ इत्यादयः स्मृतिवादाः । पराकरोति श्रेयोमार्गान्द्भ्रंशयति । ऋग्वेदादिकं नाम, इष्टं हुतमिति कर्म, अयं च लोक इति रूपम् । प्रक्रिया प्रकरणम् ।

vākyānvayāt bṛhadāraṇyake maitreyībrāhmaṇe 'dhīyate- 'na vā are patyuḥ kāmāya' ityupakramya 'na vā are sarvasya kāmāya sarvaṃ priyaṃ bhavatyātmanastu kāmāya sarvaṃ priyaṃ bhavatyātmā vā are draṣṭavyaḥ śrotavyo mantavyo nididhyāsitavyo maitreyyātmano vā are darśanena śravaṇena matyā vijñānenedaṃ sarvaṃ viditam' / (bṛ. 4.5.6) iti, tatraitadvicikitsyate- kiṃ vijñānātmaivāyaṃ draṣṭavyaśrotavyatvādirūpeṇopadiśyata āhosvitparamātmeti / kutaḥ punareṣā vicikitsā / priyasaṃsūcitenātmanā bhokatropakramādvijñānatmopadeśa iti / kiṃ tāvatprāptam / vijñānātmopadeśa iti / kasmāt / upakramasāmarthyāt / patijāyāputravittādikaṃ hi bhogyabhūtaṃ sarvaṃ jagadātmārthatayā priyaṃ bhavatīti priyasaṃsūcitaṃ bhoktāramātmānamukramyānantaramidamātmano darśanādyupadiśyamānaṃ kasyānyasyātmanaḥ syāt / madhye 'pi 'idaṃ mahadbhūtamanantamapāraṃ vijñānaghana evaitebhyo bhūtebhyaḥ samutthāya tānyevānuvinaśyati na pretya saṃjñāsti' iti prakṛtasyaiva mahato bhūtasya draṣṭavyasya bhūtebhyaḥ samutthānaṃ vijñānātmabhāvena bruvanvijñānātmanaṃ evedaṃ draṣṭavyatvaṃ darśayati / tathā 'vijñātāramare kena vijānīyāt' iti kartṛvacanena śabdenopasaṃharanvijñānātmānamevehopadiṣṭaṃ darśayati / tasmādātmavijñānena sarvavijñānaṃ bhoktrarthatvādbhogyajātasyaupacārikaṃ draṣṭavyamiti / evaṃ prāpte brūmaḥ paramātmopadeśa evāyam / kasmāt / vākyānvayāt / vākyaṃ hīdaṃ paurvāparyeṇāvekṣyamāṇaṃ paramātmānaṃprati anvitāvayavaṃ lakṣyate / kathamiti, tadupapādyate- 'amṛtatvasya tu nāśāsti vittena' iti yājñavalkyādupaśrutya 'yenāhaṃ nāmṛtā syāṃ kimahaṃ tena kuryāṃ yadeva bhagavānveda tadeva me brūhi' ityamṛtatvamāśāsānāya maitreyyā yājñavalkya ātmavijñānamidamupadiśati / nacānyatra paramātmavijñānādamṛtvamastīti śrutismṛtivādā vadanti / tathā cātmavijñānena sarvavijñānamucyamānaṃ nānyatra paramakāraṇavijñānānmukhyamavakalpate / nacaitadaupacārikamāśrayituṃ śakyaṃ, yatkāraṇamātmavijñānena sarvavijñānaṃ pratijñāyānantareṇa granthena tadevopapādayati- 'brahma taṃ parādādyo 'nyatrātmano brahma veda' ityādinā / yo hi brahmakṣatrādikaṃ jagadātmanonyatra svātantryeṇa labdhasadbhāvaṃ paśyati taṃ mithyādarśinaṃ tadeva mithyādṛṣṭaṃ brahmakṣatrādikaṃ jagatparākarotīti bhedadṛṣṭimapodya 'idaṃ sarvaṃ yadayamātmā' iti sarvasya vastujātasyātmāvyatirekamavatārayati / dundubhyādidṛṣṭāntaiśca (bṛ. 4.5.8) tamevāvyatirekaṃ draḍhayati / 'asya mahato bhūtasya niḥśvasitametadyadṛgvedaḥ' ( bṛ. 4.5.11) ityādinā ca prakṛtasyātmano nāmarūpakarmaprapañcakāraṇatāṃ vyācakṣāṇaḥ paramātmānamenaṃ gamayati / tathaivaikāyanaprakriyāyāmapi (bṛ. 4.5.12) saviṣayasya sendriyasya sāntaḥkaraṇasya prapañcasyaikāyanamanantaramabāhyaṃ kṛtsnaṃ prajñānaghanaṃ vyācakṣāṇaḥ paramātmānamenaṃ gamayati / tasmātparamātmana evāyaṃ darśanādyupadeśa iti gamyate // 19 // yatpunaruktaṃ priyasaṃsūcitopakramādvijñānātmana evāyaṃ darśanādyupadeśa iti, atra brūmaḥ - ---------------------- FN: idaṃ pratyak / mahadaparicchinnam / bhūtaṃ satyam / anantaṃ nityam / apāraṃ sarvagataṃ cedekarasam / vijñātāraṃ vijñānakartāram / na vittena tatsādhyena karmaṇetyarthaḥ / 'nānyaḥ panthā', 'na karmaṇā' ityādayaḥ śrutivādāḥ / 'jñānādeva tu kaivalyaṃ' ityādayaḥ smṛtivādāḥ / parākaroti śreyomārgāndbhraṃśayati / ṛgvedādikaṃ nāma, iṣṭaṃ hutamiti karma, ayaṃ ca loka iti rūpam / prakriyā prakaraṇam /

Sanskrit only: no published translation is held for this verse.

प्रतिज्ञासिद्धेर् लिङ्गम् आश्मरथ्यः अस्त्यत्र प्रतिज्ञा ऽआत्मनि विज्ञाते सर्वमिदं विज्ञातं भवतिऽ ऽइदं सर्वं यदयमात्माऽ इति च । तस्याः प्रतिज्ञायाः सिद्धिं सूचयत्येतल्लिङ्गं यत्प्रियसंसूचितस्यात्मनो द्रष्टव्यत्वादिसंकीर्तनम् । यदि हि विज्ञानात्मा परमात्मनो ऽन्यः स्यात्ततः परमात्मविज्ञाने ऽपि विज्ञानात्मा न विज्ञात इत्येकविज्ञानेन सर्वविज्ञानं यत्प्रतिज्ञातं तद्धीयेत । तस्मात्प्रतिज्ञासिद्ध्यर्थं विज्ञानात्मपरमात्मनोरभेदांशेनोपक्रमणमित्याश्मरथ्य आचार्यो मन्यते ॥ २० ॥

pratijñāsiddher liṅgam āśmarathyaḥ astyatra pratijñā 'ātmani vijñāte sarvamidaṃ vijñātaṃ bhavati' 'idaṃ sarvaṃ yadayamātmā' iti ca / tasyāḥ pratijñāyāḥ siddhiṃ sūcayatyetalliṅgaṃ yatpriyasaṃsūcitasyātmano draṣṭavyatvādisaṃkīrtanam / yadi hi vijñānātmā paramātmano 'nyaḥ syāttataḥ paramātmavijñāne 'pi vijñānātmā na vijñāta ityekavijñānena sarvavijñānaṃ yatpratijñātaṃ taddhīyeta / tasmātpratijñāsiddhyarthaṃ vijñānātmaparamātmanorabhedāṃśenopakramaṇamityāśmarathya ācāryo manyate // 20 //

Sanskrit only: no published translation is held for this verse.

