Library·Badarayana: Brahmasutra, with Samkara's Sarirakamimamsabhasya·4·4.3·4.3.14

Badarayana: Brahmasutra, with Samkara's Sarirakamimamsabhasya 4.3.14

BSBh 4.3.14

न च कार्ये प्रतिपत्त्यभिसंधिः अपि च ऽप्रजापतेः सभां वेश्म प्रपद्येऽ (छा। ८।१४।१) इति न अयं कार्यविषयः प्रतिपत्ति अभिसंधिः ऽनामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्मऽ (छा। ८।१४।१) इति कार्यविलक्षणस्य परस्य एव ब्रह्मणः प्रकृतत्वात् । ऽयशो ऽहं भवामि ब्राह्मणानाम्ऽ (छा। ८।१४।१) इति च सर्वात्मत्वेन उपक्रमणात् । ऽन तस्य प्रतिमा अस्ति, यस्य नाममहद्यशःऽ (श्वेता। ४।१९) इति च परस्य एव ब्रह्मणो यशोनामत्व प्रसिद्धेः । ऽसा चेयं वेश्मप्रतिपत्तिर्गतिपूर्विका हार्दविद्यायामुदिता तदपराजिता पूर्ब्रह्मणः प्रभुविमितं हिरण्मयम्ऽ (छा। ८।५।३) इति अत्र । पदेरपि च गत्यर्थत्वात् मार्ग अपेक्षा अवसीयते । तस्मात् परब्रह्मविषया गतिश्रुतय इति पक्षान्तरम् । तौ एतौ द्वौ पक्षौ आचार्येण सूत्रितौ गति उपपत्त्यादिभिः एको मुख्यत्वादिभिः अपरः । तत्र गति उपपत्त्यादयः प्रभवन्ति मुख्यत्वादीन आभासयितुं न तु मुख्यत्वादयो गति उपपत्त्यादीन् इत्याद्य एव सिद्धान्तो व्याख्यातो द्वितीयः पूर्वपक्षः । न हि असति अपि संभवे मुख्यस्य एव अर्थस्य ग्रहणम् इति कश्चित् आज्ञापयिता विद्यते । परविद्याप्रकरणे अपि च तत् स्तुत्यर्थं विद्यान्तर आश्रयगति अनुकीर्तनम् उपपद्यते ऽविष्वङ्ङन्या उत्क्रमणे भवन्तिऽ (छा। ८।६।६) इतिवत् । ऽप्रजापतेः सभां वेश्म प्रपद्येऽ (छा। ८।१४।१) इति तु पूर्ववाक्यविच्छेदेन कार्ये अपि प्रतिपत्ति अभिसंधिः न विरुध्यते । सगुणे अपि च ब्रह्मणि सर्वात्मत्व संकीर्तनं सर्वकर्मा सर्वकाम इत्यादिवत् अवकल्पते । तस्मात् अपरविषया एव गतिश्रुतयः । केचित् पुनः पूर्वाणि पूर्वपक्षसूत्राणि भवन्ति उत्तराणि सिद्धान्तसूत्राणि इति एतां व्यवस्थानम् अनुरुध्यमानाः परविषया एव गतिश्रुतीः प्रतिष्ठापयन्ति तत् अनुपपन्नं गन्तव्यत्व अनुपपत्तेः ब्रह्मणः । यत् सर्वगतं सर्वान्तरं सर्वात्मकं च परं ब्रह्म ऽआकाशवत्सर्वगतश्च नित्यःऽ ऽयत्साक्षादपरोक्षाद्ब्रह्मऽ (बृ। ३।४।१) ऽय आत्मा सर्वान्तरःऽ (बृ। ३।४।१) ऽआत्मैवेदं सर्वम्ऽ (छा। ७।२५।२) ऽब्रह्मैवेदं विश्वमिदं वरिष्ठम्ऽ (मु। २।२।११) इत्यादि श्रुतिनिर्धारित विशेषं तस्य गन्तव्यता न कदाचित् अपि उपपद्यते । न हि गतमेव गम्यते । अन्यो हि अन्यत् गच्छति इति प्रसिद्धं लोके । ननु लोके गतस्य अपि गन्तव्यता देशान्तरविशिष्टा दृष्टा । यथा पृथिवीस्थ एव पृथिवीं देशान्तरद्वारेण गच्छति इति । तथा अनन्यत्वे अपि सर्वशक्ति उपेतत्वात् कथञ्चित् गन्तव्यता स्यात् इति । न । प्रतिषिद्धसर्वविशेषत्वात् ब्रह्मणः । ऽनिष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम्ऽ(श्वेता। ६।१९) ऽअस्थूलमनण्वह्रस्वमदीर्घम्ऽ(बृ। ३।८।८) ऽसबाह्याभ्यन्तरो ह्यजःऽ(मु। २।१।२) ऽस वा एष महानज आत्माजरो ऽमरो ऽमृतो ऽभयो ब्रह्मऽ(बृ। ४।४।२५) ऽस एष नेति नेत्यात्माऽ(बृ। ३।९।