* काञ्चुकीयः * - भोः किं क्रियताम् (भ्स्व् १।८:६) * यौगन्धरायणः * - इयं मे स्वसा (भ्स्व् १।८:७) प्रोषितभर्तृकाम् इमाम् इच्छाम्य् अत्रभवत्या कङ्चित् कालं परिपाल्यमानाम् (भ्स्व् १।८:८) कुतः कार्यं नैवार्थैर् नापि भोगैर् न वस्त्रैर् नाहं काषायं वृत्तिहेतोः प्रपन्नः & धीरा कन्येयं दृष्टधर्मप्रचारा शक्ता चारित्रं रक्षितुं मे भगिन्याः
* kāñcukīyaḥ * - bhoḥ kiṃ kriyatām (BhSv 1.8:6) * yaugandharāyaṇaḥ * - iyaṃ me svasā (BhSv 1.8:7) proṣitabhartṛkām imām icchāmy atrabhavatyā kaṅcit kālaṃ paripālyamānām (BhSv 1.8:8) kutaḥ kāryaṃ naivārthair nāpi bhogair na vastrair nāhaṃ kāṣāyaṃ vṛttihetoḥ prapannaḥ & dhīrā kanyeyaṃ dṛṣṭadharmapracārā śaktā cāritraṃ rakṣituṃ me bhaginyāḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.