Library·Anandavardhana: Dhvanyaloka [DhvA]·3

Anandavardhana: Dhvanyaloka [DhvA] 3

मुक्ता-फल-रचित-प्रसाधनानां मध्ये सपत्नीनाम् ॥] अनेनापि वाक्येन व्याध-वध्वाः शिखि-पिच्छि-कर्ण-पूराया नव-परिणीतायाः कस्याश्चित् सौभाग्यातिशयः प्रकाश्यते । तत्-सम्भोगैक-रतो मयूर-मात्र-मारण-समर्थः पतिर् जात इत्य् अर्थ-प्रकाशनात् तद् अन्यासां चिर-परिणीतानां मुक्ता-फल-रचित-प्रसाधनानां दौर्भाग्यातिशयः ख्याप्यते । तत् स-सम्भोग-काले स एव व्याधः करि-वर-वधव्यापार-समर्थ आसीद् इत्य् अर्थ-प्रकाशनात् । ननु काव्य-विशेषो ध्वनिर् इत्य् उक्तं तत् कथं तस्य पद-प्रकाशता ? काव्य-विशेषो हि विशिष्तार्थ-प्रतिपत्ति-हेतुः शब्द-सन्दर्भ-विशेषः । तद्-भावश् च पद-प्रकाशत्वे नोपपद्यते, पदानां स्मारकत्वेनावाचकत्वात् । उच्यते-"स्याद् एष दोषः यदि वाचकत्वं प्रयोजकं ध्वनि-व्यवहारे स्यात् ।" न त्व् एवम् ; तस्य व्यञ्जकत्वेन व्यवस्थानात् । किं च काव्यानां शरीराणाम् इव संस्थान-विशेषावच्छिन्न-समुदाय-साध्यापि चारुत्व-प्रतीतिर् अन्वय-व्यतिरेकाभ्यां भागेषु कल्प्यत इति पदानाम् अपि व्यञ्जकत्व-मुखेन व्यवस्थितो ध्वनि-व्यवहारो न विरोधी । अनिष्टस्य श्रुतिर् यद्वद् आपादयति दुष्टताम् । श्रुति-दुष्टादिषु व्यक्तं तद्वद् इष्ट-स्मृतिर् गुणम् ॥ पदानां स्मारकत्वे ऽपि पद-मात्रावभासिनः । तेन ध्वनेः प्रभेदेषु सर्वेष्व् एवास्ति रम्यता ॥ विच्छित्ति-शोभिनैकेन भूषणेनेव कामिनी । पद-द्योत्येन सुकवेर् ध्वनिना भाति भारती ॥ इति परिकर-श्लोकाः

muktā-phala-racita-prasādhanānāṃ madhye sapatnīnām //] anenāpi vākyena vyādha-vadhvāḥ śikhi-picchi-karṇa-pūrāyā nava-pariṇītāyāḥ kasyāścit saubhāgyātiśayaḥ prakāśyate / tat-sambhogaika-rato mayūra-mātra-māraṇa-samarthaḥ patir jāta ity artha-prakāśanāt tad anyāsāṃ cira-pariṇītānāṃ muktā-phala-racita-prasādhanānāṃ daurbhāgyātiśayaḥ khyāpyate / tat sa-sambhoga-kāle sa eva vyādhaḥ kari-vara-vadhavyāpāra-samartha āsīd ity artha-prakāśanāt / nanu kāvya-viśeṣo dhvanir ity uktaṃ tat kathaṃ tasya pada-prakāśatā ? kāvya-viśeṣo hi viśiṣtārtha-pratipatti-hetuḥ śabda-sandarbha-viśeṣaḥ / tad-bhāvaś ca pada-prakāśatve nopapadyate, padānāṃ smārakatvenāvācakatvāt / ucyate-"syād eṣa doṣaḥ yadi vācakatvaṃ prayojakaṃ dhvani-vyavahāre syāt /" na tv evam ; tasya vyañjakatvena vyavasthānāt / kiṃ ca kāvyānāṃ śarīrāṇām iva saṃsthāna-viśeṣāvacchinna-samudāya-sādhyāpi cārutva-pratītir anvaya-vyatirekābhyāṃ bhāgeṣu kalpyata iti padānām api vyañjakatva-mukhena vyavasthito dhvani-vyavahāro na virodhī / aniṣṭasya śrutir yadvad āpādayati duṣṭatām / śruti-duṣṭādiṣu vyaktaṃ tadvad iṣṭa-smṛtir guṇam // padānāṃ smārakatve 'pi pada-mātrāvabhāsinaḥ / tena dhvaneḥ prabhedeṣu sarveṣv evāsti ramyatā // vicchitti-śobhinaikena bhūṣaṇeneva kāminī / pada-dyotyena sukaver dhvaninā bhāti bhāratī // iti parikara-ślokāḥ

Sanskrit only: no published translation is held for this verse.

