Library·Badarayana: Brahmasutra, with Samkara's Sarirakamimamsabhasya·3·3.1

Badarayana: Brahmasutra, with Samkara's Sarirakamimamsabhasya 3.1

तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्तः प्रश्ननिरूपणाभ्याम् द्वितीये ऽध्याये स्मृतिन्यायविरोधो वेदान्तविहिते ब्रह्मदर्शने परिहृतः । परपक्षाणां चानपेक्षत्वं प्रपञ्चितम् । श्रुतिविप्रतिषेधश्च परिहृतः । तत्र च जीवव्यतिरिक्तानि तत्त्वानि जीवोपकरणानि ब्रह्मणो जायन्त इत्युक्तम् । अथेदानीमुपकरणोपहितस्य जीवस्य संसारगतिप्रकारस्तदवस्थान्तराणि ब्रह्मसतत्त्वं विद्याभेदाभेदौ गुणोपसंहारानुपसंहारौ सम्यग्दर्शनात्पुरुषार्थसिद्धिः सम्यग्दर्शनोपायविधिप्रभेदो मुक्तिफलानियमश्चेत्येतदर्थजातं तृतीये ऽध्याये निरूपयिष्यते प्रसङ्गागतं च किमप्यन्यत् । तत्र प्रथमे तावत्पादे पञ्चाग्निविद्यामाश्रित्य संसारगतिप्रभेदः प्रदर्श्यते वैराग्यहेतोः । ऽतस्माज्जुगुप्सेत्ऽ इति चान्ते श्रवणात् । जीवोमुख्यप्राणसचिवः सेन्द्रियः समनस्को ऽविद्याकर्मपूर्वप्रज्ञापरिग्रहः पूर्वदेहं विहाय देहान्तरं प्रतिपद्यत इत्येतदवगतम् । ऽअथैनमेते प्राणा अभिसमायन्तिऽ इत्येवमादेः ऽअन्यन्नवतरं कल्याणतरं रूपं कुरुतेऽ (बृ। ४।४।१।४) इत्येवमन्तात्संसारप्रकरणस्थाच्छब्दात् । धर्माधर्मफलोपभोगसंभवाच्च । स किं देहः बीजैर्भूतसूक्ष्मैरसंपरिष्वक्तो गच्छत्याहोस्वित्संपरिष्वक्त इति चिन्त्यते । किं तावत्प्राप्तम् । असंपरिष्वक्त इति । कुतः करणोपादानवद्भूतोपादानस्याश्रुतत्वात् । ऽस एतास्तेजोमात्राः समभ्याददानःऽ (बृ। ४।४।१) इति ह्यत्र तेजोमात्राशब्देन करणानामुपादानं संकीर्तयति । वाक्यशेषे चक्षुरादिसंकीर्तनात् । नैवं भूतमात्रोपादानसंकीर्तनमस्ति । सुलभाश्च सर्वत्र भूतमात्राः । यत्रैव देह आरब्धव्यस्तत्रैव सन्ति ततश्च तासां नयनं निष्प्रयोजनम् । तस्मादसंपरिष्वक्तो यातीति । एवं प्राप्ते पठत्याचार्यः - तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्त इति । तदन्तरप्रतिपत्तौ देहान्तरप्रतिपत्तौ देहबीजभूतैर्सूक्ष्मैः संपरिष्वक्तो रंहति गच्छतीत्यवगन्तव्यम् । कुतः - प्रश् ननिरूपणाभ्याम् । तथाहि प्रश् नः - ऽवेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तिऽ (छा। ५।३।३) इति । निरूपणं च प्रतिवचनं द्युपर्जन्यपृथिवीपुरुषयोषित्सु पञ्चस्वग्निषु श्रद्धासोमवृष्ट्यन्नरेतोरूपाः पञ्चाहुतिर्दर्शयित्वा ऽइति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तिऽ (छा। ५।९।१) इति । तस्मादद्भिः परिवेष्टितो जीवो रंहति व्रजतीति गम्यते । नन्वन्या श्रुतिर्जलूकावत्पूर्वदेहं न मुञ्चति यावन्न देहान्तरमाक्रमतीति दर्शयति- ऽतद्यथा तृणजलायुकाऽ (बृ। ४।४।३) इति । तत्राप्यप्परिवेष्टितस्यैव जीवस्य कर्मोपस्थापितप्रतिपत्तव्यदेहविषयभावनादीर्घीभावमात्रं जलूकस्योपमीयत इत्यव्रोधः । एवं श्रुत्युक्ते देहान्तरप्रतिपत्तिप्रकारे सति याः पुरुषमतिप्रभवाः कल्पना व्यापिनां करणानामात्मनश्च देहान्तरप्रतिपत्तौ कर्मलशाद्वृत्तिलाभस्तत्र भवति । केवलस्यैवात्मनो वृत्तिलाभस्तत्र भवति । इन्द्रियाणि तु देहवदभिनवान्येव तत्र तत्र भोगस्थान उत्पद्यन्ते । मन एव वा केवलं भोगस्थानमभिप्रतिष्ठेत । जीव एवोत्प्लुत्य देहाद्देहान्तरं प्रतिपद्यते शुक इव वृक्षाद्वृक्षान्तरम् । इत्येवमाद्याः सर्वा एवानादर्तव्याः श्रुतिविरोधात् ॥ १ ॥ ---------------------- फ़्न्: दर्शनोपायाः संन्यासादयः । प्रसङ्गगतं देहात्मदूषणम् । पञ्चसु द्युपर्जन्यपृथिवीपुरुषयोषित्स्वग्निध्यानं पञ्चाग्निविद्या । कर्म धर्माधर्माख्यं, पूर्वप्रज्ञा जन्मान्तरसंस्कारः । भावनाया दीर्घीभावो भाविदेहविषयत्वम् । केवलेति सौगतकल्पनम् । मन इति वैशेषिककल्पनम् । जीव इति दिगम्बरकल्पनम् । लोकायतकल्पनामाद्यग्रहणेन संगृह्यति । ननूदाहृताभ्यां प्रश् नप्रतिवचनाभ्यां केवलाभिरद्भिः संपरिष्वक्तो रंहतीति प्राप्नोति । अपशब्दश्रवणसामर्थ्यात् । तत्र कथं सामान्येन प्रतिज्ञायते सर्वैरेव भूतसूक्ष्मैः संपरिष्वक्तो रंहतीति । अत उत्तरं पठति-

tadantarapratipattau raṃhati saṃpariṣvaktaḥ praśnanirūpaṇābhyām dvitīye 'dhyāye smṛtinyāyavirodho vedāntavihite brahmadarśane parihṛtaḥ / parapakṣāṇāṃ cānapekṣatvaṃ prapañcitam / śrutivipratiṣedhaśca parihṛtaḥ / tatra ca jīvavyatiriktāni tattvāni jīvopakaraṇāni brahmaṇo jāyanta ityuktam / athedānīmupakaraṇopahitasya jīvasya saṃsāragatiprakārastadavasthāntarāṇi brahmasatattvaṃ vidyābhedābhedau guṇopasaṃhārānupasaṃhārau samyagdarśanātpuruṣārthasiddhiḥ samyagdarśanopāyavidhiprabhedo muktiphalāniyamaścetyetadarthajātaṃ tṛtīye 'dhyāye nirūpayiṣyate prasaṅgāgataṃ ca kimapyanyat / tatra prathame tāvatpāde pañcāgnividyāmāśritya saṃsāragatiprabhedaḥ pradarśyate vairāgyahetoḥ / 'tasmājjugupset' iti cānte śravaṇāt / jīvomukhyaprāṇasacivaḥ sendriyaḥ samanasko 'vidyākarmapūrvaprajñāparigrahaḥ pūrvadehaṃ vihāya dehāntaraṃ pratipadyata ityetadavagatam / 'athainamete prāṇā abhisamāyanti' ityevamādeḥ 'anyannavataraṃ kalyāṇataraṃ rūpaṃ kurute' (bṛ. 4.4.1.4) ityevamantātsaṃsāraprakaraṇasthācchabdāt / dharmādharmaphalopabhogasaṃbhavācca / sa kiṃ dehaḥ bījairbhūtasūkṣmairasaṃpariṣvakto gacchatyāhosvitsaṃpariṣvakta iti cintyate / kiṃ tāvatprāptam / asaṃpariṣvakta iti / kutaḥ karaṇopādānavadbhūtopādānasyāśrutatvāt / 'sa etāstejomātrāḥ samabhyādadānaḥ' (bṛ. 4.4.1) iti hyatra tejomātrāśabdena karaṇānāmupādānaṃ saṃkīrtayati / vākyaśeṣe cakṣurādisaṃkīrtanāt / naivaṃ bhūtamātropādānasaṃkīrtanamasti / sulabhāśca sarvatra bhūtamātrāḥ / yatraiva deha ārabdhavyastatraiva santi tataśca tāsāṃ nayanaṃ niṣprayojanam / tasmādasaṃpariṣvakto yātīti / evaṃ prāpte paṭhatyācāryaḥ - tadantarapratipattau raṃhati saṃpariṣvakta iti / tadantarapratipattau dehāntarapratipattau dehabījabhūtairsūkṣmaiḥ saṃpariṣvakto raṃhati gacchatītyavagantavyam / kutaḥ - praś nanirūpaṇābhyām / tathāhi praś naḥ - 'vettha yathā pañcamyāmāhutāvāpaḥ puruṣavacaso bhavanti' (chā. 5.3.3) iti / nirūpaṇaṃ ca prativacanaṃ dyuparjanyapṛthivīpuruṣayoṣitsu pañcasvagniṣu śraddhāsomavṛṣṭyannaretorūpāḥ pañcāhutirdarśayitvā 'iti tu pañcamyāmāhutāvāpaḥ puruṣavacaso bhavanti' (chā. 5.9.1) iti / tasmādadbhiḥ pariveṣṭito jīvo raṃhati vrajatīti gamyate / nanvanyā śrutirjalūkāvatpūrvadehaṃ na muñcati yāvanna dehāntaramākramatīti darśayati- 'tadyathā tṛṇajalāyukā' (bṛ. 4.4.3) iti / tatrāpyappariveṣṭitasyaiva jīvasya karmopasthāpitapratipattavyadehaviṣayabhāvanādīrghībhāvamātraṃ jalūkasyopamīyata ityavrodhaḥ / evaṃ śrutyukte dehāntarapratipattiprakāre sati yāḥ puruṣamatiprabhavāḥ kalpanā vyāpināṃ karaṇānāmātmanaśca dehāntarapratipattau karmalaśādvṛttilābhastatra bhavati / kevalasyaivātmano vṛttilābhastatra bhavati / indriyāṇi tu dehavadabhinavānyeva tatra tatra bhogasthāna utpadyante / mana eva vā kevalaṃ bhogasthānamabhipratiṣṭheta / jīva evotplutya dehāddehāntaraṃ pratipadyate śuka iva vṛkṣādvṛkṣāntaram / ityevamādyāḥ sarvā evānādartavyāḥ śrutivirodhāt // 1 // ---------------------- FN: darśanopāyāḥ saṃnyāsādayaḥ / prasaṅgagataṃ dehātmadūṣaṇam / pañcasu dyuparjanyapṛthivīpuruṣayoṣitsvagnidhyānaṃ pañcāgnividyā / karma dharmādharmākhyaṃ, pūrvaprajñā janmāntarasaṃskāraḥ / bhāvanāyā dīrghībhāvo bhāvidehaviṣayatvam / kevaleti saugatakalpanam / mana iti vaiśeṣikakalpanam / jīva iti digambarakalpanam / lokāyatakalpanāmādyagrahaṇena saṃgṛhyati / nanūdāhṛtābhyāṃ praś naprativacanābhyāṃ kevalābhiradbhiḥ saṃpariṣvakto raṃhatīti prāpnoti / apaśabdaśravaṇasāmarthyāt / tatra kathaṃ sāmānyena pratijñāyate sarvaireva bhūtasūkṣmaiḥ saṃpariṣvakto raṃhatīti / ata uttaraṃ paṭhati-

Sanskrit only: no published translation is held for this verse.

त्र्यात्मकत्वात् तु भूयस्त्वात् तुशब्देन चोदितामाशङ्कमुच्छिनत्ति । त्र्यात्मिका ह्यापस्त्रिवृत्करणश्रुतेः । तास्वारम्भिकास्वाभ्युपगतास्वितरदपि भूतद्वयमवश्यमभ्युपगन्तव्यं भवति । त्र्यात्मकश्च देहस्त्रयाणामपि तेजोबन्नानां तस्मिन्कार्योपलब्धेः । पुनश्च त्र्यात्मकस्त्रिधातुत्वात्त्रिभिर्वातपित्तश्लेष्माभिः । न स भूतान्तराणि प्रत्याख्याय केवलाभिरद्भिरारब्धुं शक्यते । तस्माद्भूयस्त्वापेक्षो ऽयमापः पुरुषवचस इति । प्रश् नप्रतिवचनयोरप्शब्दो न कैवल्यापेक्षः । सर्वदेहेषु हि रसलोहितादिद्रवद्रव्यभूयस्त्वं दृश्यते । ननु पार्थिवो धातुर्भूयिष्ठो देहेषूपलक्ष्यते । नैष दोषः । इतरापेक्षयाप्यपा बाहुल्यं भविष्यति । दृश्यते च शुक्रशोणितलक्षणे ऽपि देहबीजे द्रवबाहुल्यम् । कर्म च निमित्तकारणं देहान्तरारम्भे । कर्माणि चाग्निहोत्रादीनि सोमाज्यपयःप्रभृतिद्रवद्रव्यव्यपाश्रयाणि । कर्मसमवायिश्चापः श्रद्धाशब्दोदिताः सह कर्मभिर्द्युलोकाख्ये ऽग्नौ हूयन्त इति वक्ष्यति । तस्मादप्यपां बाहुल्यप्रसिद्धिः । बाहुल्याच्चाप्शब्देन सर्वेषामेव देहबीजानां भूतसूक्ष्माणामुपादानमिति निरवद्यम् ॥ २ ॥

tryātmakatvāt tu bhūyastvāt tuśabdena coditāmāśaṅkamucchinatti / tryātmikā hyāpastrivṛtkaraṇaśruteḥ / tāsvārambhikāsvābhyupagatāsvitaradapi bhūtadvayamavaśyamabhyupagantavyaṃ bhavati / tryātmakaśca dehastrayāṇāmapi tejobannānāṃ tasminkāryopalabdheḥ / punaśca tryātmakastridhātutvāttribhirvātapittaśleṣmābhiḥ / na sa bhūtāntarāṇi pratyākhyāya kevalābhiradbhirārabdhuṃ śakyate / tasmādbhūyastvāpekṣo 'yamāpaḥ puruṣavacasa iti / praś naprativacanayorapśabdo na kaivalyāpekṣaḥ / sarvadeheṣu hi rasalohitādidravadravyabhūyastvaṃ dṛśyate / nanu pārthivo dhāturbhūyiṣṭho deheṣūpalakṣyate / naiṣa doṣaḥ / itarāpekṣayāpyapā bāhulyaṃ bhaviṣyati / dṛśyate ca śukraśoṇitalakṣaṇe 'pi dehabīje dravabāhulyam / karma ca nimittakāraṇaṃ dehāntarārambhe / karmāṇi cāgnihotrādīni somājyapayaḥprabhṛtidravadravyavyapāśrayāṇi / karmasamavāyiścāpaḥ śraddhāśabdoditāḥ saha karmabhirdyulokākhye 'gnau hūyanta iti vakṣyati / tasmādapyapāṃ bāhulyaprasiddhiḥ / bāhulyāccāpśabdena sarveṣāmeva dehabījānāṃ bhūtasūkṣmāṇāmupādānamiti niravadyam // 2 //

Sanskrit only: no published translation is held for this verse.