उत्क्रमिष्यत एवं भावाद् इत्य् औडुलोमिः विज्ञानात्मन एव देहेन्द्रियमनोबुद्धिसंघातोपाधिसंपर्कात्कलुषीभूतस्य ज्ञानध्यानादिसाधनानुष्ठानासंप्रसन्नस्य देहादिसंघातादुत्क्रमिष्यतः परमात्मैक्योपपत्तेरिदमभेदेनोपक्रमणमित्यौडुलोमिराचार्यो मन्यते । श्रुतिश्चैवं भवति- ऽएष संप्रसादो ऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यतेऽ (छा। ८।१२।३) इति । क्वचिच्च जीवाश्रयमपि नामरूपं नदीनिदर्शनेन ज्ञापयति- ऽयथा नद्यः स्यन्दमानाः समुद्रे ऽस्तं गच्छन्ति नामरूपे विहाय । तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम्ऽ (मुण्ड। ३।२।८) इति । यथा लोके नद्यः स्वाश्रयमेव नामरूपं विहाय समुद्रमुपयन्त्येवं जीवो ऽपि स्वाश्रयमेव नामरूपं विहाय परं पुरुषमुपैतीति हि तत्रार्थः प्रतीयते दृष्टान्तदार्ष्टान्तिकयोस्तुल्यतायै ॥ २१ ॥ ---------------------- फ़्न्: समुत्थानमुत्क्रान्तिः ।

utkramiṣyata evaṃ bhāvād ity auḍulomiḥ vijñānātmana eva dehendriyamanobuddhisaṃghātopādhisaṃparkātkaluṣībhūtasya jñānadhyānādisādhanānuṣṭhānāsaṃprasannasya dehādisaṃghātādutkramiṣyataḥ paramātmaikyopapatteridamabhedenopakramaṇamityauḍulomirācāryo manyate / śrutiścaivaṃ bhavati- 'eṣa saṃprasādo 'smāccharīrātsamutthāya paraṃ jyotirupasaṃpadya svena rūpeṇābhiniṣpadyate' (chā. 8.12.3) iti / kvacicca jīvāśrayamapi nāmarūpaṃ nadīnidarśanena jñāpayati- 'yathā nadyaḥ syandamānāḥ samudre 'staṃ gacchanti nāmarūpe vihāya / tathā vidvānnāmarūpādvimuktaḥ parātparaṃ puruṣamupaiti divyam' (muṇḍa. 3.2.8) iti / yathā loke nadyaḥ svāśrayameva nāmarūpaṃ vihāya samudramupayantyevaṃ jīvo 'pi svāśrayameva nāmarūpaṃ vihāya paraṃ puruṣamupaitīti hi tatrārthaḥ pratīyate dṛṣṭāntadārṣṭāntikayostulyatāyai // 21 // ---------------------- FN: samutthānamutkrāntiḥ /

Sanskrit only: no published translation is held for this verse.