२३) इत्यादि श्रुति स्मृति न्यायेभ्यो न देशकालादि विशेषयोगः परमात्मनि कल्पयितुं शक्यते । येन भूप्रदेश वयोवस्था न्यायेन अस्य गन्तव्यता स्यात् । भूवयसोः तु प्रदेश अवस्थादि विशेषयोगात् उपपद्यते देश काल विशिष्टा गन्तव्यता । जगत् उत्पत्ति स्थिति प्रलयहेतुत्व श्रुतेः अनेकशक्तित्वं ब्रह्मण इति चेत् । न । विशेषनिराकरणश्रुतीनाम् अनन्यार्थत्वात् । उत्पत्त्यादिश्रुतीनाम् अपि समानम् अनन्यार्थत्वम् इति चेत् । न । तासाम् एकत्वप्रतिपादनपरत्वात् । मृदादि दृष्टान्तैः हि सतो ब्रह्मण एकस्य सत्यत्वं विकारस्य च आवृतत्वं प्रतिपादयत् शास्त्रं न उत्पत्त्यादिपरं भवितुम् अर्हति । कस्मात् पुनः उत्पत्त्यादि श्रुतीनां विशेषत्वं न पुनः इतर शेषत्वम् इतरासाम् इति । उच्यते - विशेषनिराकरणश्रुतीनां निराकाङ्क्षार्थत्वात् । न हि आत्मन एकत्व नित्यत्व शुद्धत्वादि अवगतौ सत्यां भूयः काचित् आकाङ्क्षा उपजायते पुरुषार्थसमाप्तिबुद्धि उपपत्तेः । ऽतत्र को मोहः कः शोक एकत्वमनुपश्यतःऽ (ईशा। ७) ऽअभयं वै जनक प्राप्तो ऽसिऽ (बृ। ४।२।४) ऽविद्वान्न बिभेति कुतश्चन । एतं ह वाव न तपति किमहं साधु नाकरवं किमहं पापमकरवम्ऽ (तैत्ति। २।९।१) इत्यादिश्रुतिभ्यः । तथा एव च विदुषां तुष्टि अनुभवादि दर्शनात् । विकार अनृत अभिसंधि अपवादात् च ऽमृत्योः स मृत्युमाप्नोति य इह नानेव पश्यतिऽ इति । अतो न विशेषनिराकरण श्रुतीनाम् अन्यशेषत्वम् अवगन्तुं शक्यते । न एवम् उत्पत्त्यादि श्रुतीनां निराकाङ्क्षार्थ प्रतिपादनसामर्थ्यम् अस्ति । प्रत्यक्षं तु तासाम् अन्यार्थत्वं समनुगम्यते । तथा हि ऽतत्रैतच्छ्रुङ्गमुत्पतितं सोम्य विजानीहि नेदममूलं भविष्यतिऽ (छा। ६।८।३) इति उपन्यस्य उदर्के सत एव एकस्य जगत् मूलस्य विज्ञेयत्वं दर्शयति । ऽयतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति यत्प्रयन्त्यभिसंविशन्ति । तद्विजिज्ञासस्व । तद्ब्रह्मेतिऽ (तै। ३।१।१) इति च । एवम् उत्पत्त्यादिश्रुतीनाम् ऐकात्म्य अवगमपरत्वात् न अनेकशक्तियोगो ब्रह्मणः । अतः च गन्तव्यत्व अनुपपत्तिः । ऽन तस्य प्राणा उत्क्रमन्ति ब्रह्मैव सन्ब्रह्माप्येतिऽ (बृ। ४।४।६) इति च परस्मिन् ब्रह्मणि गतिं निवारयति । तत् व्याख्यातं ऽस्पष्टो ह्येकेषाम्ऽ (ब्र। सू। ४।२।१३) इत्यत्र । गतिकल्पनायां च गन्ता जीवो गन्तव्यस्य ब्रह्मणः अवयवो विकारो वा ततः स्यात् । अत्यन्त तादात्म्ये गमन अनुपपत्तेः । यदि एवं ततः किं स्यात् । उच्यते । यदि एकदेशः तेन एकदेशिनो नित्यप्राप्तत्वात् न पुनः ब्रह्मगमनम् उपपद्यते । एकदेशित्व कल्पना च ब्रह्मणि अनुपपन्ना निरवयवत्व प्रसिद्धेः । विकारपक्षे अपि एतत् अतुल्यं विकारेण अपि विकारिणो नित्यप्राप्तत्वात् । न हि घटो मृदात्मतां परित्यज्य अवतिष्ठते परित्यागे वा अभावप्राप्तेः । विकार अवयवपक्षयोः च तद्वतः स्थिरत्वात् ब्रह्मणः संसारगमनम् अपि अनवकॢप्तम् । अथ अन्य एव जीवो ब्रह्मणः । सः अणुः व्यापी मद्यम परिमाणो वा भवितुम् अर्हति । व्यापित्वे गमन अनुपपत्तिः । मध्यम परिमाणत्वे च अनित्यत्वप्रसङ्गः । अणुत्वे कृत्स्नशरीरवेदना अनुपपत्तिः । प्रतिषिद्धे च अणुत्व मध्यम परिमाणत्वे विस्तरेण पुरस्तात् । परस्मात् च अन्यत्वे जीवस्य ऽतत्त्वमसिऽ (छा। ६।८।७) इत्यादि शास्त्र बाध प्रसङ्गः । विकार अवयवपक्षयोः अपि समानः अयं दोषः । विकार अवयवयोः तद्वतोः अनन्यत्वात् अदोष इति चेत् । न । मुख्य एकत्व अनुपपत्तेः । सर्वेषु एतेषु पक्षेषु अनिर्मोक्षप्रसङ्गः । संसारि आत्मत्व अनिवृत्तेः । निवृत्तौ वा स्वरूपनाशप्रसङ्गः । ब्रह्मात्मत्व अनभ्युपगमात् च । यत् तु कैश्चित् जल्प्यते नित्यानि नैमित्तिकानि कर्माणि अनुष्ठीयन्ते प्रत्यवाय अनुत्पत्तये काम्यानि प्रतिषिद्धानि च परिह्रियन्ते स्वर्गनरकान् अवाप्तये सांप्रतदेह उपभोग्यानि च कर्माणि उपभोगेन एव क्षप्यन्त इत्यतो वर्तमानदेहपातात् ऊर्ध्वं देहान्तर