प्राणगतेश् च प्राणानां च देहान्तरप्रतिपत्तौ गतिः श्राव्यते- ऽतमुत्क्रामन्तं प्राणो ऽनूत्क्रामति प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्तिऽ (बृ। ४।४।२) इत्यादिश्रुतिभिः । सा च प्राणानां गतिर्नाश्रयमन्तरेण संभवतीत्यतः प्राणगतिप्रयुक्ता तदाश्रयभूतानामपापमपि भूतान्तरोपसृष्टानां गतिरवगम्यते । नहि निराश्रयाः प्राणाः क्वचिद्गच्छन्ति तिष्ठन्ति वा जीवतो दर्शनात् ॥ ३ ॥

prāṇagateś ca prāṇānāṃ ca dehāntarapratipattau gatiḥ śrāvyate- 'tamutkrāmantaṃ prāṇo 'nūtkrāmati prāṇamanūtkrāmantaṃ sarve prāṇā anūtkrāmanti' (bṛ. 4.4.2) ityādiśrutibhiḥ / sā ca prāṇānāṃ gatirnāśrayamantareṇa saṃbhavatītyataḥ prāṇagatiprayuktā tadāśrayabhūtānāmapāpamapi bhūtāntaropasṛṣṭānāṃ gatiravagamyate / nahi nirāśrayāḥ prāṇāḥ kvacidgacchanti tiṣṭhanti vā jīvato darśanāt // 3 //

Sanskrit only: no published translation is held for this verse.

अग्न्यादिगतिश्रुतेर् इति चेन् न भाक्तत्वात् स्यादेतत् । नैव प्राणा देहान्तरप्रतिपत्तौ सह जीवेन गच्छन्ति अग्न्यादिगतिश्रुतेः । तथाहि श्रुतिर्मरणकाले वागादयः प्राणा अग्न्यादीन्देवागच्छतीति दर्शयति- ऽयत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति वातं प्राणःऽ (बृ। ३।२।१३) इत्यादिनेति चेत् । न । भाक्तत्वात् । वागादीनामग्न्यादिगतिश्रुतिर्गौणी केशेषु चादर्शनात् । ऽओषधीर्लोमानि वनस्पतीन्केशाःऽ (बृ। ३।२।१३) इति हि तत्राम्नायते । नहि लोमानि केशाश्चोत्प्लुत्यौषधीर्वनस्पतींश्च गच्छन्तीति संभवति । नच जीवस्य प्राणोपाधिप्रत्याख्याने गमनमवकल्प्यते । नापि प्राणैर्विना देहान्तर उपभोग उपपद्यते । विस्पष्टं च प्राणानां सह जीवेन गमनमन्यत्र श्रावितम् । अतो वागाद्यधिष्ठात्रीणामग्न्यादिदेवतानां वागाद्युपकारिणीनां मरणकाल उपकारनिवृत्तिमात्रमपेक्ष्य वागादयो ऽग्न्यादीन्गच्छन्तीत्युपचर्यते ॥ ४ ॥ ---------------------- फ़्न्: अन्यत्र तमुत्क्रामन्तमित्यादौ ।

agnyādigatiśruter iti cen na bhāktatvāt syādetat / naiva prāṇā dehāntarapratipattau saha jīvena gacchanti agnyādigatiśruteḥ / tathāhi śrutirmaraṇakāle vāgādayaḥ prāṇā agnyādīndevāgacchatīti darśayati- 'yatrāsya puruṣasya mṛtasyāgniṃ vāgapyeti vātaṃ prāṇaḥ' (bṛ. 3.2.13) ityādineti cet / na / bhāktatvāt / vāgādīnāmagnyādigatiśrutirgauṇī keśeṣu cādarśanāt / 'oṣadhīrlomāni vanaspatīnkeśāḥ' (bṛ. 3.2.13) iti hi tatrāmnāyate / nahi lomāni keśāścotplutyauṣadhīrvanaspatīṃśca gacchantīti saṃbhavati / naca jīvasya prāṇopādhipratyākhyāne gamanamavakalpyate / nāpi prāṇairvinā dehāntara upabhoga upapadyate / vispaṣṭaṃ ca prāṇānāṃ saha jīvena gamanamanyatra śrāvitam / ato vāgādyadhiṣṭhātrīṇāmagnyādidevatānāṃ vāgādyupakāriṇīnāṃ maraṇakāla upakāranivṛttimātramapekṣya vāgādayo 'gnyādīngacchantītyupacaryate // 4 // ---------------------- FN: anyatra tamutkrāmantamityādau /

Sanskrit only: no published translation is held for this verse.

प्रथमे ऽश्रवणाद् इति चेन् न ता एव ह्य् उपपत्तेः स्यादेतत् । कथं पुनः ऽपञ्चम्यामाहुतावापः पुरुषवचसो भवन्तिऽ (छा। ५।३।३) इत्येतन्निर्धारयितुं पार्यते । यावता नैव प्रथमे ऽग्नावपां श्रवणमस्ति । इह हि द्युलोकप्रभृतयः पञ्चाग्नयः पञ्चानामाहुतीनामादारत्वेनाधीताः । तेषां च प्रमुखे ऽअसौ वाव लोको गौतमाग्निःऽ (छा। ५।४।१) इत्युपक्रम्य ऽतस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वतिऽ (छा। ५।४।२) इति श्रद्धा हौम्यद्रव्यत्वेनावेदिता । न तत्रापो हौम्यद्रव्यतया श्रुताः । यदि नाम पर्जन्यादिषूत्तरेषु चतुर्ष्वग्निष्वपां हौम्यद्रव्यता परिकल्प्येत परिकल्प्यतां नाम । तेषु होतव्यतयोपात्तानां सोमादीनामब्बहुलत्वोपपत्तेः । प्रथमे त्वग्नौ श्रुतां श्रद्धां परित्यज्याश्रुता आपः परिकल्प्यन्त इति साहसमेतत् । श्रद्धा च नाम प्रत्ययविशेषः प्रसिद्धिसामर्थ्यात् । तस्मादयुक्तः पञ्चम्याहुतावपां पुरुषभाव इति चेत् । नैष दोषः । यतस्तत्रापि प्रथमे ऽग्नौ ता एवापः श्रद्धाशब्देनाभिप्रेयन्ते । कुतः उपपत्तेः । एवंह्यादिमध्यावसानसंगानादनाकुलमेतदेकवाक्यमुपपद्यते । इतरथा पुनः पञ्चम्यामाहुतावपां पुरुषवचस्त्वप्रकारे पृष्टे प्रतिवचनावसरे प्रथमाहुतिस्थाने यद्यनपो हौम्यद्रव्यं श्रद्धां नामावतारयेत्ततो ऽन्यथा प्रश्नो ऽन्यथा प्रतिवचनमित्येकवाक्यता न स्यात् । ऽइति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तिऽ इति चोपसंहरन्नेतदेव दर्शयति । श्रद्धाकार्यं च सोमवृष्ट्यादि स्थूलीभवदब्बहुलं लक्ष्यते । सा च श्रद्धाया अप्त्वे युक्तिः । कारणानुरूपं हि कार्यं भवति । नच श्रद्धाख्यः प्रत्ययो मनसो जीवस्य वा धर्मः सन्धर्मिणो निष्कृष्य होमायोषादातुं शक्यते पश्वादिभ्य इव हृदयादीनित्याप एव श्रद्धाशब्दा भवेयुः । श्रद्धाशब्दश्चाप्सूपपद्यते, वैदिकप्रयोगदर्शनात् ऽश्रद्धा वा आपःऽ इति । तनुत्वं श्रद्धासारूप्यं गच्छन्त्य आपो देहबीजभूता इत्यतः श्रद्धाशब्दाः स्युः । यथा सिंहपराक्रमो नरः सिंहशब्दो भवति । श्रद्धापूर्वककर्मसमवायाच्चाप्सु श्रद्धाशब्द उपपद्यते, मञ्चशब्द इव पुरुषेषु । श्रद्धाहेतुत्वाच्च श्रद्धाशब्दोपपत्तिः ऽअपो हास्मै श्रद्धां संनमन्ते पुण्याय कर्मणेऽ इति श्रुतेः ॥ ५ ॥ ---------------------- फ़्न्: संगानं तमुत्क्रामन्तमित्यादौ । अनपः अब्द्यो ऽन्यतः । अस्मै यजमानाय । संनमन्ते जनयन्ति ।

prathame 'śravaṇād iti cen na tā eva hy upapatteḥ syādetat / kathaṃ punaḥ 'pañcamyāmāhutāvāpaḥ puruṣavacaso bhavanti' (chā. 5.3.3) ityetannirdhārayituṃ pāryate / yāvatā naiva prathame 'gnāvapāṃ śravaṇamasti / iha hi dyulokaprabhṛtayaḥ pañcāgnayaḥ pañcānāmāhutīnāmādāratvenādhītāḥ / teṣāṃ ca pramukhe 'asau vāva loko gautamāgniḥ' (chā. 5.4.1) ityupakramya 'tasminnetasminnagnau devāḥ śraddhāṃ juhvati' (chā. 5.4.2) iti śraddhā haumyadravyatvenāveditā / na tatrāpo haumyadravyatayā śrutāḥ / yadi nāma parjanyādiṣūttareṣu caturṣvagniṣvapāṃ haumyadravyatā parikalpyeta parikalpyatāṃ nāma / teṣu hotavyatayopāttānāṃ somādīnāmabbahulatvopapatteḥ / prathame tvagnau śrutāṃ śraddhāṃ parityajyāśrutā āpaḥ parikalpyanta iti sāhasametat / śraddhā ca nāma pratyayaviśeṣaḥ prasiddhisāmarthyāt / tasmādayuktaḥ pañcamyāhutāvapāṃ puruṣabhāva iti cet / naiṣa doṣaḥ / yatastatrāpi prathame 'gnau tā evāpaḥ śraddhāśabdenābhipreyante / kutaḥ upapatteḥ / evaṃhyādimadhyāvasānasaṃgānādanākulametadekavākyamupapadyate / itarathā punaḥ pañcamyāmāhutāvapāṃ puruṣavacastvaprakāre pṛṣṭe prativacanāvasare prathamāhutisthāne yadyanapo haumyadravyaṃ śraddhāṃ nāmāvatārayettato 'nyathā praśno 'nyathā prativacanamityekavākyatā na syāt / 'iti tu pañcamyāmāhutāvāpaḥ puruṣavacaso bhavanti' iti copasaṃharannetadeva darśayati / śraddhākāryaṃ ca somavṛṣṭyādi sthūlībhavadabbahulaṃ lakṣyate / sā ca śraddhāyā aptve yuktiḥ / kāraṇānurūpaṃ hi kāryaṃ bhavati / naca śraddhākhyaḥ pratyayo manaso jīvasya vā dharmaḥ sandharmiṇo niṣkṛṣya homāyoṣādātuṃ śakyate paśvādibhya iva hṛdayādīnityāpa eva śraddhāśabdā bhaveyuḥ / śraddhāśabdaścāpsūpapadyate, vaidikaprayogadarśanāt 'śraddhā vā āpaḥ' iti / tanutvaṃ śraddhāsārūpyaṃ gacchantya āpo dehabījabhūtā ityataḥ śraddhāśabdāḥ syuḥ / yathā siṃhaparākramo naraḥ siṃhaśabdo bhavati / śraddhāpūrvakakarmasamavāyāccāpsu śraddhāśabda upapadyate, mañcaśabda iva puruṣeṣu / śraddhāhetutvācca śraddhāśabdopapattiḥ 'apo hāsmai śraddhāṃ saṃnamante puṇyāya karmaṇe' iti śruteḥ // 5 // ---------------------- FN: saṃgānaṃ tamutkrāmantamityādau / anapaḥ abdyo 'nyataḥ / asmai yajamānāya / saṃnamante janayanti /

Sanskrit only: no published translation is held for this verse.

अश्रुतत्वाद् इति चेन् नेष्टादिकारिणां प्रतीतेः अथापि स्यात्प्रतिवचनाभ्यां नामापः श्रद्धादिक्रमेण पञ्चम्यामाहुतौ पुरुषाकारं प्रतिपद्येरन् । नतु तत्संपरिष्वक्ता जीवा रंहेयुः । अश्रुतत्वात् । नह्यत्रापामिव जीवानां श्रावयिता कश्चिच्छब्दो ऽस्ति । तस्माद्रंहति संपरिष्वक्त इत्ययुक्तमिति चेत् । नैष दोषः । कुतः - इष्टादिकारिणां प्रतीतेः । ऽअथ य इमे ग्राम इष्टापूर्ते दत्तमित्युपासते ते धूममभिसंभवन्तिऽ (छा। ५।१०।६) इत्युपक्रम्येष्टादिकारिणां धूमादिना पितृयाणेन पथा चन्द्रप्राप्तिं कथयति- ऽआकाशाच्चन्द्रमसमेष सोमो राजाऽ (छा। ५।१०।४) इति । त एवेहापि प्रतीयन्ते ऽतस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति तस्या आहुतेः सोमो राजा संभवतिऽ (छा। ५।४।२) इति श्रुतिसामान्यात् । तेषां चाग्निहोत्रादर्शपूर्णमासादिकर्मसाधनभूता दधिपयःप्रभृतयो द्रवद्रव्यभूयस्त्वात्प्रत्यक्षमेवापः सन्ति । तां आहवनीये हुताः सूक्ष्मा आहुत्यो ऽपूर्वरूपाः सत्यस्तानिष्टादिकारिण आश्रयन्ति । तेषां च शरीरं नैधनेन विधानेनान्त्ये ऽग्रावृत्विजो जुह्वति ऽअसौ स्वर्गाय लोकाय स्वाहाऽ इति । ततस्ताः श्रद्धापूर्वककर्मसमवायिन्य आहुतिमय्य आपो ऽपूर्वरूपाः सत्यस्तानिष्टादिकारिणो जीवान्परिवेष्टयामुं लोकं फलदानाय नयन्तीति यत्तदत्र जुहोतिनाभिधीयते- ऽश्रद्धां जुह्वतिऽ (बृ। ६।२।९) इति । तथाचाग्निहोत्रे षट्प्रश्नीनिर्वचनरूपेण वाक्यशेषेण ऽते वा एते आहुती हुते उत्क्रामतःऽ इत्येवमादिनाग्निहोत्राहुत्योः फलारम्भाय लोकान्तरप्राप्तिः प्रदर्शिता । तस्मादाहुतीमयीभिरद्भिः संपरिष्वक्ता जीवा रंहन्ति स्वकर्मफलोपभोगायेति श्लिष्यते ॥ ६ ॥ ---------------------- फ़्न्: नैधनेन अन्त्येष्ट्याख्येन । असौ स्वर्गाय गच्छत्विति मन्त्रार्थः । कथं पुनरिदमिष्टादिकारिणां स्वकर्मफलोपभोगाय रंहणं प्रतिज्ञायते । यावता तेषां धूमप्रतीकेन वर्त्मना चन्द्रमसमधिरूढानामन्नभावं दर्शयति- ऽएष सोमो राजा तद्देवानामन्नं ते देवा भक्षयन्तिऽ (छा। ५।१०।४) इति ऽते चन्द्रं प्राप्यान्नं भवन्ति तांस्तत्र देवा यथा सोमं राजानमप्यायस्वापक्षीयस्वेत्येवमेनांस्तत्र भक्षयन्तिऽ (बृ। ६।२।१६) इति च समानविषयं श्रुत्यन्तरम् । नच व्याघ्रादिभिरिव देवैर्भक्ष्यमाणानामुपभोगः संभवतीति । अत उत्तरं पठति-