अवस्थितेर् इति काशकृत्स्नः अस्यैव परमात्मनो ऽनेनापि विज्ञानात्मभावेनावस्थानादुपपन्नमिदमभेदेनोपक्रमणमिति काशकृत्स्न आचार्यो मन्यते । तथाच ब्राह्मणम्- ऽअनेन जीवेनात्मनामुप्रविश्य नामरूपे व्याकरवाणिऽ (छा। ६।३।२) इत्येवञ्जातीयकं परस्यैवात्मनो जीवभावेनावस्थानं दर्शयति । मन्त्रवर्णश्च- ऽसर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन्यदास्ते (तैआ। ३।१२।७) इत्येवञ्जातीयकाः । नच तेजः प्रभृतीनां सृष्टौ जीवस्य पृथक्सृष्टिः, श्रुता, येन परस्मादात्मनो ऽन्यस्तद्विकारो जीवः स्यात् । काशकृत्स्नस्याचार्यस्याविकृतः परमेश्वरो जीवो नान्य इति मतम् । आश्मरथ्यस्य तु यद्यपि जीवस्य परस्मादनन्यत्वमभिप्रेतं, तथापि प्रतिज्ञासिद्धेरिति सापेक्षत्वाभिधानात्कार्यकारणभावः कियानप्यभिप्रेत इति गम्यते । औडुलोमिपक्षे पुनः स्पष्टमेवावस्थान्तरापेक्षौ भेदाभेदौ गम्येते तत्र काशकृत्स्नीयं मतं श्रुत्यनुसारीति गम्यते, प्रतिपादयिषितार्थानुसारात् ऽतत्त्वमसिऽ इत्यादिश्रुतिभ्यः । एवञ्च सति तज्ज्ञानादमृतत्वमवकल्पते । विकारात्मकत्वे हि जीवस्याभ्युपगम्यमाने विकारस्य प्रकृतिसंबन्धे प्रलयप्रसङ्गान्न तज्ज्ञानादमृतमवकल्पेत । अतश्च स्वाश्रयस्य नामरूपस्यासंभवादुपाध्याश्रयं नामरूपं जीव उपचर्यते । अत एवोत्पत्तिरपि जीवस्य क्वचिदग्निविस्फुलिङ्गोदाहरणेन श्राव्यमाणोपाध्याश्रयैव वेदितव्या । यदप्युक्तं प्रकृतस्यैव महतो भूतस्य द्रष्टव्यस्य भूतेभ्यः समुत्थानं विज्ञानात्मभावेन दर्शयन्विज्ञानात्मन एवेदं द्रष्टव्यत्वं दर्शयतीति, तत्रापियमेव त्रिसूत्री योजयितव्या । ऽप्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यःऽ । इदमत्र प्रतिज्ञातम्- ऽआत्मनि विदिते सर्वं विदितं भवतिऽ ऽइदं सर्वं यदयमात्माऽ (बृ। २।४।६) इति च । उपपादितं च, सर्वस्य नामरूपकर्मप्रपञ्चस्यैकप्रसवत्वादेकप्रलयत्वाच्च दुन्दुभ्यादिदृष्टान्तैश्च कार्यकारणयोरव्यतिरेकप्रतिपादनात् । तस्या एव प्रतिज्ञायाः सिद्धिं सूचत्येतल्लिङ्गं यन्महतो भूतस्य द्रष्टव्यस्य भूतेभ्यः समुत्थानं विज्ञानात्मभावेन कथितमित्याश्मरथ्य आचार्यो मन्यते । अभेदे हि सत्येकविज्ञानेन सर्वविज्ञानं प्रतिज्ञातमवकल्पयत इति । ऽउत्क्रमिष्यत एवंभावादित्यौडुलोमिःऽ । उत्क्रमिष्यतो विज्ञानात्मनो ज्ञानध्यानादिसामर्थ्यात्संप्रसन्नस्य परेणात्मनैक्यसंभवादिदमभेदाभिधानमित्यौडुलोमिराचार्यो मन्यते । ऽअवस्थितेरिति काशकृत्स्नःऽ । अस्यैव परमात्मनो ऽनेनापि विज्ञानात्मभावेनावस्थानादुपपन्नमिदमभेदाभिधानमिति काशकृत्स्न आचार्यो मन्यते । ननूच्छेदाभिधानमेतत् ऽएतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति न प्रेत्य संज्ञास्तिऽ (बृ। २।४।१२) इति, कथमेदभेदाभिधानम् । नैष दोषः । विशेषविज्ञानविनाशाभिप्रायमेतद्विनाशाभिधानं नात्मोच्छेदाभिप्रायम् । ऽअत्रैव मा भगवानमूमुहन्न प्रेत्य संज्ञास्तिऽ इति पर्यनुयुज्य स्वयमेव श्रुत्यार्थान्तरस्य दर्शितत्वात्- ऽन वा अरे ऽहं मोहं ब्रवीम्यविनाशी वा अरे ऽयमात्मानुच्छित्तिधर्मा मात्रासंसर्गस्त्वस्य भवतिऽ इति । एतदुक्तं भवति- कूटस्थनित्य एवायं विज्ञानघन आत्मा नास्योच्छेदप्रसङ्गो ऽस्ति । मात्राभिस्त्वस्य भूतेन्द्रियलक्षणाभिरविद्याकृताभिरसंसर्गो विद्यया भवति । संसर्गाभावे च प्रकृतस्य विशेषविज्ञानस्याभावान्न प्रेत्य संज्ञास्तीत्युक्तमिति । यदप्युक्तम्- ऽविज्ञातारमरे केन विजानीयात्ऽ इति कर्तृवचनेन शब्देनोपसंहाराद्विज्ञानात्मन एवेदं द्रष्टव्यमिति, तदपि काशकृत्स्नीयेनैव दर्शनेन परिहपणीयम् । अपिच ऽयत्र हि द्वैतमिव भवति तदितर इतरं पश्यतिऽ (बृ। २।४।१३) इत्यारभ्याविद्याविषये तस्यैव दर्शनादिलक्षणं विशेषज्ञानं प्रपञ्च्य ऽयत्र त्वस्य सर्वामात्मैवाभूत्तत्केन कं पश्येत्ऽ इत्यादिना विद्याविषये तस्यैव दर्शनादिलक्षणस्य विशेषविज्ञानस्याभावमभिदधाति । पुनश्च विषयाभावे ऽपि आत्मानं विजानीयात् इत्याशङ्क्य ऽविज्ञातारमरे केन विजानीयात्ऽ इत्याह । ततश्च विशेषविज्ञानाभावोपपादानपरत्वाद्वाक्यस्य विज्ञानधातुरेव केवलः संन्भूतपूर्वगत्या कर्तृवचनेन तृचा निर्दिष्ट इति गम्यते । दर्शितं तु पुरस्तात्काशकृत्स्नीयस्य पक्षस्य श्रुतिमत्त्वम् । अतश्च विज्ञानात्परमात्मनोरविद्याप्रत्युपस्थापितनामरूपरचितदेहाद्युपाधिनिम् इत्तो भेदो न पारमार्थिक इत्येषोर्ऽथः सर्वैर्वेदान्तवादिभिरभ्युपगन्तव्यः । ऽसदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्ऽ (छा। ६।२।१) ऽआत्मैवेदं सर्वम्ऽ (छा। ७।२५।२),ऽ ब्रह्मैवेदं सर्वम्ऽ (मुण्ड। २।२।११), ऽइदं सर्वं यदयमात्माऽ (बृ। २।४।६), ऽनान्यो ऽतो ऽस्ति द्रष्टाऽ (बृ। ३।७।२३), ऽनान्यदतो ऽस्ति द्रष्टृऽ (बृ। ३।८।११) इत्येवंरूपाभ्यः श्रुतिभ्यः । स्मृतिभ्यश्च ऽवासुदेवः सर्वमितिऽ (गी। ७।१९), ऽक्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारतऽ (गी। १३।२), ऽसमं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम्ऽ (गी। १३।२७) इत्येवंरूपाभ्यः । भेददर्शनापवादाच्च ऽअन्यो ऽसावन्यो ऽहमस्मीति न स वेद यथा पशुःऽ (बृ। १।४।१०), ऽमृत्योः स मृत्युमाप्नोति च इह नानेव पश्यतिऽ (बृ। ४।४।१९) इत्येवञ्जातीयकात् । ऽस वा एष महानज आत्माजरो ऽमरो ऽमृतो ऽभयो ब्रह्मऽ (बृ। ४।४२५) इति चात्मनि सर्वविक्रियाप्रतिषेधात् । अन्यथा च मुमुक्षूणां निरपवादविज्ञानानुपपत्तेः, सुनिश्चितार्थत्वानुपपत्तेश्च । निरपवादं हि विज्ञानं सर्वाकाङ्क्षानिवर्तकमात्मविषयमिष्यते, ऽवेदान्तविज्ञानसुनुश्चितार्थाःऽ (मुण्ड। ३।२।६) इति च श्रुतेः । ऽतत्र को मोहः कः शोक एकत्वमनुपश्यतःऽ (ईशा। ७) इति च । श्थितप्रज्ञलक्षणस्मृतेश्च (गी। २।५४) । स्थिते च क्षेत्रज्ञपरमात्मैकत्वविषय सम्यग्दर्शने क्षेत्रज्ञः परमात्मेति नाममात्रभैदात्, क्षेत्रज्ञो ऽयं परमात्मनो भिन्नः परमात्मायं क्षेत्रज्ञाद्भिन्न इत्येवञ्जातीयक आत्मभैदविषयो निर्बन्धो निरर्थकः । एको ह्ययमात्मा नाममात्रभेदेन बहुधाभिधीयत इति । नहि ऽसत्यं ज्ञानमन्तं ब्रह्म । यो वेद निहितं गुहायाम्ऽ (तै। २।१) इति काञ्चिदेवैकां गुहामधिकृत्यैतदुक्तम् । नच ब्रह्मणो ऽन्यो गुहायां निहितो ऽस्ति, ऽतत्सृष्ट्वा तदेवानुप्राविशत्ऽ (तै। २।६) इति स्रष्टुरेव प्रवेशश्रवणात् । ये तु निर्बन्धं कुर्वन्ति ते वेदान्तार्थं बाधमानाः श्रेयोद्वारं सम्यग्दर्शनमेव बाधन्ते । कृतकमनित्यं च मोक्षं कल्पयन्ति । न्यायेन च न संगच्छन्त इति ॥ २२ ॥ ---------------------- फ़्न्: धीरो सर्वज्ञः । रूपाणि चराचराणि शरीराणि । विचित्य निर्माय तेषां नामानि कृत्वा तत्रानुप्रविश्याभिवदन्नभिवदनादि कुर्वन् । मोहं मोहकरं वाक्यम् । उच्छित्तिर्नाशस्तद्वान्न भवितीत्यनुच्छित्तिधर्मा । काञ्चित् जीवस्थानादन्याम् । ये तु आश्मरथ्यप्रभृतयः ।

