Library·Agnivesa: Carakasamhita·1·1.1

Agnivesa: Carakasamhita 1.1

अथातो दीर्घंजीवितीयम् अध्यायं व्याख्यास्यामः

athāto dīrghaṃjīvitīyam adhyāyaṃ vyākhyāsyāmaḥ

Sanskrit only: no published translation is held for this verse.

प्रयोजनाभिधायिवाक्ये तु स्वल्पप्रयत्नबोध्ये प्रयोजनसामान्यसंदेहादेव प्रवृत्तिरुपपन्ना न पुनरनेकसंवत्सरक्लेशबोध्ये शास्त्रे ॥ १३ तदेवं यदुच्यते प्रयोजनाभिधायिवाक्यप्रवृत्ताव् अपि प्रयोजनमभिधातव्यं तथा चानवस्था इति तन्निरस्तं भवति ॥ १४ अथेत्यादि सूत्रे ऽथशब्दो ब्रह्मादिप्रणीततन्त्रेष्व् अल्पायुर्मेधसामर्थानवधारणस्य तथाभीष्टदेवतानमस्कारशास्त्रकरणार्थगुर्वाज्ञालाभयोर् आनन्तर्ये प्रयुक्तोऽपि शास्त्रादौ स्वरूपेण मङ्गलं भवत्युदकाहरणप्रवृत्तोदकुम्भदर्शनम् इव प्रस्थितानाम् ॥ १५ ग्रन्थादौ मङ्गलसेवानिरस्तान्तरायाणां ग्रन्थकर्तृश्रोत्ःणाम् अविघ्नेनेष्टलाभो भवतीति युक्तं मङ्गलोपादानम् ॥ १६ अथशब्दस्य मङ्गलत्वे स्मृतिर् ॐकारश् चाथशब्दश्च द्वाव् एतौ ब्रह्मणः पुरा ॥ १७ कण्ठं भित्त्वा विनिर्यातौ तेन माङ्गलिकाव् उभौ इति ॥ १८ शास्त्रान्तरे चादौ मङ्गलत्वेन दृष्टोऽयमथशब्दः ॥ १९ यथा अथ शब्दानुशासनम् अथातो धर्मं व्याख्यास्यामः वै इत्यादौ ॥ २० अभीष्टदेवतानमस्कारस्तु ग्रन्थादौ शिष्टाचारप्राप्तः परमशिष्टेनाग्निवेशेन कृत एव अन्यथा शिष्टाचारलङ्घनेन शिष्टत्वमेव न स्याद् व्याख्यानान्तरायभयश्च तथा ग्रन्थाविनिवेशितस्यापि नमस्कारस्य प्रत्यवायापहत्वाच्च न ग्रन्थनिवेशनम् ॥ २१ यथा च गुर्वाज्ञालाभानन्तरम् एतत् तन्त्रकरणं तथा अथ मैत्रीपरः पुण्यम् इत्यादौ स्फुटमेव ॥ २२ ग्रन्थकरणे च गुर्वनुमतिप्रतिपादनेन ग्रन्थस्योपादेयता प्रदर्शिता भवति ॥ २३ यत् पुनः शिष्यप्रश्नानन्तर्यार्थत्वम् अथशब्दस्य वर्ण्यते तन्न मां धिनोति नहि शिष्यान् पुरो व्यवस्थाप्य शास्त्रं क्रियते श्रोतृबुद्धिस्थीकारे तु शास्त्रकरणं युक्तं न च बुद्धिस्थीकृताः प्रष्टारो भवन्ति ॥ २४ अतःशब्दो ऽधिकारप्रागवध्युपदर्शकः अत ऊर्ध्वं यद् उपदेक्ष्यामो दीर्घंजीवितीयं तदिति यदि वा हेतौ येन ब्रह्मादिप्रणीतायुर्वेदतन्त्राणाम् उक्तेन न्यायेनोत्सम्बन्धत्वम् इव अतो हेतोर् दीर्घंजीवितीयं व्याख्यास्याम इति योजनीयम् ॥ २५ दीर्घंजीवितीयम् इत्यत्र दीर्घंजीवितशब्दो ऽस्मिन्न् अस्तीति मत्वर्थे अध्यायानुवाकयोर् लुक् च इति छप्रत्ययः ॥ २६ यदि वा दीर्घंजीवितशब्दम् अधिकृत्य कृतो ग्रन्थो ऽध्यायरूपस्तन्त्ररूपो वा इत्यस्यां विवक्षायाम् अधिकृत्य कृते ग्रन्थे इत्यधिकारात् शिशुक्रन्दयमसभ इत्यादिना छः ॥ २७ एवमन्यत्राप्येवंजातीये मन्तव्यम् ॥ २८ अत्र च सत्यपि शब्दान्तरे दीर्घंजीवितशब्देनैव संज्ञा कृता दीर्घंजीवितशब्दस्यैव प्रवचनादौ निवेशात् प्रशस्तत्वाच्च ॥ २९ दीर्घंजीवितशब्दो ऽस्मिन्न् अस्ति इति दीर्घंजीवितशब्दम् अधिकृत्य कृतो वा इत्यनया व्युत्पत्त्या दीर्घंजीवितीयशब्दस् तन्त्रे ऽध्याये च प्रवर्तनीयः ॥ ३० तेन दीर्घंजीवितीयं व्याख्यास्याम इत्यनेन तन्त्रं प्रति व्याख्यानप्रतिज्ञा लब्धा भवति पुनर् दीर्घंजीवितीयम् इति पदम् आवर्त्याध्यायपदसमभिव्याहृतम् अध्यायव्याख्यानप्रतिज्ञां लम्भयति ॥ ३१ दृष्टं चावृत्य पदस्य योजनं यथा अपामार्गतण्डुलीये गौरवे शिरसः शूले पीनसे इत्यादौ शिरस इति पदं गौरवे इत्यनेन युज्यते आवृत्य शूले इत्यनेन च ॥ ३२ अतश्च यदुच्यते अकृततन्त्रप्रतिज्ञस्याध्यायप्रतिज्ञा ऊनकायमानेति तन्निरस्तं भवति ॥ ३३ यदि वा अध्यायप्रतिज्ञैवास्तु तयैव तन्त्रप्रतिज्ञाप्यर्थलब्धैव न ह्य् अध्यायस् तन्त्रव्यतिरिक्तः तेनावयवव्याख्याने तन्त्रस्याप्यवयविनो व्याख्या भवत्येव यथा अङ्गुलीग्रहणेन देवदत्तोऽपि गृहीतो भवति ॥ ३४ अवयवान्तरव्याख्यानप्रतिज्ञा तु न लभ्यते तां तु प्रत्यध्यायमेव करिष्यति ॥ ३५ अध्यायमिति अधिपूर्वादिङः इङश्च इति कर्मणि घञा साध्यम् ॥ ३६ तेन अधीयते इत्यध्यायः ॥ ३७ न चानया व्युत्पत्त्या प्रकरणचतुष्कस्थानादिष्वतिप्रसङ्गः यतो योगरूढेयम् अध्यायसंज्ञाध्यायस्य प्रकरणसमूहविशेष एव दीर्घंजीवितीयादिलक्षणे पङ्कजशब्दवद्वर्तते न योगमात्रेण वर्तते ॥ ३८ वक्ष्यति हि अधिकृत्येयमध्यायनामसंज्ञा प्रतिष्ठिता इति नामसंज्ञा योगरूढसंज्ञेत्यर्थः ॥ ३९ यदि वा करणाधिकरणयोर् अर्थयोः ॥ ४० अध्यायन्यायोद्यावसंहाराश् च इतिसूत्रेण निपातनाद् अध्यायपदसिद्धिः ॥ ४१ अधीयतेऽस्मिन्ननेन वार्थविशेष इत्यध्यायः ॥ ४२ अतिप्रसक्तिनिषेधस् तूक्तन्यायः ॥ ४३ व्याख्यास्याम इति व्याङ्पूर्वात् ख्यातेऌर्टा साध्यम् ॥ ४४ चक्षिङो हि प्रयोगेऽनिच्छतो ऽपि व्याख्यातुः क्रियाफलसम्बन्धस्य दुर्निवारत्वेन स्वरितञित इत्यादिनात्मनेपदं स्यादिति ॥ ४५ वि इति विशेषे विशेषाश्च व्याससमासादयः ॥ ४६ आङयं क्रियायोगे ये तु मर्यादायाम् अभिविधौ वा आङ्प्रयोगं मन्यन्ते तेषाम् अभिप्रायं न विद्मः ॥ ४७ यतो मर्यादायामभिविधौ चाङः प्रातिपदिकेन योगः स्यात् यथा आसमुद्रक्षितीशानाम् आपाटलीपुत्राद् वृष्टो देव इत्यादौ इहापि च तथा ॥ ४८ क्रियायोगविरहे उपसर्गाः क्रियायोगे इति नियमाद् आङ उपसर्गत्वं न स्यात् ततश्चानुपसर्गेणाङा व्यवधानाद् वेर् उपसर्गस्य प्रयोगो न स्यात् ॥ ४९ येनाव्यवहितः सजातीयव्यवहितो वा धातोर् उपसर्गो भवति ॥ ५० व्याङोर् उभयोर् अप्यनुपसर्गत्वे तत्सम्बन्धोचितभूरिप्रातिपदिककल्पनागौरवप्रसङ्गः स्यात् तस्मात् क्रियायोगित्वम् एवाङो न्याय्यम् ॥ ५१ अथ अतः दीर्घं जीवितीयम् अध्यायं वि आ ख्यास्याम इत्यष्टपदत्वम् ॥ ५२] इति ह स्माह भगवानात्रेयः

