भावशब्दाच् च ऽउद्गीथमुपासीतऽ (छा। १।१।१) ऽसामोपासीतऽ (छा। २।२।१) ऽअहमुक्थमस्मीति विद्यात्ऽ इत्यादयश्च विस्पष्टा विधिशब्दाः श्रूयन्ते ते च स्तुतिमात्रप्रयोजनतायां व्याहन्येरन् । तथाच न्यायविदां स्मरणम् -ऽकुर्यात्क्रियेत कर्तव्यं भवेतस्यादिति पञ्चमम् । एतत्स्यात्सर्ववेदेषु नियतं विधिलक्षणम्ऽ इति लिङ्गाद्यर्थो विधिरिति मन्यमानास्त एवं स्मरन्ति । प्रतिप्रकरणं च फलानि श्राव्यते - ऽआपयिता ह वै कामानां भवतिऽ (छा। १।१।७) ऽएष ह्येव कामागानस्येष्टेऽ (छा। १।७।९) ऽकल्पन्ते हास्मै लोका ऊर्ध्वश्चावृत्ताश्चऽ (छा। २।२।३) इत्यादीनि । तस्मादप्युपासनाविधानार्था उद्गीथादिश्रुतयः ॥ २२ ॥ ४ पारिप्लवाधिकरणम् । सू। २३-२४
bhāvaśabdāc ca 'udgīthamupāsīta' (chā. 1.1.1) 'sāmopāsīta' (chā. 2.2.1) 'ahamukthamasmīti vidyāt' ityādayaśca vispaṣṭā vidhiśabdāḥ śrūyante te ca stutimātraprayojanatāyāṃ vyāhanyeran / tathāca nyāyavidāṃ smaraṇam -'kuryātkriyeta kartavyaṃ bhavetasyāditi pañcamam / etatsyātsarvavedeṣu niyataṃ vidhilakṣaṇam' iti liṅgādyartho vidhiriti manyamānāsta evaṃ smaranti / pratiprakaraṇaṃ ca phalāni śrāvyate - 'āpayitā ha vai kāmānāṃ bhavati' (chā. 1.1.7) 'eṣa hyeva kāmāgānasyeṣṭe' (chā. 1.7.9) 'kalpante hāsmai lokā ūrdhvaścāvṛttāśca' (chā. 2.2.3) ityādīni / tasmādapyupāsanāvidhānārthā udgīthādiśrutayaḥ // 22 // 4 pāriplavādhikaraṇam / sū. 23-24
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.