सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत् ऽतस्माद्ब्रह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेद्बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिरमौनं च मोनं च निर्विद्याथ ब्राह्मणःऽ (बृ। ३।५।१) इति बृहदारण्यके श्रूयते । तत्र संशयः मौनं विदीयते न वेति । न विदीयत इति तावत्प्राप्तम् । बाल्येन तिष्ठासेदित्यत्रैव विधेरवसितत्वात् । नह्यथ मुनिरित्यत्र विदायका विभक्तिरुपलभ्यते तस्मादयमनुवादो युक्तः । कुतः प्राप्तिरिति चेत् । मुनिपण्डितशब्दयोर्ज्ञानार्थत्वात्पाण्डित्यं निर्विद्येत्येवं प्राप्तं मौनम् । अपिचामौनं च मौनं च निर्विद्याथ ब्राह्मण इत्यत्र तावन्न ब्राह्मणत्वं विधीयते प्रागेव प्राप्तत्वात् । तस्मादथ ब्राह्मण इति प्रशंसावदस्तथैवाथ मुनिरित्यपि भवितुमर्हति समाननिर्देषत्वादिति । एवं प्राप्ते ब्रूमः - सहकार्यन्तरविधिरिति । विद्यासहकारिणो मौनस्य बाल्यपाण्डित्यवद्विधिरेवाश्रयितव्यो ऽपूर्ववत् । ननु पाण्डित्यशब्देनैव मौनस्यावगतत्वमुक्तम् । नैष दोषः । मुनिशब्दस्य ज्ञानातिशयार्थत्वात् । मननान्मुनिरिति च व्युत्पत्तिरिति च व्युत्पत्तिसंभवात् । ऽमुनीनामप्यहं व्यासःऽ (गी। १०।३७) इति च प्रयोगदर्शनात् । ननु मुनिशब्द उत्तमाश्रमवचनो ऽपि श्रूयते ऽगार्हस्थ्यमाचार्यकुलं मौनं वानप्रस्थम्ऽ इत्यत्र । न । ऽवाल्मीकिर्मुनिपुङ्गवःऽ इत्यादिषु व्यबिचारदर्शनात् । इतराश्रमसंनिधानात्तु पारिशेष्यात्तत्रोत्तमाश्रमोपादानं ज्ञानप्रधानत्वादुत्माश्रमस्यष तस्माद्बाल्यपाण्डित्यापेक्षया तृतीयमिदं मौनं ज्ञानातिशयरूपं विदीयते । यत्तु बाल्य एव विधेः पर्यवसानमिति तथाप्यपूर्वत्वान्मुनित्वस्य विधेयत्वामाश्रीयते मुनिः स्यादिति । निर्वेदनीयत्वनिर्देशादपि मौनस्य बाल्यपाण्डित्यवद्विधेयत्वाश्रयणम् । तद्वतो विद्यावतः सन्यासिनः । कथञ्च विद्यावः संन्यासिन इत्यवगम्यते । तदधिकारात् ऽआत्मानं विदित्वा पुत्राद्येषणाभ्यो व्युत्थायाथ भिक्षाचर्यं चरन्तिऽ इति । ननु सति विद्यावत्त्वे प्राप्नोत्येव तत्रातिशयः किं मोनविधिनेत्यत आह - पक्षेणेति । एतदुक्तं भवति - यस्मिन्पक्षे भेददर्शनप्राबल्यान्न प्राप्नोति तस्मिन्नेष विधिरिति । विध्यादिवत् । यथा - ऽदर्शपूर्णमासाभ्यां स्वर्गकामो यजेतऽ इत्येवञ्जातीयके विध्यादौ सहकारित्वेनाग्न्यन्बाधानादिकमङ्गजातं विधीयते । एवमविप्रधाने ऽप्यस्मिन्विद्यावाक्ये मौनविधिरित्यर्थः ॥ ४७ ॥ एवं बाल्यादिविशिष्टे कैवल्याश्रमे श्रुतिमति विद्यमाने कस्माच्छान्दोग्ये गृहिणोपसंहारः ऽअभिसमावृत्य कुटुम्बेऽ (छा। ८।१५।१) इत्यत्र । तेन ह्युपसंहरंस्तद्विषयमादरं दर्शतीति । अत उत्तरं पठति -
