स्वामिनः फलश्रुतेर् इत्य् आत्रेयः अङ्गेषूपासनेषु संशयः । किं तानि यजमानकर्माण्याहोस्विदृत्विक्कर्माणीति । किं तावत्प्राप्तम् यजमानकर्माणीति । कुतः - फलश्रुतेः । फलं हि श्रूयते - ऽवर्षति हास्मै वर्षयति ह य एतदेवं विद्वान्वृष्टौ पञ्चविधं सामोपास्तेऽ (छा। २।३।२) इत्यादि । तच्च स्वामिगामि न्याय्यम् । तस्य साङ्गे प्रयोगे ऽधिकृतत्वात् । अधिकृताधिकारत्वाच्चैवञ्जातीयकस्य । फलं च कर्तर्युपासनानां श्रूयते - ऽवर्षत्यस्मै य उपास्तेऽ इत्यादि । नन्वृत्विजो ऽपि फलं दृष्टम् ऽआत्मने वा यं कामं कामयते तमागायतिऽ (बृ। १।३।२८) इति । न । तस्य वाचनिकत्वात् । तस्मात्स्वामिन एव फलवत्सूपासनेषु कर्तृत्वमित्यात्रेय आचार्यो मन्यते ॥ ४४ ॥
svāminaḥ phalaśruter ity ātreyaḥ aṅgeṣūpāsaneṣu saṃśayaḥ / kiṃ tāni yajamānakarmāṇyāhosvidṛtvikkarmāṇīti / kiṃ tāvatprāptam yajamānakarmāṇīti / kutaḥ - phalaśruteḥ / phalaṃ hi śrūyate - 'varṣati hāsmai varṣayati ha ya etadevaṃ vidvānvṛṣṭau pañcavidhaṃ sāmopāste' (chā. 2.3.2) ityādi / tacca svāmigāmi nyāyyam / tasya sāṅge prayoge 'dhikṛtatvāt / adhikṛtādhikāratvāccaivañjātīyakasya / phalaṃ ca kartaryupāsanānāṃ śrūyate - 'varṣatyasmai ya upāste' ityādi / nanvṛtvijo 'pi phalaṃ dṛṣṭam 'ātmane vā yaṃ kāmaṃ kāmayate tamāgāyati' (bṛ. 1.3.28) iti / na / tasya vācanikatvāt / tasmātsvāmina eva phalavatsūpāsaneṣu kartṛtvamityātreya ācāryo manyate // 44 //
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.