प्रतिसंधान कारण अभावात् स्वरूप अवस्थानलक्षणं कैवल्यं विना अपि ब्रह्मात्मतय एवंवृत्तस्य सेत्स्यति इति । तत् असत् । प्रमाण अभावात् । न हि एतत् शास्त्रेण केनचित् प्रतिपादितं मोक्षार्थि इत्थं समाचरेत् इति । स्वमनीषया तु एतत् तर्कितं यस्मात् कर्मनिमित्तः संसारः तस्मात् निमित्त अभावात् न भविष्यति इति । न च एतत् तर्कयितुम् अपि शक्यते निमित्त अभावस्य दुर्ज्ञानत्वात् । बहूनि हि कर्माणि जात्यन्तरसंचितानि इष्ट अनिष्टविपाकानि एकैकस्य जन्तोः संभाव्यन्ते । तेषां विरुद्ध फलानां युगपत् उपभोग असंभवात् कानिचित् लब्ध अवसराणि इदं जन्म निर्मिमते कानिचित् तु देशकालनिमित्तप्रतीक्षाणि असत इति अतः तेषाम् अवशिष्टानां सांप्रतेन उपभोगेन क्षपणासंभवात् न यथावर्णितचरितस्य अपि वर्तमानदेहपाते देहान्तरनिमित्त अभावः शक्यते निश्चेतुम् । कर्मशेषसद्बावसिद्धः च ऽतद्य इह रमणीयचरणास्ततः शेषेणऽ इत्यादि श्रुति स्मृतिभ्यः । स्यात् एतत् । नित्य नैमित्तिकानि तेषां क्षेपकाणि भविष्यन्ति इति । तत् न । विरोध अभावात् । सति हि विरोधे क्षेप्यक्षेपकभावो भवति । न च जन्मान्तर संचितानां सुकृतानां नित्य नैमित्तिकैः अस्ति विरोधः । शुद्धरूपत्व अविशेषात् । दुरितानां तु अशुद्धिरूपत्वात् सति विरोधे भवतु क्षपणं न तु तावता देहान्तर निमित्त अभावसिद्धिः । सुकृतनिमित्तत्व उपपत्तेः । दुश्चरितस्य अपि अशेषक्षपण अनवगमात् । न च नित्य नैमित्तिकानुष्ठानात् प्रत्यवाय अनुत्पत्तिमात्रं न पुनः फलान्तर उत्पत्तिः इति प्रमाणम् अस्ति फलान्तरस्य अपि अनुनिष्पादिनः संभवात् । स्मरति हि आपस्तम्बः - ऽतद्यथाम्रे फलार्ते निमित्ते छायागन्धावनूत्पद्येते एवं धर्मं चर्यमाणार्था अनूत्पद्यन्तेऽ इति । न च असति सम्यक् दर्शने सर्वात्मना काम्यप्रतिषिद्धवर्जनं जन्मप्रायणान्तरालं केनचित् प्रतिज्ञातुं शक्यम् । सुनिपुणानम् अपि सूक्ष्म अपराधदर्शनात् । संशयितव्यं तु भवति तथा अपि निमित्त अभावस्य दुर्ज्ञानत्वमेव । न च अनभ्युपगम्यमाने ज्ञानगम्ये ब्रह्मात्मत्वे कर्तृत्व भोक्तृत्व स्वभावस्य आत्मनः कैवल्यम् आकाङ्क्षितुं शक्यम् । अग्नि औष्ण्यवत् स्वभावस्य अपरिहार्यत्वात् । स्यात् एतत् । कर्तृत्व भोक्तृत्व कार्यम् अनर्थो न तत् शक्तिः तेन शक्ति अवस्थाने ऽपि कार्यपरिहारत् उपपन्नो मोक्ष इति । तत्च न । शक्तिसद्भावे कार्यप्रसवस्य दुर्निवारत्वात् । अथ अपि स्यात् न केवला शक्तिः कार्यम् आरभते अनपेक्ष्य अन्यानि निमित्तानि । अत एकाकिनी सा स्थितापि न अपराध्यति इति । तत् च न । निमित्तानाम् अपि शक्तिलक्षणेन संबन्धेन नित्यसंबद्धत्वात् । तस्मात् कर्तृत्व भोक्तृत्व स्वभावे सत्याम् अन्यसत्यां विद्यागम्यायां ब्रह्मात्मतायां न कथञ्चन मोक्षं प्रत्याशा अस्ति । श्रुतिः च - ऽनान्यः पन्था विद्यते ऽयनायऽ (श्वेता। ३।८) इति ज्ञानात् अन्यं मोक्षमार्गं वारयति । परस्मात् अनन्यत्वे अपि जीवस्य सर्वव्यवहार लोपप्रसङ्गः । प्रत्यक्षादि प्रमाण अप्रवृत्तेः इति चेत् । न । प्राक् प्रबोधात् स्वप्नव्यवहारवत् तत् उपपत्तेः । शास्त्रं च ऽयत्र हि द्वैतमिव भवति तदितर इतरं पश्यति (बृ। २।४।१४, ४।५।१५) इत्यादिना अप्रबुद्धविषये प्रत्यक्षादि व्यवहारम् उक्त्वा पुनः प्रबुद्धविषये ऽयत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्ऽ (बृ। २।४।१४, ४।५।