पदावयवेन द्योतनं यथा- व्रीडा-योगान् नत-वदनया सन्निधाने गुरूणां बद्धोत्कम्पं कुच-कलशयोर् मन्युम् अन्तर् निगृह्य । तिष्ठेत्य् उक्तं किम् इव न तया यत् समुत्सृज्य बाष्पं मय्य् आसक्तश् चकित-हरिणी-हारि-नेत्र-त्रिभागः ॥ इत्य् अत्र त्रिभाग-शब्दः । वाक्य-रूपश् चालक्ष्य-क्रम-व्यङ्ग्यो ध्वनिः शुद्धो ऽलङ्कार-सङ्कीर्णश् चेति द्विधा मतः । तत्र शुद्धस्योदाहरणं यथा रामाभ्युदये-"कृतक-कुपितैः" इत्य् आदि श्लोकः । एतद् धि वाक्यं परस्परानुरागं परिपोष-प्राप्तं प्रदर्शयत् सर्वत एव परं रस-तत्त्वं प्रकाशयति । अलङ्कारान्तर-सङ्कीर्णो, यथा-"स्मर-नव-नदी-पूरेणोढाः" इत्य् आदि-श्लोकः । अत्र हि रूपकेण यथोक्त-व्यञ्जक-लक्षणानुगतेन प्रसाधितो रसः सुतराम् अभिव्यज्यते

padāvayavena dyotanaṃ yathā- vrīḍā-yogān nata-vadanayā sannidhāne gurūṇāṃ baddhotkampaṃ kuca-kalaśayor manyum antar nigṛhya / tiṣṭhety uktaṃ kim iva na tayā yat samutsṛjya bāṣpaṃ mayy āsaktaś cakita-hariṇī-hāri-netra-tribhāgaḥ // ity atra tribhāga-śabdaḥ / vākya-rūpaś cālakṣya-krama-vyaṅgyo dhvaniḥ śuddho 'laṅkāra-saṅkīrṇaś ceti dvidhā mataḥ / tatra śuddhasyodāharaṇaṃ yathā rāmābhyudaye-"kṛtaka-kupitaiḥ" ity ādi ślokaḥ / etad dhi vākyaṃ parasparānurāgaṃ paripoṣa-prāptaṃ pradarśayat sarvata eva paraṃ rasa-tattvaṃ prakāśayati / alaṅkārāntara-saṅkīrṇo, yathā-"smara-nava-nadī-pūreṇoḍhāḥ" ity ādi-ślokaḥ / atra hi rūpakeṇa yathokta-vyañjaka-lakṣaṇānugatena prasādhito rasaḥ sutarām abhivyajyate

Sanskrit only: no published translation is held for this verse.

वक्तृ-वाच्य-गतौचित्ये सत्य् अपि विषयाश्रयम् अन्यद् औचित्यं सङ्घटनां नियच्छति । यतः काव्यस्य प्रभेदा मुक्तकं संस्कृत-प्राकृतापभ्रंश-निबद्धम्, सन्दानितक-विशेषक-कलापक-कुलकानि, पर्याय-बन्धः परिकथा खण्ड-कथा सकल-कथे सर्ग-बन्धो ऽभिनेयार्थम् आख्यायिका-कथे इत्य् एवम् आदयः । तद्-आश्रयेणापि सङ्घटना विशेषवती भवति । तत्र मुक्तकेषु रस-बन्धाभिनिवेशिनः कवेस् तद्-आश्रयम् औचित्यम् । तच् च दर्शितम् एव । अन्यत्र काम-चारः । मुक्तकेषु प्रबन्धेष्व् इव रस-बन्धाभिनिवेशिनः कवयो दृश्यन्ते । यथा ह्य् अमरुकस्य कवेर् मुक्तकाः शृङ्गार-रस-स्यन्दिनः प्रबन्धायमानाः प्रसिद्धा एव । सन्दानितकादिषु तु विकट-निबन्धनौचित्यान् मध्यम-समासा-दीर्घ-समासे एव रचने । प्रबन्धाश्रयेषु यथोक्त-प्रबन्धौचित्यम् एवानुसर्तव्यम् । पर्याय-बन्धे पुनर् असमासा-मध्यम-समासे एव सङ्घटने । कदाचिद् अर्थौचित्याश्रयेण दीर्घ-समासायाम् अपि सङ्घटनायां परुषा ग्राम्या च वृत्तिः परिहर्तव्या । परिकथायां काम-चारः, तत्रेतिवृत्त-मात्रोपन्यासेन नात्यन्तं रस-बन्धाभिनिवेशात् । खण्ड-कथा-सकल-कथयोस् तु प्राकृत-प्रसिद्धयोः कुलकादि-निबन्धन-भूयस्त्वाद् दीर्घ-समासायाम् अपि न विरोधः । वृत्त्य्-औचित्यं तु यथा-रसम् अनुसर्तव्यम् । सर्ग-बन्धे तु रस-तात्पर्ये यथा-रसम् औचित्यम् अन्यथा तु काम-चारः । द्वयोर् अपि मार्गयोः सर्ग-बन्ध-विधायिनां दर्शनाद् रस-तात्पर्यं साधीयः । अभिनेयार्थे तु सर्वथा रस-बन्धे ऽभिनिवेशः कार्यः । आख्यायिका-कथयोस् तु गद्य-निबन्धन-बाहुल्याद् गद्ये च छन्दो-बन्ध-भिन्न-प्रस्थानत्वाद् इह नियमे हेतुर् अकृत-पूर्वो ऽपि मनाक् क्रियते