avasthiter iti kāśakṛtsnaḥ asyaiva paramātmano 'nenāpi vijñānātmabhāvenāvasthānādupapannamidamabhedenopakramaṇamiti kāśakṛtsna ācāryo manyate / tathāca brāhmaṇam- 'anena jīvenātmanāmupraviśya nāmarūpe vyākaravāṇi' (chā. 6.3.2) ityevañjātīyakaṃ parasyaivātmano jīvabhāvenāvasthānaṃ darśayati / mantravarṇaśca- 'sarvāṇi rūpāṇi vicitya dhīro nāmāni kṛtvābhivadanyadāste (tai.ā. 3.12.7) ityevañjātīyakāḥ / naca tejaḥ prabhṛtīnāṃ sṛṣṭau jīvasya pṛthaksṛṣṭiḥ, śrutā, yena parasmādātmano 'nyastadvikāro jīvaḥ syāt / kāśakṛtsnasyācāryasyāvikṛtaḥ parameśvaro jīvo nānya iti matam / āśmarathyasya tu yadyapi jīvasya parasmādananyatvamabhipretaṃ, tathāpi pratijñāsiddheriti sāpekṣatvābhidhānātkāryakāraṇabhāvaḥ kiyānapyabhipreta iti gamyate / auḍulomipakṣe punaḥ spaṣṭamevāvasthāntarāpekṣau bhedābhedau gamyete tatra kāśakṛtsnīyaṃ mataṃ śrutyanusārīti gamyate, pratipādayiṣitārthānusārāt 'tattvamasi' ityādiśrutibhyaḥ / evañca sati tajjñānādamṛtatvamavakalpate / vikārātmakatve hi jīvasyābhyupagamyamāne vikārasya prakṛtisaṃbandhe pralayaprasaṅgānna tajjñānādamṛtamavakalpeta / ataśca svāśrayasya nāmarūpasyāsaṃbhavādupādhyāśrayaṃ nāmarūpaṃ jīva upacaryate / ata evotpattirapi jīvasya kvacidagnivisphuliṅgodāharaṇena śrāvyamāṇopādhyāśrayaiva veditavyā / yadapyuktaṃ prakṛtasyaiva mahato bhūtasya draṣṭavyasya bhūtebhyaḥ samutthānaṃ vijñānātmabhāvena darśayanvijñānātmana evedaṃ draṣṭavyatvaṃ darśayatīti, tatrāpiyameva trisūtrī yojayitavyā / 'pratijñāsiddherliṅgamāśmarathyaḥ' / idamatra pratijñātam- 'ātmani vidite sarvaṃ viditaṃ bhavati' 'idaṃ sarvaṃ yadayamātmā' (bṛ. 2.4.6) iti ca / upapāditaṃ ca, sarvasya nāmarūpakarmaprapañcasyaikaprasavatvādekapralayatvācca dundubhyādidṛṣṭāntaiśca kāryakāraṇayoravyatirekapratipādanāt / tasyā eva pratijñāyāḥ siddhiṃ sūcatyetalliṅgaṃ yanmahato bhūtasya draṣṭavyasya bhūtebhyaḥ samutthānaṃ vijñānātmabhāvena kathitamityāśmarathya ācāryo manyate / abhede hi satyekavijñānena sarvavijñānaṃ pratijñātamavakalpayata iti / 'utkramiṣyata evaṃbhāvādityauḍulomiḥ' / utkramiṣyato vijñānātmano jñānadhyānādisāmarthyātsaṃprasannasya pareṇātmanaikyasaṃbhavādidamabhedābhidhānamityauḍulomirācāryo manyate / 'avasthiteriti kāśakṛtsnaḥ' / asyaiva paramātmano 'nenāpi vijñānātmabhāvenāvasthānādupapannamidamabhedābhidhānamiti kāśakṛtsna ācāryo manyate / nanūcchedābhidhānametat 'etebhyo bhūtebhyaḥ samutthāya tānyevānuvinaśyati na pretya saṃjñāsti' (bṛ. 2.4.12) iti, kathamedabhedābhidhānam / naiṣa doṣaḥ / viśeṣavijñānavināśābhiprāyametadvināśābhidhānaṃ nātmocchedābhiprāyam / 'atraiva mā bhagavānamūmuhanna pretya saṃjñāsti' iti paryanuyujya svayameva śrutyārthāntarasya darśitatvāt- 'na vā are 'haṃ mohaṃ bravīmyavināśī vā are 'yamātmānucchittidharmā mātrāsaṃsargastvasya bhavati' iti / etaduktaṃ bhavati- kūṭasthanitya evāyaṃ vijñānaghana ātmā nāsyocchedaprasaṅgo 'sti / mātrābhistvasya bhūtendriyalakṣaṇābhiravidyākṛtābhirasaṃsargo vidyayā bhavati / saṃsargābhāve ca prakṛtasya viśeṣavijñānasyābhāvānna pretya saṃjñāstītyuktamiti / yadapyuktam- 'vijñātāramare kena vijānīyāt' iti kartṛvacanena śabdenopasaṃhārādvijñānātmana evedaṃ draṣṭavyamiti, tadapi kāśakṛtsnīyenaiva darśanena parihapaṇīyam / apica 'yatra hi dvaitamiva bhavati taditara itaraṃ paśyati' (bṛ. 2.4.13) ityārabhyāvidyāviṣaye tasyaiva darśanādilakṣaṇaṃ viśeṣajñānaṃ prapañcya 'yatra tvasya sarvāmātmaivābhūttatkena kaṃ paśyet' ityādinā vidyāviṣaye tasyaiva darśanādilakṣaṇasya viśeṣavijñānasyābhāvamabhidadhāti / punaśca viṣayābhāve 'pi ātmānaṃ vijānīyāt ityāśaṅkya 'vijñātāramare kena vijānīyāt' ityāha / tataśca viśeṣavijñānābhāvopapādānaparatvādvākyasya vijñānadhātureva kevalaḥ saṃnbhūtapūrvagatyā kartṛvacanena tṛcā nirdiṣṭa iti gamyate / darśitaṃ tu purastātkāśakṛtsnīyasya pakṣasya śrutimattvam / ataśca vijñānātparamātmanoravidyāpratyupasthāpitanāmarūparacitadehādyupādhinim itto bhedo na pāramārthika ityeṣor'thaḥ sarvairvedāntavādibhirabhyupagantavyaḥ / 'sadeva somyedamagra āsīdekamevādvitīyam' (chā. 6.2.1) 'ātmaivedaṃ sarvam' (chā. 7.25.2),' brahmaivedaṃ sarvam' (muṇḍa. 2.2.11), 'idaṃ sarvaṃ yadayamātmā' (bṛ. 2.4.6), 'nānyo 'to 'sti draṣṭā' (bṛ. 3.7.23), 'nānyadato 'sti draṣṭṛ' (bṛ. 3.8.11) ityevaṃrūpābhyaḥ śrutibhyaḥ / smṛtibhyaśca 'vāsudevaḥ sarvamiti' (gī. 7.19), 'kṣetrajñaṃ cāpi māṃ viddhi sarvakṣetreṣu bhārata' (gī. 13.2), 'samaṃ sarveṣu bhūteṣu tiṣṭhantaṃ parameśvaram' (gī. 13.27) ityevaṃrūpābhyaḥ / bhedadarśanāpavādācca 'anyo 'sāvanyo 'hamasmīti na sa veda yathā paśuḥ' (bṛ. 1.4.10), 'mṛtyoḥ sa mṛtyumāpnoti ca iha nāneva paśyati' (bṛ. 4.4.19) ityevañjātīyakāt / 'sa vā eṣa mahānaja ātmājaro 'maro 'mṛto 'bhayo brahma' (bṛ. 4.425) iti cātmani sarvavikriyāpratiṣedhāt / anyathā ca mumukṣūṇāṃ nirapavādavijñānānupapatteḥ, suniścitārthatvānupapatteśca / nirapavādaṃ hi vijñānaṃ sarvākāṅkṣānivartakamātmaviṣayamiṣyate, 'vedāntavijñānasunuścitārthāḥ' (muṇḍa. 3.2.6) iti ca śruteḥ / 'tatra ko mohaḥ kaḥ śoka ekatvamanupaśyataḥ' (īśā. 7) iti ca / śthitaprajñalakṣaṇasmṛteśca (gī. 2.54) / sthite ca kṣetrajñaparamātmaikatvaviṣaya samyagdarśane kṣetrajñaḥ paramātmeti nāmamātrabhaidāt, kṣetrajño 'yaṃ paramātmano bhinnaḥ paramātmāyaṃ kṣetrajñādbhinna ityevañjātīyaka ātmabhaidaviṣayo nirbandho nirarthakaḥ / eko hyayamātmā nāmamātrabhedena bahudhābhidhīyata iti / nahi 'satyaṃ jñānamantaṃ brahma / yo veda nihitaṃ guhāyām' (tai. 2.1) iti kāñcidevaikāṃ guhāmadhikṛtyaitaduktam / naca brahmaṇo 'nyo guhāyāṃ nihito 'sti, 'tatsṛṣṭvā tadevānuprāviśat' (tai. 2.6) iti sraṣṭureva praveśaśravaṇāt / ye tu nirbandhaṃ kurvanti te vedāntārthaṃ bādhamānāḥ śreyodvāraṃ samyagdarśanameva bādhante / kṛtakamanityaṃ ca mokṣaṃ kalpayanti / nyāyena ca na saṃgacchanta iti // 22 // ---------------------- FN: dhīro sarvajñaḥ / rūpāṇi carācarāṇi śarīrāṇi / vicitya nirmāya teṣāṃ nāmāni kṛtvā tatrānupraviśyābhivadannabhivadanādi kurvan / mohaṃ mohakaraṃ vākyam / ucchittirnāśastadvānna bhavitītyanucchittidharmā / kāñcit jīvasthānādanyām / ye tu āśmarathyaprabhṛtayaḥ /