१५) इत्यादिना तत् अभावं दर्शयति । तत् एवं परब्रह्मविदो गन्तव्यादि विज्ञानस्य बाधितत्वात् न कथञ्चन गतिः उपपादयितुं शक्या । किंविषयाः पुनः गतिश्रुतय इति । उच्यते - सगुणविद्याविषया भविष्यन्ति । तथा हि क्वचित् पञ्चाग्निविद्यां प्रकृत्य गतिः उच्यते यथा ऽप्राणो ब्रह्म कं ब्रह्म खं ब्रह्मऽ (छा। ४।१०।५) इति ऽअथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्मऽ (छा। ८।१।१) इति च तत्र अपि वामनीत्वादिभिः सत्यकामादिभिः च गुणैः सगुणस्य एव उपास्यत्वात् संभवति गतिः । न क्वचित् परब्रह्मविषया गतिः श्राव्यते यथा गतिप्रतिषेधः श्रावितः ऽन तस्य प्राणा उत्क्रामन्तिऽ (बृ। ४।४।६) इति । ऽब्रह्मविदाप्नोति परम्ऽ(तै। २।१।१) इत्यादिषु तु सत्यपि आप्नोतेः गत्यर्थत्वे वर्णितेन न्यायेन देशान्तरप्राप्ति असंभवात् स्वरूपप्रतिपत्तिः एव इयम् अविद्या अध्यारोपित नाम रूप प्रविलय अपेक्षया अभिधीयते ऽब्रह्मैव सन्ब्रह्माप्येतिऽ (बृ। ४।४।७) इत्यादिवत् इति द्रष्टव्यम् । अपि च परविषया गतिः व्याख्यायमाना प्ररोचनाय वा स्यात् अनुचिन्तनाय वा । तत्र प्ररोचनं तावत् ब्रह्मविदो न गति उक्त्या क्रियते । स्वसंवेद्येन एव अव्यवहितेन विद्यासमर्पितेन स्वास्थ्येन तत् सिद्धेः । न च नित्यसिद्धनिःश्रेयसनिवेदनस्य असाध्यफलस्य विज्ञानस्य गति अनुचिन्तने काचित् अपेक्षा उपपद्यते । तस्मात् अपरब्रह्मणि वर्तमाना गतिः । तत्र पर अपरब्रह्मविवेक अनवधारणेन अपरस्मिन् ब्रह्मणि वर्तमाना गतिश्रुतयः परस्मिन् अध्यारोप्यन्ते । किं द्वे ब्रह्मणी परम् अपरं च इति । बाढं द्वे ऽएतद्वै सत्यकाम परं चापरं ब्रह्मयदोङ्कारःऽ (प्र। ५।२) इत्यादि दर्शनात् । किं पुनः परं ब्रह्म किम् अपरम् इति । उच्यते । यत्र अविद्याकृत नाम रूपादि विशेषप्रतिषेधात् अस्थूलादिशब्दैः ब्रह्म उपदिश्यते तत् परम् । तत् एव यत्र नामरूपादिविशेषेण केनचित् विशिष्टम् उपासनाय उपदिश्यते ऽमनोमयः प्राणशरीरो भारूपःऽ (छा। ३।१४।२) इत्यादिशब्दैस्तदपरम् । ननु एवम् अद्वितीयश्रुतिः उपरुध्येत । न । अविद्याकृत नाम रूप उपाधिकतया परिहृतत्वात् । तस्य च अपरब्रह्म उपासनस्य तत् संनिधौ श्रूयमाणम् ऽस यदि पितृलोककामो भवतिऽ (छा। ८।२।१) इत्यादि जगत् ऐश्वर्यलक्षणं संसारगोचरम् एव फलं भवति । अनिवर्तितत्वात् अविद्यायाः । तस्य च देशविशेष अवबद्धत्वात् तत्प्राप्त्यर्थं गमनम् अविरुद्धम् । सर्वगतत्वे अपि च आत्मन आकाशस्य इव घटादिगमने बुध्यादि उपाधिगमने गमनप्रसिद्धिः इति अवादिष्म ऽतद्गुणसारत्वात्ऽ (ब्रसू। २।३।२९) इत्यत्र । तस्मात् ऽकार्यं बादरिः (ब्र। सू। ४।३।७) इत्येष एव स्थितः पक्षः । ऽपरं जैमिनिःऽ (ब्रसू। ४।३।१२) इति तु पक्षान्तरप्रतिभानमात्रप्रदर्शनं प्रज्ञाविकासनाय इति द्रष्टव्यम् ॥ १४ ॥

na ca kārye pratipattyabhisaṃdhiḥ api ca 'prajāpateḥ sabhāṃ veśma prapadye' (chā. 8.14.1) iti na ayaṃ kāryaviṣayaḥ pratipatti abhisaṃdhiḥ 'nāmarūpayornirvahitā te yadantarā tadbrahma' (chā. 8.14.1) iti kāryavilakṣaṇasya parasya eva brahmaṇaḥ prakṛtatvāt / 'yaśo 'haṃ bhavāmi brāhmaṇānām' (chā. 8.14.1) iti ca sarvātmatvena upakramaṇāt / 'na tasya pratimā asti, yasya nāmamahadyaśaḥ' (śvetā. 