prayojanābhidhāyivākye tu svalpaprayatnabodhye prayojanasāmānyasaṃdehādeva pravṛttirupapannā na punaranekasaṃvatsarakleśabodhye śāstre // 13 tadevaṃ yaducyate prayojanābhidhāyivākyapravṛttāv api prayojanamabhidhātavyaṃ tathā cānavasthā iti tannirastaṃ bhavati // 14 athetyādi sūtre 'thaśabdo brahmādipraṇītatantreṣv alpāyurmedhasāmarthānavadhāraṇasya tathābhīṣṭadevatānamaskāraśāstrakaraṇārthagurvājñālābhayor ānantarye prayukto'pi śāstrādau svarūpeṇa maṅgalaṃ bhavatyudakāharaṇapravṛttodakumbhadarśanam iva prasthitānām // 15 granthādau maṅgalasevānirastāntarāyāṇāṃ granthakartṛśrotḥṇām avighneneṣṭalābho bhavatīti yuktaṃ maṅgalopādānam // 16 athaśabdasya maṅgalatve smṛtir oṃkāraś cāthaśabdaśca dvāv etau brahmaṇaḥ purā // 17 kaṇṭhaṃ bhittvā viniryātau tena māṅgalikāv ubhau iti // 18 śāstrāntare cādau maṅgalatvena dṛṣṭo'yamathaśabdaḥ // 19 yathā atha śabdānuśāsanam athāto dharmaṃ vyākhyāsyāmaḥ vai ityādau // 20 abhīṣṭadevatānamaskārastu granthādau śiṣṭācāraprāptaḥ paramaśiṣṭenāgniveśena kṛta eva anyathā śiṣṭācāralaṅghanena śiṣṭatvameva na syād vyākhyānāntarāyabhayaśca tathā granthāviniveśitasyāpi namaskārasya pratyavāyāpahatvācca na granthaniveśanam // 21 yathā ca gurvājñālābhānantaram etat tantrakaraṇaṃ tathā atha maitrīparaḥ puṇyam ityādau sphuṭameva // 22 granthakaraṇe ca gurvanumatipratipādanena granthasyopādeyatā pradarśitā bhavati // 23 yat punaḥ śiṣyapraśnānantaryārthatvam athaśabdasya varṇyate tanna māṃ dhinoti nahi śiṣyān puro vyavasthāpya śāstraṃ kriyate śrotṛbuddhisthīkāre tu śāstrakaraṇaṃ yuktaṃ na ca buddhisthīkṛtāḥ praṣṭāro bhavanti // 24 ataḥśabdo 'dhikāraprāgavadhyupadarśakaḥ ata ūrdhvaṃ yad upadekṣyāmo dīrghaṃjīvitīyaṃ taditi yadi vā hetau yena brahmādipraṇītāyurvedatantrāṇām uktena nyāyenotsambandhatvam iva ato hetor dīrghaṃjīvitīyaṃ vyākhyāsyāma iti yojanīyam // 25 dīrghaṃjīvitīyam ityatra dīrghaṃjīvitaśabdo 'sminn astīti matvarthe adhyāyānuvākayor luk ca iti chapratyayaḥ // 26 yadi vā dīrghaṃjīvitaśabdam adhikṛtya kṛto grantho 'dhyāyarūpastantrarūpo vā ityasyāṃ vivakṣāyām adhikṛtya kṛte granthe ityadhikārāt śiśukrandayamasabha ityādinā chaḥ // 27 evamanyatrāpyevaṃjātīye mantavyam // 28 atra ca satyapi śabdāntare dīrghaṃjīvitaśabdenaiva saṃjñā kṛtā dīrghaṃjīvitaśabdasyaiva pravacanādau niveśāt praśastatvācca // 29 dīrghaṃjīvitaśabdo 'sminn asti iti dīrghaṃjīvitaśabdam adhikṛtya kṛto vā ityanayā vyutpattyā dīrghaṃjīvitīyaśabdas tantre 'dhyāye ca pravartanīyaḥ // 30 tena dīrghaṃjīvitīyaṃ vyākhyāsyāma ityanena tantraṃ prati vyākhyānapratijñā labdhā bhavati punar dīrghaṃjīvitīyam iti padam āvartyādhyāyapadasamabhivyāhṛtam adhyāyavyākhyānapratijñāṃ lambhayati // 31 dṛṣṭaṃ cāvṛtya padasya yojanaṃ yathā apāmārgataṇḍulīye gaurave śirasaḥ śūle pīnase ityādau śirasa iti padaṃ gaurave ityanena yujyate āvṛtya śūle ityanena ca // 32 ataśca yaducyate akṛtatantrapratijñasyādhyāyapratijñā ūnakāyamāneti tannirastaṃ bhavati // 33 yadi vā adhyāyapratijñaivāstu tayaiva tantrapratijñāpyarthalabdhaiva na hy adhyāyas tantravyatiriktaḥ tenāvayavavyākhyāne tantrasyāpyavayavino vyākhyā bhavatyeva yathā aṅgulīgrahaṇena devadatto'pi gṛhīto bhavati // 34 avayavāntaravyākhyānapratijñā tu na labhyate tāṃ tu pratyadhyāyameva kariṣyati // 35 adhyāyamiti adhipūrvādiṅaḥ iṅaśca iti karmaṇi ghañā sādhyam // 36 tena adhīyate ityadhyāyaḥ // 37 na cānayā vyutpattyā prakaraṇacatuṣkasthānādiṣvatiprasaṅgaḥ yato yogarūḍheyam adhyāyasaṃjñādhyāyasya prakaraṇasamūhaviśeṣa eva dīrghaṃjīvitīyādilakṣaṇe paṅkajaśabdavadvartate na yogamātreṇa vartate // 38 vakṣyati hi adhikṛtyeyamadhyāyanāmasaṃjñā pratiṣṭhitā iti nāmasaṃjñā yogarūḍhasaṃjñetyarthaḥ // 39 yadi vā karaṇādhikaraṇayor arthayoḥ // 40 adhyāyanyāyodyāvasaṃhārāś ca itisūtreṇa nipātanād adhyāyapadasiddhiḥ // 41 adhīyate'sminnanena vārthaviśeṣa ityadhyāyaḥ // 42 atiprasaktiniṣedhas tūktanyāyaḥ // 43 vyākhyāsyāma iti vyāṅpūrvāt khyāteḷrṭā sādhyam // 44 cakṣiṅo hi prayoge'nicchato 'pi vyākhyātuḥ kriyāphalasambandhasya durnivāratvena svaritañita ityādinātmanepadaṃ syāditi // 45 vi iti viśeṣe viśeṣāśca vyāsasamāsādayaḥ // 46 āṅayaṃ kriyāyoge ye tu maryādāyām abhividhau vā āṅprayogaṃ manyante teṣām abhiprāyaṃ na vidmaḥ // 47 yato maryādāyāmabhividhau cāṅaḥ prātipadikena yogaḥ syāt yathā āsamudrakṣitīśānām āpāṭalīputrād vṛṣṭo deva ityādau ihāpi ca tathā // 48 kriyāyogavirahe upasargāḥ kriyāyoge iti niyamād āṅa upasargatvaṃ na syāt tataścānupasargeṇāṅā vyavadhānād ver upasargasya prayogo na syāt // 49 yenāvyavahitaḥ sajātīyavyavahito vā dhātor upasargo bhavati // 50 vyāṅor ubhayor apyanupasargatve tatsambandhocitabhūriprātipadikakalpanāgauravaprasaṅgaḥ syāt tasmāt kriyāyogitvam evāṅo nyāyyam // 51 atha ataḥ dīrghaṃ jīvitīyam adhyāyaṃ vi ā khyāsyāma ityaṣṭapadatvam // 52] iti ha smāha bhagavānātreyaḥ

Sanskrit only: no published translation is held for this verse.