Sanskrit only: no published translation is held for this verse.

प्रकृतिश् च प्रतिज्ञादृष्टान्तानुपरोधात् यथाभ्युदयहेतुत्वाद्धर्मो जिज्ञास्य एवं निःश्रेयसहेतुत्वाद्ब्रह्म जिज्ञास्यमित्युक्तम् । ब्रह्म च ऽजन्माद्यस्य यतःऽ (ब्र। १।१।२) इति लक्षितम् । तच्च लक्षणं घटरुचकादीनां मृत्सुवर्णादिवत्प्रकृतित्वे कुलालसुवर्णकारादिवन्निमित्तत्वे च समानमित्यतो भवति विमर्शः, किमात्मकं पुनर्ब्रह्मणः कारणत्वं स्यादिति । तत्र निमित्तकारणमेव तावत्केवलं स्यादिति प्रतिभाति । कस्मात् । ईक्षापूर्वककर्तृत्वश्रवणात् । ईक्षापूर्वकं हि ब्रह्मणः कर्तृत्वमवगम्यते- ऽस ईक्षाञ्चक्रेऽ (प्र। ६।३) ऽस प्राणमसृजतऽ (प्र। ६।४) इत्यदिश्रुतिभ्यः । ईक्षापूर्वकं च कर्तृत्वं निमित्तकारणेष्वेव कुलालादिषु दृष्टम् । अनेककारकपूर्विका च क्रियाफलसिद्धिर्लोके दृष्टा । स च न्याय आदिकर्तर्यपि युक्तः संक्रमयितुम् । ईश्वरत्वप्रसिद्धेश्च । ईश्वराणां हि राजवैवस्वतादीनां निमित्तकारणत्वमेव केवलं प्रतीयते तद्वत्परमेश्वरस्यापि निमित्तकारणत्वमेव युक्तं प्रतिपत्तुम् । कार्यं चेदं जगत्सावयवमचेतनमशुद्धं च दृश्यते, कारणेनापि तस्य तादृशेनैव भवितव्यं, कार्यकारणयोः सारूप्यदर्शनात् । ब्रह्म च नैवंलक्षणमवगम्यते ऽनिष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम्ऽ (श्वे। ६।१९) इत्यादिश्रुतिभ्यः । पारिशेष्याद्ब्रह्मणो ऽन्यदुपादानकारणमशुद्ध्यादिगुणकं स्मृतिप्रसिद्धमभ्युपगन्तव्यम् । ब्रह्मकारणत्वश्रुतेर्निमित्तत्वमात्रे पर्यवसानादिति । एवं प्राप्ते ब्रूमः प्रकृतिश्चोपादानकारणं च ब्रह्माभ्युपगन्तव्यं निमित्तकारणं च । न केवलं निमित्तकारणमेव । कस्मात् । प्रतिज्ञादृष्टान्तानुपरोधात् । एवं प्रतिज्ञादृष्टान्तौ श्रौतौ नोपरुध्येते । प्रतिज्ञा तावत्- ऽउत तमादेशमप्राक्ष्यो येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम्ऽ (छा। ६।१।२) इति । तत्र चैकेन विज्ञातेन सर्वमन्दविज्ञातमपि विज्ञातं भवतीति प्रतीयते । तच्चोपादानकारणविज्ञाने सर्वविज्ञानं संभवत्युपादानकारणव्यतिरेकात्कार्यस्य । निमित्तकारणाव्यतिरेकास्तु कार्यस्य नास्ति, लोके तक्ष्णः प्रासादव्यतिरेकदर्शनात् । दृष्टान्तो ऽपि यथा ऽसोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातं स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्ऽ इत्युपादानकारणगोचर एवमाम्नायते । तथा ऽएकेन लोहमणिना सर्वं लोहमयं विज्ञातं स्यात्ऽ ऽएकेन नखनिकृन्तनेन सर्वं कार्ष्णायसं विज्ञातं स्यात्ऽ (छा। ६।१।४,५,६) इति च । तथान्यत्रापि ऽकस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति (मुण्ड। १।१।२) इति प्रतिज्ञा । ऽयथा पृथिव्यामोषधयः संभवन्तिऽ ( मुण्ड। १।१।७) इति दृष्टान्तः । तथा ऽआत्मनि कल्वरे दृष्टे श्रुते मते विज्ञात इदं सर्वं विदितम्ऽ इति प्रतिज्ञा । ऽस यथा दुन्दुभेर्हन्यमानस्य न बाह्याञ्शब्दाञ्शक्नुयाद्ग्रहणाय दुन्दुभेस्तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दो गृहीतःऽ (बृ। ४।५।६,७) इति दृष्टान्तः । एवं यथासंभवं प्रतिवेदान्तं प्रतिज्ञादृष्टान्तौ प्रकृतित्वसाधनौ प्रत्येतव्यौ । यत इतीयं पञ्चमी ऽयतो वा इमानि भूतानि जायन्तेऽ इत्यत्र ऽजनिकर्तुः प्रकृतिःऽ (पासू। १।४।३०) इति विशेषस्मरणात्प्रकृतिलक्षण एवापादाने द्रष्टव्या । निमित्तत्वं त्वधिष्ठात्रन्तराभावादधिगन्तव्यम् । यथा हि लोके मृत्सुवर्णादिकमुपादानकारणं कुलालसुवर्णकारादीनधिष्ठातृनपेक्ष्य प्रवर्तते नैवं ब्रह्मण उपादानकारणस्य सतो ऽन्यो ऽधिष्ठातापेक्ष्यो ऽस्ति, प्रागुत्पत्तेरेकमेवाद्वितीयमित्यवधारणात् । अधिष्ठात्रन्तराभावो ऽपि प्रतिज्ञादृष्टान्तानुपरोधादेवोदितो वेदितव्यः । अधिष्ठातरि ह्युपादानादन्यस्मिन्नभ्युपगम्यमाने पुनरप्येकविज्ञानेन सर्वविज्ञानस्यासंभवात्प्रतिज्ञादृष्टान्तोपरोध एव स्यात् । तस्मादधिष्ठात्रन्तराभावादात्मनः कर्तृत्वमुपादानान्तराभावाच्च प्रकृतित्वम् ॥ २३ ॥ कुतश्चात्मनः कर्तृत्वप्रकृतित्वे- ---------------------- फ़्न्: विमर्शः संशयः । निष्कलं निरवयवम्, निष्क्रियमचलम्, शान्तमपरिणामि, निरवद्यं निरस्तसमस्तदोषम् । लोहं सुवर्णम् । नखनिकृन्तनं कार्ष्णायसकृतनखलवनशस्त्रं लोहपिण्डो वा । दुन्दुभ्याघातस्य जनकस्य जन्यतया संबन्धी वा शब्दो विशेषशब्द इत्यर्थः ।