aśrutatvād iti cen neṣṭādikāriṇāṃ pratīteḥ athāpi syātprativacanābhyāṃ nāmāpaḥ śraddhādikrameṇa pañcamyāmāhutau puruṣākāraṃ pratipadyeran / natu tatsaṃpariṣvaktā jīvā raṃheyuḥ / aśrutatvāt / nahyatrāpāmiva jīvānāṃ śrāvayitā kaścicchabdo 'sti / tasmādraṃhati saṃpariṣvakta ityayuktamiti cet / naiṣa doṣaḥ / kutaḥ - iṣṭādikāriṇāṃ pratīteḥ / 'atha ya ime grāma iṣṭāpūrte dattamityupāsate te dhūmamabhisaṃbhavanti' (chā. 5.10.6) ityupakramyeṣṭādikāriṇāṃ dhūmādinā pitṛyāṇena pathā candraprāptiṃ kathayati- 'ākāśāccandramasameṣa somo rājā' (chā. 5.10.4) iti / ta evehāpi pratīyante 'tasminnetasminnagnau devāḥ śraddhāṃ juhvati tasyā āhuteḥ somo rājā saṃbhavati' (chā. 5.4.2) iti śrutisāmānyāt / teṣāṃ cāgnihotrādarśapūrṇamāsādikarmasādhanabhūtā dadhipayaḥprabhṛtayo dravadravyabhūyastvātpratyakṣamevāpaḥ santi / tāṃ āhavanīye hutāḥ sūkṣmā āhutyo 'pūrvarūpāḥ satyastāniṣṭādikāriṇa āśrayanti / teṣāṃ ca śarīraṃ naidhanena vidhānenāntye 'grāvṛtvijo juhvati 'asau svargāya lokāya svāhā' iti / tatastāḥ śraddhāpūrvakakarmasamavāyinya āhutimayya āpo 'pūrvarūpāḥ satyastāniṣṭādikāriṇo jīvānpariveṣṭayāmuṃ lokaṃ phaladānāya nayantīti yattadatra juhotinābhidhīyate- 'śraddhāṃ juhvati' (bṛ. 6.2.9) iti / tathācāgnihotre ṣaṭpraśnīnirvacanarūpeṇa vākyaśeṣeṇa 'te vā ete āhutī hute utkrāmataḥ' ityevamādināgnihotrāhutyoḥ phalārambhāya lokāntaraprāptiḥ pradarśitā / tasmādāhutīmayībhiradbhiḥ saṃpariṣvaktā jīvā raṃhanti svakarmaphalopabhogāyeti śliṣyate // 6 // ---------------------- FN: naidhanena antyeṣṭyākhyena / asau svargāya gacchatviti mantrārthaḥ / kathaṃ punaridamiṣṭādikāriṇāṃ svakarmaphalopabhogāya raṃhaṇaṃ pratijñāyate / yāvatā teṣāṃ dhūmapratīkena vartmanā candramasamadhirūḍhānāmannabhāvaṃ darśayati- 'eṣa somo rājā taddevānāmannaṃ te devā bhakṣayanti' (chā. 5.10.4) iti 'te candraṃ prāpyānnaṃ bhavanti tāṃstatra devā yathā somaṃ rājānamapyāyasvāpakṣīyasvetyevamenāṃstatra bhakṣayanti' (bṛ. 6.2.16) iti ca samānaviṣayaṃ śrutyantaram / naca vyāghrādibhiriva devairbhakṣyamāṇānāmupabhogaḥ saṃbhavatīti / ata uttaraṃ paṭhati-

Sanskrit only: no published translation is held for this verse.

भाक्तं वानात्मवित्त्वात् तथा हि दर्शयति वाशब्दश्चोदितदोषव्यावर्तनार्थः । भाक्तमेषामन्नत्वं न मुख्यम् । मुख्ये ह्यन्नत्वे स्वर्गकामो यजेत इत्येवञ्जातीयकाधिकारश्रुतिरुपपध्येत । चन्द्रमण्डले चेदिष्टादिकारिणामुपभोगो न स्यात्किमर्थमधिकारिण इष्टाद्यायासबहुलं कर्म कुर्युः । अन्नशब्दश्चोपभोगहेतुत्वसामान्यादन्ने ऽप्युपचर्यमाणो दृश्यते । यथा विशो ऽन्नं राज्ञां पशवो ऽन्नं विशामिति । तस्मादिष्टस्त्रीपुत्रमित्रभृत्यादिभिरिव गुणभावोपगतैरिष्टादिकारिभिर्यत्सुखविहरणं देवानां तदैवेषां भक्षणमभिप्रेतं न मोदकादिवच्चर्वणं निगरणं वा । ऽन ह वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्तिऽ (छा। ३।६।१) इति च देवानां चर्वणादिव्यापारं वारयति । तेषां चेष्टादिकारिणां देवान्प्रति गुणभावोपगतानामप्युपभोग उपपद्यते राजोपजीविनामिव परिजनानाम् । अनात्मवित्त्वाच्चेष्टादिकारिणां देवोपभोग्यभाव उपपद्यते । तथाहि श्रुतिरनात्मविदां देवोपभोग्यतां दर्शयति- ऽअथ यो ऽन्यां देवतामुपास्ते ऽन्यो ऽसावन्यो ऽहमस्मीति न स वेद यथा पशुरेवं स देवानाम्ऽ (बृ। १।४।१०) इति । स चास्मिन्नपि लोक इष्टादिभिः कर्मभिः प्रीमन्पशुवद्देवानामुपकरोतीति लोके तदुपजीवी तदादिष्टं फलमुपभुञ्जानः पशुवद्देवानामुपकरोतीति गम्यते ॥ अनात्मवित्त्वात्तथाहि दर्शयतीत्यस्यापरा व्याख्या- अनात्मविदो ह्येते केवलकर्मिणैष्टादिकारिणो न ज्ञानकर्मसमुच्चयानुष्ठायिनः । पञ्चाग्निविद्यामिहात्मविद्येत्युपचरन्ति प्रकरणात् । पञ्चाग्निविज्ञानविहीनत्वाच्चेदमिष्टादिकारिणां गुणवादेनान्नत्वमुद्भाव्यते पञ्चाग्निविज्ञानप्रशंसायै । पञ्चाग्निविद्या हीह विधित्सिता । वाक्यतात्पर्यावगमात् । तथाहि श्रुत्यन्तरं चन्द्रमण्डले भोगसद्भावं दर्शयति- ऽस सोमलोके विभूतिमनुभूय पुनरावर्ततेऽ (प्र। ५।४) इति । तथान्यदपि श्रुत्यन्तरम् ऽअथ ये शतं पितृणां जितलोलोकानामानन्दाः स एकः कर्मदेवनामानन्दो ये कर्मणा देवत्वमभिसंपद्यतेऽ (बृ। ४।३।३३) इतीष्टादिकारिणां देवैः संवसतां भोगप्राप्तिं दर्शयति । एवं भाक्तत्वादन्नभाववचनस्येष्टादिकारिणो ऽत्र जीवारंहन्तीति प्रतीयते । तस्माद्रंहति संपरिष्वक्त इति युक्तमेवोक्तम् ॥ ७ ॥ ---------------------- फ़्न्: अधिक्रियते पुरुषो विधिना संबध्यते ऽनेनेत्यधिकारः फलकामना । यथा पशुर्भोग्य एवमज्ञः न भेदधीमान्देवानां भोग्य इत्यर्थः । २ कृतात्ययाधिकरणम् । सू। ८-११

bhāktaṃ vānātmavittvāt tathā hi darśayati vāśabdaścoditadoṣavyāvartanārthaḥ / bhāktameṣāmannatvaṃ na mukhyam / mukhye hyannatve svargakāmo yajeta ityevañjātīyakādhikāraśrutirupapadhyeta / candramaṇḍale cediṣṭādikāriṇāmupabhogo na syātkimarthamadhikāriṇa iṣṭādyāyāsabahulaṃ karma kuryuḥ / annaśabdaścopabhogahetutvasāmānyādanne 'pyupacaryamāṇo dṛśyate / yathā viśo 'nnaṃ rājñāṃ paśavo 'nnaṃ viśāmiti / tasmādiṣṭastrīputramitrabhṛtyādibhiriva guṇabhāvopagatairiṣṭādikāribhiryatsukhaviharaṇaṃ devānāṃ tadaiveṣāṃ bhakṣaṇamabhipretaṃ na modakādivaccarvaṇaṃ nigaraṇaṃ vā / 'na ha vai devā aśnanti na pibantyetadevāmṛtaṃ dṛṣṭvā tṛpyanti' (chā. 3.6.1) iti ca devānāṃ carvaṇādivyāpāraṃ vārayati / teṣāṃ ceṣṭādikāriṇāṃ devānprati guṇabhāvopagatānāmapyupabhoga upapadyate rājopajīvināmiva parijanānām / anātmavittvācceṣṭādikāriṇāṃ devopabhogyabhāva upapadyate / tathāhi śrutiranātmavidāṃ devopabhogyatāṃ darśayati- 'atha yo 'nyāṃ devatāmupāste 'nyo 'sāvanyo 'hamasmīti na sa veda yathā paśurevaṃ sa devānām' (bṛ. 1.4.10) iti / sa cāsminnapi loka iṣṭādibhiḥ karmabhiḥ prīmanpaśuvaddevānāmupakarotīti loke tadupajīvī tadādiṣṭaṃ phalamupabhuñjānaḥ paśuvaddevānāmupakarotīti gamyate // anātmavittvāttathāhi darśayatītyasyāparā vyākhyā- anātmavido hyete kevalakarmiṇaiṣṭādikāriṇo na jñānakarmasamuccayānuṣṭhāyinaḥ / pañcāgnividyāmihātmavidyetyupacaranti prakaraṇāt / pañcāgnivijñānavihīnatvāccedamiṣṭādikāriṇāṃ guṇavādenānnatvamudbhāvyate pañcāgnivijñānapraśaṃsāyai / pañcāgnividyā hīha vidhitsitā / vākyatātparyāvagamāt / tathāhi śrutyantaraṃ candramaṇḍale bhogasadbhāvaṃ darśayati- 'sa somaloke vibhūtimanubhūya punarāvartate' (pra. 5.4) iti / tathānyadapi śrutyantaram 'atha ye śataṃ pitṛṇāṃ jitalolokānāmānandāḥ sa ekaḥ karmadevanāmānando ye karmaṇā devatvamabhisaṃpadyate' (bṛ. 4.3.33) itīṣṭādikāriṇāṃ devaiḥ saṃvasatāṃ bhogaprāptiṃ darśayati / evaṃ bhāktatvādannabhāvavacanasyeṣṭādikāriṇo 'tra jīvāraṃhantīti pratīyate / tasmādraṃhati saṃpariṣvakta iti yuktamevoktam // 7 // ---------------------- FN: adhikriyate puruṣo vidhinā saṃbadhyate 'nenetyadhikāraḥ phalakāmanā / yathā paśurbhogya evamajñaḥ na bhedadhīmāndevānāṃ bhogya ityarthaḥ / 2 kṛtātyayādhikaraṇam / sū. 8-11

Sanskrit only: no published translation is held for this verse.

