पारिप्लवार्था इति चेन् न विशेषितत्वात् ऽअथ ह याज्ञवल्क्यस्य द्वे भार्ये बभूवतुर्मैत्रेयी च कात्ययनी चऽ (बृ। ४।५।१) ऽप्रतर्दनो ह वै दैवोदासिरिन्द्रस्य प्रियं धामोपजगामऽ (कौषी। ३।१) ऽजानश्रुतिर्ह पौत्रायणः श्रद्धादेयो बहुदायी बहुपाक्य आसऽ (छा। ४।१।१) इत्येवमादिषु वेदान्तपठितेष्वाख्यानेषु संशयः - किमिमानि पारिप्लवप्रयोगार्थान्योहोस्वित्संनिहितविद्याप्रतिपत्त्यर्थानीति । पारिप्लवार्था इमा आख्यानश्रुतयः । आख्यानसामान्यात् । आख्यानप्रयोगस्य च परिप्लवे चोदितत्वात् । ततश्च विद्याप्रधानत्वं वेदान्तानां न स्यात्, मन्त्रवत्प्रयोगशेषत्वादिति चेत् । तन्न । कस्मात् । विशेषितत्वात् । ऽपारिप्लवमाचक्षीतऽ इति हि प्रकृत्य ऽमनुर्वैवस्वतो राजाऽ इत्येवमादीनि कानिचिदेवाख्यानानि तत्र विशेष्यन्ते । आख्यानसामान्याच्चेत्सामान्याच्चेत्सर्वगृहीतिः स्यादनर्थकमेवेदं विशेषणं भवेत् । तस्मान्न पारिप्लवार्था एता आख्यानश्रुतयः ॥ २३ ॥
pāriplavārthā iti cen na viśeṣitatvāt 'atha ha yājñavalkyasya dve bhārye babhūvaturmaitreyī ca kātyayanī ca' (bṛ. 4.5.1) 'pratardano ha vai daivodāsirindrasya priyaṃ dhāmopajagāma' (kauṣī. 3.1) 'jānaśrutirha pautrāyaṇaḥ śraddhādeyo bahudāyī bahupākya āsa' (chā. 4.1.1) ityevamādiṣu vedāntapaṭhiteṣvākhyāneṣu saṃśayaḥ - kimimāni pāriplavaprayogārthānyohosvitsaṃnihitavidyāpratipattyarthānīti / pāriplavārthā imā ākhyānaśrutayaḥ / ākhyānasāmānyāt / ākhyānaprayogasya ca pariplave coditatvāt / tataśca vidyāpradhānatvaṃ vedāntānāṃ na syāt, mantravatprayogaśeṣatvāditi cet / tanna / kasmāt / viśeṣitatvāt / 'pāriplavamācakṣīta' iti hi prakṛtya 'manurvaivasvato rājā' ityevamādīni kānicidevākhyānāni tatra viśeṣyante / ākhyānasāmānyāccetsāmānyāccetsarvagṛhītiḥ syādanarthakamevedaṃ viśeṣaṇaṃ bhavet / tasmānna pāriplavārthā etā ākhyānaśrutayaḥ // 23 //
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.