ननु कथमग्निवेशः सकलपदार्थाशेषविशेषज्ञानव्याख्येयम् आयुर्वेदं व्याख्यास्यति यतो न तावद् भेषजादीनाम् अशेषविशेषप्रत्यक्षज्ञेयः सर्वपदार्थानां विशेषाणां प्रत्यक्षाविषयत्वात् अन्वयव्यतिरेकाभ्यां तु सर्वपदार्थावधारणं दुष्करमेव यत एकम् एव मधु स्वरूपेण जीवयति मारयति चोष्णं समघृतं च कफप्रकृतेर्हितमहितं वातप्रकृतेः अनूपे सात्म्यमसात्म्यं मरौ शीते सेव्यमसेव्यं ग्रीष्मे हितम् अवृद्धे वृद्धे चाहितम् अल्पं गुणकरम् आबाधकरम् अत्युपयुक्तम् आमतां गतम् उदरे उपक्रमविरोधित्वाद् अतिविभ्रमकरं काकमाचीयुक्तं पक्वनिकुचेन च सहोपयुक्तं मरणाय अथवा बलवर्णवीर्यतेजौपघाताय भवति इत्येवमादि तत्तद् युक्तं तत्तच्छतशः करोति अत एवैकस्यैव मधुनो रूपं यदानेन प्रकारेण दुरधिगमं तदात्र कैव कथा निखिलपदार्थाशेषविशेषज्ञानस्य अजानंश्च व्याचक्षाणः कथमुपादेयवचन इति कृत्वा गुरोर् आप्तात् प्रतिपन्नं प्रतिपादयिष्याम इति दर्शयन् तामिमां शङ्कां निराचिकीर्षुर् गुरूक्तानुवादरूपतां स्वग्रन्थस्य दर्शयन्नाह इति ह स्माह भगवानात्रेय इति ॥ १ अत्र इतिशब्दो वक्ष्यमाणार्थपरामर्शकः हशब्दोऽवधारणे यथा न ह वै सशरीरस्य प्रियाप्रिययोरपहतिरस्तीति अत्र न हेति नैवेत्यर्थः ॥ २ अत्र स्माह इति स्मशब्दप्रयोगेन भूतमात्र एव लिडर्थे लट् स्मे इति लट् न भूतानद्यतनपरोक्षे आत्रेयोपदेशस्याग्निवेशं प्रत्यपरोक्षत्वात् ॥ ३ यथा च भूतमात्रे लिड् भवति तथाच दर्शयिष्यामः ॥ ४ भगं पूजितं ज्ञानं तद्वान् यथोक्तम् उत्पत्तिं प्रलयं चैव भूतानाम् आगतिं गतिम् ॥ ५ वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति यदि वा भगशब्दः समस्तैश्वर्यमाहात्म्यादिवचनः यथोक्तम् ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः ॥ ६ ज्ञानवैराग्ययोश्चैव षण्णां भग इतीङ्गनाः इति ॥ ७ अत्रेरपत्यमात्रेयः अनेन विशुद्धवंशत्वं दर्शितं भवति ॥ ८ अत्रान्ये वर्णयन्ति चतुर्विधं सूत्रं भवति गुरुसूत्रं शिष्यसूत्रं प्रतिसंस्कर्तृसूत्रम् एकीयसूत्रं चेति ॥ ९ तत्र गुरुसूत्रं यथा नैतद् बुद्धिमता द्रष्टव्यम् अग्निवेश इत्यादि प्रतिसंस्कर्तृसूत्रं यथा तमुवाच भगवानात्रेयः इत्यादि शिष्यसूत्रं यथा नैतानि भगवन् पञ्चकषायशतानि पूर्यन्ते इत्यादि एकीयसूत्रं यथा कुमारस्य शिरः पूर्वमभिनिर्वर्तत इति कुमारशिरा भरद्वाजः इत्यादि ॥ १० तेनाद्यं व्याख्यानप्रतिज्ञासूत्रं गुरोरेव शिष्यस्याग्निवेशस्य व्याख्याने ऽनधिकारत्वात् ॥ ११ द्वितीयं च सूत्रं प्रतिसंस्कर्तुः । इतिशब्देन च प्रकारवाचिना दीर्घंजीवितीयं व्याख्यास्याम इति परामृश्यते तेनाह स्मेति भूतानद्यतनपरोक्ष एव भवति प्रतिसंस्कर्तारं प्रत्यात्रेयोपदेशस्य परोक्षत्वात् ॥ १२ अनेन च न्यायेन तमुवाच भगवानात्रेय इत्यादाव् अपि लिड्विधिर् उपपन्नो भवति ॥ १३ सुश्रुते च यथोवाच भगवान् धन्वन्तरिः इति प्रतिसंस्कर्तृसूत्रमिति कृत्वा टीकाकृता लिड्विधिर् उपपादितः इति ॥ १४ अत्र ब्रूमः यत्तावदुक्तं शिष्यस्याग्निवेशस्य व्याख्यानानधिकारादिदं गुरोः सूत्रं तन्न नहि जात्या गुरुत्वम् अस्ति यतः स एवात्रेयः स्वगुरुम् अपेक्ष्य शिष्यः अग्निवेशादीन् अपेक्ष्य गुरुः एवमग्निवेशो ऽपि ग्रन्थकरणकाले स्वबुद्धिस्थीकृताञ्शिष्यान् प्रति गुरुरिति न कश्चिद् दोषः ॥ १५ यत्पुनर्द्वितीयस्य प्रतिसंस्कर्तृसूत्रतया भूतानद्यतनपरोक्षे लिड्विधिर् उपपाद्यते तत्र विचार्यं किम् इदं द्वितीयं सूत्रं पूर्ववाक्यैकतापन्नं न वा यद्येकवाक्यतापन्नं तदा सुश्रुते तथा व्याख्यास्यामो यथोवाच धन्वन्तरिर् इति योजनीयं तथाच तथा व्याख्यास्याम इति क्रियैकवाक्यतापन्नम् उवाचेतिपदं न भिन्नकर्तृकं भवितुम् अर्हति तथा च कुतो लिड्विधिः अथ नैकतापन्नं तदा गौर् अश्वः पुरुषो हस्तीतिवन्नार्थसंगतिः ॥ १६ किंच जतूकर्णादौ प्रतिसंस्कर्तृश्रुतिगन्धो ऽपि नास्ति तत् कथं नानाश्रुतपरिपूर्णकण्ठः शिष्यो जतूकर्णः प्राञ्जलिर् अधिगम्योवाच इत्यादौ लिड्विधिः ॥ १७ अनेन न्यायेन चरके ऽपि प्रतिसंस्कर्तृसूत्रपक्षे लिड्विधिर्नास्ति तस्माच्चरके ऽग्निवेशः सुश्रुते सुश्रुत एव सूत्राणां प्रणेता क्वचित् किंचिदर्थं स्तोतुं निन्दितुं वाख्यायिकारूपं पुराकल्पं दर्शयन् किमपि सूत्रं गुरूक्तानुवादरूपतया किमप्येकीयमतानुवादरूपतया लिखति प्रतिसंस्कर्ता त्व् अयं ग्रन्थं पूरयति तदाद्यग्रन्थकर्तृतयैव ॥ १८ लिड्विधिस्तु भूतानद्यतनमात्र एव छन्दोविहितो भाषायामपि वर्णनीयः अन्यथा उवाचेति पदं जतूकर्णादौ न स्यात् तथा च हरिवंशे धन्योपाख्याने मामुवाच इति तथा अहमुवाच इति च न स्यात् यथा स मामुवाचाम्बुचरः कूर्मो मानुषवत् स्वयम् ॥ १९ किमाश्चर्यं मयि मुने धन्यश्चाहं कथं विभो इति तथा स्व्यम्भुवचनात् सो ऽहं वेदान् वै समुपस्थितः ॥ २० उवाच चैनांश्चतुरः इति ॥ २१ यदपि इति ह स्माह इत्यत्र इतिशब्देन पूर्वसूत्रं परामृश्यते तन्न येन दीर्घंजीवितीयादिसूत्रमात्रस्य तदर्थस्य वा गुरूक्तत्वप्रतिपादने सति नैवोत्तरत्राभिधेयाभिधानेन निखिलतन्त्रस्य गुरूक्तानुवादरूपतया करणं श्रोतृश्रद्धाकरणं प्रतिपादितं भवति ॥ २२ भवति तु भावयितुं यथा पुरा व्याख्यातं तस्मात्तदेव न्याय्यमिति ॥ २३ अग्निवेशस्य व्याख्यास्याम इति बहुवचनम् एकस्मिन्न् अप्य् अस्मदः प्रयोगाद्बहुवचनप्रयोगस्य साधुत्वात् साधु हि वदन्ति वक्तारो वयं करिष्यामः इति ॥ २४ भगवानात्रेय इत्यत्र त्व् एकवचननिर्देशः कृतः भगवानित्यनेनैवात्रेयस्य गुरोर्गौरवस्य दर्शितत्वात् ॥ २५] दीर्घं जीवितमन्विच्छन्भरद्वाज उपागमत् । इन्द्रमुग्रतपा बुद्ध्वा शरण्यममरेश्वरम्