कृतात्यये ऽनुशयवान् दृष्टस्मृतिभ्यां यथेतमनेवं च इष्टादिकारिणां धूमादिना वर्त्मना चन्द्रमण्डलमधिरूढानां भुक्तभोगानां ततः प्रत्यवरोह आम्नायते- ऽतस्मिन्यावत्संपातमुषित्वाथैतमेवाध्वां पुनर्निवर्तन्ते तथेतम्ऽ (छा। ५।१०।५) इत्यारभ्य यावद्रमणीयचरणा ब्राह्मणादियोनिमापद्यन्ते कपूयचरणाः श्वादियोनिमिति । तत्रेदं विचार्यते- किं निरनुशया भुक्तकृत्स्नकर्माणो ऽवरोहन्त्याहोस्वित्सानुशया इति । किं तावत्प्राप्तम् । निरनुशया इति । कुतः - यावत्संपातमिति विशेषणात् । संपातशब्देनात्र कर्माशय उच्यते- संपतन्त्यनेनास्माल्लोकादमुं लोकं फलोपभोगायेति । यावत्संपातमुषित्वेति च कृत्स्नस्य तस्य कृतस्य तत्रैव भुक्ततां दर्शयति । तेषां यदा तत्पर्यवेतिऽ (बृ। ६।२।१६) इति च श्रुत्यन्तरेणैव एवार्थः प्रदर्श्यते । स्यादेतत् । यावदमुष्मिंल्लोक उपभोक्तव्यं कर्म तावदुपभुङ् क्त इति कल्पयिष्यामीति । नैवं कल्पयितुं शक्यते यत्किञ्चेत्यन्यत्र परामर्शात् । प्राप्यन्तं कर्मणस्तस्य यत्किञ्चेह करोत्ययम् । तस्माल्लोकात्पुनरैत्यस्मै लोकाय कर्मणे (बृ। ४।४।६) इति ह्यपरा श्रुतिर्यत्किञ्चेत्यविशेषपरामर्शेन कृत्स्नस्येह कृतस्य कर्मणस्तत्र क्षयितां दर्शयति । अपिच प्रायणमनारब्धफलस्य कर्मणो ऽभिव्यञ्जकम् । प्राक्प्रायणादारब्धफलेन कर्मणा प्रतिबद्धस्याभिव्यक्त्यनुपपत्तेः । तच्चाविशेषाद्यावत्किञ्चिदनारब्धफलं तस्य सर्वस्याभिव्यञ्जकम् । नहि साधारणे निमित्ते नैमित्तिकमसाधारणं भवितुमर्हति । न ह्यविशिष्टे प्रदीपसंनिधौ धटो ऽभिव्यज्यते न पट इत्युपपद्यते । तस्मान्निरनुशया अवरोहन्तीत्येवं प्राप्ते ब्रूमः कृतात्यये ऽनुशयवानिति । येन कर्मवृन्देन चन्द्रमसमारूढाः फलोपभोगाय तस्मिन्नुपभोगेन क्षीयते तेषां यदंमयं शरीरं चन्द्रमस्युपभोगायारब्धं तदुपभोगक्षयदर्शनशोकाग्निसंपर्कादिव च घृतकाठिन्यम् । ततः कृतात्यये कृतस्येष्टादेः कर्मणः फलोपभोगेनोपक्षये सति सानुशया एवेममवरोहन्ति । केन हेतुना । दृष्टस्मृतिभ्यामित्याह । तथाहि प्रत्यक्षा श्रुतिः सानुशयानामवरोहं दर्शयति- ऽतद्य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां योनिमापद्येरन्ब्राह्मणयोनिं वा क्षत्रिययोनिं वा वैश्ययोनिं वाथ यैह क पूयचरणां अभ्याशो ह यत्ते कपूयां योनिमापद्येरञ्श्वयोनिं वा सूकरयोनिं वा चण्डालयोनिं वाऽ (छा। ५।१०।७) इति । चरणशब्देनानुशयः सूच्यत इति वर्णयिष्यति । दृष्टश्चायं जन्मनैव प्रतिपण्युच्चावचरूप उपभोगः प्रविभज्यमान । आकस्मिकत्वासंभवादनुशयसद्भावं सूचयति, अभ्युदयप्रत्यवाययोः सुकृतदुष्कृतहेतुत्वस्य सामान्यतः शास्त्रेणावगमित्वात् । स्मृतिरपि ऽवर्णा आश्रमाश्च स्वकर्मनिष्ठाः प्रेत्य कर्मफलमनुभूय ततः शेषेण विशिष्टदेशजातिकुलरूपायुःश्रुतवृत्तसुखमेधसो जन्म प्रतिपद्यन्तेऽ इति सानुशयानामेवावरोहं दर्शयति - कः पुनरनुशयो नामेति । केचित्तावदाहुः - स्वर्गार्थस्य कर्मणो भुक्तफलस्यावशेषः कश्चिदनुशयो नाम भाण्डानुसारिस्नेहवत् । यथाहि स्नेहभाण्डं रिच्यमानं न सर्वात्मना रिच्यते भाण्डानुसार्येव कश्चित्स्नेहशेषो ऽवतिष्ठते तथानुशयो ऽपीति । ननु कार्यविरोधित्वाददृष्टस्य न भुक्तफलस्यावशेषावस्थानं न्याय्यम् । नायं दोषः । नहि सर्वात्मना भुक्तफलत्वं कर्मणः प्रतिजानीमहे । ननु निरवशेषकर्मफलोपभोगाय चन्द्रमण्डलमारूढः । बाढम् । तथापि स्वल्पकर्मावशेषमात्रेण तत्रावस्थातुं न लभ्यते । यथा किल कश्चित्सेवकः सकलैः सेवोपकरणै राजकुलमुपसृपश्चिरप्रवासात्परिक्षीणवहूपकरणश्छत्रपादुकादिमात्रावशेषो न राजकुले ऽवस्थातुं शक्नोति । एवमनुशयमात्रपरिग्रहो न चन्द्रमण्डलो ऽवस्थातुं शक्नोतीति । नचैतद्युक्तमिव । नहि स्वर्गस्थस्य कर्मणो भुक्तफलस्यावशेषानुवृत्तिरुपपद्यते कार्यविरोधित्वादित्युक्तम् । नन्वेतदयुक्तम् । न स्वर्गफलस्य कर्मणो निखिलस्य भुक्तफलत्वं भविष्यतीति । तदेतदपेशलम् । स्वर्गार्थं किल कर्म स्वर्गस्थस्यैव स्वर्गफलं निखिलं न जनयति स्वग्रच्युतस्यापि कञ्चित्फललेशं जनयतीति । न शब्दप्रमाणकामानीदृशी कल्पनावकल्पते । स्नेहभाण्डे तु स्नेहलेशानुवृत्तिर्दृष्टत्वादुपपद्यते । तथा सेवकस्योपकरणलेशानुवृत्तिश्च दृश्यते । नत्विह तथा स्वर्गफलस्य कर्मणो लेशानुवृत्तिर्दृश्यते नापि कल्पयितुं शक्यते स्वर्गफलत्वशास्त्रविरोधात् । अवश्यं चैतदेवं विज्ञेयम् । न स्वर्गफलस्येष्टादेः कर्मणो भाण्डानुसारिस्नेहवदेकदेशो ऽनुवर्तमानो ऽनुशय इति । यदिहि येन सुकृतेन कर्मणेष्टादिना स्वर्गमन्वभूवंस्तस्यैव कश्चिदेकदेशो ऽनुशयः कल्प्येत ततो रमणीय एवैको ऽनुशयः स्यान्न विपरीतः । तत्रेयमनुशयविभागश्रुतिरुपरुध्येत- ऽतद्य इह रमणीयचरणा, अथ कपूयचरणाःऽ (छा। ५।१०।७) इति । तस्मादामुष्मिकफले कर्मजात उपभुक्ते ऽवशिष्टमैहिकफलं कर्मान्तरजातमनुशयस्तद्वन्तऽवरोहन्तीति । यदुक्तं यत्किञ्चेत्यविशेषपरामर्शात्सर्वस्येह कृतस्य कर्मणः फलोपभोगेनान्तं प्राप्य निरनुशया अवरोहन्तीति । नैतदेवम् । अनुशयसद्भावस्यावगमितत्वात् । यत्किञ्चिदिह कृतमामुष्मिकफलं कर्मारब्धभोगं तत्सर्वं फलोपभोगेन क्षपयित्वेति गम्यते । यदप्युक्तं प्रायणमविशेषादनारब्धफलं कृत्स्नमेव कर्माभिव्यनक्ति तत्र केनचित्कर्मणामुष्मिंल्लोके फलमारभ्यते केनचिदस्मिन्नित्यत्वं प्रत्युक्तम् । अपिचकेन हेतुना प्रायणमनारब्धफलस्य कर्मणो ऽभिव्यञ्जकं प्रतिज्ञायत इति वक्तव्यम् । यथैव तर्हि प्राक्प्रयाणादारब्धफलेन कर्मणा प्रतिबद्धस्येतरस्य वृत्त्युद्भवानुपपत्तिरित्येवं प्रायणकाले ऽपि विरुद्धफलस्यानेकस्य कर्मणो युगपत्फलारम्भासंभवाद्बलवता प्रतिबद्धस्य दुर्बलस्य वृत्त्युद्धवानुपपतितिरिति । नह्यनारब्धफलत्वसामान्येन जात्यन्तरोपभोग्यफलमप्यनेकं कर्मैकस्मिन्प्रायणे युगपदभिव्यक्तं सदेकां जातिमारभत इति शक्यं वक्तुं, प्रतिनियतफलत्वविरोधात् । नापि कस्यचित्कर्मणः प्रायणे ऽभिव्यक्तिः कस्यचिदुच्छेद इति शक्यते वक्तुम् । ऐकान्तिकफलत्वविरोधात् । नहि प्रायश्चित्तादिभिर्हेतुभिर्विना कर्मणामुच्छेदः संभाव्यते । स्मृतिरपि विरुद्धफलेन कर्मणा प्रतिबद्धस्य कर्मान्तरस्य चिरमवस्थानं दर्शयति- ऽकदाचित्सुकृतं कर्म कूचस्थमिह तिष्ठति ॥ मज्जमानस्य संसारे यावद्दुःखादिमुच्यते इत्येवञ्जातीयका । यदि च कृत्स्नमनारब्धफलं कर्मैकस्मिन्प्रायणे ऽभिव्यक्तं सदेकां जातिमारभेत ततः स्वर्गनरकतिर्यग्योनिष्वधिकारानवगमाद्धर्माधर्मानुत्पत्तौ निमित्ताभावान्नोत्तरा जातिरुपपद्येत । ब्रह्महत्यादीनां चैकैकस्य कर्मणो ऽनेकजन्मनिमित्तत्वं स्मर्यमाणमुपरुध्येत । नच धर्माधर्मयोः स्वरूपफलसाधनादिसमधिगमे शास्त्रादतिरिक्तं कारणं शक्यं संभावयतुम् । नच दृष्टफलस्य कर्मणः कारीर्यादेः प्रायणमभिव्यञ्जकं संभवतीत्यव्यापिकापीयं प्रायणस्याभिव्यञ्जकत्वकल्पना । प्रदीपोपन्यासो ऽपि कर्मबलाबलप्रदर्शनेनैव प्रतिनीतः । स्थूलसूक्ष्मरूपाभिव्क्त्यनभिव्यक्तिवच्चेदं द्रष्टव्यम् । यथाहि प्रदीपः समाने ऽपि संनिधाने स्थूलं रूपमभिव्यनक्ति न सूक्ष्मम् । एवं प्रायणं समाने ऽप्यनारब्धफलस्य कर्मजातस्य प्राप्तावसरत्वे बलवतः कर्मणो वृत्तिमुद्भावयति न दुर्बलस्येति । तस्माच्छ्रुतिस्मृतिन्यायविरोधादश्लिष्टो ऽयमशेषकर्माभिव्यक्त्यभ्युपगमः । शेषकर्मसद्भावे ऽनिर्मोक्षप्रसङ्गः इत्ययमप्यस्थाने संभ्रमः । सम्यग्दर्शनादशेषकर्मक्षयश्रुतेः । तस्मात्स्थितमेतदेवानुशयवन्तो ऽवरोहन्तीति । ते चावरोहन्तो यथेतमनेवं चावरोहन्ति । यथेतमिति यथागतमित्यर्थः । अनेवमिति तद्विपर्ययेणेत्यर्थः । धूमाकाशयोः पितृयाणे ऽध्वन्युपात्तयोरवरोहे संकीर्तनाद्यथेतंशब्दाच्च यथागतमिति प्रतीयते । रात्र्याद्यसंकीर्तनादभ्राद्युपसंख्यानाच्च विपर्ययो ऽपि प्रतीयते ॥ ८ ॥ ---------------------- फ़्न्: अनुशयः कर्म । तत् कर्म । प्रत्यवैति परिक्षीणं भवति । अभिव्यक्तिः फलोन्मुखता । तत् तत्रावरोहतां जीवानां मध्ये इह कर्मभूमौ रमणीयचरणाः पुण्यकर्मणः इति यत् तत् आभ्याशोह अवश्यं हीत्यर्थः । कपूयं पापम् । रिच्यमानं वियुज्यमानम् ।

