मच्-चित्ताः, मयि चित्तं येषां ते मच्-चित्ताः । मद्-गत-प्राणाः मां गताः प्राप्ताश् चक्षुर्-आदयः प्राणा येषां ते मद्-गत-प्राणाः । मय्य् उपसंहृत-करणाः इत्य् अर्थः । अथवा, मद्-गत-प्राणाः मद्-गत-जीवना इत्य् एतत् । बोधयन्तो ऽवगमयन्तः परस्परम् अन्योन्यम्, कथयन्तश् च ज्ञान-बल-वीर्यादि-धर्मैर् विशिष्टं माम् । तुष्यन्ति च परितोषम् उपयान्ति च रमन्ति च रतिं च प्राप्नुवन्ति प्रिय-संगत्येव
mac-cittāḥ, mayi cittaṃ yeṣāṃ te mac-cittāḥ | mad-gata-prāṇāḥ māṃ gatāḥ prāptāś cakṣur-ādayaḥ prāṇā yeṣāṃ te mad-gata-prāṇāḥ | mayy upasaṃhṛta-karaṇāḥ ity arthaḥ | athavā, mad-gata-prāṇāḥ mad-gata-jīvanā ity etat | bodhayanto 'vagamayantaḥ parasparam anyonyam, kathayantaś ca jñāna-bala-vīryādi-dharmair viśiṣṭaṃ mām | tuṣyanti ca paritoṣam upayānti ca ramanti ca ratiṃ ca prāpnuvanti priya-saṃgatyeva
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.