nanu kathamagniveśaḥ sakalapadārthāśeṣaviśeṣajñānavyākhyeyam āyurvedaṃ vyākhyāsyati yato na tāvad bheṣajādīnām aśeṣaviśeṣapratyakṣajñeyaḥ sarvapadārthānāṃ viśeṣāṇāṃ pratyakṣāviṣayatvāt anvayavyatirekābhyāṃ tu sarvapadārthāvadhāraṇaṃ duṣkarameva yata ekam eva madhu svarūpeṇa jīvayati mārayati coṣṇaṃ samaghṛtaṃ ca kaphaprakṛterhitamahitaṃ vātaprakṛteḥ anūpe sātmyamasātmyaṃ marau śīte sevyamasevyaṃ grīṣme hitam avṛddhe vṛddhe cāhitam alpaṃ guṇakaram ābādhakaram atyupayuktam āmatāṃ gatam udare upakramavirodhitvād ativibhramakaraṃ kākamācīyuktaṃ pakvanikucena ca sahopayuktaṃ maraṇāya athavā balavarṇavīryatejaupaghātāya bhavati ityevamādi tattad yuktaṃ tattacchataśaḥ karoti ata evaikasyaiva madhuno rūpaṃ yadānena prakāreṇa duradhigamaṃ tadātra kaiva kathā nikhilapadārthāśeṣaviśeṣajñānasya ajānaṃśca vyācakṣāṇaḥ kathamupādeyavacana iti kṛtvā guror āptāt pratipannaṃ pratipādayiṣyāma iti darśayan tāmimāṃ śaṅkāṃ nirācikīrṣur gurūktānuvādarūpatāṃ svagranthasya darśayannāha iti ha smāha bhagavānātreya iti // 1 atra itiśabdo vakṣyamāṇārthaparāmarśakaḥ haśabdo'vadhāraṇe yathā na ha vai saśarīrasya priyāpriyayorapahatirastīti atra na heti naivetyarthaḥ // 2 atra smāha iti smaśabdaprayogena bhūtamātra eva liḍarthe laṭ sme iti laṭ na bhūtānadyatanaparokṣe ātreyopadeśasyāgniveśaṃ pratyaparokṣatvāt // 3 yathā ca bhūtamātre liḍ bhavati tathāca darśayiṣyāmaḥ // 4 bhagaṃ pūjitaṃ jñānaṃ tadvān yathoktam utpattiṃ pralayaṃ caiva bhūtānām āgatiṃ gatim // 5 vetti vidyāmavidyāṃ ca sa vācyo bhagavāniti yadi vā bhagaśabdaḥ samastaiśvaryamāhātmyādivacanaḥ yathoktam aiśvaryasya samagrasya vīryasya yaśasaḥ śriyaḥ // 6 jñānavairāgyayoścaiva ṣaṇṇāṃ bhaga itīṅganāḥ iti // 7 atrerapatyamātreyaḥ anena viśuddhavaṃśatvaṃ darśitaṃ bhavati // 8 atrānye varṇayanti caturvidhaṃ sūtraṃ bhavati gurusūtraṃ śiṣyasūtraṃ pratisaṃskartṛsūtram ekīyasūtraṃ ceti // 9 tatra gurusūtraṃ yathā naitad buddhimatā draṣṭavyam agniveśa ityādi pratisaṃskartṛsūtraṃ yathā tamuvāca bhagavānātreyaḥ ityādi śiṣyasūtraṃ yathā naitāni bhagavan pañcakaṣāyaśatāni pūryante ityādi ekīyasūtraṃ yathā kumārasya śiraḥ pūrvamabhinirvartata iti kumāraśirā bharadvājaḥ ityādi // 10 tenādyaṃ vyākhyānapratijñāsūtraṃ guroreva śiṣyasyāgniveśasya vyākhyāne 'nadhikāratvāt // 11 dvitīyaṃ ca sūtraṃ pratisaṃskartuḥ / itiśabdena ca prakāravācinā dīrghaṃjīvitīyaṃ vyākhyāsyāma iti parāmṛśyate tenāha smeti bhūtānadyatanaparokṣa eva bhavati pratisaṃskartāraṃ pratyātreyopadeśasya parokṣatvāt // 12 anena ca nyāyena tamuvāca bhagavānātreya ityādāv api liḍvidhir upapanno bhavati // 13 suśrute ca yathovāca bhagavān dhanvantariḥ iti pratisaṃskartṛsūtramiti kṛtvā ṭīkākṛtā liḍvidhir upapāditaḥ iti // 14 atra brūmaḥ yattāvaduktaṃ śiṣyasyāgniveśasya vyākhyānānadhikārādidaṃ guroḥ sūtraṃ tanna nahi jātyā gurutvam asti yataḥ sa evātreyaḥ svagurum apekṣya śiṣyaḥ agniveśādīn apekṣya guruḥ evamagniveśo 'pi granthakaraṇakāle svabuddhisthīkṛtāñśiṣyān prati gururiti na kaścid doṣaḥ // 15 yatpunardvitīyasya pratisaṃskartṛsūtratayā bhūtānadyatanaparokṣe liḍvidhir upapādyate tatra vicāryaṃ kim idaṃ dvitīyaṃ sūtraṃ pūrvavākyaikatāpannaṃ na vā yadyekavākyatāpannaṃ tadā suśrute tathā vyākhyāsyāmo yathovāca dhanvantarir iti yojanīyaṃ tathāca tathā vyākhyāsyāma iti kriyaikavākyatāpannam uvācetipadaṃ na bhinnakartṛkaṃ bhavitum arhati tathā ca kuto liḍvidhiḥ atha naikatāpannaṃ tadā gaur aśvaḥ puruṣo hastītivannārthasaṃgatiḥ // 16 kiṃca jatūkarṇādau pratisaṃskartṛśrutigandho 'pi nāsti tat kathaṃ nānāśrutaparipūrṇakaṇṭhaḥ śiṣyo jatūkarṇaḥ prāñjalir adhigamyovāca ityādau liḍvidhiḥ // 17 anena nyāyena carake 'pi pratisaṃskartṛsūtrapakṣe liḍvidhirnāsti tasmāccarake 'gniveśaḥ suśrute suśruta eva sūtrāṇāṃ praṇetā kvacit kiṃcidarthaṃ stotuṃ nindituṃ vākhyāyikārūpaṃ purākalpaṃ darśayan kimapi sūtraṃ gurūktānuvādarūpatayā kimapyekīyamatānuvādarūpatayā likhati pratisaṃskartā tv ayaṃ granthaṃ pūrayati tadādyagranthakartṛtayaiva // 18 liḍvidhistu bhūtānadyatanamātra eva chandovihito bhāṣāyāmapi varṇanīyaḥ anyathā uvāceti padaṃ jatūkarṇādau na syāt tathā ca harivaṃśe dhanyopākhyāne māmuvāca iti tathā ahamuvāca iti ca na syāt yathā sa māmuvācāmbucaraḥ kūrmo mānuṣavat svayam // 19 kimāścaryaṃ mayi mune dhanyaścāhaṃ kathaṃ vibho iti tathā svyambhuvacanāt so 'haṃ vedān vai samupasthitaḥ // 20 uvāca caināṃścaturaḥ iti // 21 yadapi iti ha smāha ityatra itiśabdena pūrvasūtraṃ parāmṛśyate tanna yena dīrghaṃjīvitīyādisūtramātrasya tadarthasya vā gurūktatvapratipādane sati naivottaratrābhidheyābhidhānena nikhilatantrasya gurūktānuvādarūpatayā karaṇaṃ śrotṛśraddhākaraṇaṃ pratipāditaṃ bhavati // 22 bhavati tu bhāvayituṃ yathā purā vyākhyātaṃ tasmāttadeva nyāyyamiti // 23 agniveśasya vyākhyāsyāma iti bahuvacanam ekasminn apy asmadaḥ prayogādbahuvacanaprayogasya sādhutvāt sādhu hi vadanti vaktāro vayaṃ kariṣyāmaḥ iti // 24 bhagavānātreya ityatra tv ekavacananirdeśaḥ kṛtaḥ bhagavānityanenaivātreyasya gurorgauravasya darśitatvāt // 25] dīrghaṃ jīvitamanvicchanbharadvāja upāgamat / indramugratapā buddhvā śaraṇyamamareśvaram

Sanskrit only: no published translation is held for this verse.

ब्रह्मणा हि यथाप्रोक्तम् आयुर्वेदं प्रजापतिः । जग्राह निखिलेनादाव् अश्विनौ तु पुनस् ततः

brahmaṇā hi yathāproktam āyurvedaṃ prajāpatiḥ / jagrāha nikhilenādāv aśvinau tu punas tataḥ

Sanskrit only: no published translation is held for this verse.

अश्विभ्यां भगवाञ्छक्रः प्रतिपेदे ह केवलम् । ऋषिप्रोक्तो भरद्वाजस् तस्माच्छक्रम् उपागमत्

aśvibhyāṃ bhagavāñchakraḥ pratipede ha kevalam / ṛṣiprokto bharadvājas tasmācchakram upāgamat

Sanskrit only: no published translation is held for this verse.

विघ्नभूता यदा रोगाः प्रादुर्भूताः शरीरिणाम् । तपोपवासाध्ययनब्रह्मचर्यव्रतायुषाम्

vighnabhūtā yadā rogāḥ prādurbhūtāḥ śarīriṇām / tapopavāsādhyayanabrahmacaryavratāyuṣām

Sanskrit only: no published translation is held for this verse.

तदा भूतेष्वनुक्रोशं पुरस्कृत्य महर्षयः । समेताः पुण्यकर्माणः पार्श्वे हिमवतः शुभे

tadā bhūteṣvanukrośaṃ puraskṛtya maharṣayaḥ / sametāḥ puṇyakarmāṇaḥ pārśve himavataḥ śubhe

Sanskrit only: no published translation is held for this verse.

अङ्गिरा जमदग्निश्च वसिष्ठः कश्यपो भृगुः । आत्रेयो गौतमः सांख्यः पुलस्त्यो नारदोऽसितः

aṅgirā jamadagniśca vasiṣṭhaḥ kaśyapo bhṛguḥ / ātreyo gautamaḥ sāṃkhyaḥ pulastyo nārado'sitaḥ

Sanskrit only: no published translation is held for this verse.

अगस्त्यो वामदेवश्च मार्कण्डेयाश्वलायनौ । पारिक्षिर्भिक्षुर् आत्रेयो भरद्वाजः कपिञ्जलः

agastyo vāmadevaśca mārkaṇḍeyāśvalāyanau / pārikṣirbhikṣur ātreyo bharadvājaḥ kapiñjalaḥ

Sanskrit only: no published translation is held for this verse.

विश्वामित्राश्मरथ्यौ च भार्गवश्च्यवनोऽभिजित् । गार्ग्यः शाण्डिल्यकौण्डिन्यौ वार्क्षिर् देवलगालवौ

viśvāmitrāśmarathyau ca bhārgavaścyavano'bhijit / gārgyaḥ śāṇḍilyakauṇḍinyau vārkṣir devalagālavau

Sanskrit only: no published translation is held for this verse.

सांकृत्यो बैजवापिश्च कुशिको बादरायणः । बडिशः शरलोमा च काप्यकात्यायनाव् उभौ

sāṃkṛtyo baijavāpiśca kuśiko bādarāyaṇaḥ / baḍiśaḥ śaralomā ca kāpyakātyāyanāv ubhau

Sanskrit only: no published translation is held for this verse.