4.19) iti ca parasya eva brahmaṇo yaśonāmatva prasiddheḥ / 'sā ceyaṃ veśmapratipattirgatipūrvikā hārdavidyāyāmuditā tadaparājitā pūrbrahmaṇaḥ prabhuvimitaṃ hiraṇmayam' (chā. 8.5.3) iti atra / paderapi ca gatyarthatvāt mārga apekṣā avasīyate / tasmāt parabrahmaviṣayā gatiśrutaya iti pakṣāntaram / tau etau dvau pakṣau ācāryeṇa sūtritau gati upapattyādibhiḥ eko mukhyatvādibhiḥ aparaḥ / tatra gati upapattyādayaḥ prabhavanti mukhyatvādīna ābhāsayituṃ na tu mukhyatvādayo gati upapattyādīn ityādya eva siddhānto vyākhyāto dvitīyaḥ pūrvapakṣaḥ / na hi asati api saṃbhave mukhyasya eva arthasya grahaṇam iti kaścit ājñāpayitā vidyate / paravidyāprakaraṇe api ca tat stutyarthaṃ vidyāntara āśrayagati anukīrtanam upapadyate 'viṣvaṅṅanyā utkramaṇe bhavanti' (chā. 8.6.6) itivat / 'prajāpateḥ sabhāṃ veśma prapadye' (chā. 8.14.1) iti tu pūrvavākyavicchedena kārye api pratipatti abhisaṃdhiḥ na virudhyate / saguṇe api ca brahmaṇi sarvātmatva saṃkīrtanaṃ sarvakarmā sarvakāma ityādivat avakalpate / tasmāt aparaviṣayā eva gatiśrutayaḥ / kecit punaḥ pūrvāṇi pūrvapakṣasūtrāṇi bhavanti uttarāṇi siddhāntasūtrāṇi iti etāṃ vyavasthānam anurudhyamānāḥ paraviṣayā eva gatiśrutīḥ pratiṣṭhāpayanti tat anupapannaṃ gantavyatva anupapatteḥ brahmaṇaḥ / yat sarvagataṃ sarvāntaraṃ sarvātmakaṃ ca paraṃ brahma 'ākāśavatsarvagataśca nityaḥ' 'yatsākṣādaparokṣādbrahma' (bṛ. 3.4.1) 'ya ātmā sarvāntaraḥ' (bṛ. 3.4.1) 'ātmaivedaṃ sarvam' (chā. 7.25.2) 'brahmaivedaṃ viśvamidaṃ variṣṭham' (mu. 2.2.11) ityādi śrutinirdhārita viśeṣaṃ tasya gantavyatā na kadācit api upapadyate / na hi gatameva gamyate / anyo hi anyat gacchati iti prasiddhaṃ loke / nanu loke gatasya api gantavyatā deśāntaraviśiṣṭā dṛṣṭā / yathā pṛthivīstha eva pṛthivīṃ deśāntaradvāreṇa gacchati iti / tathā ananyatve api sarvaśakti upetatvāt kathañcit gantavyatā syāt iti / na / pratiṣiddhasarvaviśeṣatvāt brahmaṇaḥ / 'niṣkalaṃ niṣkriyaṃ śāntaṃ niravadyaṃ nirañjanam'(śvetā. 6.19) 'asthūlamanaṇvahrasvamadīrgham'(bṛ. 3.8.8) 'sabāhyābhyantaro hyajaḥ'(mu. 2.1.2) 'sa vā eṣa mahānaja ātmājaro 'maro 'mṛto 'bhayo brahma'(bṛ. 4.4.25) 'sa eṣa neti netyātmā'(bṛ. 3.9.23) ityādi śruti smṛti nyāyebhyo na deśakālādi viśeṣayogaḥ paramātmani kalpayituṃ śakyate / yena bhūpradeśa vayovasthā nyāyena asya gantavyatā syāt / bhūvayasoḥ tu pradeśa avasthādi viśeṣayogāt upapadyate deśa kāla viśiṣṭā gantavyatā / jagat utpatti sthiti pralayahetutva śruteḥ anekaśaktitvaṃ brahmaṇa iti cet / na / viśeṣanirākaraṇaśrutīnām ananyārthatvāt / utpattyādiśrutīnām api samānam ananyārthatvam iti cet / na / tāsām ekatvapratipādanaparatvāt / mṛdādi dṛṣṭāntaiḥ hi sato brahmaṇa ekasya satyatvaṃ vikārasya ca āvṛtatvaṃ pratipādayat śāstraṃ na utpattyādiparaṃ bhavitum arhati / kasmāt punaḥ utpattyādi śrutīnāṃ viśeṣatvaṃ na punaḥ itara śeṣatvam itarāsām iti / ucyate - viśeṣanirākaraṇaśrutīnāṃ nirākāṅkṣārthatvāt / na hi ātmana ekatva nityatva śuddhatvādi avagatau satyāṃ bhūyaḥ kācit ākāṅkṣā upajāyate puruṣārthasamāptibuddhi upapatteḥ / 'tatra ko mohaḥ kaḥ śoka ekatvamanupaśyataḥ' (īśā. 7) 'abhayaṃ vai janaka prāpto 'si' (bṛ. 4.2.4) 'vidvānna bibheti kutaścana / etaṃ ha vāva na tapati kimahaṃ sādhu nākaravaṃ kimahaṃ pāpamakaravam' (taitti. 