vaktṛ-vācya-gataucitye saty api viṣayāśrayam anyad aucityaṃ saṅghaṭanāṃ niyacchati / yataḥ kāvyasya prabhedā muktakaṃ saṃskṛta-prākṛtāpabhraṃśa-nibaddham, sandānitaka-viśeṣaka-kalāpaka-kulakāni, paryāya-bandhaḥ parikathā khaṇḍa-kathā sakala-kathe sarga-bandho 'bhineyārtham ākhyāyikā-kathe ity evam ādayaḥ / tad-āśrayeṇāpi saṅghaṭanā viśeṣavatī bhavati / tatra muktakeṣu rasa-bandhābhiniveśinaḥ kaves tad-āśrayam aucityam / tac ca darśitam eva / anyatra kāma-cāraḥ / muktakeṣu prabandheṣv iva rasa-bandhābhiniveśinaḥ kavayo dṛśyante / yathā hy amarukasya kaver muktakāḥ śṛṅgāra-rasa-syandinaḥ prabandhāyamānāḥ prasiddhā eva / sandānitakādiṣu tu vikaṭa-nibandhanaucityān madhyama-samāsā-dīrgha-samāse eva racane / prabandhāśrayeṣu yathokta-prabandhaucityam evānusartavyam / paryāya-bandhe punar asamāsā-madhyama-samāse eva saṅghaṭane / kadācid arthaucityāśrayeṇa dīrgha-samāsāyām api saṅghaṭanāyāṃ paruṣā grāmyā ca vṛttiḥ parihartavyā / parikathāyāṃ kāma-cāraḥ, tatretivṛtta-mātropanyāsena nātyantaṃ rasa-bandhābhiniveśāt / khaṇḍa-kathā-sakala-kathayos tu prākṛta-prasiddhayoḥ kulakādi-nibandhana-bhūyastvād dīrgha-samāsāyām api na virodhaḥ / vṛtty-aucityaṃ tu yathā-rasam anusartavyam / sarga-bandhe tu rasa-tātparye yathā-rasam aucityam anyathā tu kāma-cāraḥ / dvayor api mārgayoḥ sarga-bandha-vidhāyināṃ darśanād rasa-tātparyaṃ sādhīyaḥ / abhineyārthe tu sarvathā rasa-bandhe 'bhiniveśaḥ kāryaḥ / ākhyāyikā-kathayos tu gadya-nibandhana-bāhulyād gadye ca chando-bandha-bhinna-prasthānatvād iha niyame hetur akṛta-pūrvo 'pi manāk kriyate

Sanskrit only: no published translation is held for this verse.

यद् एतद् औचित्यं वक्तृ-वाच्य-गतं सङ्घटनाया नियामकम् उक्तम् एतद् एव गद्ये छन्दो-नियम-वर्जिते ऽपि विषयापेक्षं नियम-हेतुः । तथा ह्य् अत्रापि यदा कविः कवि-निबद्धो वा वक्ता रस-भाव-रहितस् तदा काम-चारः । रस-भाव-समन्विते तु वक्तरि पूर्वोक्तम् एवानुसर्तव्यम् । तत्रापि च विषयौचित्यम् एव । आख्यायिकायां तु भूम्ना मध्यम-समासा-दीर्घ-समासे एव सङ्घटने । गद्यस्य विकट-बन्धाश्रयेण छायावत्त्वात् । तत्र च तस्य प्रकृष्यमाणत्वात् । कथायां तु विकट-बन्ध-प्राचुर्ये ऽपि गद्यस्य रस-बन्धोक्तम् औचित्यम् अनुसर्तव्यम्

yad etad aucityaṃ vaktṛ-vācya-gataṃ saṅghaṭanāyā niyāmakam uktam etad eva gadye chando-niyama-varjite 'pi viṣayāpekṣaṃ niyama-hetuḥ / tathā hy atrāpi yadā kaviḥ kavi-nibaddho vā vaktā rasa-bhāva-rahitas tadā kāma-cāraḥ / rasa-bhāva-samanvite tu vaktari pūrvoktam evānusartavyam / tatrāpi ca viṣayaucityam eva / ākhyāyikāyāṃ tu bhūmnā madhyama-samāsā-dīrgha-samāse eva saṅghaṭane / gadyasya vikaṭa-bandhāśrayeṇa chāyāvattvāt / tatra ca tasya prakṛṣyamāṇatvāt / kathāyāṃ tu vikaṭa-bandha-prācurye 'pi gadyasya rasa-bandhoktam aucityam anusartavyam

Sanskrit only: no published translation is held for this verse.

अथवा पद्यवद् गद्य-बन्धे ऽपि रस-बन्धोक्तम् औचित्यं सर्वत्र संश्रिता रचना भवति । तत् तु विषयापेक्षं किंचिद् विशेषवद् भवति, न तु सर्वाकारम् । तथा हि गद्य-बन्धे ऽप्य् अतिदीर्घ-समासा रचना न विप्रलम्भ-शृङ्गार-करुणयोर् आख्यायिकायाम् अपि शोभते । नाटकादाव् अप्य् असमासैव न रौद्र-वीरादि-वर्णने । विषयापेक्षं त्व् औचित्यं प्रमाणतो ऽपकृष्यते प्रकृष्यते च । तथा ह्य् आख्यायिकायां नात्यन्तम् असमासा स्व-विषये ऽपि नाटकादौ नातिदीर्घ-समासा चेति सङ्घटनाया दिग्-अनुसर्तव्या

athavā padyavad gadya-bandhe 'pi rasa-bandhoktam aucityaṃ sarvatra saṃśritā racanā bhavati / tat tu viṣayāpekṣaṃ kiṃcid viśeṣavad bhavati, na tu sarvākāram / tathā hi gadya-bandhe 'py atidīrgha-samāsā racanā na vipralambha-śṛṅgāra-karuṇayor ākhyāyikāyām api śobhate / nāṭakādāv apy asamāsaiva na raudra-vīrādi-varṇane / viṣayāpekṣaṃ tv aucityaṃ pramāṇato 'pakṛṣyate prakṛṣyate ca / tathā hy ākhyāyikāyāṃ nātyantam asamāsā sva-viṣaye 'pi nāṭakādau nātidīrgha-samāsā ceti saṅghaṭanāyā dig-anusartavyā

Sanskrit only: no published translation is held for this verse.

अस्य विवक्षितान्य् अपर-वाच्यस्य ध्वनेर् अनुरणन-रूप-व्यङ्ग्यो ऽपि यः प्रभेद उदाहृतो द्विप्रकारः सो ऽपि प्रबन्धेषु केषुचिद् द्योतते । तद् यथा मधुमथन-विजये पाञ्चजन्योक्तिषु । यथा वा ममैव कामदेवस्य सहचर-समागमे विषम-बाण-लीलायाम् । यथा च गृध्र-गोमायु-संवादादौ महाभारते

asya vivakṣitāny apara-vācyasya dhvaner anuraṇana-rūpa-vyaṅgyo 'pi yaḥ prabheda udāhṛto dviprakāraḥ so 'pi prabandheṣu keṣucid dyotate / tad yathā madhumathana-vijaye pāñcajanyoktiṣu / yathā vā mamaiva kāmadevasya sahacara-samāgame viṣama-bāṇa-līlāyām / yathā ca gṛdhra-gomāyu-saṃvādādau mahābhārate

Sanskrit only: no published translation is held for this verse.

प्रस्तुत-रसापेक्षया विरोधी यो रसस् तस्य सम्बन्धिनां विभाव-भावानुभावानां परिग्रहो रस-विरोध-हेतुकः सम्भवनीयः । तत्र विरोधि-रस-विभाव-परिग्रहो यथा शान्त-रस-विभावेषु तद्-विभावतयैव निरूपितेष्व् अनन्तरम् एव शृङ्गारादि-विभाव-वर्णने । विरोधि-रस-भाव-परिग्रहो यथा प्रियं प्रति प्रणय-कलह-कुपितासु कामिनीषु वैराग्य-कथाभिर् अनुनये । विरोधि-रसानुभाव-परिग्रहो यथा प्रणय-कुपितायां प्रियायाम् अप्रसीदन्त्यां नायकस्य कोपावेश-विवशस्य रौद्रानुभाव-वर्णने । अयं चान्यो रस-भङ्ग-हेतुर् यत् प्रस्तुत-रसापेक्षया वस्तुनो ऽन्यस्य कथञ्चिद् अन्वितस्यापि विस्तरेण कथनम् । यथा विप्रलम्भ-शृङ्गारे नायकस्य कस्यचिद् वर्णयितुम् उपक्रान्ते कवेर् यमकाद्य्-अलङ्कार-निबन्धन-रसिकतया महता प्रबन्धेन पर्वतादि-वर्णने । अयं चापरो रस-भङ्ग-हेतुर् अवगन्तव्यो यद् अकाण्ड एव विच्छित्तिः रसस्याकण्ड एव च प्रकाशनम् । तत्रानवसरे विरामो रसस्य यथा नायकस्य कस्यचित् स्पृहणीय-समागमया नायिकया कयाचित् परां परिपोष-पदवीं प्राप्ते शृङ्गारे विदिते च परस्परानुरागे समागमोपाय-चिन्तोचितं व्यवहारम् उत्सृज्य स्वतन्त्रतया व्यापारान्तर-वर्णने । अनवसरे च प्रकाशनं रसस्य यथा प्रवृत्ते प्रवृत्त-विविध-वीर-सङ्क्षये कल्प-सङ्क्षय-कल्पे सङ्ग्रामे राम-देव-प्रायस्यापि तावन् नायकस्यानुपक्रान्त-विप्रलम्भ-शृङ्गारस्य निमित्तम् उचितम् अन्तरेणैव शृङ्गार-कथायाम् अवतार-वर्णने । न चैवं-विधे विषये दैव-व्यामोहितत्वं कथा-पुरुषस्य परिहारो यतो रस-बन्ध एव कवेः प्राधान्येन प्रवृत्ति-निबन्धनं युक्तम् । इतिवृत्त-वर्णनं तद्-उपाय एवेत्य् उक्तं प्राक् "आलोकार्थि यथा दीप-शिखायां यत्नवान् जनः" इत्य् आदिना । अत एव चेतिवृत्त-मात्र-वर्णन-प्राधान्ये ऽङ्गाङ्गि-भाव-रहित-रस-भाव-निबन्धेन च कवीनाम् एवं-विधानि स्खलितानि भवन्तीति रसादि-रूप-व्यङ्ग्य-तात्पर्यम् एवैषां युक्तम् इति यत्नो ऽस्माभिर् आरब्धो न ध्वनि-प्रतिपादन-मात्राभिनिवेशेन । पुनश् चायम् अन्यो रस-भङ्ग-हेतुर् अवधारणीयो यत् परिपोषं गतस्यापि रसस्य पौनःपुन्येन दीपनम् । उपभुक्तो हि रसः स्व-सामग्री-लब्ध-परिपोषः पुनः पुनः परामृश्यमानः परिम्लान-कुसुम-कल्पः कल्पते । तथा वृत्तेर् व्यवहारस्य यद् अनौचित्यं तद् अपि रस-भङ्ग-हेतुर् एव । यथा नायकं प्रति नायिकायाः कस्याश्चिद् उचितां भङ्गिम् अन्तरेण स्वयं सम्भोगाभिलाष-कथने । यदि वा वृत्तीनां भरत-प्रसिद्धानां कैशिक्यादीनां काव्यालङ्कारान्तर-प्रसिद्धानाम् उपनागरिकाद्यानां वा यद् अनौचित्यम् अविषये निबन्धनं तद् अपि रस-भङ्ग-हेतुः । एवम् एषां रस-विरोधिनाम् अन्येषां चानया दिशा स्वयम् उत्प्रेक्षितानां परिहारे सत्-कविभिर् अवहितैर् भवितव्यम् । परिकर-श्लोकाश् चात्र- मुख्या व्यापार-विषयाः सुकवीनां रसादयः । तेषाम् निबन्धने भाव्ये तैः सदैवाप्रमादिभिः ॥ नीरसस् तु प्रबन्धो यः सो ऽपशब्दो महान् कवेः । स तेनाकविर् एव स्याद् अन्येनास्मृत-लक्षणः ॥ पूर्वे विशृङ्खल-गिरः कवयः प्राप्य-कीर्तयः । तान् समाश्रित्य न त्याज्या नीतिर् एषा मनीषिणा ॥ वाल्मीकि-व्यास-मुख्याश् च ये प्रख्याताः कवीश्वराः । तद्-अभिप्राय-बाह्यो ऽयं नास्माभिर् दर्शितो नयः ॥इति