prakṛtiś ca pratijñādṛṣṭāntānuparodhāt yathābhyudayahetutvāddharmo jijñāsya evaṃ niḥśreyasahetutvādbrahma jijñāsyamityuktam / brahma ca 'janmādyasya yataḥ' (bra. 1.1.2) iti lakṣitam / tacca lakṣaṇaṃ ghaṭarucakādīnāṃ mṛtsuvarṇādivatprakṛtitve kulālasuvarṇakārādivannimittatve ca samānamityato bhavati vimarśaḥ, kimātmakaṃ punarbrahmaṇaḥ kāraṇatvaṃ syāditi / tatra nimittakāraṇameva tāvatkevalaṃ syāditi pratibhāti / kasmāt / īkṣāpūrvakakartṛtvaśravaṇāt / īkṣāpūrvakaṃ hi brahmaṇaḥ kartṛtvamavagamyate- 'sa īkṣāñcakre' (pra. 6.3) 'sa prāṇamasṛjata' (pra. 6.4) ityadiśrutibhyaḥ / īkṣāpūrvakaṃ ca kartṛtvaṃ nimittakāraṇeṣveva kulālādiṣu dṛṣṭam / anekakārakapūrvikā ca kriyāphalasiddhirloke dṛṣṭā / sa ca nyāya ādikartaryapi yuktaḥ saṃkramayitum / īśvaratvaprasiddheśca / īśvarāṇāṃ hi rājavaivasvatādīnāṃ nimittakāraṇatvameva kevalaṃ pratīyate tadvatparameśvarasyāpi nimittakāraṇatvameva yuktaṃ pratipattum / kāryaṃ cedaṃ jagatsāvayavamacetanamaśuddhaṃ ca dṛśyate, kāraṇenāpi tasya tādṛśenaiva bhavitavyaṃ, kāryakāraṇayoḥ sārūpyadarśanāt / brahma ca naivaṃlakṣaṇamavagamyate 'niṣkalaṃ niṣkriyaṃ śāntaṃ niravadyaṃ nirañjanam' (śve. 6.19) ityādiśrutibhyaḥ / pāriśeṣyādbrahmaṇo 'nyadupādānakāraṇamaśuddhyādiguṇakaṃ smṛtiprasiddhamabhyupagantavyam / brahmakāraṇatvaśruternimittatvamātre paryavasānāditi / evaṃ prāpte brūmaḥ prakṛtiścopādānakāraṇaṃ ca brahmābhyupagantavyaṃ nimittakāraṇaṃ ca / na kevalaṃ nimittakāraṇameva / kasmāt / pratijñādṛṣṭāntānuparodhāt / evaṃ pratijñādṛṣṭāntau śrautau noparudhyete / pratijñā tāvat- 'uta tamādeśamaprākṣyo yenāśrutaṃ śrutaṃ bhavatyamataṃ matamavijñātaṃ vijñātam' (chā. 6.1.2) iti / tatra caikena vijñātena sarvamandavijñātamapi vijñātaṃ bhavatīti pratīyate / taccopādānakāraṇavijñāne sarvavijñānaṃ saṃbhavatyupādānakāraṇavyatirekātkāryasya / nimittakāraṇāvyatirekāstu kāryasya nāsti, loke takṣṇaḥ prāsādavyatirekadarśanāt / dṛṣṭānto 'pi yathā 'somyaikena mṛtpiṇḍena sarvaṃ mṛnmayaṃ vijñātaṃ syādvācārambhaṇaṃ vikāro nāmadheyaṃ mṛttiketyeva satyam' ityupādānakāraṇagocara evamāmnāyate / tathā 'ekena lohamaṇinā sarvaṃ lohamayaṃ vijñātaṃ syāt' 'ekena nakhanikṛntanena sarvaṃ kārṣṇāyasaṃ vijñātaṃ syāt' (chā. 6.1.4,5,6) iti ca / tathānyatrāpi 'kasminnu bhagavo vijñāte sarvamidaṃ vijñātaṃ bhavati (muṇḍa. 1.1.2) iti pratijñā / 'yathā pṛthivyāmoṣadhayaḥ saṃbhavanti' ( muṇḍa. 1.1.7) iti dṛṣṭāntaḥ / tathā 'ātmani kalvare dṛṣṭe śrute mate vijñāta idaṃ sarvaṃ viditam' iti pratijñā / 'sa yathā dundubherhanyamānasya na bāhyāñśabdāñśaknuyādgrahaṇāya dundubhestu grahaṇena dundubhyāghātasya vā śabdo gṛhītaḥ' (bṛ. 4.5.6,7) iti dṛṣṭāntaḥ / evaṃ yathāsaṃbhavaṃ prativedāntaṃ pratijñādṛṣṭāntau prakṛtitvasādhanau pratyetavyau / yata itīyaṃ pañcamī 'yato vā imāni bhūtāni jāyante' ityatra 'janikartuḥ prakṛtiḥ' (pā.sū. 1.4.30) iti viśeṣasmaraṇātprakṛtilakṣaṇa evāpādāne draṣṭavyā / nimittatvaṃ tvadhiṣṭhātrantarābhāvādadhigantavyam / yathā hi loke mṛtsuvarṇādikamupādānakāraṇaṃ kulālasuvarṇakārādīnadhiṣṭhātṛnapekṣya pravartate naivaṃ brahmaṇa upādānakāraṇasya sato 'nyo 'dhiṣṭhātāpekṣyo 'sti, prāgutpatterekamevādvitīyamityavadhāraṇāt / adhiṣṭhātrantarābhāvo 'pi pratijñādṛṣṭāntānuparodhādevodito veditavyaḥ / adhiṣṭhātari hyupādānādanyasminnabhyupagamyamāne punarapyekavijñānena sarvavijñānasyāsaṃbhavātpratijñādṛṣṭāntoparodha eva syāt / tasmādadhiṣṭhātrantarābhāvādātmanaḥ kartṛtvamupādānāntarābhāvācca prakṛtitvam // 23 // kutaścātmanaḥ kartṛtvaprakṛtitve- ---------------------- FN: vimarśaḥ saṃśayaḥ / niṣkalaṃ niravayavam, niṣkriyamacalam, śāntamapariṇāmi, niravadyaṃ nirastasamastadoṣam / lohaṃ suvarṇam / nakhanikṛntanaṃ kārṣṇāyasakṛtanakhalavanaśastraṃ lohapiṇḍo vā / dundubhyāghātasya janakasya janyatayā saṃbandhī vā śabdo viśeṣaśabda ityarthaḥ /

Sanskrit only: no published translation is held for this verse.