kṛtātyaye 'nuśayavān dṛṣṭasmṛtibhyāṃ yathetamanevaṃ ca iṣṭādikāriṇāṃ dhūmādinā vartmanā candramaṇḍalamadhirūḍhānāṃ bhuktabhogānāṃ tataḥ pratyavaroha āmnāyate- 'tasminyāvatsaṃpātamuṣitvāthaitamevādhvāṃ punarnivartante tathetam' (chā. 5.10.5) ityārabhya yāvadramaṇīyacaraṇā brāhmaṇādiyonimāpadyante kapūyacaraṇāḥ śvādiyonimiti / tatredaṃ vicāryate- kiṃ niranuśayā bhuktakṛtsnakarmāṇo 'varohantyāhosvitsānuśayā iti / kiṃ tāvatprāptam / niranuśayā iti / kutaḥ - yāvatsaṃpātamiti viśeṣaṇāt / saṃpātaśabdenātra karmāśaya ucyate- saṃpatantyanenāsmāllokādamuṃ lokaṃ phalopabhogāyeti / yāvatsaṃpātamuṣitveti ca kṛtsnasya tasya kṛtasya tatraiva bhuktatāṃ darśayati / teṣāṃ yadā tatparyaveti' (bṛ. 6.2.16) iti ca śrutyantareṇaiva evārthaḥ pradarśyate / syādetat / yāvadamuṣmiṃlloka upabhoktavyaṃ karma tāvadupabhuṅ kta iti kalpayiṣyāmīti / naivaṃ kalpayituṃ śakyate yatkiñcetyanyatra parāmarśāt / prāpyantaṃ karmaṇastasya yatkiñceha karotyayam / tasmāllokātpunaraityasmai lokāya karmaṇe (bṛ. 4.4.6) iti hyaparā śrutiryatkiñcetyaviśeṣaparāmarśena kṛtsnasyeha kṛtasya karmaṇastatra kṣayitāṃ darśayati / apica prāyaṇamanārabdhaphalasya karmaṇo 'bhivyañjakam / prākprāyaṇādārabdhaphalena karmaṇā pratibaddhasyābhivyaktyanupapatteḥ / taccāviśeṣādyāvatkiñcidanārabdhaphalaṃ tasya sarvasyābhivyañjakam / nahi sādhāraṇe nimitte naimittikamasādhāraṇaṃ bhavitumarhati / na hyaviśiṣṭe pradīpasaṃnidhau dhaṭo 'bhivyajyate na paṭa ityupapadyate / tasmānniranuśayā avarohantītyevaṃ prāpte brūmaḥ kṛtātyaye 'nuśayavāniti / yena karmavṛndena candramasamārūḍhāḥ phalopabhogāya tasminnupabhogena kṣīyate teṣāṃ yadaṃmayaṃ śarīraṃ candramasyupabhogāyārabdhaṃ tadupabhogakṣayadarśanaśokāgnisaṃparkādiva ca ghṛtakāṭhinyam / tataḥ kṛtātyaye kṛtasyeṣṭādeḥ karmaṇaḥ phalopabhogenopakṣaye sati sānuśayā evemamavarohanti / kena hetunā / dṛṣṭasmṛtibhyāmityāha / tathāhi pratyakṣā śrutiḥ sānuśayānāmavarohaṃ darśayati- 'tadya iha ramaṇīyacaraṇā abhyāśo ha yatte ramaṇīyāṃ yonimāpadyeranbrāhmaṇayoniṃ vā kṣatriyayoniṃ vā vaiśyayoniṃ vātha yaiha ka pūyacaraṇāṃ abhyāśo ha yatte kapūyāṃ yonimāpadyerañśvayoniṃ vā sūkarayoniṃ vā caṇḍālayoniṃ vā' (chā. 5.10.7) iti / caraṇaśabdenānuśayaḥ sūcyata iti varṇayiṣyati / dṛṣṭaścāyaṃ janmanaiva pratipaṇyuccāvacarūpa upabhogaḥ pravibhajyamāna / ākasmikatvāsaṃbhavādanuśayasadbhāvaṃ sūcayati, abhyudayapratyavāyayoḥ sukṛtaduṣkṛtahetutvasya sāmānyataḥ śāstreṇāvagamitvāt / smṛtirapi 'varṇā āśramāśca svakarmaniṣṭhāḥ pretya karmaphalamanubhūya tataḥ śeṣeṇa viśiṣṭadeśajātikularūpāyuḥśrutavṛttasukhamedhaso janma pratipadyante' iti sānuśayānāmevāvarohaṃ darśayati - kaḥ punaranuśayo nāmeti / kecittāvadāhuḥ - svargārthasya karmaṇo bhuktaphalasyāvaśeṣaḥ kaścidanuśayo nāma bhāṇḍānusārisnehavat / yathāhi snehabhāṇḍaṃ ricyamānaṃ na sarvātmanā ricyate bhāṇḍānusāryeva kaścitsnehaśeṣo 'vatiṣṭhate tathānuśayo 'pīti / nanu kāryavirodhitvādadṛṣṭasya na bhuktaphalasyāvaśeṣāvasthānaṃ nyāyyam / nāyaṃ doṣaḥ / nahi sarvātmanā bhuktaphalatvaṃ karmaṇaḥ pratijānīmahe / nanu niravaśeṣakarmaphalopabhogāya candramaṇḍalamārūḍhaḥ / bāḍham / tathāpi svalpakarmāvaśeṣamātreṇa tatrāvasthātuṃ na labhyate / yathā kila kaścitsevakaḥ sakalaiḥ sevopakaraṇai rājakulamupasṛpaścirapravāsātparikṣīṇavahūpakaraṇaśchatrapādukādimātrāvaśeṣo na rājakule 'vasthātuṃ śaknoti / evamanuśayamātraparigraho na candramaṇḍalo 'vasthātuṃ śaknotīti / nacaitadyuktamiva / nahi svargasthasya karmaṇo bhuktaphalasyāvaśeṣānuvṛttirupapadyate kāryavirodhitvādityuktam / nanvetadayuktam / na svargaphalasya karmaṇo nikhilasya bhuktaphalatvaṃ bhaviṣyatīti / tadetadapeśalam / svargārthaṃ kila karma svargasthasyaiva svargaphalaṃ nikhilaṃ na janayati svagracyutasyāpi kañcitphalaleśaṃ janayatīti / na śabdapramāṇakāmānīdṛśī kalpanāvakalpate / snehabhāṇḍe tu snehaleśānuvṛttirdṛṣṭatvādupapadyate / tathā sevakasyopakaraṇaleśānuvṛttiśca dṛśyate / natviha tathā svargaphalasya karmaṇo leśānuvṛttirdṛśyate nāpi kalpayituṃ śakyate svargaphalatvaśāstravirodhāt / avaśyaṃ caitadevaṃ vijñeyam / na svargaphalasyeṣṭādeḥ karmaṇo bhāṇḍānusārisnehavadekadeśo 'nuvartamāno 'nuśaya iti / yadihi yena sukṛtena karmaṇeṣṭādinā svargamanvabhūvaṃstasyaiva kaścidekadeśo 'nuśayaḥ kalpyeta tato ramaṇīya evaiko 'nuśayaḥ syānna viparītaḥ / tatreyamanuśayavibhāgaśrutiruparudhyeta- 'tadya iha ramaṇīyacaraṇā, atha kapūyacaraṇāḥ' (chā. 5.10.7) iti / tasmādāmuṣmikaphale karmajāta upabhukte 'vaśiṣṭamaihikaphalaṃ karmāntarajātamanuśayastadvanta'varohantīti / yaduktaṃ yatkiñcetyaviśeṣaparāmarśātsarvasyeha kṛtasya karmaṇaḥ phalopabhogenāntaṃ prāpya niranuśayā avarohantīti / naitadevam / anuśayasadbhāvasyāvagamitatvāt / yatkiñcidiha kṛtamāmuṣmikaphalaṃ karmārabdhabhogaṃ tatsarvaṃ phalopabhogena kṣapayitveti gamyate / yadapyuktaṃ prāyaṇamaviśeṣādanārabdhaphalaṃ kṛtsnameva karmābhivyanakti tatra kenacitkarmaṇāmuṣmiṃlloke phalamārabhyate kenacidasminnityatvaṃ pratyuktam / apicakena hetunā prāyaṇamanārabdhaphalasya karmaṇo 'bhivyañjakaṃ pratijñāyata iti vaktavyam / yathaiva tarhi prākprayāṇādārabdhaphalena karmaṇā pratibaddhasyetarasya vṛttyudbhavānupapattirityevaṃ prāyaṇakāle 'pi viruddhaphalasyānekasya karmaṇo yugapatphalārambhāsaṃbhavādbalavatā pratibaddhasya durbalasya vṛttyuddhavānupapatitiriti / nahyanārabdhaphalatvasāmānyena jātyantaropabhogyaphalamapyanekaṃ karmaikasminprāyaṇe yugapadabhivyaktaṃ sadekāṃ jātimārabhata iti śakyaṃ vaktuṃ, pratiniyataphalatvavirodhāt / nāpi kasyacitkarmaṇaḥ prāyaṇe 'bhivyaktiḥ kasyaciduccheda iti śakyate vaktum / aikāntikaphalatvavirodhāt / nahi prāyaścittādibhirhetubhirvinā karmaṇāmucchedaḥ saṃbhāvyate / smṛtirapi viruddhaphalena karmaṇā pratibaddhasya karmāntarasya ciramavasthānaṃ darśayati- 'kadācitsukṛtaṃ karma kūcasthamiha tiṣṭhati // majjamānasya saṃsāre yāvadduḥkhādimucyate ityevañjātīyakā / yadi ca kṛtsnamanārabdhaphalaṃ karmaikasminprāyaṇe 'bhivyaktaṃ sadekāṃ jātimārabheta tataḥ svarganarakatiryagyoniṣvadhikārānavagamāddharmādharmānutpattau nimittābhāvānnottarā jātirupapadyeta / brahmahatyādīnāṃ caikaikasya karmaṇo 'nekajanmanimittatvaṃ smaryamāṇamuparudhyeta / naca dharmādharmayoḥ svarūpaphalasādhanādisamadhigame śāstrādatiriktaṃ kāraṇaṃ śakyaṃ saṃbhāvayatum / naca dṛṣṭaphalasya karmaṇaḥ kārīryādeḥ prāyaṇamabhivyañjakaṃ saṃbhavatītyavyāpikāpīyaṃ prāyaṇasyābhivyañjakatvakalpanā / pradīpopanyāso 'pi karmabalābalapradarśanenaiva pratinītaḥ / sthūlasūkṣmarūpābhivktyanabhivyaktivaccedaṃ draṣṭavyam / yathāhi pradīpaḥ samāne 'pi saṃnidhāne sthūlaṃ rūpamabhivyanakti na sūkṣmam / evaṃ prāyaṇaṃ samāne 'pyanārabdhaphalasya karmajātasya prāptāvasaratve balavataḥ karmaṇo vṛttimudbhāvayati na durbalasyeti / tasmācchrutismṛtinyāyavirodhādaśliṣṭo 'yamaśeṣakarmābhivyaktyabhyupagamaḥ / śeṣakarmasadbhāve 'nirmokṣaprasaṅgaḥ ityayamapyasthāne saṃbhramaḥ / samyagdarśanādaśeṣakarmakṣayaśruteḥ / tasmātsthitametadevānuśayavanto 'varohantīti / te cāvarohanto yathetamanevaṃ cāvarohanti / yathetamiti yathāgatamityarthaḥ / anevamiti tadviparyayeṇetyarthaḥ / dhūmākāśayoḥ pitṛyāṇe 'dhvanyupāttayoravarohe saṃkīrtanādyathetaṃśabdācca yathāgatamiti pratīyate / rātryādyasaṃkīrtanādabhrādyupasaṃkhyānācca viparyayo 'pi pratīyate // 8 // ---------------------- FN: anuśayaḥ karma / tat karma / pratyavaiti parikṣīṇaṃ bhavati / abhivyaktiḥ phalonmukhatā / tat tatrāvarohatāṃ jīvānāṃ madhye iha karmabhūmau ramaṇīyacaraṇāḥ puṇyakarmaṇaḥ iti yat tat ābhyāśoha avaśyaṃ hītyarthaḥ / kapūyaṃ pāpam / ricyamānaṃ viyujyamānam /

Sanskrit only: no published translation is held for this verse.

चरणाद् इति चेन् नोपलक्षणार्थेति कार्ष्णाजिनिः अतापि स्यात् । या श्रुतिरनुशयसद्भावप्रतिपादनायोदाहृता- ऽतद्य इह रमणीयचरणाःऽ (छा। ५।१०।७) इति । सा खलु चरणाद्योन्यापत्तिं दर्शयति नानुशयात् । अन्यच्चरणमन्यो ऽनुशयः । चरणं चारित्रमाचारः शीलमित्यनर्थान्तरम् । अनुशयस्तु भुक्तफलात्कर्मणो ऽतिरिक्तं कर्माभिप्रेतम् । श्रुतिश्च कर्माचरणे भेदेन व्यपदिशति- ऽयथाकारी यथाचारी तथा भवतिऽ (बृ। ४।४।५) इति, ऽयान्यनवद्यानि कर्माणि तानि सेवितव्यानि नो इतराणि, यान्यस्माकं सुचरितानि तानि त्वयोपस्यानिऽ (तै। १।११।२) इति च । तस्माच्चरणाद्योन्यापत्तिश्रुतेर्नानुशयसिद्धिरितिचेत् । नैष दोषः । यतो ऽनुशयोपलक्षणार्थैवैषा चरणश्रुतिरिति कार्ष्णाजिनिराचार्यो मन्यते ॥ ९ ॥

caraṇād iti cen nopalakṣaṇārtheti kārṣṇājiniḥ atāpi syāt / yā śrutiranuśayasadbhāvapratipādanāyodāhṛtā- 'tadya iha ramaṇīyacaraṇāḥ' (chā. 5.10.7) iti / sā khalu caraṇādyonyāpattiṃ darśayati nānuśayāt / anyaccaraṇamanyo 'nuśayaḥ / caraṇaṃ cāritramācāraḥ śīlamityanarthāntaram / anuśayastu bhuktaphalātkarmaṇo 'tiriktaṃ karmābhipretam / śrutiśca karmācaraṇe bhedena vyapadiśati- 'yathākārī yathācārī tathā bhavati' (bṛ. 4.4.5) iti, 'yānyanavadyāni karmāṇi tāni sevitavyāni no itarāṇi, yānyasmākaṃ sucaritāni tāni tvayopasyāni' (tai. 1.11.2) iti ca / tasmāccaraṇādyonyāpattiśruternānuśayasiddhiriticet / naiṣa doṣaḥ / yato 'nuśayopalakṣaṇārthaivaiṣā caraṇaśrutiriti kārṣṇājinirācāryo manyate // 9 //

Sanskrit only: no published translation is held for this verse.

आनर्थक्यम् इति चेन् न तदपेक्षत्वात् स्यादेतत् । कस्मात्पुनश्चरणशब्देन श्रौतं शीलं विहाय लाक्षणिको ऽनुशयः प्रत्याय्यते । ननु शीलस्यैव श्रौतस्य विहितप्रतिष्द्धस्य साध्वसाधुरूपस्य शुभाशुभयोन्यापत्तिः फलं भविष्यति । अवश्यं च शीलस्यापि किञ्चित्फलमभ्युपगन्तव्यम् । अन्यथा ह्यानर्थक्यमेव प्रसज्यतेति चेत् । नैष दोषः । कुतः - तदपेक्षितत्वात् । इष्टादि हि कर्मजातं चरणापेक्षम् । नहि सदाचारहीनः कश्चिदधिकृतः स्यात्- ऽआचारहीनं न पुनन्ति वेदाःऽ इत्यादिस्मृतिभ्यः पुरुषार्थत्वे ऽप्याचारस्य नानर्थक्यम् । इष्टादौ हि कर्मजाते फलमारभमाणे तदपेक्ष एवाचारस्तत्रैव कञ्चिदतिशयमारप्स्यते । कर्म च सर्वार्थकारीति श्रुतिस्मृतिप्रसिद्धिः । तस्मात्कर्मैव शीलोपलक्षितमनुशयभूतं योन्यापत्तौ कारणमिति कार्ष्णाजिनेर्मतम् । नहि कर्मणि संभवति शीलाद्योन्यापत्तिर्युक्ता । नहि पद्भ्यां पलायितुं पारयमाणो जानुभ्यां रंहितुमर्हतीति ॥ १० ॥

ānarthakyam iti cen na tadapekṣatvāt syādetat / kasmātpunaścaraṇaśabdena śrautaṃ śīlaṃ vihāya lākṣaṇiko 'nuśayaḥ pratyāyyate / nanu śīlasyaiva śrautasya vihitapratiṣddhasya sādhvasādhurūpasya śubhāśubhayonyāpattiḥ phalaṃ bhaviṣyati / avaśyaṃ ca śīlasyāpi kiñcitphalamabhyupagantavyam / anyathā hyānarthakyameva prasajyateti cet / naiṣa doṣaḥ / kutaḥ - tadapekṣitatvāt / iṣṭādi hi karmajātaṃ caraṇāpekṣam / nahi sadācārahīnaḥ kaścidadhikṛtaḥ syāt- 'ācārahīnaṃ na punanti vedāḥ' ityādismṛtibhyaḥ puruṣārthatve 'pyācārasya nānarthakyam / iṣṭādau hi karmajāte phalamārabhamāṇe tadapekṣa evācārastatraiva kañcidatiśayamārapsyate / karma ca sarvārthakārīti śrutismṛtiprasiddhiḥ / tasmātkarmaiva śīlopalakṣitamanuśayabhūtaṃ yonyāpattau kāraṇamiti kārṣṇājinermatam / nahi karmaṇi saṃbhavati śīlādyonyāpattiryuktā / nahi padbhyāṃ palāyituṃ pārayamāṇo jānubhyāṃ raṃhitumarhatīti // 10 //

Sanskrit only: no published translation is held for this verse.

सुकृतदुष्कृते एवेति तु बादरिः बादरिस्त्वाचार्यः सुकृतदुष्कृते एव चरणशब्देन प्रत्याय्येते इति मन्यते । चरणमनुष्ठानं कर्मेत्यनर्थान्तरम् । तथाहि- अविशेषेण कर्ममात्रे चरतिः प्रयुज्यमानो दृश्यते । यो हीष्टादिलक्षणं पुण्यं कर्म करोति तं लौकिका आचक्षते धर्मं चरत्येष महात्मेति । आचारो ऽपि च धर्मविशेष एव । भेदव्यपदेशस्तु कर्मचरणयोर्बाह्मणपरिव्राजकन्यायेनाप्युपपद्यते । तस्माद्रमणीयचरणाः प्रशस्तकर्मणाः कपूयचरणा निन्दितकर्माण इति निर्णयः ॥ ११ ॥ ---------------------- फ़्न्: गोबलीवर्दन्यायो ऽप्ययमेव ।

sukṛtaduṣkṛte eveti tu bādariḥ bādaristvācāryaḥ sukṛtaduṣkṛte eva caraṇaśabdena pratyāyyete iti manyate / caraṇamanuṣṭhānaṃ karmetyanarthāntaram / tathāhi- aviśeṣeṇa karmamātre caratiḥ prayujyamāno dṛśyate / yo hīṣṭādilakṣaṇaṃ puṇyaṃ karma karoti taṃ laukikā ācakṣate dharmaṃ caratyeṣa mahātmeti / ācāro 'pi ca dharmaviśeṣa eva / bhedavyapadeśastu karmacaraṇayorbāhmaṇaparivrājakanyāyenāpyupapadyate / tasmādramaṇīyacaraṇāḥ praśastakarmaṇāḥ kapūyacaraṇā ninditakarmāṇa iti nirṇayaḥ // 11 // ---------------------- FN: gobalīvardanyāyo 'pyayameva /

Sanskrit only: no published translation is held for this verse.