काङ्कायनः कैकशेयो धौम्यो मारीचकाश्यपौ । शर्कराक्षो हिरण्याक्षो लोकाक्षः पैङ्गिरेव च

kāṅkāyanaḥ kaikaśeyo dhaumyo mārīcakāśyapau / śarkarākṣo hiraṇyākṣo lokākṣaḥ paiṅgireva ca

Sanskrit only: no published translation is held for this verse.

शौनकः शाकुनेयश्च मैत्रेयो मैमतायनिः । वैखानसा वालखिल्यास्तथा चान्ये महर्षयः

śaunakaḥ śākuneyaśca maitreyo maimatāyaniḥ / vaikhānasā vālakhilyāstathā cānye maharṣayaḥ

Sanskrit only: no published translation is held for this verse.

ब्रह्मज्ञानस्य निधयो दमस्य नियमस्य च । तपसस्तेजसा दीप्ता हूयमाना इवाग्नयः

brahmajñānasya nidhayo damasya niyamasya ca / tapasastejasā dīptā hūyamānā ivāgnayaḥ

Sanskrit only: no published translation is held for this verse.

के ते महर्षय इत्याहाङ्गिरा इत्यादि ॥ १ बह्वृषीणाम् अत्र कीर्तनं ग्रन्थादौ पापक्षयहेतुत्वेन तथायुर्वेदस्यैवंविधमहापुरुषसेवितत्वेन सेव्यत्वोपदर्शनार्थं चेति ॥ २ एषु च मध्ये केचिद् यायावराः केचिच्छालीनाः केचिदयोनिजाः एवंप्रकाराश्च सर्वे मीलिता बोद्धव्याः ॥ ३ भिक्षुरित्यात्रेयविशेषणं वक्ष्यति हि तन्नेति भिक्षुर् आत्रेयः इति ॥ ४ वैखानसा इति कर्मविशेषप्रयुक्ता संज्ञा ॥ ५ वालखिल्यास्तु स्वल्पप्रमाणाः केचिद् ऋषयः ॥ ६ निधय इव निधयो ऽक्षयस्थानत्वेन ॥ ७ दमो दान्तत्वम् ॥ ८ इमामिति अग्रे वक्ष्यमाणाम् ॥ ९] धर्मार्थकाममोक्षाणामारोग्यं मूलम् उत्तमम्

ke te maharṣaya ityāhāṅgirā ityādi // 1 bahvṛṣīṇām atra kīrtanaṃ granthādau pāpakṣayahetutvena tathāyurvedasyaivaṃvidhamahāpuruṣasevitatvena sevyatvopadarśanārthaṃ ceti // 2 eṣu ca madhye kecid yāyāvarāḥ kecicchālīnāḥ kecidayonijāḥ evaṃprakārāśca sarve mīlitā boddhavyāḥ // 3 bhikṣurityātreyaviśeṣaṇaṃ vakṣyati hi tanneti bhikṣur ātreyaḥ iti // 4 vaikhānasā iti karmaviśeṣaprayuktā saṃjñā // 5 vālakhilyāstu svalpapramāṇāḥ kecid ṛṣayaḥ // 6 nidhaya iva nidhayo 'kṣayasthānatvena // 7 damo dāntatvam // 8 imāmiti agre vakṣyamāṇām // 9] dharmārthakāmamokṣāṇāmārogyaṃ mūlam uttamam

Sanskrit only: no published translation is held for this verse.

रोगास्तस्यापहर्तारः श्रेयसो जीवितस्य च । प्रादुर्भूतो मनुष्याणामन्तरायो महान् अयम्

rogāstasyāpahartāraḥ śreyaso jīvitasya ca / prādurbhūto manuṣyāṇāmantarāyo mahān ayam

Sanskrit only: no published translation is held for this verse.

कः स्यात्तेषां शमोपाय इत्युक्त्वा ध्यानमास्थिताः । अथ ते शरणं शक्रं ददृशुर्ध्यानचक्षुषा

kaḥ syātteṣāṃ śamopāya ityuktvā dhyānamāsthitāḥ / atha te śaraṇaṃ śakraṃ dadṛśurdhyānacakṣuṣā

Sanskrit only: no published translation is held for this verse.

धारणाद्धर्मः स चात्मसमवेतः कार्यदर्शनानुमेयः अर्थः सुवर्णादिः काम्यत इत कामो वनितापरिष्वङ्गादिः मोक्षः संसारविमोक्षः ॥ १ आरोग्यं रोगाभावाद् धातुसाम्यम् ॥ २ मूलं कारणम् ॥ ३ उत्तममिति प्रधानं तेनारोग्यं चतुर्वर्गे प्रधानं कारणं रोगगृहीतस्य क्वचिदपि पुरुषार्थे ऽसमर्थत्वाद् इत्युक्तम् ॥ ४ तस्यापहर्तार इति आरोग्यस्यापहर्तारः इदम् एव च रोगाणाम् आरोग्यापहरणं यद् अनर्थलाभः न पुनर् उत्पन्नो रोगः पश्चाद् आरोग्यम् अपहरति भावाभावयोः परस्पराभावात्मकत्वात् ॥ ५ श्रेयसो जीवितस्य चेति श्रेयोवज्जीवितं हितत्वेन सुखत्वेन चार्थे दशमहामूलीये वक्ष्यमाणं तस्य जीवितस्यापहर्तार इति योजनीयम् अश्रेयोजीवितमहितत्वेन दुःखहेतुतया चानुपादेयम् इति कृत्वा तदपहरणमिह नोक्तम् ॥ ६ अत्र सुखितजीवितोपघातो धर्माद्युपघातेनैव लब्धः तेन वयं पश्यामः श्रेयःशब्देन सामान्ये नाभ्युदयवाचिना धर्मादयो ऽभिधीयन्ते जीवितशब्देन च जीवितमात्रं यतो जीवितं स्वरूपेणैव सर्वप्राणिनां निरुपाध्युपादेयं वचनं हि आचकमे च ब्रह्मण इयमात्मा आशीः आयुष्मान् भूयासम् इति ॥ ७ यत्त्वत्यन्तदुःखगृहीतस्य जीवितं जिहासितं तत्र दुःखस्यात्यन्तजिहासितस्यान्यथा हातुम् अशक्यत्वात् प्रियमपि जीवितं त्यक्तुम् इच्छति न स्वरूपेण ॥ ८ अन्तराय इति धर्मादिसाधने बोद्धव्यः ॥ ९ अयमिति रोगप्रादुर्भावरूपः ॥ १० तेषामिति रोगाणाम् ॥ ११ शरणमिति रक्षितारम् ॥ १२ शक्तत्वाच्छक्र उच्यते ॥ १३ ध्यानं समाधिविशेषः तदुपलब्धिसाधनत्वाच्चक्षुर् इव ध्यानचक्षुः तेन स वक्ष्यति शमोपायं यथावद् अमरप्रभुः इति ध्यानचक्षुषा ददृशुरिति योजना ॥ १४] कः सहस्राक्षभवनं गच्छेत् प्रष्टुं शचीपतिम्

dhāraṇāddharmaḥ sa cātmasamavetaḥ kāryadarśanānumeyaḥ arthaḥ suvarṇādiḥ kāmyata ita kāmo vanitāpariṣvaṅgādiḥ mokṣaḥ saṃsāravimokṣaḥ // 1 ārogyaṃ rogābhāvād dhātusāmyam // 2 mūlaṃ kāraṇam // 3 uttamamiti pradhānaṃ tenārogyaṃ caturvarge pradhānaṃ kāraṇaṃ rogagṛhītasya kvacidapi puruṣārthe 'samarthatvād ityuktam // 4 tasyāpahartāra iti ārogyasyāpahartāraḥ idam eva ca rogāṇām ārogyāpaharaṇaṃ yad anarthalābhaḥ na punar utpanno rogaḥ paścād ārogyam apaharati bhāvābhāvayoḥ parasparābhāvātmakatvāt // 5 śreyaso jīvitasya ceti śreyovajjīvitaṃ hitatvena sukhatvena cārthe daśamahāmūlīye vakṣyamāṇaṃ tasya jīvitasyāpahartāra iti yojanīyam aśreyojīvitamahitatvena duḥkhahetutayā cānupādeyam iti kṛtvā tadapaharaṇamiha noktam // 6 atra sukhitajīvitopaghāto dharmādyupaghātenaiva labdhaḥ tena vayaṃ paśyāmaḥ śreyaḥśabdena sāmānye nābhyudayavācinā dharmādayo 'bhidhīyante jīvitaśabdena ca jīvitamātraṃ yato jīvitaṃ svarūpeṇaiva sarvaprāṇināṃ nirupādhyupādeyaṃ vacanaṃ hi ācakame ca brahmaṇa iyamātmā āśīḥ āyuṣmān bhūyāsam iti // 7 yattvatyantaduḥkhagṛhītasya jīvitaṃ jihāsitaṃ tatra duḥkhasyātyantajihāsitasyānyathā hātum aśakyatvāt priyamapi jīvitaṃ tyaktum icchati na svarūpeṇa // 8 antarāya iti dharmādisādhane boddhavyaḥ // 9 ayamiti rogaprādurbhāvarūpaḥ // 10 teṣāmiti rogāṇām // 11 śaraṇamiti rakṣitāram // 12 śaktatvācchakra ucyate // 13 dhyānaṃ samādhiviśeṣaḥ tadupalabdhisādhanatvāccakṣur iva dhyānacakṣuḥ tena sa vakṣyati śamopāyaṃ yathāvad amaraprabhuḥ iti dhyānacakṣuṣā dadṛśuriti yojanā // 14] kaḥ sahasrākṣabhavanaṃ gacchet praṣṭuṃ śacīpatim

Sanskrit only: no published translation is held for this verse.