अभिध्योपदेशाच् च अभिध्योपदेशश्चात्मनः कर्तृत्वप्रकृतित्वे गमयति ऽसो ऽकामयत बहु स्यां प्रजायेयेतिऽ ऽतदैक्षत बहु स्यां प्रजायेयऽ इति च । तत्राभिध्यानपूर्विकायाः स्वातन्त्र्यप्रवृत्तेः कर्तेति गम्यते । बहु स्यामिति प्रत्यगात्मविषयत्वाद्बहुभवनाभिध्यानस्यप्रकृतिरित्यपि गम्यते ॥ २४ ॥ ---------------------- फ़्न्: अभिध्या सृष्टिसंकल्पः ।

abhidhyopadeśāc ca abhidhyopadeśaścātmanaḥ kartṛtvaprakṛtitve gamayati 'so 'kāmayata bahu syāṃ prajāyeyeti' 'tadaikṣata bahu syāṃ prajāyeya' iti ca / tatrābhidhyānapūrvikāyāḥ svātantryapravṛtteḥ karteti gamyate / bahu syāmiti pratyagātmaviṣayatvādbahubhavanābhidhyānasyaprakṛtirityapi gamyate // 24 // ---------------------- FN: abhidhyā sṛṣṭisaṃkalpaḥ /

Sanskrit only: no published translation is held for this verse.

साक्षाच् चोभयाम्नानात् प्रकृतित्वस्यायमभ्युच्चयः । इतश्च प्रकृतिर्ब्रह्म, यत्कारणं साक्षाद्ब्रह्मैव कारणमुपादायोभौ प्रभवप्रलयावाम्नायते- ऽसर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते । आकाशं प्रत्यस्तं यन्तिऽ (छा। १।९।१) इति । यद्धि यस्मात्प्रभवति यस्मिंश्च प्रलीयते तत्तस्योपादानं प्रसिद्धम् । यथा व्रीहियवादीनां पृथिवी । साक्षादिते साक्षादिति चोपादानान्तरानुपादानं दर्शयत्याकाशादेवेति । प्रत्यस्तमयश्च नोपादानादन्यत्र कार्यस्य दृष्टः ॥ २५ ॥ ---------------------- फ़्न्: अभ्युच्चयो हेत्वन्तरम् ।

sākṣāc cobhayāmnānāt prakṛtitvasyāyamabhyuccayaḥ / itaśca prakṛtirbrahma, yatkāraṇaṃ sākṣādbrahmaiva kāraṇamupādāyobhau prabhavapralayāvāmnāyate- 'sarvāṇi ha vā imāni bhūtānyākāśādeva samutpadyante / ākāśaṃ pratyastaṃ yanti' (chā. 1.9.1) iti / yaddhi yasmātprabhavati yasmiṃśca pralīyate tattasyopādānaṃ prasiddham / yathā vrīhiyavādīnāṃ pṛthivī / sākṣādite sākṣāditi copādānāntarānupādānaṃ darśayatyākāśādeveti / pratyastamayaśca nopādānādanyatra kāryasya dṛṣṭaḥ // 25 // ---------------------- FN: abhyuccayo hetvantaram /

Sanskrit only: no published translation is held for this verse.

आत्मकृतेः परिणामात् इतश्च प्रकृतिर्ब्रह्म, यत्कारणं ब्रह्मप्रक्रियायाम् ऽतदात्मानं स्वयमकुरुतऽ (तै। २।७) इत्यात्मनः कर्मत्वं कर्तृत्वं त दर्शयति । आत्मानमिति कर्मत्वं, स्वयमकुरुतेति कर्तृत्वम् । कथं पुनः पूर्वसिद्धस्य सतः कर्तृत्वेन व्यवस्थितस्य क्रियमाणत्वं शक्यं संपादयितुम् । परिणामादिति ब्रूमः । पूर्वसिद्धो ऽपि हि सन्नात्मा विशेषेण विकारात्मना परिणमयामासात्मानमिति । विकारात्मना च परिणामो मृदाद्यासु प्रकृतिषूपलब्धः । स्वयमिति च विशेषणान्निमित्तान्तरानपेक्षत्वमपि प्रतीयते । परिणामादिति वा पृथक्सूत्रम् । तस्यैषोर्ऽथः - इतश्च प्रकृतिर्ब्रह्म, यत्कारणं ब्रह्मण एव विकारात्मना परिणामः सामानाधिकरण्येनाम्नायते ऽसच्च त्यच्चाभवत् । निरुक्तं चानिरुक्तं चऽ (तै। २।६) इत्यादिनेति ॥ २६ ॥ ---------------------- फ़्न्: सत् प्रत्यक्षं भूतत्रयम्, त्यत् परोक्षं भूतद्वयम्, निरुक्तं वक्तुं शक्यं घटादि, अनिरुक्तं वक्तुमशक्यं कपोतरूपादिकम् ।

ātmakṛteḥ pariṇāmāt itaśca prakṛtirbrahma, yatkāraṇaṃ brahmaprakriyāyām 'tadātmānaṃ svayamakuruta' (tai. 2.7) ityātmanaḥ karmatvaṃ kartṛtvaṃ ta darśayati / ātmānamiti karmatvaṃ, svayamakuruteti kartṛtvam / kathaṃ punaḥ pūrvasiddhasya sataḥ kartṛtvena vyavasthitasya kriyamāṇatvaṃ śakyaṃ saṃpādayitum / pariṇāmāditi brūmaḥ / pūrvasiddho 'pi hi sannātmā viśeṣeṇa vikārātmanā pariṇamayāmāsātmānamiti / vikārātmanā ca pariṇāmo mṛdādyāsu prakṛtiṣūpalabdhaḥ / svayamiti ca viśeṣaṇānnimittāntarānapekṣatvamapi pratīyate / pariṇāmāditi vā pṛthaksūtram / tasyaiṣor'thaḥ - itaśca prakṛtirbrahma, yatkāraṇaṃ brahmaṇa eva vikārātmanā pariṇāmaḥ sāmānādhikaraṇyenāmnāyate 'sacca tyaccābhavat / niruktaṃ cāniruktaṃ ca' (tai. 2.6) ityādineti // 26 // ---------------------- FN: sat pratyakṣaṃ bhūtatrayam, tyat parokṣaṃ bhūtadvayam, niruktaṃ vaktuṃ śakyaṃ ghaṭādi, aniruktaṃ vaktumaśakyaṃ kapotarūpādikam /

Sanskrit only: no published translation is held for this verse.