prastuta-rasāpekṣayā virodhī yo rasas tasya sambandhināṃ vibhāva-bhāvānubhāvānāṃ parigraho rasa-virodha-hetukaḥ sambhavanīyaḥ / tatra virodhi-rasa-vibhāva-parigraho yathā śānta-rasa-vibhāveṣu tad-vibhāvatayaiva nirūpiteṣv anantaram eva śṛṅgārādi-vibhāva-varṇane / virodhi-rasa-bhāva-parigraho yathā priyaṃ prati praṇaya-kalaha-kupitāsu kāminīṣu vairāgya-kathābhir anunaye / virodhi-rasānubhāva-parigraho yathā praṇaya-kupitāyāṃ priyāyām aprasīdantyāṃ nāyakasya kopāveśa-vivaśasya raudrānubhāva-varṇane / ayaṃ cānyo rasa-bhaṅga-hetur yat prastuta-rasāpekṣayā vastuno 'nyasya kathañcid anvitasyāpi vistareṇa kathanam / yathā vipralambha-śṛṅgāre nāyakasya kasyacid varṇayitum upakrānte kaver yamakādy-alaṅkāra-nibandhana-rasikatayā mahatā prabandhena parvatādi-varṇane / ayaṃ cāparo rasa-bhaṅga-hetur avagantavyo yad akāṇḍa eva vicchittiḥ rasasyākaṇḍa eva ca prakāśanam / tatrānavasare virāmo rasasya yathā nāyakasya kasyacit spṛhaṇīya-samāgamayā nāyikayā kayācit parāṃ paripoṣa-padavīṃ prāpte śṛṅgāre vidite ca parasparānurāge samāgamopāya-cintocitaṃ vyavahāram utsṛjya svatantratayā vyāpārāntara-varṇane / anavasare ca prakāśanaṃ rasasya yathā pravṛtte pravṛtta-vividha-vīra-saṅkṣaye kalpa-saṅkṣaya-kalpe saṅgrāme rāma-deva-prāyasyāpi tāvan nāyakasyānupakrānta-vipralambha-śṛṅgārasya nimittam ucitam antareṇaiva śṛṅgāra-kathāyām avatāra-varṇane / na caivaṃ-vidhe viṣaye daiva-vyāmohitatvaṃ kathā-puruṣasya parihāro yato rasa-bandha eva kaveḥ prādhānyena pravṛtti-nibandhanaṃ yuktam / itivṛtta-varṇanaṃ tad-upāya evety uktaṃ prāk "ālokārthi yathā dīpa-śikhāyāṃ yatnavān janaḥ" ity ādinā / ata eva cetivṛtta-mātra-varṇana-prādhānye 'ṅgāṅgi-bhāva-rahita-rasa-bhāva-nibandhena ca kavīnām evaṃ-vidhāni skhalitāni bhavantīti rasādi-rūpa-vyaṅgya-tātparyam evaiṣāṃ yuktam iti yatno 'smābhir ārabdho na dhvani-pratipādana-mātrābhiniveśena / punaś cāyam anyo rasa-bhaṅga-hetur avadhāraṇīyo yat paripoṣaṃ gatasyāpi rasasya paunaḥpunyena dīpanam / upabhukto hi rasaḥ sva-sāmagrī-labdha-paripoṣaḥ punaḥ punaḥ parāmṛśyamānaḥ parimlāna-kusuma-kalpaḥ kalpate / tathā vṛtter vyavahārasya yad anaucityaṃ tad api rasa-bhaṅga-hetur eva / yathā nāyakaṃ prati nāyikāyāḥ kasyāścid ucitāṃ bhaṅgim antareṇa svayaṃ sambhogābhilāṣa-kathane / yadi vā vṛttīnāṃ bharata-prasiddhānāṃ kaiśikyādīnāṃ kāvyālaṅkārāntara-prasiddhānām upanāgarikādyānāṃ vā yad anaucityam aviṣaye nibandhanaṃ tad api rasa-bhaṅga-hetuḥ / evam eṣāṃ rasa-virodhinām anyeṣāṃ cānayā diśā svayam utprekṣitānāṃ parihāre sat-kavibhir avahitair bhavitavyam / parikara-ślokāś cātra- mukhyā vyāpāra-viṣayāḥ sukavīnāṃ rasādayaḥ / teṣām nibandhane bhāvye taiḥ sadaivāpramādibhiḥ // nīrasas tu prabandho yaḥ so 'paśabdo mahān kaveḥ / sa tenākavir eva syād anyenāsmṛta-lakṣaṇaḥ // pūrve viśṛṅkhala-giraḥ kavayaḥ prāpya-kīrtayaḥ / tān samāśritya na tyājyā nītir eṣā manīṣiṇā // vālmīki-vyāsa-mukhyāś ca ye prakhyātāḥ kavīśvarāḥ / tad-abhiprāya-bāhyo 'yaṃ nāsmābhir darśito nayaḥ //iti

