प्रदानवदेव तदुक्तम् वाजसनेयके - ऽवदिष्याम्येवाहमीति वाग्दध्रेऽ (बृ। १।५।२१) इत्यत्राध्यात्मं वागादीनां श्रेष्ठो ऽवधारितो ऽधिदैवतमग्न्यादीनां वायुः तथा छान्दोग्ये - ऽवायुर्वाव संवर्गःऽ (छा। ४।३।१) इत्यत्राधिदैवतमग्न्यादीनां वायुः सर्ङ्गो ऽवधारितः ऽप्राणो वाव संवर्गःऽ (छा। ४।३।२) इत्यत्राध्यात्मं वागादीनां प्राणः । तत्र संशयः - किं पृथगेवेमौ वायुप्राणावुपगन्तव्यौ स्यातामपृथग्वेति । अपृथगेवेति तावत्प्राप्तं तत्त्वभेदात् । नह्यभिन्ने तत्त्वे पृथगनुचिन्तनं न्याय्यम् । दर्शयति च श्रुतिरध्यात्ममधिदैवतं च तत्त्वाभेदम् - ऽअग्निर्वाग्भूत्वा मुखं प्राविशत्ऽ (ऐ। २।४) इत्यारभ्य । तथा ऽत एते सर्व एव समाः सर्वो ऽनन्ताःऽ (बृ। १।५।१३) इत्याध्यात्मिकानां प्रामानामाधिदैविकीं विबूतिमात्मभूतां दर्शयति । तथान्यत्रापि तत्र तत्राध्यात्ममधिदैवतं च बहुधा तत्त्वभेददर्शनं भवति । क्वचिच्च ऽयः प्राणः स वायुः इति स्पष्टमेव वायुं प्राणं चैकं करोति । तथोदाहृते ऽपि वाजसनेयिब्राह्मणे यतश्चेदेति सूर्यः (बृ। १।५।२३) इत्यस्मिन्नुपसंहारश्लोके ऽप्राणाद्वा एष उदेति प्राणे ऽस्तमेतिऽ (बृ। १।५।२३) इति प्राणेनैवोपसंहरन्नेत्वं दर्शयति । तस्मादेकमेव व्रतं चरेत्प्राण्याच्चैवापायान्याच्चऽ (बृ। १।५।२३) इति च प्राणव्रतेनैकेनोपसंहरेन्नेतदेव द्रढयति । तथा छान्दोग्ये ऽपि परस्तात् ऽमहात्मनश्चतुरो देव एकः कः स जागर भुवनस्य गोपाःऽ (छा। ४।३।६) इत्येकमेव संवर्गं गमयति न ब्रवीत्येक एकेषां चतुर्णां संवर्गो ऽपरो ऽपरेषामिति । तस्मादपृथक्त्वमुपगमनस्येति । एवं प्राप्ते ब्रूमः - पृथगेव वायुप्राणावुपगन्तव्याविति । कस्मात् । पृथगुपदेशात् । आध्यानार्थो ह्ययमध्यात्माधिदैवविभागोपदेशः सो ऽसत्याध्यानपृथक्त्वे ऽनर्थक एव स्यात् । ननूक्तं न पृथगनुचिन्तनं तत्त्वाभेदादिति । नैष दोषः । तत्त्वाभेदे ऽप्यवस्थाभेदादुपदेशभेदवशेनानुचिन्तनभेदोपपत्तेः । श्लोकोपन्यासस्य च तत्त्वाभेदाभिप्रायेणाप्युपपद्यमानस्य पूर्वोदितध्येयभेदनिराकरणसामर्थ्याभावात् । ऽस यथैषां प्राणानां मध्यमः प्राण एवमेतासां देवतानां वायुःऽ (बृ। १।५।२२) इति चोपमानोपमेयकरणात् । एतेन व्रतोपदेशो व्याख्यातः । ऽएकमेव व्रतम्ऽ (बृ। १।५।२३) इति चैवकारो वागादिव्रतनिवर्तनेन प्राणव्रतप्रतिपत्त्यर्थः । भग्नव्रतानि हि वागादीन्युक्तानि ऽतानि मृत्युः श्रमो भूत्वोपयेमेऽ (बृ। १।५।२१) इति श्रुतेः । ऽन वायुव्रतनिवृत्त्यर्थः अथातो व्रतमीमांसाऽ (बृ। १।५।२१) इति प्रस्तुत्य तुल्यवद्वायुप्राणयोरभग्नव्रतत्वस्य निर्धारितत्वात् । ऽएकमेव व्रतं चरेत्ऽ (बृ। १।५।२३) इति चेक्त्वा ऽतेनो एतस्यै देवतायै सायुज्यं सलोकतां जयति (बृ। १।५।२३) इति वायुप्राप्तिं फलं ब्रुवन्वायुव्रतमनिवर्तितं दर्शयति । द्वतेत्यत्र वायुः स्यादपरिच्चिन्नात्मकत्वस्य प्रेप्सितत्वात् । पुरस्तात्प्रयोगाच्च ऽसैषानस्तमिता देवता यद्वायुःऽ (बृ। १।