अनिष्टादिकारिणाम् अपि च श्रुतम् इष्टादिकारिणश्चन्द्रमसं गच्छतीत्युक्तम् । ये त्वितरे ऽनिष्टादिकारिणस्ते ऽपि किं चन्द्रमसं गच्छन्त्युत न गच्छन्तीति चिन्त्यते । तत्र तावदाहुः - इष्टादिकारिण एव चन्द्रमसं गच्छन्तीत्येतन्न । कस्मात् । यतो ऽनिष्टादिकारिणामपि चन्द्रमण्डलं गन्तव्यत्वेन श्रुतम् । एथाह्यविशेषेण कौषीतकिनः समामनन्ति- ऽये वै के चास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्तिऽ (कौषी। १।२) इति । पञ्चभ्यामाहुतावित्याहुतिसंख्यानियमात् । यस्मात्सर्व एव चन्द्रमसमासीदेयुः । इष्टादिकारिणामितरेषां च समानगतित्वं न युक्तमिति चेत् । न । इतरेषां चन्द्रमण्डले भोगाभावात् ॥ १२ ॥

aniṣṭādikāriṇām api ca śrutam iṣṭādikāriṇaścandramasaṃ gacchatītyuktam / ye tvitare 'niṣṭādikāriṇaste 'pi kiṃ candramasaṃ gacchantyuta na gacchantīti cintyate / tatra tāvadāhuḥ - iṣṭādikāriṇa eva candramasaṃ gacchantītyetanna / kasmāt / yato 'niṣṭādikāriṇāmapi candramaṇḍalaṃ gantavyatvena śrutam / ethāhyaviśeṣeṇa kauṣītakinaḥ samāmananti- 'ye vai ke cāsmāllokātprayanti candramasameva te sarve gacchanti' (kauṣī. 1.2) iti / pañcabhyāmāhutāvityāhutisaṃkhyāniyamāt / yasmātsarva eva candramasamāsīdeyuḥ / iṣṭādikāriṇāmitareṣāṃ ca samānagatitvaṃ na yuktamiti cet / na / itareṣāṃ candramaṇḍale bhogābhāvāt // 12 //

Sanskrit only: no published translation is held for this verse.

संयमने त्व् अनुभूयेतरेषामारोहाव् अरोहौ तद्गतिदर्शनात् तुशब्दः पक्षं व्यावर्तयति । नैतदस्ति सर्वे चन्द्रमसं गच्छन्तीति । एतत्कस्मात् । यतो भोगायैव चन्द्रारोहणं न निष्प्रयोजनम् । नापि प्रत्यवरोहायैव । यथा कश्चिद्वृक्षमारोहति पुष्पफलोपादानायैव न निष्प्रयोजनं नापि पतनायैव । भोगश्चानिष्टादिकारिणां चन्द्रमसि नास्तीत्युक्तम् । तस्मादिष्चादिकारिण एव चन्द्रमसमारोहन्ति नेतरे । ते तु संयमनं यमालयमवगाह्य स्वदुष्कृतानुरूपा यामीर्यातना अनुभूय पुनरेवेमं लोकं प्रत्यवरोन्ति । एवंभूतौ तेषामारोहावरोहौ भवतः । कुतः - तद्गतिदर्शनात् । तथाहि यमवचनसरूपा श्रुतिः प्रयतामनिष्टादिकारिणां यमवश्यतां दर्शयति- ऽन सांपरायः प्रतिभाति बालं प्रमाद्यन्तं वित्तमोहेन मूढम् । अयं लोको नास्ति पर इति मानी पुनः पुनर्वशमापद्यते मेऽ (कठ। २।६) इति । ऽवैवस्वतं संगमनं जनानाम्ऽ इत्येवञ्जातीयकं च बह्वेव यमवश्यताप्राप्तिलिङ्गं भवति ॥ १३ ॥

saṃyamane tv anubhūyetareṣāmārohāv arohau tadgatidarśanāt tuśabdaḥ pakṣaṃ vyāvartayati / naitadasti sarve candramasaṃ gacchantīti / etatkasmāt / yato bhogāyaiva candrārohaṇaṃ na niṣprayojanam / nāpi pratyavarohāyaiva / yathā kaścidvṛkṣamārohati puṣpaphalopādānāyaiva na niṣprayojanaṃ nāpi patanāyaiva / bhogaścāniṣṭādikāriṇāṃ candramasi nāstītyuktam / tasmādiṣcādikāriṇa eva candramasamārohanti netare / te tu saṃyamanaṃ yamālayamavagāhya svaduṣkṛtānurūpā yāmīryātanā anubhūya punarevemaṃ lokaṃ pratyavaronti / evaṃbhūtau teṣāmārohāvarohau bhavataḥ / kutaḥ - tadgatidarśanāt / tathāhi yamavacanasarūpā śrutiḥ prayatāmaniṣṭādikāriṇāṃ yamavaśyatāṃ darśayati- 'na sāṃparāyaḥ pratibhāti bālaṃ pramādyantaṃ vittamohena mūḍham / ayaṃ loko nāsti para iti mānī punaḥ punarvaśamāpadyate me' (kaṭha. 2.6) iti / 'vaivasvataṃ saṃgamanaṃ janānām' ityevañjātīyakaṃ ca bahveva yamavaśyatāprāptiliṅgaṃ bhavati // 13 //

Sanskrit only: no published translation is held for this verse.

स्मरन्ति च अपिच मनुव्यासप्रभृतयः शिष्टाः संयमने पुरे यमायत्तं कपूयकर्मविपाकं स्मरन्ति नाचिकेतोपाख्यानादिषु ॥ १४ ॥

smaranti ca apica manuvyāsaprabhṛtayaḥ śiṣṭāḥ saṃyamane pure yamāyattaṃ kapūyakarmavipākaṃ smaranti nāciketopākhyānādiṣu // 14 //

Sanskrit only: no published translation is held for this verse.

अपि च सप्त अपिच सप्त नरका रौरवप्रमुखा दुष्कृतफलोपभोगभूमित्वेन स्मर्यन्ते पौराणिकैः । ताननिष्टादिकारिणः प्राप्नुवन्ति । कुतस्ते चन्द्रं प्राप्नुयुरित्यभिप्रायः ॥ १५ ॥ ननु विरुद्धमिदं यमायत्ता यातनाः पापकर्मणो ऽनुभवन्तीति । यावता तेषु रौरवादिष्वन्ये चित्रगुप्तादयो नानाधिष्ठातारः स्मर्यन्त इति । नेत्याह-

api ca sapta apica sapta narakā rauravapramukhā duṣkṛtaphalopabhogabhūmitvena smaryante paurāṇikaiḥ / tānaniṣṭādikāriṇaḥ prāpnuvanti / kutaste candraṃ prāpnuyurityabhiprāyaḥ // 15 // nanu viruddhamidaṃ yamāyattā yātanāḥ pāpakarmaṇo 'nubhavantīti / yāvatā teṣu rauravādiṣvanye citraguptādayo nānādhiṣṭhātāraḥ smaryanta iti / netyāha-

Sanskrit only: no published translation is held for this verse.

तत्रापि च तद्व्यापारादविरोधः तेष्वपि सप्तसु नरकेषु तस्यैव यमस्याधिष्ठातृत्वव्यापाराभ्युपगमादविरोधः । यमप्रयुक्ता एव हि ते चित्रगुप्तादयो ऽधिष्ठातारः स्मर्यन्ते ॥ १६ ॥

tatrāpi ca tadvyāpārādavirodhaḥ teṣvapi saptasu narakeṣu tasyaiva yamasyādhiṣṭhātṛtvavyāpārābhyupagamādavirodhaḥ / yamaprayuktā eva hi te citraguptādayo 'dhiṣṭhātāraḥ smaryante // 16 //

Sanskrit only: no published translation is held for this verse.

विद्याकर्मणोर् इति तु प्रकृतत्वात् पञ्चाग्निविद्यायाम् ऽवेत्थ यथासौ लोको न संपूर्यतेऽ (छा। ५।३।३) इत्यस्य प्रश्नस्य प्रतिवचनावसरे श्रूयते- ऽअथैतयोः पथोर्न कतरेणचन तानीमानि क्षुद्राण्यसकृदावर्तीनि भूतानि भवन्ति । जायस्व म्रियस्वेत्येतत्तृतीयं स्थानं तेनासौ लोको न संपूर्यतेऽ (छा। ५।१०।८) इति । तत्रैतयोः पथोरिति विद्याकर्मणोरित्येतत् । कस्मात् । प्रकृतत्वात् । विद्याकर्मणी हि देवयानपितृयाणयोः पथोः प्रतिपत्तौ प्रकृते । ऽतद्य इत्थं विदुःऽ इति विद्या तया प्रतिपत्तव्यो देवयानः पन्थाः प्रकीर्तितः । ऽइष्टापूर्ते दत्तम्ऽ (छा। ५।१०।१,३) इति कर्म तेन प्रतिपत्तव्यः पितृयाणः पन्थाः प्रकीर्तितः । तत्प्पक्रियायाम्- ऽअथैतयोः पथोर्न कतरेणचनऽ इति श्रुतम् । एतदुक्तं भवति- ये न विद्यासाधनेन देवयाने पत्यधिकृता नापि कर्मणा पितृयाणे तेषामेष क्षुद्रजन्तुलक्षणो ऽसकृदावर्ती तृतीयः पन्था भवतीति । तस्मादपि नानिष्टादिकारिभिश्चन्द्रमाः प्राप्यते । स्यादेतत् । ते ऽपि चन्द्रबिम्बमारुह्य ततो ऽवरुह्य क्षुद्रजन्तुत्वं प्रतिपत्स्यन्त इति । तदपि नास्ति । आरोहानर्थक्यात् । अपिच सर्वेषु प्रयत्सु चन्द्रलोकं प्राप्नुवत्स्वसौ लोकः प्रयद्भिः संपूर्येतेत्यतः प्रश्नविरुद्धं प्रतिवचनं प्रसज्येत । तथाहि प्रतिवचनं दातव्यं यथासौ लोको न संपूर्यते । अवरोहाभ्युपगमादसंपूर्णोपपत्तिरिति चेत् । न । अश्रुतत्वात् । सत्यमवरोहादप्यसंपूरणमुपपद्यते । श्रुतिस्तु तृतीयस्थानसंकीर्तनेनासंपूरणं दर्शयति- ऽएतत्तृतीयं स्थानं तेनासौ लोको न संपूर्यतेऽ (छा। ५।१०।८) इति । तेनानारोहादेवासंपूरणमिति युक्तम् । अवरोहस्येष्टादिकारिष्वप्यविशिष्टत्वे सति तृतीयस्थानोक्त्यानर्थक्यप्रसङ्गात् । तुशब्दस्तु शाकान्तरीयवाक्यप्रभवामशेषगमनाशङ्कामुच्छिनत्ति । एवं सत्यधिकृतापेक्षः शाखान्तरीये वाक्ये सर्वशब्दो ऽवतिष्ठते । ये वै केचिदधिकृता अस्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्तीति ॥ १७ ॥ यत्पुनरुक्तं देहलाभोपपत्तये सर्वे चन्द्रमसं गन्तुमर्हन्ति, पञ्चम्यामाहुतावित्याहुतिसंख्यानियमादिति । तत्प्रत्युच्यते-

vidyākarmaṇor iti tu prakṛtatvāt pañcāgnividyāyām 'vettha yathāsau loko na saṃpūryate' (chā. 5.3.3) ityasya praśnasya prativacanāvasare śrūyate- 'athaitayoḥ pathorna katareṇacana tānīmāni kṣudrāṇyasakṛdāvartīni bhūtāni bhavanti / jāyasva mriyasvetyetattṛtīyaṃ sthānaṃ tenāsau loko na saṃpūryate' (chā. 5.10.8) iti / tatraitayoḥ pathoriti vidyākarmaṇorityetat / kasmāt / prakṛtatvāt / vidyākarmaṇī hi devayānapitṛyāṇayoḥ pathoḥ pratipattau prakṛte / 'tadya itthaṃ viduḥ' iti vidyā tayā pratipattavyo devayānaḥ panthāḥ prakīrtitaḥ / 'iṣṭāpūrte dattam' (chā. 5.10.1,3) iti karma tena pratipattavyaḥ pitṛyāṇaḥ panthāḥ prakīrtitaḥ / tatppakriyāyām- 'athaitayoḥ pathorna katareṇacana' iti śrutam / etaduktaṃ bhavati- ye na vidyāsādhanena devayāne patyadhikṛtā nāpi karmaṇā pitṛyāṇe teṣāmeṣa kṣudrajantulakṣaṇo 'sakṛdāvartī tṛtīyaḥ panthā bhavatīti / tasmādapi nāniṣṭādikāribhiścandramāḥ prāpyate / syādetat / te 'pi candrabimbamāruhya tato 'varuhya kṣudrajantutvaṃ pratipatsyanta iti / tadapi nāsti / ārohānarthakyāt / apica sarveṣu prayatsu candralokaṃ prāpnuvatsvasau lokaḥ prayadbhiḥ saṃpūryetetyataḥ praśnaviruddhaṃ prativacanaṃ prasajyeta / tathāhi prativacanaṃ dātavyaṃ yathāsau loko na saṃpūryate / avarohābhyupagamādasaṃpūrṇopapattiriti cet / na / aśrutatvāt / satyamavarohādapyasaṃpūraṇamupapadyate / śrutistu tṛtīyasthānasaṃkīrtanenāsaṃpūraṇaṃ darśayati- 'etattṛtīyaṃ sthānaṃ tenāsau loko na saṃpūryate' (chā. 5.10.8) iti / tenānārohādevāsaṃpūraṇamiti yuktam / avarohasyeṣṭādikāriṣvapyaviśiṣṭatve sati tṛtīyasthānoktyānarthakyaprasaṅgāt / tuśabdastu śākāntarīyavākyaprabhavāmaśeṣagamanāśaṅkāmucchinatti / evaṃ satyadhikṛtāpekṣaḥ śākhāntarīye vākye sarvaśabdo 'vatiṣṭhate / ye vai kecidadhikṛtā asmāllokātprayanti candramasameva te sarve gacchantīti // 17 // yatpunaruktaṃ dehalābhopapattaye sarve candramasaṃ gantumarhanti, pañcamyāmāhutāvityāhutisaṃkhyāniyamāditi / tatpratyucyate-

Sanskrit only: no published translation is held for this verse.