Sanskrit only: no published translation is held for this verse.

स्व-सामग्र्या लब्ध-परिपोषे तु विवक्षिते रसे विरोधिनां विरोधि-रसाङ्गानां बाध्यानाम् अङ्ग-भावं वा प्राप्तानां सताम् उक्तिर् अदोषा । बाध्यत्वं हि विरोधिनां शक्याभिभवत्वे सति नान्यथा । तथा च तेषाम् उक्तिः प्रस्तुत-रस-परिपोषायैव सम्पद्यते । अङ्ग-भावं प्राप्तानां च तेषां विरोधित्वम् एव निवर्तते । अङ्ग-भाव-प्राप्तिर् हि तेषां स्वाभाविकी समारोप-कृता वा । तत्र येषां नैसर्गिकी तेषां तावद् उक्ताव् अविरोध एव । यथा विप्रलम्भ-शृङ्गारे तद्-अङ्गानां व्याध्य्-आदीनां तेषां च तद्-अङ्गानाम् एवादोषो नातद्-अङ्गानाम् । तद्-अङ्गत्वे च सम्भवत्य् अपि मरणस्योपन्यासो न ज्यायान् । आश्रय-विच्छेदे रसस्यात्यन्त-विच्छेद-प्राप्तेः । करुणस्य तु तथा-विधे विषये परिपोषो भविष्यतीति चेत् न ; यस्याप्रस्तुतत्वात् प्रस्तुतस्य च विच्छेदात् । यत्र तु करुण-रसस्यैव काव्यार्थत्वं तत्राविरोधः । शृङ्गारे वा मरणस्यादीर्घ-काल-प्रत्यापत्ति-सम्भवे कदाचिद् उपनिबन्धो नात्यन्त-विरोधी । दीर्घ-काल-प्रत्यापत्तौ तु तस्यान्तरा प्रवाह-विच्छेद एवेत्य् एवं-विधेतिवृत्तोपनिबन्धनं रस-बन्ध-प्रधानेन कविना परिहर्तव्यम् । तत्र लब्ध-प्रतिष्ठे तु विवक्षिते रसे विरोधि-रसाङ्गानां बाध्यत्वेनोक्ताव् अदोषो यथा- क्वाकर्यं शश-लक्ष्मणः क्व च कुलं भूयो ऽपि दृश्येत सा दोषाणां प्रशमाय मे श्रुतम् अहो कोपे ऽपि कान्तं मुखम् । किं वक्ष्यन्त्य् अपकल्मषाः कृत-धियः स्वप्ने ऽपि सा दुर्लभा चेतः स्वास्थ्यम् उपैहि कः खलु युवा धन्यो ऽधरं पास्यति ॥ यथा वा पुण्डरीकस्य महाश्वेतां प्रति प्रवृत्त-निर्भरानुरागस्य द्वितीय-मुनि-कुमारोपदेश-वर्णने । स्वाभाविक्याम् अङ्ग-भाव-प्राप्ताव् अदोषो यथा- भ्रमिम् अरतिम् अलस-हृदयतां प्रलयं मूर्च्छां तमः शरीर-सादम् । मरणं च जलद-भुजगजं प्रसह्य कुरुते विषं वियोगिनीनाम् ॥इत्य् आदौ । समारोपितायाम् अप्य् अविरोधो यथा-"पाण्डु-क्षामम्" इत्य् आदौ । इयं चाङ्ग-भाव-प्राप्तिर् अन्या यदाधिकारिकत्वात् प्रधान एकस्मिन् वाक्यार्थे रसयोर् भावयोर् वा परस्पर-विरोधिनोर् द्वयोर् अङ्ग-भाव-गमनं तस्याम् अपि न दोषः । यथोक्तं "क्षिप्तो हास्तावलग्नः" इत्य् आदौ । कथं तत्राविरोध इति चेत्, द्वयोर् अपि तयोर् अन्य-परत्वेन व्यवस्थानात् । अन्य-परत्वे ऽपि विरोधिनोः कथं विरोध-निवृत्तिर् इति चेत्, उच्यते-विधौ विरुद्ध-समावेशस्य दुष्टत्वं नानुवादे । यथा- एहि गच्छ पतोत्तिष्ठ वद मौनं समाचर । एवम् आशा-ग्रह-ग्रस्तैः क्रीडन्ति धनिनो ऽर्थिभिः ॥