लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि वाजसनेयिनो ऽग्निरहस्ये - ऽनैव इदमग्रे सदासीत्ऽ इत्येतस्मिन्ब्राह्मणे मनो ऽधिकृत्याधीयते ऽतत्षट्त्रिंशत्सहस्राण्यपश्यदात्मनो ऽग्नीनर्कान्मनोमयामनश्चितःऽ इत्यादि । तथैव ऽवाक्चितः प्राणचितश्चक्षुश्चितः श्रोत्रचितः कर्मचितो ऽग्निचितःऽ इति पृथगगमनीनामनन्ति सांपादिकान् । तेषु संशयः - किमेते मनश्चिदादयः क्रियानुप्रवेशिनस्तच्छेषभूता उत स्वतन्त्राः केवलविद्यात्मका इति । तत्र प्रकरणाक्रियानुप्रवेशे प्राप्ते स्वातन्त्र्यं तावत्प्रतिजानीते लिङ्गभयस्त्वादिति । भूयांसि हिलिङ्गान्यस्मिन्ब्राह्मणे केवलविद्यात्मकत्वमेषामुपोद्बलयन्ति दृश्यन्ते तद्यत्किञ्चेमानि भूतानि मनसा संकल्पयन्ति तेषामेव सा कृतिः इति, ऽतान्हैतानेवंविदे सर्वदा सर्वाणि भूतानि चिन्वन्त्यपि स्वपतेऽ इति चैवञ्जातीयकानि । तद्धि लिङ्गं प्रकरणाद्बलीयः । तदप्युक्तं पूर्वस्मिन्काण्डे - ऽश्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवायेपारदौर्बल्यमर्थविप्रकर्षात्ऽ (जैसू। ३।३।१३) इति ॥ ४४ ॥
liṅgabhūyastvāttaddhi balīyastadapi vājasaneyino 'gnirahasye - 'naiva idamagre sadāsīt' ityetasminbrāhmaṇe mano 'dhikṛtyādhīyate 'tatṣaṭtriṃśatsahasrāṇyapaśyadātmano 'gnīnarkānmanomayāmanaścitaḥ' ityādi / tathaiva 'vākcitaḥ prāṇacitaścakṣuścitaḥ śrotracitaḥ karmacito 'gnicitaḥ' iti pṛthagagamanīnāmananti sāṃpādikān / teṣu saṃśayaḥ - kimete manaścidādayaḥ kriyānupraveśinastaccheṣabhūtā uta svatantrāḥ kevalavidyātmakā iti / tatra prakaraṇākriyānupraveśe prāpte svātantryaṃ tāvatpratijānīte liṅgabhayastvāditi / bhūyāṃsi hiliṅgānyasminbrāhmaṇe kevalavidyātmakatvameṣāmupodbalayanti dṛśyante tadyatkiñcemāni bhūtāni manasā saṃkalpayanti teṣāmeva sā kṛtiḥ iti, 'tānhaitānevaṃvide sarvadā sarvāṇi bhūtāni cinvantyapi svapate' iti caivañjātīyakāni / taddhi liṅgaṃ prakaraṇādbalīyaḥ / tadapyuktaṃ pūrvasminkāṇḍe - 'śrutiliṅgavākyaprakaraṇasthānasamākhyānāṃ samavāyepāradaurbalyamarthaviprakarṣāt' (jai.sū. 3.3.13) iti // 44 //
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.