५।२२) इति । तथा ऽतौ वा एतौ द्वौ संवर्गौ वायुरेव देवेषु प्राणः प्राणेषुऽ (छा। ४।३।४) इति भेदेन व्यपदिशति ऽते वा एते पञ्चान्ये पञ्चान्ये दश सन्तस्तत्कृतम्ऽ (छा। ४।३।८) इति च भेदेनैवोपसंहरति । तस्मात्पृथगेवोपगमनम् । प्रदानवत् । यथेन्द्राय राज्ञे पुरोडाशमेकादशकपालमिन्द्रायाधिराजायेन्द्राय स्वराज्ञ इत्यस्यां त्रिपुरोडाशिन्यामिष्टौ सर्वेषामभिगमयन्नवद्यत्यछंबट्कारमिति । अतो वचनादिन्द्राभेदाच्च सहप्रदानाशङ्कायां राजादिगुणभेदाद्याज्यानुवाक्यव्यत्यासविधानाच्च यथान्यसमेव देवतापृथक्त्वात्प्रदानपृथक्त्वं भवति । एवं तत्त्वाभेदे ऽप्याध्येयांशपृथक्त्वादाध्यानपृथक्त्वमित्यर्थः । तदुक्तं संकर्षे ऽनाना वा देवता पृथग्ज्ञानात्ऽ इति । तत्र तु द्रव्यदेवताभेदाद्यागभेदो विद्यते नैवमिह विद्याभेदो ऽस्ति । उपक्रमोपसंहाराभ्यामध्यात्माधिदैवोपदेशेष्वेकविद्याविधानप्रतीतेः । विद्यैकस्थे ऽपि त्वध्यात्माधिदैवभेदात्प्रवृत्तिभेदो भवति अग्निहोत्र इव सायंप्रातःकालभेदात् । इत्येतावदभिप्रेत्य प्रदानवदित्युक्तम् ॥ ४३ ॥ २९ लिङ्गभूयस्त्वाधिकरणम् । सू। ४४-५२
pradānavadeva taduktam vājasaneyake - 'vadiṣyāmyevāhamīti vāgdadhre' (bṛ. 1.5.21) ityatrādhyātmaṃ vāgādīnāṃ śreṣṭho 'vadhārito 'dhidaivatamagnyādīnāṃ vāyuḥ tathā chāndogye - 'vāyurvāva saṃvargaḥ' (chā. 4.3.1) ityatrādhidaivatamagnyādīnāṃ vāyuḥ sarṅgo 'vadhāritaḥ 'prāṇo vāva saṃvargaḥ' (chā. 4.3.2) ityatrādhyātmaṃ vāgādīnāṃ prāṇaḥ / tatra saṃśayaḥ - kiṃ pṛthagevemau vāyuprāṇāvupagantavyau syātāmapṛthagveti / apṛthageveti tāvatprāptaṃ tattvabhedāt / nahyabhinne tattve pṛthaganucintanaṃ nyāyyam / darśayati ca śrutiradhyātmamadhidaivataṃ ca tattvābhedam - 'agnirvāgbhūtvā mukhaṃ prāviśat' (ai. 2.4) ityārabhya / tathā 'ta ete sarva eva samāḥ sarvo 'nantāḥ' (bṛ. 1.5.13) ityādhyātmikānāṃ prāmānāmādhidaivikīṃ vibūtimātmabhūtāṃ darśayati / tathānyatrāpi tatra tatrādhyātmamadhidaivataṃ ca bahudhā tattvabhedadarśanaṃ bhavati / kvacicca 'yaḥ prāṇaḥ sa vāyuḥ iti spaṣṭameva vāyuṃ prāṇaṃ caikaṃ karoti / tathodāhṛte 'pi vājasaneyibrāhmaṇe yataścedeti sūryaḥ (bṛ. 1.5.23) ityasminnupasaṃhāraśloke 'prāṇādvā eṣa udeti prāṇe 'stameti' (bṛ. 1.5.23) iti prāṇenaivopasaṃharannetvaṃ darśayati / tasmādekameva vrataṃ caretprāṇyāccaivāpāyānyācca' (bṛ. 1.5.23) iti ca prāṇavratenaikenopasaṃharennetadeva draḍhayati / tathā chāndogye 'pi parastāt 'mahātmanaścaturo deva ekaḥ kaḥ sa jāgara bhuvanasya gopāḥ' (chā. 4.3.6) ityekameva saṃvargaṃ gamayati na bravītyeka ekeṣāṃ caturṇāṃ saṃvargo 'paro 'pareṣāmiti / tasmādapṛthaktvamupagamanasyeti / evaṃ prāpte brūmaḥ - pṛthageva vāyuprāṇāvupagantavyāviti / kasmāt / pṛthagupadeśāt / ādhyānārtho hyayamadhyātmādhidaivavibhāgopadeśaḥ so 'satyādhyānapṛthaktve 'narthaka eva syāt / nanūktaṃ na pṛthaganucintanaṃ tattvābhedāditi / naiṣa doṣaḥ / tattvābhede 'pyavasthābhedādupadeśabhedavaśenānucintanabhedopapatteḥ / ślokopanyāsasya ca tattvābhedābhiprāyeṇāpyupapadyamānasya pūrvoditadhyeyabhedanirākaraṇasāmarthyābhāvāt / 'sa yathaiṣāṃ prāṇānāṃ madhyamaḥ prāṇa evametāsāṃ devatānāṃ vāyuḥ' (bṛ. 1.5.22) iti copamānopameyakaraṇāt / etena vratopadeśo vyākhyātaḥ / 'ekameva vratam' (bṛ. 1.5.23) iti caivakāro vāgādivratanivartanena prāṇavratapratipattyarthaḥ / bhagnavratāni hi vāgādīnyuktāni 'tāni mṛtyuḥ śramo bhūtvopayeme' (bṛ. 1.5.21) iti śruteḥ / 'na vāyuvratanivṛttyarthaḥ athāto vratamīmāṃsā' (bṛ. 1.5.21) iti prastutya tulyavadvāyuprāṇayorabhagnavratatvasya nirdhāritatvāt / 'ekameva vrataṃ caret' (bṛ. 1.5.23) iti cektvā 'teno etasyai devatāyai sāyujyaṃ salokatāṃ jayati (bṛ. 1.5.23) iti vāyuprāptiṃ phalaṃ bruvanvāyuvratamanivartitaṃ darśayati / dvatetyatra vāyuḥ syādapariccinnātmakatvasya prepsitatvāt / purastātprayogācca 'saiṣānastamitā devatā yadvāyuḥ' (bṛ. 1.5.22) iti / tathā 'tau vā etau dvau saṃvargau vāyureva deveṣu prāṇaḥ prāṇeṣu' (chā. 4.3.4) iti bhedena vyapadiśati 'te vā ete pañcānye pañcānye daśa santastatkṛtam' (chā. 4.3.8) iti ca bhedenaivopasaṃharati / tasmātpṛthagevopagamanam / pradānavat / yathendrāya rājñe puroḍāśamekādaśakapālamindrāyādhirājāyendrāya svarājña ityasyāṃ tripuroḍāśinyāmiṣṭau sarveṣāmabhigamayannavadyatyachaṃbaṭkāramiti / ato vacanādindrābhedācca sahapradānāśaṅkāyāṃ rājādiguṇabhedādyājyānuvākyavyatyāsavidhānācca yathānyasameva devatāpṛthaktvātpradānapṛthaktvaṃ bhavati / evaṃ tattvābhede 'pyādhyeyāṃśapṛthaktvādādhyānapṛthaktvamityarthaḥ / taduktaṃ saṃkarṣe 'nānā vā devatā pṛthagjñānāt' iti / tatra tu dravyadevatābhedādyāgabhedo vidyate naivamiha vidyābhedo 'sti / upakramopasaṃhārābhyāmadhyātmādhidaivopadeśeṣvekavidyāvidhānapratīteḥ / vidyaikasthe 'pi tvadhyātmādhidaivabhedātpravṛttibhedo bhavati agnihotra iva sāyaṃprātaḥkālabhedāt / ityetāvadabhipretya pradānavadityuktam // 43 // 29 liṅgabhūyastvādhikaraṇam / sū. 44-52
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.