2.9.1) ityādiśrutibhyaḥ / tathā eva ca viduṣāṃ tuṣṭi anubhavādi darśanāt / vikāra anṛta abhisaṃdhi apavādāt ca 'mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati' iti / ato na viśeṣanirākaraṇa śrutīnām anyaśeṣatvam avagantuṃ śakyate / na evam utpattyādi śrutīnāṃ nirākāṅkṣārtha pratipādanasāmarthyam asti / pratyakṣaṃ tu tāsām anyārthatvaṃ samanugamyate / tathā hi 'tatraitacchruṅgamutpatitaṃ somya vijānīhi nedamamūlaṃ bhaviṣyati' (chā. 6.8.3) iti upanyasya udarke sata eva ekasya jagat mūlasya vijñeyatvaṃ darśayati / 'yato vā imāni bhūtāni jāyante / yena jātāni jīvanti yatprayantyabhisaṃviśanti / tadvijijñāsasva / tadbrahmeti' (tai. 3.1.1) iti ca / evam utpattyādiśrutīnām aikātmya avagamaparatvāt na anekaśaktiyogo brahmaṇaḥ / ataḥ ca gantavyatva anupapattiḥ / 'na tasya prāṇā utkramanti brahmaiva sanbrahmāpyeti' (bṛ. 4.4.6) iti ca parasmin brahmaṇi gatiṃ nivārayati / tat vyākhyātaṃ 'spaṣṭo hyekeṣām' (bra. sū. 4.2.13) ityatra / gatikalpanāyāṃ ca gantā jīvo gantavyasya brahmaṇaḥ avayavo vikāro vā tataḥ syāt / atyanta tādātmye gamana anupapatteḥ / yadi evaṃ tataḥ kiṃ syāt / ucyate / yadi ekadeśaḥ tena ekadeśino nityaprāptatvāt na punaḥ brahmagamanam upapadyate / ekadeśitva kalpanā ca brahmaṇi anupapannā niravayavatva prasiddheḥ / vikārapakṣe api etat atulyaṃ vikāreṇa api vikāriṇo nityaprāptatvāt / na hi ghaṭo mṛdātmatāṃ parityajya avatiṣṭhate parityāge vā abhāvaprāpteḥ / vikāra avayavapakṣayoḥ ca tadvataḥ sthiratvāt brahmaṇaḥ saṃsāragamanam api anavakḷptam / atha anya eva jīvo brahmaṇaḥ / saḥ aṇuḥ vyāpī madyama parimāṇo vā bhavitum arhati / vyāpitve gamana anupapattiḥ / madhyama parimāṇatve ca anityatvaprasaṅgaḥ / aṇutve kṛtsnaśarīravedanā anupapattiḥ / pratiṣiddhe ca aṇutva madhyama parimāṇatve vistareṇa purastāt / parasmāt ca anyatve jīvasya 'tattvamasi' (chā. 6.8.7) ityādi śāstra bādha prasaṅgaḥ / vikāra avayavapakṣayoḥ api samānaḥ ayaṃ doṣaḥ / vikāra avayavayoḥ tadvatoḥ ananyatvāt adoṣa iti cet / na / mukhya ekatva anupapatteḥ / sarveṣu eteṣu pakṣeṣu anirmokṣaprasaṅgaḥ / saṃsāri ātmatva anivṛtteḥ / nivṛttau vā svarūpanāśaprasaṅgaḥ / brahmātmatva anabhyupagamāt ca / yat tu kaiścit jalpyate nityāni naimittikāni karmāṇi anuṣṭhīyante pratyavāya anutpattaye kāmyāni pratiṣiddhāni ca parihriyante svarganarakān avāptaye sāṃpratadeha upabhogyāni ca karmāṇi upabhogena eva kṣapyanta ityato vartamānadehapātāt ūrdhvaṃ dehāntara pratisaṃdhāna kāraṇa abhāvāt svarūpa avasthānalakṣaṇaṃ kaivalyaṃ vinā api brahmātmataya evaṃvṛttasya setsyati iti / tat asat / pramāṇa abhāvāt / na hi etat śāstreṇa kenacit pratipāditaṃ mokṣārthi itthaṃ samācaret iti / svamanīṣayā tu etat tarkitaṃ yasmāt karmanimittaḥ saṃsāraḥ tasmāt nimitta abhāvāt na bhaviṣyati iti / na ca etat tarkayitum api śakyate nimitta abhāvasya durjñānatvāt / bahūni hi karmāṇi jātyantarasaṃcitāni iṣṭa aniṣṭavipākāni ekaikasya jantoḥ saṃbhāvyante / teṣāṃ viruddha phalānāṃ yugapat upabhoga asaṃbhavāt kānicit labdha avasarāṇi idaṃ janma nirmimate kānicit tu deśakālanimittapratīkṣāṇi asata iti ataḥ teṣām avaśiṣṭānāṃ sāṃpratena upabhogena kṣapaṇāsaṃbhavāt na yathāvarṇitacaritasya api vartamānadehapāte dehāntaranimitta abhāvaḥ śakyate niścetum / karmaśeṣasadbāvasiddhaḥ ca 'tadya iha ramaṇīyacaraṇāstataḥ śeṣeṇa' ityādi śruti smṛtibhyaḥ / syāt etat / nitya naimittikāni teṣāṃ kṣepakāṇi bhaviṣyanti iti / tat na / virodha abhāvāt / sati hi virodhe kṣepyakṣepakabhāvo bhavati / na ca janmāntara saṃcitānāṃ sukṛtānāṃ nitya naimittikaiḥ asti virodhaḥ / śuddharūpatva aviśeṣāt / duritānāṃ tu aśuddhirūpatvāt sati virodhe bhavatu kṣapaṇaṃ na tu tāvatā dehāntara nimitta abhāvasiddhiḥ / sukṛtanimittatva upapatteḥ / duścaritasya api aśeṣakṣapaṇa anavagamāt / na ca nitya naimittikānuṣṭhānāt pratyavāya anutpattimātraṃ na punaḥ phalāntara utpattiḥ iti pramāṇam asti phalāntarasya api anuniṣpādinaḥ saṃbhavāt / smarati hi āpastambaḥ - 'tadyathāmre phalārte nimitte chāyāgandhāvanūtpadyete evaṃ dharmaṃ caryamāṇārthā anūtpadyante' iti / na ca asati samyak darśane sarvātmanā kāmyapratiṣiddhavarjanaṃ janmaprāyaṇāntarālaṃ kenacit pratijñātuṃ śakyam / sunipuṇānam api sūkṣma aparādhadarśanāt / saṃśayitavyaṃ tu bhavati tathā api nimitta abhāvasya durjñānatvameva / na ca anabhyupagamyamāne jñānagamye brahmātmatve kartṛtva bhoktṛtva svabhāvasya ātmanaḥ kaivalyam ākāṅkṣituṃ śakyam / agni auṣṇyavat svabhāvasya aparihāryatvāt / syāt etat / kartṛtva bhoktṛtva kāryam anartho na tat śaktiḥ tena śakti avasthāne 'pi kāryaparihārat upapanno mokṣa iti / tatca na / śaktisadbhāve kāryaprasavasya durnivāratvāt / atha api syāt na kevalā śaktiḥ kāryam ārabhate anapekṣya anyāni nimittāni / ata ekākinī sā sthitāpi na aparādhyati iti / tat ca na / nimittānām api śaktilakṣaṇena saṃbandhena nityasaṃbaddhatvāt / tasmāt kartṛtva bhoktṛtva svabhāve satyām anyasatyāṃ vidyāgamyāyāṃ brahmātmatāyāṃ na kathañcana mokṣaṃ pratyāśā asti / śrutiḥ ca - 'nānyaḥ panthā vidyate 'yanāya' (śvetā. 3.8) iti jñānāt anyaṃ mokṣamārgaṃ vārayati / parasmāt ananyatve api jīvasya sarvavyavahāra lopaprasaṅgaḥ / pratyakṣādi pramāṇa apravṛtteḥ iti cet / na / prāk prabodhāt svapnavyavahāravat tat upapatteḥ / śāstraṃ ca 'yatra hi dvaitamiva bhavati taditara itaraṃ paśyati (bṛ. 2.4.14, 4.5.15) ityādinā aprabuddhaviṣaye pratyakṣādi vyavahāram uktvā punaḥ prabuddhaviṣaye 'yatra tvasya sarvamātmaivābhūttatkena kaṃ paśyet' (bṛ. 2.4.14, 4.5.15) ityādinā tat abhāvaṃ darśayati / tat evaṃ parabrahmavido gantavyādi vijñānasya bādhitatvāt na kathañcana gatiḥ upapādayituṃ śakyā / kiṃviṣayāḥ punaḥ gatiśrutaya iti / ucyate - saguṇavidyāviṣayā bhaviṣyanti / tathā hi kvacit pañcāgnividyāṃ prakṛtya gatiḥ ucyate yathā 'prāṇo brahma kaṃ brahma khaṃ brahma' (chā. 4.10.5) iti 'atha yadidamasminbrahmapure daharaṃ puṇḍarīkaṃ veśma' (chā. 8.1.1) iti ca tatra