योनिश् च हि गीयते इतश्च प्रकृतिर्ब्रह्म योनिरित्यपि पठ्यते वेदान्तेषु ऽकर्तारमीशं पुरुषं ब्रह्मयोनिम्ऽ (मुण्ड। ३।१।३) इति, ऽयद्भूतयोनि परिपश्यन्ति धीराःऽ (मुण्ड। १।१६) इति च । योनिशब्दश्च प्रकृतिवचनः समधिगतो लोके ऽपृथिवी योनिरोषधिवनस्पतीनाम्ऽ इति । स्त्रीयोनेरप्यस्त्येवायवद्वारेण गर्भं प्रत्युपादानकारणत्वम् । कचित्स्थानवचनो ऽपि योनिशब्दो दृष्टः - ऽयोनिष्ट इन्द्र निषदे अकारिऽ (ऋसं। १।१०४।१) इति । वाक्यशेषात्त्वत्र प्रकृतिवचनता परिगृह्यते ऽयथोर्णनाभिः सृजते गृह्यते चऽ (मुण्ड। १।१।७) इत्येवञ्जातीयकात् । एवं प्रकृतित्वं ब्रह्मणः प्रसिद्धम् । यत्पुनरिदमुक्तमीक्षापूर्वकं कर्तृत्वं निमित्तकारणेष्वेव कुलालादिषु लोके दृष्टं नोपादानेष्वित्यादि, तत्प्रत्युच्यते- न लोकवदिह भवितव्यम् । नह्ययमनुमानगम्योर्ऽथः । शब्दगम्यत्वात्त्वस्यार्थस्य यथाशब्दमिह भवितव्यम् । शब्दश्चेक्षितुरीश्वरस्य प्रकृतित्वं प्रतिदयतात्यवोचाम । पुनश्चैतत्सर्वं विस्तरेण प्रतिवक्ष्यामः ॥ २७ ॥ ---------------------- फ़्न्: कर्तारं क्रियाशक्तिमन्तम्, ईशं नियन्तारम्, पुरुषं प्रत्यञ्चम्, ब्रह्म पूर्णम्, योनिं प्रकृतिम् । हे इन्द्र, ते तव निषदे उपवेशनाय योनिः स्थानं मया अकारि कृतम् । ८ सर्वव्याख्यानाधिकरणम् । सू। २८

yoniś ca hi gīyate itaśca prakṛtirbrahma yonirityapi paṭhyate vedānteṣu 'kartāramīśaṃ puruṣaṃ brahmayonim' (muṇḍa. 3.1.3) iti, 'yadbhūtayoni paripaśyanti dhīrāḥ' (muṇḍa. 1.16) iti ca / yoniśabdaśca prakṛtivacanaḥ samadhigato loke 'pṛthivī yoniroṣadhivanaspatīnām' iti / strīyonerapyastyevāyavadvāreṇa garbhaṃ pratyupādānakāraṇatvam / kacitsthānavacano 'pi yoniśabdo dṛṣṭaḥ - 'yoniṣṭa indra niṣade akāri' (ṛ.saṃ. 1.104.1) iti / vākyaśeṣāttvatra prakṛtivacanatā parigṛhyate 'yathorṇanābhiḥ sṛjate gṛhyate ca' (muṇḍa. 1.1.7) ityevañjātīyakāt / evaṃ prakṛtitvaṃ brahmaṇaḥ prasiddham / yatpunaridamuktamīkṣāpūrvakaṃ kartṛtvaṃ nimittakāraṇeṣveva kulālādiṣu loke dṛṣṭaṃ nopādāneṣvityādi, tatpratyucyate- na lokavadiha bhavitavyam / nahyayamanumānagamyor'thaḥ / śabdagamyatvāttvasyārthasya yathāśabdamiha bhavitavyam / śabdaścekṣiturīśvarasya prakṛtitvaṃ pratidayatātyavocāma / punaścaitatsarvaṃ vistareṇa prativakṣyāmaḥ // 27 // ---------------------- FN: kartāraṃ kriyāśaktimantam, īśaṃ niyantāram, puruṣaṃ pratyañcam, brahma pūrṇam, yoniṃ prakṛtim / he indra, te tava niṣade upaveśanāya yoniḥ sthānaṃ mayā akāri kṛtam / 8 sarvavyākhyānādhikaraṇam / sū. 28

Sanskrit only: no published translation is held for this verse.

एतेन सर्वे व्याख्याता व्याख्याताः ऽईक्षतेर्नाशब्दम्ऽ (ब्रसू। १।१।५) इत्यारभ्य प्रधानकारणवादः सूत्रैरेव पुनः पुनराशङ्क्य निराकृतः, तस्य हि पक्षस्योपोद्बलकानि कानिचिल्लिङ्गाभासानि वेदान्तेष्वापातेन मन्दमतीन्प्रतिभान्तीति । स च कार्यकारणनन्यत्वाभ्युपगमात्प्रत्यासन्नो वेदान्तवादस्य । देवलप्रभृतिभिश्च कैश्चिद्धर्मसूत्रकारैः स्वग्रन्थेष्वाश्रितः, तेन तत्प्रतिषेधे यत्नो ऽतीव कृतो नाण्वादिकारणवादप्रतिषेधे । ते ऽपि तु ब्रह्मकारणवादपक्षस्य प्रतिपक्षत्वात्प्रतिषेद्धव्याः । तेषामप्युपोद्वलकं वैदिकं किञ्चिल्लिङ्गमापातेन मन्दमतीन्प्रति भायादिति । अतः प्रधानमल्लनिबर्हणन्यायेनातिदिशति- एतेन प्रधानकारणवादप्रतिषेधन्यायकलापेन सर्वे ऽण्वादिकारणवादा अपि प्रतिषिद्धतया व्याख्याता वेदितव्याः । तेषामपि प्रधानवदशब्दत्वाच्छब्दविरोधित्वाच्चेति । व्याख्याता व्याख्याता इति पदाभ्यासो ऽध्यायपरिसमाप्तिं द्योतयति ॥ २८ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छङ्करभगवत्पूज्यपादकृतौ शारीरकमीमांसाभाष्ये प्रथमाध्यायस्य चतुर्थः पादः समाप्तः ॥ ४ ॥ इति श्रीमद्ब्रह्मसूत्रशाङ् करभाष्ये समन्वयाख्यः प्रथमो ऽध्यायः ॥ १ ॥

etena sarve vyākhyātā vyākhyātāḥ 'īkṣaternāśabdam' (bra.sū. 1.1.5) ityārabhya pradhānakāraṇavādaḥ sūtraireva punaḥ punarāśaṅkya nirākṛtaḥ, tasya hi pakṣasyopodbalakāni kānicilliṅgābhāsāni vedānteṣvāpātena mandamatīnpratibhāntīti / sa ca kāryakāraṇananyatvābhyupagamātpratyāsanno vedāntavādasya / devalaprabhṛtibhiśca kaiściddharmasūtrakāraiḥ svagrantheṣvāśritaḥ, tena tatpratiṣedhe yatno 'tīva kṛto nāṇvādikāraṇavādapratiṣedhe / te 'pi tu brahmakāraṇavādapakṣasya pratipakṣatvātpratiṣeddhavyāḥ / teṣāmapyupodvalakaṃ vaidikaṃ kiñcilliṅgamāpātena mandamatīnprati bhāyāditi / ataḥ pradhānamallanibarhaṇanyāyenātidiśati- etena pradhānakāraṇavādapratiṣedhanyāyakalāpena sarve 'ṇvādikāraṇavādā api pratiṣiddhatayā vyākhyātā veditavyāḥ / teṣāmapi pradhānavadaśabdatvācchabdavirodhitvācceti / vyākhyātā vyākhyātā iti padābhyāso 'dhyāyaparisamāptiṃ dyotayati // 28 // iti śrīmatparamahaṃsaparivrājakācāryaśrīmacchaṅkarabhagavatpūjyapādakṛtau śārīrakamīmāṃsābhāṣye prathamādhyāyasya caturthaḥ pādaḥ samāptaḥ // 4 // iti śrīmadbrahmasūtraśāṅ karabhāṣye samanvayākhyaḥ prathamo 'dhyāyaḥ // 1 //

Sanskrit only: no published translation is held for this verse.