अहमर्थे नियुज्येयम् अत्रेति प्रथमं वचः । भरद्वाजोऽब्रवीत्तस्मादृषिभिः स नियोजितः

ahamarthe niyujyeyam atreti prathamaṃ vacaḥ / bharadvājo'bravīttasmādṛṣibhiḥ sa niyojitaḥ

Sanskrit only: no published translation is held for this verse.

स शक्रभवनं गत्वा सुरर्षिगणमध्यगम् । ददर्श बलहन्तारं दीप्यमानमिवानलम्

sa śakrabhavanaṃ gatvā surarṣigaṇamadhyagam / dadarśa balahantāraṃ dīpyamānamivānalam

Sanskrit only: no published translation is held for this verse.

सो ऽभिगम्य जयाशीर्भिरभिनन्द्य सुरेश्वरम् । प्रोवाच विनयाद्धीमान् ऋषीणां वाक्यम् उत्तमम्

so 'bhigamya jayāśīrbhirabhinandya sureśvaram / provāca vinayāddhīmān ṛṣīṇāṃ vākyam uttamam

Sanskrit only: no published translation is held for this verse.

व्याधयो हि समुत्पन्नाः सर्वप्राणिभयंकराः । तद्ब्रूहि मे शमोपायं यथावदमरप्रभो

vyādhayo hi samutpannāḥ sarvaprāṇibhayaṃkarāḥ / tadbrūhi me śamopāyaṃ yathāvadamaraprabho

Sanskrit only: no published translation is held for this verse.

तस्मै प्रोवाच भगवानायुर्वेदं शतक्रतुः । पदैरल्पैर्मतिं बुद्ध्वा विपुलां परमर्षये

tasmai provāca bhagavānāyurvedaṃ śatakratuḥ / padairalpairmatiṃ buddhvā vipulāṃ paramarṣaye

Sanskrit only: no published translation is held for this verse.

अथैतेषु मध्ये भरद्वाजः कथम् इन्द्रम् उपागमद् इत्याह क इत्यादि ॥ १ शचीपतिम् इत्यनेन शचीसम्भोगव्यासक्तम् अप्यहम् उपासितुं क्षम इति भरद्वाजो दर्शयति ॥ २ अर्थे प्रयोजने ॥ ३ नियुज्येयं व्यापारयेयम् ॥ ४ अत्रेति प्रकृतप्रयोजन एव अत्रेतिशब्दो यस्मादर्थे ॥ ५ यथा सुभिक्षम् इत्यागतः यस्मात् सुभिक्षं तस्मादागत इत्यर्थः ॥ ६ नियोजित इति चौरादिको णिच न हेतौ ॥ ७ अनेन प्रकरणेन भरद्वाजस्यायुर्वेदागमे विशेषेणार्थित्वान्न प्रेरणमिति दर्शितं भवति ॥ ८ प्रोवाचेति सम्यगुवाच न तु प्रशब्दः प्रपञ्चार्थः पदैरल्पैर् इत्युक्तत्वात् ॥ ९ कस्मात् पदैर् अल्पैर् उवाचेत्याह मतिं बुद्ध्वा विपुलाम् इति यस्माद् विपुलमतिं भरद्वाजं प्रतिपन्नवान् तस्मात् पदैर् अल्पैर् उवाचेति भावः मतिश् च बहुविषयत्वेनोपचाराद् विपुलेत्य् उच्यते सा च मतिः शुश्रूषाश्रवणग्रहणधारणोहापोहतत्त्वाभिनिवेशवतीह विपुला बोद्धव्या ॥ १० अत्र चेन्द्रेण दिव्यदृशा भरद्वाजाभिप्रायम् अग्रत एव बुद्ध्वायुर्वेद उपदिष्टः तेन भरद्वाजस्येन्द्रपृच्छादीह न दर्शितं किंवा भूतम् अपीन्द्रपृच्छादि ग्रन्थविस्तरभयाद् इह न लिखितम् ॥ ११] हेतुलिङ्गौषधज्ञानं स्वस्थातुरपरायणम् । त्रिसूत्रं शाश्वतं पुण्यं बुबुधे यं पितामहः

athaiteṣu madhye bharadvājaḥ katham indram upāgamad ityāha ka ityādi // 1 śacīpatim ityanena śacīsambhogavyāsaktam apyaham upāsituṃ kṣama iti bharadvājo darśayati // 2 arthe prayojane // 3 niyujyeyaṃ vyāpārayeyam // 4 atreti prakṛtaprayojana eva atretiśabdo yasmādarthe // 5 yathā subhikṣam ityāgataḥ yasmāt subhikṣaṃ tasmādāgata ityarthaḥ // 6 niyojita iti caurādiko ṇica na hetau // 7 anena prakaraṇena bharadvājasyāyurvedāgame viśeṣeṇārthitvānna preraṇamiti darśitaṃ bhavati // 8 provāceti samyaguvāca na tu praśabdaḥ prapañcārthaḥ padairalpair ityuktatvāt // 9 kasmāt padair alpair uvācetyāha matiṃ buddhvā vipulām iti yasmād vipulamatiṃ bharadvājaṃ pratipannavān tasmāt padair alpair uvāceti bhāvaḥ matiś ca bahuviṣayatvenopacārād vipulety ucyate sā ca matiḥ śuśrūṣāśravaṇagrahaṇadhāraṇohāpohatattvābhiniveśavatīha vipulā boddhavyā // 10 atra cendreṇa divyadṛśā bharadvājābhiprāyam agrata eva buddhvāyurveda upadiṣṭaḥ tena bharadvājasyendrapṛcchādīha na darśitaṃ kiṃvā bhūtam apīndrapṛcchādi granthavistarabhayād iha na likhitam // 11] hetuliṅgauṣadhajñānaṃ svasthāturaparāyaṇam / trisūtraṃ śāśvataṃ puṇyaṃ bubudhe yaṃ pitāmahaḥ

Sanskrit only: no published translation is held for this verse.

यादृशो ऽसाव् अल्पपदैर् उपदिष्ट आयुर्वेदस्तमाह हेत्वित्यादि ॥ १ हेतुलिङ्गौषधज्ञानमिति हेत्वादीनि ज्ञायन्ते ऽनेनेति हेतुलिङ्गौषधज्ञानं यावच् चायुर्वेदवाच्यं तावद्धेत्वाद्यन्तर्भूतम् इत्यर्थः ॥ २ हेतुग्रहणेन संनिकृष्टविप्रकृष्टव्याधिहेतुग्रहणं लिङ्गग्रहणेन च व्याधेर् आरोग्यस्य च कृत्स्नं लिङ्गमुच्यते तेन व्याध्यारोग्ये ऽपि लिङ्गशब्दवाच्ये यतस्ताभ्यामपि हि तल्लिङ्गं लिङ्ग्यत एव वक्ष्यति हि विषमारम्भमूलानां ज्वर एको हि लक्षणम् ॥ ३ विषमारम्भमूलाद्यैर् ज्वर एको निगद्यते इत्यादि औषधग्रहणेन च सर्वपथ्यावरोधः ॥ ४ शरीरं चात्र हेतौ लिङ्गे चान्तर्भवति ॥ ५ स्वस्थातुरयोः परमुत्कृष्टमयनं मार्ग इति स्वस्थातुरपरायणम् ॥ ६ किमन्योऽयं हेतुलिङ्गौषधज्ञानरूप आयुर्वेदो ब्रह्मबुद्धादायुर्वेदाद् उतानन्य इत्याह त्रिसूत्रम् इत्यादि ॥ ७ पितामहोऽपि यं त्रिसूत्रं बुबुधे तमिन्द्रः प्रोवाच ॥ ८ त्रीणि हेत्वादीनि सूत्र्यन्ते यस्मिन् येन वा तन्त्रिसूत्रम् ॥ ९ तत्र सूचनात् सूत्रणाच्चार्थसंततेः सूत्रम् ॥ १० एतेन तं यथा ब्रह्मा त्रिसूत्रं बुबुधे तथैव हेतुलिङ्गौषधज्ञानम् इन्द्रः प्रोवाचेत्यविप्लुतमागमं दर्शयति ॥ ११ बुबुध इति न कृतवान् ॥ १२ अत एवोक्तं शाश्वतं नित्यम् इत्यर्थः ॥ १३ तच्च नित्यत्वं सूत्रस्थानान्ते व्युत्पादनीयम् ॥ १४] सो ऽनन्तपारं त्रिस्कन्धमायुर्वेदं महामतिः । यथावदचिरात् सर्वं बुबुधे तन्मना मुनिः