sahakāryantaravidhiḥ pakṣeṇa tṛtīyaṃ tadvato vidhyādivat 'tasmādbrahmaṇaḥ pāṇḍityaṃ nirvidya bālyena tiṣṭhāsedbālyaṃ ca pāṇḍityaṃ ca nirvidyātha muniramaunaṃ ca monaṃ ca nirvidyātha brāhmaṇaḥ' (bṛ. 3.5.1) iti bṛhadāraṇyake śrūyate / tatra saṃśayaḥ maunaṃ vidīyate na veti / na vidīyata iti tāvatprāptam / bālyena tiṣṭhāsedityatraiva vidheravasitatvāt / nahyatha munirityatra vidāyakā vibhaktirupalabhyate tasmādayamanuvādo yuktaḥ / kutaḥ prāptiriti cet / munipaṇḍitaśabdayorjñānārthatvātpāṇḍityaṃ nirvidyetyevaṃ prāptaṃ maunam / apicāmaunaṃ ca maunaṃ ca nirvidyātha brāhmaṇa ityatra tāvanna brāhmaṇatvaṃ vidhīyate prāgeva prāptatvāt / tasmādatha brāhmaṇa iti praśaṃsāvadastathaivātha munirityapi bhavitumarhati samānanirdeṣatvāditi / evaṃ prāpte brūmaḥ - sahakāryantaravidhiriti / vidyāsahakāriṇo maunasya bālyapāṇḍityavadvidhirevāśrayitavyo 'pūrvavat / nanu pāṇḍityaśabdenaiva maunasyāvagatatvamuktam / naiṣa doṣaḥ / muniśabdasya jñānātiśayārthatvāt / mananānmuniriti ca vyutpattiriti ca vyutpattisaṃbhavāt / 'munīnāmapyahaṃ vyāsaḥ' (gī. 10.37) iti ca prayogadarśanāt / nanu muniśabda uttamāśramavacano 'pi śrūyate 'gārhasthyamācāryakulaṃ maunaṃ vānaprastham' ityatra / na / 'vālmīkirmunipuṅgavaḥ' ityādiṣu vyabicāradarśanāt / itarāśramasaṃnidhānāttu pāriśeṣyāttatrottamāśramopādānaṃ jñānapradhānatvādutmāśramasyaṣa tasmādbālyapāṇḍityāpekṣayā tṛtīyamidaṃ maunaṃ jñānātiśayarūpaṃ vidīyate / yattu bālya eva vidheḥ paryavasānamiti tathāpyapūrvatvānmunitvasya vidheyatvāmāśrīyate muniḥ syāditi / nirvedanīyatvanirdeśādapi maunasya bālyapāṇḍityavadvidheyatvāśrayaṇam / tadvato vidyāvataḥ sanyāsinaḥ / kathañca vidyāvaḥ saṃnyāsina ityavagamyate / tadadhikārāt 'ātmānaṃ viditvā putrādyeṣaṇābhyo vyutthāyātha bhikṣācaryaṃ caranti' iti / nanu sati vidyāvattve prāpnotyeva tatrātiśayaḥ kiṃ monavidhinetyata āha - pakṣeṇeti / etaduktaṃ bhavati - yasminpakṣe bhedadarśanaprābalyānna prāpnoti tasminneṣa vidhiriti / vidhyādivat / yathā - 'darśapūrṇamāsābhyāṃ svargakāmo yajeta' ityevañjātīyake vidhyādau sahakāritvenāgnyanbādhānādikamaṅgajātaṃ vidhīyate / evamavipradhāne 'pyasminvidyāvākye maunavidhirityarthaḥ // 47 // evaṃ bālyādiviśiṣṭe kaivalyāśrame śrutimati vidyamāne kasmācchāndogye gṛhiṇopasaṃhāraḥ 'abhisamāvṛtya kuṭumbe' (chā. 8.15.1) ityatra / tena hyupasaṃharaṃstadviṣayamādaraṃ darśatīti / ata uttaraṃ paṭhati -
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.