* यौगन्धरायणः * - उपसृत्य भोः किङ्कृतेयम् उत्सारणा (भ्स्व् १।५:६) * काञ्चुकीयः * - भोस् तपस्विन् (भ्स्व् १।५:७) * यौगन्धरायणः * - आत्मगतम् तपस्विन्न् इति गुणवान् खल्व् अयम् आलापः (भ्स्व् १।५:८) अपरिचयात् तु न श्लिष्यते मे मनसि (भ्स्व् १।५:९) * काञ्चुकीयः * - भोः श्रूयताम् (भ्स्व् १।५:१०) एषा खलु गुरुभिर् अभिहितनामधेयस्यास्माकं महाराजदर्शकस्य भगिनी पद्मावती नाम (भ्स्व् १।५:११) सैषा नो महाराजमातरं महादेवीम् आश्रमस्थाम् अभिगम्यानुज्ञाता तत्रभवत्या राजगृहम् एव यास्यति (भ्स्व् १।५:१२) तद् अद्यास्मिन्न् आश्रमपदे वासो ऽभिप्रेतो ऽस्याः (भ्स्व् १।५:१३) तद् भवन्तः तीर्थोदकानि समिधः कुसुमानि दर्भान् स्वैरं वनाद् उपनयन्तु तपोधनानि & धर्मप्रिया नृपसुता न हि धर्मपीडाम् इच्छेत् तपस्विषु कुलव्रतम् एतद् अस्याः
* yaugandharāyaṇaḥ * - upasṛtya bhoḥ kiṅkṛteyam utsāraṇā (BhSv 1.5:6) * kāñcukīyaḥ * - bhos tapasvin (BhSv 1.5:7) * yaugandharāyaṇaḥ * - ātmagatam tapasvinn iti guṇavān khalv ayam ālāpaḥ (BhSv 1.5:8) aparicayāt tu na śliṣyate me manasi (BhSv 1.5:9) * kāñcukīyaḥ * - bhoḥ śrūyatām (BhSv 1.5:10) eṣā khalu gurubhir abhihitanāmadheyasyāsmākaṃ mahārājadarśakasya bhaginī padmāvatī nāma (BhSv 1.5:11) saiṣā no mahārājamātaraṃ mahādevīm āśramasthām abhigamyānujñātā tatrabhavatyā rājagṛham eva yāsyati (BhSv 1.5:12) tad adyāsminn āśramapade vāso 'bhipreto 'syāḥ (BhSv 1.5:13) tad bhavantaḥ tīrthodakāni samidhaḥ kusumāni darbhān svairaṃ vanād upanayantu tapodhanāni & dharmapriyā nṛpasutā na hi dharmapīḍām icchet tapasviṣu kulavratam etad asyāḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.