yādṛśo 'sāv alpapadair upadiṣṭa āyurvedastamāha hetvityādi // 1 hetuliṅgauṣadhajñānamiti hetvādīni jñāyante 'neneti hetuliṅgauṣadhajñānaṃ yāvac cāyurvedavācyaṃ tāvaddhetvādyantarbhūtam ityarthaḥ // 2 hetugrahaṇena saṃnikṛṣṭaviprakṛṣṭavyādhihetugrahaṇaṃ liṅgagrahaṇena ca vyādher ārogyasya ca kṛtsnaṃ liṅgamucyate tena vyādhyārogye 'pi liṅgaśabdavācye yatastābhyāmapi hi talliṅgaṃ liṅgyata eva vakṣyati hi viṣamārambhamūlānāṃ jvara eko hi lakṣaṇam // 3 viṣamārambhamūlādyair jvara eko nigadyate ityādi auṣadhagrahaṇena ca sarvapathyāvarodhaḥ // 4 śarīraṃ cātra hetau liṅge cāntarbhavati // 5 svasthāturayoḥ paramutkṛṣṭamayanaṃ mārga iti svasthāturaparāyaṇam // 6 kimanyo'yaṃ hetuliṅgauṣadhajñānarūpa āyurvedo brahmabuddhādāyurvedād utānanya ityāha trisūtram ityādi // 7 pitāmaho'pi yaṃ trisūtraṃ bubudhe tamindraḥ provāca // 8 trīṇi hetvādīni sūtryante yasmin yena vā tantrisūtram // 9 tatra sūcanāt sūtraṇāccārthasaṃtateḥ sūtram // 10 etena taṃ yathā brahmā trisūtraṃ bubudhe tathaiva hetuliṅgauṣadhajñānam indraḥ provācetyaviplutamāgamaṃ darśayati // 11 bubudha iti na kṛtavān // 12 ata evoktaṃ śāśvataṃ nityam ityarthaḥ // 13 tacca nityatvaṃ sūtrasthānānte vyutpādanīyam // 14] so 'nantapāraṃ triskandhamāyurvedaṃ mahāmatiḥ / yathāvadacirāt sarvaṃ bubudhe tanmanā muniḥ

Sanskrit only: no published translation is held for this verse.

तेनायुर् अमितं लेभे भरद्वाजः सुखान्वितम् । ऋषिभ्योऽनधिकं तच्च शशंसानवशेषयन्

tenāyur amitaṃ lebhe bharadvājaḥ sukhānvitam / ṛṣibhyo'nadhikaṃ tacca śaśaṃsānavaśeṣayan

Sanskrit only: no published translation is held for this verse.

अथोद्दिष्टम् आयुर्वेदं कथं गृहीतवान् भरद्वाज इत्याह सो ऽनन्तेत्यादि ॥ १ अविद्यमानाव् अन्तपारौ यस्यासाव् अनन्तपारः अत्र पारशब्देन गोबलीवर्दन्यायेनादिर् उच्यते पारशब्दो ह्य् उभयोर् अपि नदीकूलयोर् विवक्षावशाद् वर्तते किंवा अनन्तो मोक्षः पारम् उत्कृष्टं फलं यस्यायुर्वेदस्यासाव् अनन्तपारः ॥ २ वक्ष्यति हि चिकित्सा तु नैष्ठिकी या विनोपधाम् इति ॥ ३ अत्र नैष्ठिकी मोक्षसाधनहेतुः ॥ ४ त्रयो हेत्वादयः स्कन्धरूपा यस्य स त्रिस्कन्धः स्कन्धश्च स्थूलावयवः प्रविभागो वा ॥ ५ तत्रैवायुर्वेदग्रहणे मनो यस्य स तन्मनाः ॥ ६ मननाज्ज्ञानप्रकर्षशालित्वान् मुनिः ॥ ७ एतेन यस्मादयं महामतिस् तन्मनाः मुनिश्च तेनानन्तपारमप्यायुर्वेदं हेत्वादिस्कन्धत्रयमालम्बनं कृत्वा यथावदचिरादेव प्रतिपन्नवान् इत्याशयः ॥ ८ अचिरादिति अचिरेण ॥ ९ अत्र च यथा ब्रह्मा त्रिसूत्रं बुबुधे यथा चेन्द्रो हेतुलिङ्गौषधज्ञानं प्रोवाच तथैव भरद्वाजोऽपि त्रिस्कन्धं तं बुबुधे इत्यनेनायुर्वेदस्याविप्लुतागमत्वम् उपदर्श्यते तेन त्रिसूत्रत्रिस्कन्धयोर् न पुनरुक्तिः ॥ १० तेनेति इन्द्राद् गृहीतेनायुर्वेदेन ॥ ११ अमितमिति अमितमिवामितम् अतिदीर्घत्वात् ॥ १२ आयुःशब्दश्चायुःकारणे रसायनज्ञाने बोद्धव्यः येनोत्तरकालं हि रसायनोपयोगाद् अयं भरद्वाजोऽमितमायुरवाप्स्यति न ऋषिभ्य आयुर्वेदकथनात् पूर्वं रसायनमाचरति स्म किंवा सर्वप्राण्युपकारार्थाधीतायुर्वेदजनितधर्मवशात् तत्कालम् एवामितमायुर् लेभे भरद्वाज इति बोद्धव्यम् ॥ १३ तच्चेति श्रुतं यदा तमिति पाठः तदा तम् आयुर्वेदम् ॥ १४ अनवशेषयन्निति कार्त्स्न्येनेत्यर्थः ॥ १५ आयुर्वेदम् अधीत्यानन्तरम् एवायं तमृषिभ्यो दत्तवान् ॥ १६] ऋषयश्च भरद्वाजाज्जगृहुस् तं प्रजाहितम् । दीर्घमायुश्चिकीर्षन्तो वेदं वर्धनमायुषः

athoddiṣṭam āyurvedaṃ kathaṃ gṛhītavān bharadvāja ityāha so 'nantetyādi // 1 avidyamānāv antapārau yasyāsāv anantapāraḥ atra pāraśabdena gobalīvardanyāyenādir ucyate pāraśabdo hy ubhayor api nadīkūlayor vivakṣāvaśād vartate kiṃvā ananto mokṣaḥ pāram utkṛṣṭaṃ phalaṃ yasyāyurvedasyāsāv anantapāraḥ // 2 vakṣyati hi cikitsā tu naiṣṭhikī yā vinopadhām iti // 3 atra naiṣṭhikī mokṣasādhanahetuḥ // 4 trayo hetvādayaḥ skandharūpā yasya sa triskandhaḥ skandhaśca sthūlāvayavaḥ pravibhāgo vā // 5 tatraivāyurvedagrahaṇe mano yasya sa tanmanāḥ // 6 mananājjñānaprakarṣaśālitvān muniḥ // 7 etena yasmādayaṃ mahāmatis tanmanāḥ muniśca tenānantapāramapyāyurvedaṃ hetvādiskandhatrayamālambanaṃ kṛtvā yathāvadacirādeva pratipannavān ityāśayaḥ // 8 acirāditi acireṇa // 9 atra ca yathā brahmā trisūtraṃ bubudhe yathā cendro hetuliṅgauṣadhajñānaṃ provāca tathaiva bharadvājo'pi triskandhaṃ taṃ bubudhe ityanenāyurvedasyāviplutāgamatvam upadarśyate tena trisūtratriskandhayor na punaruktiḥ // 10 teneti indrād gṛhītenāyurvedena // 11 amitamiti amitamivāmitam atidīrghatvāt // 12 āyuḥśabdaścāyuḥkāraṇe rasāyanajñāne boddhavyaḥ yenottarakālaṃ hi rasāyanopayogād ayaṃ bharadvājo'mitamāyuravāpsyati na ṛṣibhya āyurvedakathanāt pūrvaṃ rasāyanamācarati sma kiṃvā sarvaprāṇyupakārārthādhītāyurvedajanitadharmavaśāt tatkālam evāmitamāyur lebhe bharadvāja iti boddhavyam // 13 tacceti śrutaṃ yadā tamiti pāṭhaḥ tadā tam āyurvedam // 14 anavaśeṣayanniti kārtsnyenetyarthaḥ // 15 āyurvedam adhītyānantaram evāyaṃ tamṛṣibhyo dattavān // 16] ṛṣayaśca bharadvājājjagṛhus taṃ prajāhitam / dīrghamāyuścikīrṣanto vedaṃ vardhanamāyuṣaḥ

Sanskrit only: no published translation is held for this verse.

महर्षयस्ते ददृशुर्यथावज्ज्ञानचक्षुषा । सामान्यं च विशेषं च गुणान् द्रव्याणि कर्म च

maharṣayaste dadṛśuryathāvajjñānacakṣuṣā / sāmānyaṃ ca viśeṣaṃ ca guṇān dravyāṇi karma ca

Sanskrit only: no published translation is held for this verse.

समवायं च तज्ज्ञात्वा तन्त्रोक्तं विधिमास्थिताः । लेभिरे परमं शर्म जीवितं चाप्यनित्वरम्

samavāyaṃ ca tajjñātvā tantroktaṃ vidhimāsthitāḥ / lebhire paramaṃ śarma jīvitaṃ cāpyanitvaram

Sanskrit only: no published translation is held for this verse.