api vāmanītvādibhiḥ satyakāmādibhiḥ ca guṇaiḥ saguṇasya eva upāsyatvāt saṃbhavati gatiḥ / na kvacit parabrahmaviṣayā gatiḥ śrāvyate yathā gatipratiṣedhaḥ śrāvitaḥ 'na tasya prāṇā utkrāmanti' (bṛ. 4.4.6) iti / 'brahmavidāpnoti param'(tai. 2.1.1) ityādiṣu tu satyapi āpnoteḥ gatyarthatve varṇitena nyāyena deśāntaraprāpti asaṃbhavāt svarūpapratipattiḥ eva iyam avidyā adhyāropita nāma rūpa pravilaya apekṣayā abhidhīyate 'brahmaiva sanbrahmāpyeti' (bṛ. 4.4.7) ityādivat iti draṣṭavyam / api ca paraviṣayā gatiḥ vyākhyāyamānā prarocanāya vā syāt anucintanāya vā / tatra prarocanaṃ tāvat brahmavido na gati uktyā kriyate / svasaṃvedyena eva avyavahitena vidyāsamarpitena svāsthyena tat siddheḥ / na ca nityasiddhaniḥśreyasanivedanasya asādhyaphalasya vijñānasya gati anucintane kācit apekṣā upapadyate / tasmāt aparabrahmaṇi vartamānā gatiḥ / tatra para aparabrahmaviveka anavadhāraṇena aparasmin brahmaṇi vartamānā gatiśrutayaḥ parasmin adhyāropyante / kiṃ dve brahmaṇī param aparaṃ ca iti / bāḍhaṃ dve 'etadvai satyakāma paraṃ cāparaṃ brahmayadoṅkāraḥ' (pra. 5.2) ityādi darśanāt / kiṃ punaḥ paraṃ brahma kim aparam iti / ucyate / yatra avidyākṛta nāma rūpādi viśeṣapratiṣedhāt asthūlādiśabdaiḥ brahma upadiśyate tat param / tat eva yatra nāmarūpādiviśeṣeṇa kenacit viśiṣṭam upāsanāya upadiśyate 'manomayaḥ prāṇaśarīro bhārūpaḥ' (chā. 3.14.2) ityādiśabdaistadaparam / nanu evam advitīyaśrutiḥ uparudhyeta / na / avidyākṛta nāma rūpa upādhikatayā parihṛtatvāt / tasya ca aparabrahma upāsanasya tat saṃnidhau śrūyamāṇam 'sa yadi pitṛlokakāmo bhavati' (chā. 8.2.1) ityādi jagat aiśvaryalakṣaṇaṃ saṃsāragocaram eva phalaṃ bhavati / anivartitatvāt avidyāyāḥ / tasya ca deśaviśeṣa avabaddhatvāt tatprāptyarthaṃ gamanam aviruddham / sarvagatatve api ca ātmana ākāśasya iva ghaṭādigamane budhyādi upādhigamane gamanaprasiddhiḥ iti avādiṣma 'tadguṇasāratvāt' (bra.sū. 2.3.29) ityatra / tasmāt 'kāryaṃ bādariḥ (bra. sū. 4.3.7) ityeṣa eva sthitaḥ pakṣaḥ / 'paraṃ jaiminiḥ' (bra.sū. 4.3.12) iti tu pakṣāntarapratibhānamātrapradarśanaṃ prajñāvikāsanāya iti draṣṭavyam // 14 //

Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.

Sanskrit only: no published translation is held for this verse.

Permanent address: hreem.cc/library/BSBh/4.3.14

Cite as: Badarayana: Brahmasutra, with Samkara's Sarirakamimamsabhasya 4.3.14, in HREEM (hreem.cc/library/BSBh/4.3.14), after GRETIL …, Each unit is one sūtra followed by Śaṅkara's commentary on it; ref = adhyāya.pāda.sūtra..

Edition, numbering and licence

GRETIL 6_sastra/3_phil/vedanta/brssbh1u.htm … brssbh4u.htm — Each unit is one sūtra followed by Śaṅkara's commentary on it; ref = adhyāya.pāda.sūtra.

GRETIL (SUB Göttingen), CC BY-NC-SA 4.0 — non-commercial use with attribution; the Companion is kept free while this corpus is held. Devanagari generated mechanically from GRETIL's IAST.

More about this text