न तृतीये तथोपलब्धेः न तृतीये स्थाने देहलाभाय पञ्चसंख्यानियम आहुतीनामादर्तव्यः । कुतः - तथोपलब्धेः । तथाह्यन्तरेणैवाहुतिसंख्यानियमं वर्णितेन प्रकारेण तृतीयस्थानप्राप्तिरुपलभ्यते ऽजायस्व म्रियस्वेत्येतत्तृतीयं स्थानम्ऽ (छा। ५।१०।८) इति । अपिच ऽपञ्चम्यामाहुतावापः पुरुषवचसो भवन्तिऽ (छा। ५।३।३) इति मनुष्यशरीरहेतुत्वेनाहुतिसंख्या संकीर्त्यते न कीटपतङ्गादिशरीरहेतुत्वेन, पुरुषशब्दस्य मनुष्यजातिवचनत्वात् । अपिच पञ्चम्यामाहुतावपां पुरुषवचस्त्वमुपदिश्यते नापञ्चम्यामाहुतौ पुरुषवचस्त्वं प्रतिषिध्यते, वाक्यस्य द्व्यर्थतादोषात् । तत्र येषामारोहावरोहौ संभवतस्तेषां पञ्चम्यामाहुतौ देह उद्भविष्यति । अन्येषां तु विनैवाहुतिसंख्यया भूतान्तरोपसृष्टाभिरद्भिर्देह आरभ्यते ॥ १८ ॥

na tṛtīye tathopalabdheḥ na tṛtīye sthāne dehalābhāya pañcasaṃkhyāniyama āhutīnāmādartavyaḥ / kutaḥ - tathopalabdheḥ / tathāhyantareṇaivāhutisaṃkhyāniyamaṃ varṇitena prakāreṇa tṛtīyasthānaprāptirupalabhyate 'jāyasva mriyasvetyetattṛtīyaṃ sthānam' (chā. 5.10.8) iti / apica 'pañcamyāmāhutāvāpaḥ puruṣavacaso bhavanti' (chā. 5.3.3) iti manuṣyaśarīrahetutvenāhutisaṃkhyā saṃkīrtyate na kīṭapataṅgādiśarīrahetutvena, puruṣaśabdasya manuṣyajātivacanatvāt / apica pañcamyāmāhutāvapāṃ puruṣavacastvamupadiśyate nāpañcamyāmāhutau puruṣavacastvaṃ pratiṣidhyate, vākyasya dvyarthatādoṣāt / tatra yeṣāmārohāvarohau saṃbhavatasteṣāṃ pañcamyāmāhutau deha udbhaviṣyati / anyeṣāṃ tu vinaivāhutisaṃkhyayā bhūtāntaropasṛṣṭābhiradbhirdeha ārabhyate // 18 //

Sanskrit only: no published translation is held for this verse.

स्मर्यते ऽपि च लोके अपिच स्मर्यते लोके । द्रोणधृष्टद्युम्नप्रभृतीनां सीताद्रौपदीप्रभृतीनां चायोनिजत्वम् । तत्र द्रोणादीनां योषिद्विषयैकाहुतिर्नास्ति । धृष्टद्युम्नादीनां तु योषित्पुरुषविषये द्वे अप्याहुती न स्तः । यथा च तत्राहुतिसंख्यानादरो भवत्येवमन्यत्रापि भविष्यति । बलाकाप्यन्तरेणैव रेतःसेकं गर्भं धत्त इति लोकरूढिः ॥ १९ ॥

smaryate 'pi ca loke apica smaryate loke / droṇadhṛṣṭadyumnaprabhṛtīnāṃ sītādraupadīprabhṛtīnāṃ cāyonijatvam / tatra droṇādīnāṃ yoṣidviṣayaikāhutirnāsti / dhṛṣṭadyumnādīnāṃ tu yoṣitpuruṣaviṣaye dve apyāhutī na staḥ / yathā ca tatrāhutisaṃkhyānādaro bhavatyevamanyatrāpi bhaviṣyati / balākāpyantareṇaiva retaḥsekaṃ garbhaṃ dhatta iti lokarūḍhiḥ // 19 //

Sanskrit only: no published translation is held for this verse.

दर्शनाच् च अपिच चतुर्विधे भूतग्रामे जरायुजाण्डजस्वेदजोद्भिज्जलक्षणे स्वेदजोद्भिज्जयोरन्तरेणैव ग्राम्यधर्ममुत्पत्तिदर्शनादाहुतिसंख्यानादरो भवति । एवमन्यत्रापि भविष्यति ॥ २० ॥ ---------------------- फ़्न्: जीवजं जरायुजम् , उद्भिज्जं वृक्षादि । ननु ऽतेषां खल्वेषां भूतानां त्रीण्येव बीजानि भवन्ति अण्डजं जीवजमुद्भिज्जम्ऽ (छा। ६।३।१) इति । अत्र त्रिविध एव भूतग्रामः श्रूयते कथं चतुर्विधत्वं भूतग्रामस्य प्रतिज्ञातमिति । अत्रोच्यते-

darśanāc ca apica caturvidhe bhūtagrāme jarāyujāṇḍajasvedajodbhijjalakṣaṇe svedajodbhijjayorantareṇaiva grāmyadharmamutpattidarśanādāhutisaṃkhyānādaro bhavati / evamanyatrāpi bhaviṣyati // 20 // ---------------------- FN: jīvajaṃ jarāyujam , udbhijjaṃ vṛkṣādi / nanu 'teṣāṃ khalveṣāṃ bhūtānāṃ trīṇyeva bījāni bhavanti aṇḍajaṃ jīvajamudbhijjam' (chā. 6.3.1) iti / atra trividha eva bhūtagrāmaḥ śrūyate kathaṃ caturvidhatvaṃ bhūtagrāmasya pratijñātamiti / atrocyate-

Sanskrit only: no published translation is held for this verse.

तृतीयशब्दावरोधः संशोकजस्य ऽआण्डजं जीवजमुजद्भिजम्ऽ (छा। ६।३।१) इत्यत्र तृतीयेनोद्भिज्जशब्देनैव स्वेदजोपसंग्रहः कृतः प्रत्येतव्यः । उभयोरपि स्वेदजोद्भिज्जयोर्भूम्युदकोद्भेदप्रभवत्वस्य तुल्यत्वात् । स्थावरोद्भेदात्तु विलक्षणो जङ्गमोद्भेद इत्यन्यत्र स्वेदजोद्भिज्जयोर्भेदवाद इत्यविरोधः ॥ २१ ॥ ---------------------- फ़्न्: संशोकजं स्वेदजम् ।

tṛtīyaśabdāvarodhaḥ saṃśokajasya 'āṇḍajaṃ jīvajamujadbhijam' (chā. 6.3.1) ityatra tṛtīyenodbhijjaśabdenaiva svedajopasaṃgrahaḥ kṛtaḥ pratyetavyaḥ / ubhayorapi svedajodbhijjayorbhūmyudakodbhedaprabhavatvasya tulyatvāt / sthāvarodbhedāttu vilakṣaṇo jaṅgamodbheda ityanyatra svedajodbhijjayorbhedavāda ityavirodhaḥ // 21 // ---------------------- FN: saṃśokajaṃ svedajam /

Sanskrit only: no published translation is held for this verse.

साभाव्यापत्तिरुपपत्तेः इष्टादिकारिणश्चन्द्रमसमारुह्य तस्मिन्यावत्संपातमुषित्वा ततःसानुशया अवरोहन्तीत्युक्तम् । अतावरोहप्रकारः परीक्ष्यते । तत्रेयमवरोहश्रुतिर्भवति- ऽअथैचमेवाध्वानं पुनर्निवर्तन्ते यथेतमाकाशमाकाशाद्वायुं वायिर्भूत्वा धूमो भवति धूमो भूत्वाभ्रं भवत्यभ्रं भूत्वा मेघो भूत्वा प्रवर्षतिऽ (छा। ५।१०।५) इति । तत्र संशयः - किमाकाशादिस्वरूपमेवावारोहन्तः प्रतिपद्यन्ते किंवाकाशादिसाम्यमिति । तत्र प्राप्तं तावदाकाशादिस्वरूपमेव प्रतिपद्यन्त इति । कुतः एवं हि श्रुतिर्भवति । इतरथा लक्षणा स्यात् । श्रुतिलक्षमाविषये च श्रुतिर्न्याय्या न लक्षणा । तथाच वायुर्भूत्वा धूमो भवतीत्येवमादीन्यक्षराणि तत्तत्स्वरूपोपत्तावाञ्जस्येनावकल्पन्ते । तस्मादाकाशादिस्वरूपप्रतिपत्तिरिति । एवं प्राप्ते ब्रूमः - आकाशादिसाम्यं प्रतिपद्यन्त इति । चन्द्रमण्डले यदंमयं शरीरमुपभोगार्थमारब्धं तदुपभोगक्षये सति प्रविलीयमानं सूक्ष्ममाकाशसमं भवति ततो वायोर्वशमेति ततो धूमादिभिः संपृच्यत इति । तदेतदुच्यते- ऽयथेतमाकाशमाकाशाद्वायुम्ऽ (छा। ५।१०।५) इत्येवमादिना । कुत एतत् । उपपत्तेः । एवं ह्येतदुपपद्यते । नह्यन्यस्यान्यभावो मुख्य उपपद्यते । आकाशस्वरूपप्रतिपत्तौ च वाय्वादिक्रमेणावरोहो नोपपद्यते । विभुत्वाच्चाकाशेन नित्यसंबन्धवत्त्वान्न तत्सादृश्यापत्तेरन्यस्तत्संबन्धो घटते । श्रुत्यसंभवे च लक्षणाश्रयणं न्याय्यमेव । अत आकाशादितुल्यतापत्तिरेवात्राकाशादिभाव इत्युपचर्यते ॥ २२ ॥ ५ नातिचिराधिकरणम् । सू। २३

sābhāvyāpattirupapatteḥ iṣṭādikāriṇaścandramasamāruhya tasminyāvatsaṃpātamuṣitvā tataḥsānuśayā avarohantītyuktam / atāvarohaprakāraḥ parīkṣyate / tatreyamavarohaśrutirbhavati- 'athaicamevādhvānaṃ punarnivartante yathetamākāśamākāśādvāyuṃ vāyirbhūtvā dhūmo bhavati dhūmo bhūtvābhraṃ bhavatyabhraṃ bhūtvā megho bhūtvā pravarṣati' (chā. 5.10.5) iti / tatra saṃśayaḥ - kimākāśādisvarūpamevāvārohantaḥ pratipadyante kiṃvākāśādisāmyamiti / tatra prāptaṃ tāvadākāśādisvarūpameva pratipadyanta iti / kutaḥ evaṃ hi śrutirbhavati / itarathā lakṣaṇā syāt / śrutilakṣamāviṣaye ca śrutirnyāyyā na lakṣaṇā / tathāca vāyurbhūtvā dhūmo bhavatītyevamādīnyakṣarāṇi tattatsvarūpopattāvāñjasyenāvakalpante / tasmādākāśādisvarūpapratipattiriti / evaṃ prāpte brūmaḥ - ākāśādisāmyaṃ pratipadyanta iti / candramaṇḍale yadaṃmayaṃ śarīramupabhogārthamārabdhaṃ tadupabhogakṣaye sati pravilīyamānaṃ sūkṣmamākāśasamaṃ bhavati tato vāyorvaśameti tato dhūmādibhiḥ saṃpṛcyata iti / tadetaducyate- 'yathetamākāśamākāśādvāyum' (chā. 5.10.5) ityevamādinā / kuta etat / upapatteḥ / evaṃ hyetadupapadyate / nahyanyasyānyabhāvo mukhya upapadyate / ākāśasvarūpapratipattau ca vāyvādikrameṇāvaroho nopapadyate / vibhutvāccākāśena nityasaṃbandhavattvānna tatsādṛśyāpatteranyastatsaṃbandho ghaṭate / śrutyasaṃbhave ca lakṣaṇāśrayaṇaṃ nyāyyameva / ata ākāśāditulyatāpattirevātrākāśādibhāva ityupacaryate // 22 // 5 nāticirādhikaraṇam / sū. 23

Sanskrit only: no published translation is held for this verse.

नातिचिरेण विशेषात् तत्राकाशादिप्रतिपत्तौ प्राग्विरीह्यादिप्रतिपत्तेर्भवति विशयः । किं दीर्घं कालं पूर्वपूर्वसादृश्येनावस्थायोत्तरसादृश्यं गच्छन्त्युताल्पमिति । तत्रानियमो नियमकारिणः शास्त्रस्याभावादिति । एवं प्राप्त इदमाह- नातिचिरेणेति । अल्पमल्पं कालमाकाशादिभावेनावस्थाय वर्षधाराभिः सहेमां भुवमापतन्ति । कुत एतत् । विशेषदर्शनात् । तथाहि व्रीह्यादिभावापत्तेरनन्तरं विशिनष्टि- ऽअतो वै खलु दुर्निष्प्रपतरम्ऽ (छा। ५।१०।६) इति । तकार एतश्चन्दस्यां प्रक्रियायां लुप्तो मन्तव्यः । दुर्निप्रपततरं दुर्निष्क्रमतरं दुःखतरमस्माद्व्रीह्यादिभावान्निःसरणं भवतीत्यर्थः । तदत्र दुःखं निष्प्रपतनं प्रदर्शयन्पूर्वेषु सुखं निष्प्रपतनं दर्शयति । सुखदुःखताविशेषश्चायं निष्प्रपतनस्य कालाल्पत्वदीर्घत्वनिमित्तः । तस्मिन्नवधौ शरीरानिष्पत्तेरुपभोगासंभवात् । तस्माद्व्रीह्यादिभावापत्तेः प्रागल्पेनैव कालेनावरोहः स्यादिति ॥ २३ ॥ ६ अन्याधिष्ठिताधिकरणम् । सू। २४-२७

nāticireṇa viśeṣāt tatrākāśādipratipattau prāgvirīhyādipratipatterbhavati viśayaḥ / kiṃ dīrghaṃ kālaṃ pūrvapūrvasādṛśyenāvasthāyottarasādṛśyaṃ gacchantyutālpamiti / tatrāniyamo niyamakāriṇaḥ śāstrasyābhāvāditi / evaṃ prāpta idamāha- nāticireṇeti / alpamalpaṃ kālamākāśādibhāvenāvasthāya varṣadhārābhiḥ sahemāṃ bhuvamāpatanti / kuta etat / viśeṣadarśanāt / tathāhi vrīhyādibhāvāpatteranantaraṃ viśinaṣṭi- 'ato vai khalu durniṣprapataram' (chā. 5.10.6) iti / takāra etaścandasyāṃ prakriyāyāṃ lupto mantavyaḥ / durniprapatataraṃ durniṣkramataraṃ duḥkhataramasmādvrīhyādibhāvānniḥsaraṇaṃ bhavatītyarthaḥ / tadatra duḥkhaṃ niṣprapatanaṃ pradarśayanpūrveṣu sukhaṃ niṣprapatanaṃ darśayati / sukhaduḥkhatāviśeṣaścāyaṃ niṣprapatanasya kālālpatvadīrghatvanimittaḥ / tasminnavadhau śarīrāniṣpatterupabhogāsaṃbhavāt / tasmādvrīhyādibhāvāpatteḥ prāgalpenaiva kālenāvarohaḥ syāditi // 23 // 6 anyādhiṣṭhitādhikaraṇam / sū. 24-27

Sanskrit only: no published translation is held for this verse.

