तेषां सतत-युक्तानां नित्याभियुक्तानां निवृत्त-सर्व-बाह्यैषणानां भजतां सेवमानानाम् । किम् अर्थित्वादिना कारणेन ? नेत्य् आह - -प्रीति-पूर्वकं प्रीतिः स्नेहस् तत्-पूर्वकं मां भजताम् इत्य् अर्थः । ददामि प्रयच्छामि बुद्धि-योगं बुद्धिः सम्यग् दर्शनं मत्-तत्त्व-विषयं तेन योगो बुद्धि-योगस् तं बुद्धि-योगम्, येन बुद्धि-योगेन सम्यग् दर्शन-लक्षणेन मां परमेश्वरम् आत्म-भूतम् आत्मत्वेन उपयान्ति प्रतिपद्यन्ते । के ? ते ये मच्-चित्तत्वादि-प्रकारैर् मां भजन्ते
teṣāṃ satata-yuktānāṃ nityābhiyuktānāṃ nivṛtta-sarva-bāhyaiṣaṇānāṃ bhajatāṃ sevamānānām | kim arthitvādinā kāraṇena ? nety āha - -prīti-pūrvakaṃ prītiḥ snehas tat-pūrvakaṃ māṃ bhajatām ity arthaḥ | dadāmi prayacchāmi buddhi-yogaṃ buddhiḥ samyag darśanaṃ mat-tattva-viṣayaṃ tena yogo buddhi-yogas taṃ buddhi-yogam, yena buddhi-yogena samyag darśana-lakṣaṇena māṃ parameśvaram ātma-bhūtam ātmatvena upayānti pratipadyante | ke ? te ye mac-cittatvādi-prakārair māṃ bhajante
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.