दीर्घमायुश्चिकीर्षन्त इति प्राणिनाम् आत्मनश् च ॥ १ ज्ञानार्थं ज्ञानरूपं वा चक्षुर् ज्ञानचक्षुः तेन ज्ञानचक्षुषा ॥ २ गृहीतेन तेनायुर्वेदेन किं ददृशुरित्याह सामान्यं चेत्यादि ॥ ३ एषां चोत्तरत्र लक्षणं षण्णां पदार्थानां विश्वरूपाणां भविष्यति तेनैतत् तत्रैव व्याकरणीयम् ॥ ४ तद् इति सामान्यादि ॥ ५ तन्त्रोक्तं विधिम् इति अपथ्यपरिहारपथ्योपादानरूपम् ॥ ६ शर्म सुखम् ॥ ७ परम् इति दुःखानाक्रान्तम् ॥ ८ अनित्वरम् इति अगत्वरम् ॥ ९] अथ मैत्रीपरः पुण्यमायुर्वेदं पुनर्वसुः । शिष्येभ्यो दत्तवान् षड्भ्यः सर्वभूतानुकम्पया

dīrghamāyuścikīrṣanta iti prāṇinām ātmanaś ca // 1 jñānārthaṃ jñānarūpaṃ vā cakṣur jñānacakṣuḥ tena jñānacakṣuṣā // 2 gṛhītena tenāyurvedena kiṃ dadṛśurityāha sāmānyaṃ cetyādi // 3 eṣāṃ cottaratra lakṣaṇaṃ ṣaṇṇāṃ padārthānāṃ viśvarūpāṇāṃ bhaviṣyati tenaitat tatraiva vyākaraṇīyam // 4 tad iti sāmānyādi // 5 tantroktaṃ vidhim iti apathyaparihārapathyopādānarūpam // 6 śarma sukham // 7 param iti duḥkhānākrāntam // 8 anitvaram iti agatvaram // 9] atha maitrīparaḥ puṇyamāyurvedaṃ punarvasuḥ / śiṣyebhyo dattavān ṣaḍbhyaḥ sarvabhūtānukampayā

Sanskrit only: no published translation is held for this verse.

अग्निवेशश्च भेलश् च जतूकर्णाः पराशरः । हारीतः क्षारपाणिश्च जगृहुस्तन्मुनेर्वचः

agniveśaśca bhelaś ca jatūkarṇāḥ parāśaraḥ / hārītaḥ kṣārapāṇiśca jagṛhustanmunervacaḥ

Sanskrit only: no published translation is held for this verse.

अथेत्यादिना भरद्वाजशिष्यस्यात्रेयस्य पुनर्वस्वपरनाम्नो ऽग्निवेशादिगुरुतां दर्शयति ॥ १ अत्र केचिद्भरद्वाजात्रेययोरैक्यं मन्यन्ते तन्न भरद्वाजसंज्ञया आत्रेयस्य क्वचिद् अपि तन्त्रप्रदेशे ऽकीर्तनात् हारीते चात्रेयादिगुरुतया भरद्वाज उक्तः शक्राद् अहम् अधीतवान् इत्यादिना मत्तः पुनरसंख्येयास् त्रिसूत्रं त्रिप्रयोजनम् ॥ २ अत्रात्रेयादिपर्यन्ता विदुः सप्त महर्षयः ॥ ३ आत्रेयाद्धारीत ऋषिर् इत्यन्तेन ॥ ४ वाग्भटेन तु यदुक्तं ब्रह्मा स्मृत्वायुषो वेदं प्रजापतिम् अजिग्रहत् ॥ ५ सो ऽश्विनौ तौ सहस्राक्षं सो ऽत्रिपुत्रादिकान् मुनीन् वा इत्यनेनात्रेयस्येन्द्रशिष्यत्वं तदायुर्वेदसमुत्थानीयरसायनपादे आदिशब्देन वक्ष्यमाणेन्द्रशिष्यतायोगात् समर्थनीयम् ॥ ६ तत्र हीन्द्रेण पुनर्महर्षीणाम् आयुर्वेद उपदिष्ट इति वक्तव्यम् ॥ ७ मैत्रीपरो मैत्रीप्रधानः मैत्री च सर्वप्राणिष्वात्मनीव बुद्धिः ॥ ८] बुद्धेर् विशेषस् तत्रासीन्नोपदेशान्तरं मुनेः । तन्त्रस्य कर्ता प्रथमम् अग्निवेशो यतो ऽभवत्

athetyādinā bharadvājaśiṣyasyātreyasya punarvasvaparanāmno 'gniveśādigurutāṃ darśayati // 1 atra kecidbharadvājātreyayoraikyaṃ manyante tanna bharadvājasaṃjñayā ātreyasya kvacid api tantrapradeśe 'kīrtanāt hārīte cātreyādigurutayā bharadvāja uktaḥ śakrād aham adhītavān ityādinā mattaḥ punarasaṃkhyeyās trisūtraṃ triprayojanam // 2 atrātreyādiparyantā viduḥ sapta maharṣayaḥ // 3 ātreyāddhārīta ṛṣir ityantena // 4 vāgbhaṭena tu yaduktaṃ brahmā smṛtvāyuṣo vedaṃ prajāpatim ajigrahat // 5 so 'śvinau tau sahasrākṣaṃ so 'triputrādikān munīn vā ityanenātreyasyendraśiṣyatvaṃ tadāyurvedasamutthānīyarasāyanapāde ādiśabdena vakṣyamāṇendraśiṣyatāyogāt samarthanīyam // 6 tatra hīndreṇa punarmaharṣīṇām āyurveda upadiṣṭa iti vaktavyam // 7 maitrīparo maitrīpradhānaḥ maitrī ca sarvaprāṇiṣvātmanīva buddhiḥ // 8] buddher viśeṣas tatrāsīnnopadeśāntaraṃ muneḥ / tantrasya kartā prathamam agniveśo yato 'bhavat

Sanskrit only: no published translation is held for this verse.

अथ भेलादयश् चक्रुः स्वं स्वं तन्त्रं कृतानि च । श्रावयामासुर् आत्रेयं सर्षिसंघं सुमेधसः

atha bhelādayaś cakruḥ svaṃ svaṃ tantraṃ kṛtāni ca / śrāvayāmāsur ātreyaṃ sarṣisaṃghaṃ sumedhasaḥ

Sanskrit only: no published translation is held for this verse.

श्रुत्वा सूत्रणम् अर्थानाम् ऋषयः पुण्यकर्मणाम् । यथावत् सूत्रितम् इति प्रहृष्टास् ते ऽनुमेनिरे

śrutvā sūtraṇam arthānām ṛṣayaḥ puṇyakarmaṇām / yathāvat sūtritam iti prahṛṣṭās te 'numenire

Sanskrit only: no published translation is held for this verse.

सर्व एवास्तुवंस् तांश् च सर्वभूतहितैषिणः । साधु भूतेष्वनुक्रोश इत्युच्चैर् अब्रुवन् समम्

sarva evāstuvaṃs tāṃś ca sarvabhūtahitaiṣiṇaḥ / sādhu bhūteṣvanukrośa ityuccair abruvan samam

Sanskrit only: no published translation is held for this verse.

तं पुण्यं शुश्रुवुः शब्दं दिवि देवर्षयः स्थिताः । सामराः परमर्षीणां श्रुत्वा मुमुदिरे परम्

taṃ puṇyaṃ śuśruvuḥ śabdaṃ divi devarṣayaḥ sthitāḥ / sāmarāḥ paramarṣīṇāṃ śrutvā mumudire param

Sanskrit only: no published translation is held for this verse.

अहो साध्विति निर्घोषो लोकांस् त्रीन् अन्ववादयत् । नभसि स्निग्धगम्भीरो हर्षाद्भूतैर् उदीरितः

aho sādhviti nirghoṣo lokāṃs trīn anvavādayat / nabhasi snigdhagambhīro harṣādbhūtair udīritaḥ

Sanskrit only: no published translation is held for this verse.

शिवो वायुर् ववौ सर्वा भाभिर् उन्मीलिता दिशः । निपेतुः सजलाश् चैव दिव्याः कुसुमवृष्टयः

śivo vāyur vavau sarvā bhābhir unmīlitā diśaḥ / nipetuḥ sajalāś caiva divyāḥ kusumavṛṣṭayaḥ

Sanskrit only: no published translation is held for this verse.

अथाग्निवेशप्रमुखान् विविशुर् ज्ञानदेवताः । बुद्धिः सिद्धिः स्मृतिर् मेधा धृतिः कीर्तिः क्षमादयः

athāgniveśapramukhān viviśur jñānadevatāḥ / buddhiḥ siddhiḥ smṛtir medhā dhṛtiḥ kīrtiḥ kṣamādayaḥ

Sanskrit only: no published translation is held for this verse.

तानि चानुमतान्येषाम् तन्त्राणि परमर्षिभिः । भवाय भूतसंघानां प्रतिष्ठां भुवि लेभिरे

tāni cānumatānyeṣām tantrāṇi paramarṣibhiḥ / bhavāya bhūtasaṃghānāṃ pratiṣṭhāṃ bhuvi lebhire

Sanskrit only: no published translation is held for this verse.

हिताहितं सुखं दुःखम् आयुस् तस्य हिताहितम् । मानं च तच्च यत्रोक्तम् आयुर्वेदः स उच्यते

hitāhitaṃ sukhaṃ duḥkham āyus tasya hitāhitam / mānaṃ ca tacca yatroktam āyurvedaḥ sa ucyate

Sanskrit only: no published translation is held for this verse.

शरीरेन्द्रियसत्त्वात्मसंयोगो धारि जीवितम् । नित्यगश् चानुबन्धश् च पर्यायैर् आयुर् उच्यते

śarīrendriyasattvātmasaṃyogo dhāri jīvitam / nityagaś cānubandhaś ca paryāyair āyur ucyate

Sanskrit only: no published translation is held for this verse.

तस्यायुषः पुण्यतमो वेदो वेदविदां मतः । वक्ष्यते यन् मनुष्याणां लोकयोर् उभयोर् हितम्

tasyāyuṣaḥ puṇyatamo vedo vedavidāṃ mataḥ / vakṣyate yan manuṣyāṇāṃ lokayor ubhayor hitam

Sanskrit only: no published translation is held for this verse.