इत्य् आदौ । अत्र हि विधि-प्रतिषेधयोर् अनूद्यमानत्वेन समावेशे न विरोधस् तथेहापि भविष्यति । श्लोके ह्य् अस्मिन्न् ईर्ष्या-विप्रलम्भ-शृङ्गार-करुण-वस्तुनोर् न विधीयमानत्वम् । त्रिपुर-रिपु-प्रभावातिशयस्य वाक्यार्थत्वात् तद्-अङ्गत्वेन च तयोर् व्यवस्थानात् । न च रसेषु विध्य्-अनुवाद-व्यवहारो नास्तीति शक्यं वक्तुम्, तेषां वाक्यार्थत्वेनाभ्युपगमात् । वाक्यार्थस्य वाच्यस्य च यौ विध्य्-अनुवादौ तौ तद्-आक्षिप्तानां रसानां केन वार्यते । यैर् वा साक्षात्-काव्यार्थता रसादीनां नाभ्युपगम्यते, तैस् तेषां तन्-निमित्तता तावद् अवश्यम् अभ्युपगन्तव्या । तथाप्य् अत्र श्लोके न विरोधः । यस्माद् अनूद्यमानाङ्ग-निमित्तोभय-रस-वस्तु-सहकारिणो विधीयमानांशाद् भाव-विशेष-प्रतीतिर् उत्पद्यते ततश् च न कश्चिद् विरोधः । दृश्यते हि विरुद्धोभय-सहकारिणः कारणात् कार्य-विशेषोत्पत्तिः । विरुद्ध-फलोत्पादन-हेतुत्वं हि युगपद् एकस्य कारणस्य विरुद्धं न तु विरुद्धोभय-सहकारित्वम् । एवं-विध-विरुद्ध-पदार्थ-विषयः कथम् अभिनयः प्रयोक्तव्य इति चेत्, अनूद्यमानैवं-विध-वाच्य-विषये या वार्ता सात्रापि भविष्यति । एवं-विध्य्-अनुवादनयाश्रयेणात्र श्लोके परिहृतस् तावद् विरोधः । किं च नायकस्याभिनन्दनीयोदयस्य कस्यचित् प्रभावातिशय-वर्णने तत्-प्रतिपक्षाणां यः करुणो रसः स परीक्षकाणां न वैक्लव्यम् आदधाति प्रत्युत प्रीत्य्-अतिशय-निमित्ततां प्रतिपद्यत इत्य् अतस् तस्य कुण्ठ-शक्तिकत्वात् तद्-विरोध-विधायिनो न कश्चिद् दोषः । तस्माद् वाक्यार्थी-भूतस्य रसस्य भावस्य वा विरोधी रस-विरोधीति वक्तुं न्याय्यः, न त्व् अङ्ग-भूतस्य कस्यचित् । अथवा वाक्यार्थी-भूतस्यापि कस्यचित् करुण-रस-विषयस्य तादृशेन शृङ्गार-वस्तुना भङ्गि-विशेषाश्रयेण संयोजनं रस-परिपोषायैव जायते । यतः प्रकृति-मधुराः पदार्थाः शोचनीयतां प्राप्ताः प्राग्-अवस्था-भाविभिः संस्मर्यमाणैर् विलासैर् अधिकतरं शोकावेशम् उपजनयन्ति । यथा- अयं स रशनोत्कर्षी पीन-स्तन-विमर्दनः । नाभ्यूरु-जघन-स्पर्शी नीवी-विस्रंसनः करः ॥इत्य् आदौ । तद् अत्र त्रिपुर-युवतीनां शाम्भवः शराग्निर् आर्द्रापराधः कामी यथा व्यवहरति स्म । तथा व्यवहृतवान् इत्य् अनेनापि प्रकारेणास्त्य् एव निर्विरोधत्वम् । तस्माद् यथा यथा निरूप्यते तथा तथात्र दोषाभावः । इत्थं च- क्रामन्त्यः क्षत-कोमलाङ्गुलि-गलद्-रक्तैः सदर्भाः स्थलीः पादैः पातित-यावकैर् इव पतद्-बाष्पाम्बु-धौताननाः । भीता भर्तृ-करावलम्बित-करास् त्वद्-वैरि-नाथो ऽधुना दावाग्निं परितो भ्रमन्ति पुनर् अप्य् उद्यद्-विवाहा इव ॥ इत्य् एवम् आदीनां सर्वेषाम् एव निर्विरोधत्वम् अवगन्तव्यम् । एवं तावद् रसादीनां विरोधि-रसादिभिः समावेशासमावेशयोर् विषय-विभागो दर्शितः