अन्याधिष्ठितेषु पूर्ववदभिलापात् तस्मिन्नेवारोहे प्रवर्षणानन्तरं पठ्यते- ऽत इह व्रीहियवा ओषधिवनस्पतयस्तिलमाषा इति जायन्तेऽ (छा। ५।१०।६) इति । तत्र संशयः - किमस्मिन्नवधौ स्थावरजात्यापन्नाः स्थावरसुखदुःखभाजो ऽनुशायिनो भवत्याहोस्वित्क्षेत्रज्ञान्तराधिष्ठितेषु स्थावरशरीरेषु संश्लेषमात्रं गच्छन्तीति । किं तावत्प्राप्तम् । स्थावरजात्यापन्नास्तत्सुखदुःखभाजो ऽनुशयिनो भवन्तीति । कुत एतत् । जनेर्मुख्यार्थत्वोपपत्तेः स्थावरभावस्य च श्रुतिस्मृत्योरुपभोगस्थानत्वप्रसिद्धेः । पशुहिंसादियोगाच्चेष्टादेः कर्मजातस्यानिष्टफलत्वोपपत्तेः । तस्मान्मुख्यमेवेदमनुशयिनां व्रीह्यादिजन्म । श्वादिजन्मवत् । यथा श्वयोनिं वा सूकरयोनिं वा चम्डालयोनिं वेति मुख्यमेवानुशयिनां श्वादिजन्म तत्सुखदुःखान्वितं भवति । एवं व्रीह्यादिषु संसर्गमात्रमनुशयिनः प्रतिपद्यन्ते न तत्सुखदुःखान्वितं भवति । एवं व्रीह्यादिजन्मापीति । एवं प्राप्ते ब्रूमः अन्यैर्जीवैरधिष्ठितेषु व्रीह्यादिषु संसर्गमात्रमनुशयिनः प्रतिपद्यन्ते न तत्सुखदुःखभाजो भवन्ति । पूर्ववत् । यथा वायुधूमादिभावो ऽनुशयिनां तत्संश्लेषमात्रम् । एवं व्रीह्यादिभावो ऽपि जातिस्थावरैः संश्लेषमात्रम् । कुत एतत् । तद्वदेवेहाप्यभिलापात् । को ऽभिलापस्य तद्वद्भावः । कर्मव्यापारमन्तरेण संकीर्तनम् । यथाकाशादिषु प्रवर्षणान्तेषु न कञ्चित्कर्मव्यापारं परामृशत्येवं व्रीह्यादिजन्मन्यपि । तस्मान्नास्त्यत्र सुखदुःखभाक्त्वमनुशयिनाम् । यत्र तु सुखदुःखभाक्त्वमभिप्रैति परामृशति तत्र कर्मव्यापारं रमणीयचरणाः कपूयचरणा इति च । अपिच मुख्ये ऽनुशयिनां व्रीह्यादिजन्मनि व्रीह्यादिषु लूयमानेषु कण्ड्यमानेषु पच्यमानेषु भक्ष्यमाणेषु च तदभिमानिनो ऽनुशयिनः प्रवसेयुः । यो हि जीवो यच्छरीरमभिमन्यते स तस्मिन्पीड्यमाने प्रवसतीति प्रसिद्धम् । तत्र व्रीह्यादिभावाद्रेतःसिग्भावो ऽनुशयिनां नाभिलप्येत । अतः संसर्गमात्रमनुशयिनामन्याधिष्ठितेषु व्रीह्यादिषु भवति । एतेन जनेर्मुख्यार्थत्वं प्रतिब्रूयादुपभोगस्थानत्वं च स्थावरभावस्य । नच वयमुपभोगस्थानत्वं स्थावरभावस्यावजानीमहे । भवत्वन्येषां जन्तूनामपुण्यसामर्थ्येन स्थावरभावमुपगतानामेतदुपभोगस्थानम् । चन्द्रमसस्त्ववरोहन्तो ऽनुशयिनो न स्थावरभावमुपभुञ्जत इत्याचक्ष्महे ॥ २४ ॥

anyādhiṣṭhiteṣu pūrvavadabhilāpāt tasminnevārohe pravarṣaṇānantaraṃ paṭhyate- 'ta iha vrīhiyavā oṣadhivanaspatayastilamāṣā iti jāyante' (chā. 5.10.6) iti / tatra saṃśayaḥ - kimasminnavadhau sthāvarajātyāpannāḥ sthāvarasukhaduḥkhabhājo 'nuśāyino bhavatyāhosvitkṣetrajñāntarādhiṣṭhiteṣu sthāvaraśarīreṣu saṃśleṣamātraṃ gacchantīti / kiṃ tāvatprāptam / sthāvarajātyāpannāstatsukhaduḥkhabhājo 'nuśayino bhavantīti / kuta etat / janermukhyārthatvopapatteḥ sthāvarabhāvasya ca śrutismṛtyorupabhogasthānatvaprasiddheḥ / paśuhiṃsādiyogācceṣṭādeḥ karmajātasyāniṣṭaphalatvopapatteḥ / tasmānmukhyamevedamanuśayināṃ vrīhyādijanma / śvādijanmavat / yathā śvayoniṃ vā sūkarayoniṃ vā camḍālayoniṃ veti mukhyamevānuśayināṃ śvādijanma tatsukhaduḥkhānvitaṃ bhavati / evaṃ vrīhyādiṣu saṃsargamātramanuśayinaḥ pratipadyante na tatsukhaduḥkhānvitaṃ bhavati / evaṃ vrīhyādijanmāpīti / evaṃ prāpte brūmaḥ anyairjīvairadhiṣṭhiteṣu vrīhyādiṣu saṃsargamātramanuśayinaḥ pratipadyante na tatsukhaduḥkhabhājo bhavanti / pūrvavat / yathā vāyudhūmādibhāvo 'nuśayināṃ tatsaṃśleṣamātram / evaṃ vrīhyādibhāvo 'pi jātisthāvaraiḥ saṃśleṣamātram / kuta etat / tadvadevehāpyabhilāpāt / ko 'bhilāpasya tadvadbhāvaḥ / karmavyāpāramantareṇa saṃkīrtanam / yathākāśādiṣu pravarṣaṇānteṣu na kañcitkarmavyāpāraṃ parāmṛśatyevaṃ vrīhyādijanmanyapi / tasmānnāstyatra sukhaduḥkhabhāktvamanuśayinām / yatra tu sukhaduḥkhabhāktvamabhipraiti parāmṛśati tatra karmavyāpāraṃ ramaṇīyacaraṇāḥ kapūyacaraṇā iti ca / apica mukhye 'nuśayināṃ vrīhyādijanmani vrīhyādiṣu lūyamāneṣu kaṇḍyamāneṣu pacyamāneṣu bhakṣyamāṇeṣu ca tadabhimānino 'nuśayinaḥ pravaseyuḥ / yo hi jīvo yaccharīramabhimanyate sa tasminpīḍyamāne pravasatīti prasiddham / tatra vrīhyādibhāvādretaḥsigbhāvo 'nuśayināṃ nābhilapyeta / ataḥ saṃsargamātramanuśayināmanyādhiṣṭhiteṣu vrīhyādiṣu bhavati / etena janermukhyārthatvaṃ pratibrūyādupabhogasthānatvaṃ ca sthāvarabhāvasya / naca vayamupabhogasthānatvaṃ sthāvarabhāvasyāvajānīmahe / bhavatvanyeṣāṃ jantūnāmapuṇyasāmarthyena sthāvarabhāvamupagatānāmetadupabhogasthānam / candramasastvavarohanto 'nuśayino na sthāvarabhāvamupabhuñjata ityācakṣmahe // 24 //

Sanskrit only: no published translation is held for this verse.

अशुद्धम् इति चेन् न शब्दात् यत्पुनरुक्तं पशुहिंसादियोगादशुद्धमाध्वरिकं कर्म तस्यानिष्टमपि फलमवकल्पत इत्यतो मुख्यमेवानुशयिनां व्रीह्यादिजन्मास्तु तत्र गौणी कल्पनानर्थिकेति तत्परिह्रियते । न, शास्त्रहेतुत्वाद्धर्माधर्मविज्ञानस्य । अयं धर्मो ऽयमधर्म इति शास्त्रमेव विज्ञाने कारणम् । अतीन्द्रियत्वात्तयोः अनियतदेशकालनिमित्तत्वाच्च । यस्मिन्देशे काले निमित्ते च यो धर्मो ऽनुष्ठीयते स एव देशकालनिमित्तान्तरेष्वधर्मो भवति । तेन शास्त्रादृते धर्माधर्मविषयं विज्ञानं न कस्यचिदस्ति । शास्त्राच्च हिंसानुग्रहाद्यात्मको ज्योतिष्टोमो धर्म इत्यवधारितः स कथमशुद्ध इति शक्यते वक्तुम् । ननु ऽन हिंस्यात्सर्वा भूतानिऽ इति शास्त्रमेव भूतविषयां हिंसामधर्म इत्यवगमयति । बाढम् । उत्सर्गस्तु सः । अपवादः ऽअग्नीषोमीयं पशुमालभेतऽ इति । उत्सर्गापवादयोश्च व्यवस्थितविषयत्वम् । तस्माद्विशुद्धं कर्म वैदिकं, शिष्टैरनुष्ठीयमानत्वादनिन्द्यमानत्वाच्च । तेन न तस्य प्रतिरूपं फलं जातिस्थावरत्वम् । नच श्वादिजन्मादिवदपि व्रीह्यादिजन्म भवितुमर्हति । तद्धि कपूयतरणानधिकृत्योच्यते नैवमिह वैशेषिकः कश्चिदधिकारो ऽस्ति । अतश्चन्द्रमण्डलस्खलितानामनुशायिनां व्रीह्यादिसंश्लेषमात्रं तद्भाव इत्युपचर्यते ॥ २५ ॥

aśuddham iti cen na śabdāt yatpunaruktaṃ paśuhiṃsādiyogādaśuddhamādhvarikaṃ karma tasyāniṣṭamapi phalamavakalpata ityato mukhyamevānuśayināṃ vrīhyādijanmāstu tatra gauṇī kalpanānarthiketi tatparihriyate / na, śāstrahetutvāddharmādharmavijñānasya / ayaṃ dharmo 'yamadharma iti śāstrameva vijñāne kāraṇam / atīndriyatvāttayoḥ aniyatadeśakālanimittatvācca / yasmindeśe kāle nimitte ca yo dharmo 'nuṣṭhīyate sa eva deśakālanimittāntareṣvadharmo bhavati / tena śāstrādṛte dharmādharmaviṣayaṃ vijñānaṃ na kasyacidasti / śāstrācca hiṃsānugrahādyātmako jyotiṣṭomo dharma ityavadhāritaḥ sa kathamaśuddha iti śakyate vaktum / nanu 'na hiṃsyātsarvā bhūtāni' iti śāstrameva bhūtaviṣayāṃ hiṃsāmadharma ityavagamayati / bāḍham / utsargastu saḥ / apavādaḥ 'agnīṣomīyaṃ paśumālabheta' iti / utsargāpavādayośca vyavasthitaviṣayatvam / tasmādviśuddhaṃ karma vaidikaṃ, śiṣṭairanuṣṭhīyamānatvādanindyamānatvācca / tena na tasya pratirūpaṃ phalaṃ jātisthāvaratvam / naca śvādijanmādivadapi vrīhyādijanma bhavitumarhati / taddhi kapūyataraṇānadhikṛtyocyate naivamiha vaiśeṣikaḥ kaścidadhikāro 'sti / ataścandramaṇḍalaskhalitānāmanuśāyināṃ vrīhyādisaṃśleṣamātraṃ tadbhāva ityupacaryate // 25 //

Sanskrit only: no published translation is held for this verse.

रेतःसिग्योगो ऽथ इतश्च व्रीह्यादिसंश्लेषमात्रं तद्भावो यत्कारणं व्रीह्यादिभावस्यानन्तरमनुशयिनां रेतःसिग्भाव आम्नायते - ऽयो यो ह्यन्नमत्ति यो रेतः सिञ्चति तद्भूय एव भवतिऽ (छा। ५।१०।६) इति । नचात्र मुख्यो रेतःसिग्भावः संभवति । चिरजातो हि प्राप्तयौवनो रेतःसिग्भवति । कथमिवानुपचरितं तद्भावमद्यमानान्नानुगतो ऽनुशयी प्रतिपद्यते । तत्र तावदवश्यं रेतःसिग्योग एव रेतःसिग्भावो ऽभ्युपगन्तव्यः । तद्वद्व्रीह्यादिभावो ऽपि व्रीह्यादियोग एवेत्यविरोधः ॥ २६ ॥

retaḥsigyogo 'tha itaśca vrīhyādisaṃśleṣamātraṃ tadbhāvo yatkāraṇaṃ vrīhyādibhāvasyānantaramanuśayināṃ retaḥsigbhāva āmnāyate - 'yo yo hyannamatti yo retaḥ siñcati tadbhūya eva bhavati' (chā. 5.10.6) iti / nacātra mukhyo retaḥsigbhāvaḥ saṃbhavati / cirajāto hi prāptayauvano retaḥsigbhavati / kathamivānupacaritaṃ tadbhāvamadyamānānnānugato 'nuśayī pratipadyate / tatra tāvadavaśyaṃ retaḥsigyoga eva retaḥsigbhāvo 'bhyupagantavyaḥ / tadvadvrīhyādibhāvo 'pi vrīhyādiyoga evetyavirodhaḥ // 26 //

Sanskrit only: no published translation is held for this verse.

योनेः शरीरम् अथ रेतःसिग्भावस्यानन्तरं योनौ निषिक्ते रेतसि योनेरधिकशरीरमनुशयिनामनुशयफलोपभोगाय जायत इत्याह शास्त्रम् - ऽऽतद्य इह रमणीयचरणाःऽ (छाय ५।१०।७) इत्यादि । तस्मादप्यवगम्यते नावरोहे व्रीह्यादिभावावसरे तच्छरीरमेव सुखदुःकान्वितं भवतीति । तस्माद्व्रीह्यादिसंश्लेषमात्रमनुशयिनां तज्जन्मेति सिद्धम् ॥ २७ ॥ इति श्रीगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छङ्करभगवत्पूज्यपादकृतौ शारीरकमीमांसाभाष्ये तृतीयाध्यायस्य प्रथमः पादः ॥ १ ॥ ____________________________________________________________________________________________ ____________________________________________________________________________________________ तृतीयाध्याये द्वितीयः पादः । [अत्रपादे तत्त्वंपदार्थपरिशोधनविचारः] १ संध्याधिकरणम् । सू। १-६

yoneḥ śarīram atha retaḥsigbhāvasyānantaraṃ yonau niṣikte retasi yoneradhikaśarīramanuśayināmanuśayaphalopabhogāya jāyata ityāha śāstram - ''tadya iha ramaṇīyacaraṇāḥ' (chāya 5.10.7) ityādi / tasmādapyavagamyate nāvarohe vrīhyādibhāvāvasare taccharīrameva sukhaduḥkānvitaṃ bhavatīti / tasmādvrīhyādisaṃśleṣamātramanuśayināṃ tajjanmeti siddham // 27 // iti śrīgovindabhagavatpūjyapādaśiṣyaśrīmacchaṅkarabhagavatpūjyapādakṛtau śārīrakamīmāṃsābhāṣye tṛtīyādhyāyasya prathamaḥ pādaḥ // 1 // ____________________________________________________________________________________________ ____________________________________________________________________________________________ tṛtīyādhyāye dvitīyaḥ pādaḥ / [atrapāde tattvaṃpadārthapariśodhanavicāraḥ] 1 saṃdhyādhikaraṇam / sū. 1-6

Sanskrit only: no published translation is held for this verse.