sva-sāmagryā labdha-paripoṣe tu vivakṣite rase virodhināṃ virodhi-rasāṅgānāṃ bādhyānām aṅga-bhāvaṃ vā prāptānāṃ satām uktir adoṣā / bādhyatvaṃ hi virodhināṃ śakyābhibhavatve sati nānyathā / tathā ca teṣām uktiḥ prastuta-rasa-paripoṣāyaiva sampadyate / aṅga-bhāvaṃ prāptānāṃ ca teṣāṃ virodhitvam eva nivartate / aṅga-bhāva-prāptir hi teṣāṃ svābhāvikī samāropa-kṛtā vā / tatra yeṣāṃ naisargikī teṣāṃ tāvad uktāv avirodha eva / yathā vipralambha-śṛṅgāre tad-aṅgānāṃ vyādhy-ādīnāṃ teṣāṃ ca tad-aṅgānām evādoṣo nātad-aṅgānām / tad-aṅgatve ca sambhavaty api maraṇasyopanyāso na jyāyān / āśraya-vicchede rasasyātyanta-viccheda-prāpteḥ / karuṇasya tu tathā-vidhe viṣaye paripoṣo bhaviṣyatīti cet na ; yasyāprastutatvāt prastutasya ca vicchedāt / yatra tu karuṇa-rasasyaiva kāvyārthatvaṃ tatrāvirodhaḥ / śṛṅgāre vā maraṇasyādīrgha-kāla-pratyāpatti-sambhave kadācid upanibandho nātyanta-virodhī / dīrgha-kāla-pratyāpattau tu tasyāntarā pravāha-viccheda evety evaṃ-vidhetivṛttopanibandhanaṃ rasa-bandha-pradhānena kavinā parihartavyam / tatra labdha-pratiṣṭhe tu vivakṣite rase virodhi-rasāṅgānāṃ bādhyatvenoktāv adoṣo yathā- kvākaryaṃ śaśa-lakṣmaṇaḥ kva ca kulaṃ bhūyo 'pi dṛśyeta sā doṣāṇāṃ praśamāya me śrutam aho kope 'pi kāntaṃ mukham / kiṃ vakṣyanty apakalmaṣāḥ kṛta-dhiyaḥ svapne 'pi sā durlabhā cetaḥ svāsthyam upaihi kaḥ khalu yuvā dhanyo 'dharaṃ pāsyati // yathā vā puṇḍarīkasya mahāśvetāṃ prati pravṛtta-nirbharānurāgasya dvitīya-muni-kumāropadeśa-varṇane / svābhāvikyām aṅga-bhāva-prāptāv adoṣo yathā- bhramim aratim alasa-hṛdayatāṃ pralayaṃ mūrcchāṃ tamaḥ śarīra-sādam / maraṇaṃ ca jalada-bhujagajaṃ prasahya kurute viṣaṃ viyoginīnām //ity ādau / samāropitāyām apy avirodho yathā-"pāṇḍu-kṣāmam" ity ādau / iyaṃ cāṅga-bhāva-prāptir anyā yadādhikārikatvāt pradhāna ekasmin vākyārthe rasayor bhāvayor vā paraspara-virodhinor dvayor aṅga-bhāva-gamanaṃ tasyām api na doṣaḥ / yathoktaṃ "kṣipto hāstāvalagnaḥ" ity ādau / kathaṃ tatrāvirodha iti cet, dvayor api tayor anya-paratvena vyavasthānāt / anya-paratve 'pi virodhinoḥ kathaṃ virodha-nivṛttir iti cet, ucyate-vidhau viruddha-samāveśasya duṣṭatvaṃ nānuvāde / yathā- ehi gaccha patottiṣṭha vada maunaṃ samācara / evam āśā-graha-grastaiḥ krīḍanti dhanino 'rthibhiḥ //ity ādau / atra hi vidhi-pratiṣedhayor anūdyamānatvena samāveśe na virodhas tathehāpi bhaviṣyati / śloke hy asminn īrṣyā-vipralambha-śṛṅgāra-karuṇa-vastunor na vidhīyamānatvam / tripura-ripu-prabhāvātiśayasya vākyārthatvāt tad-aṅgatvena ca tayor vyavasthānāt / na ca raseṣu vidhy-anuvāda-vyavahāro nāstīti śakyaṃ vaktum, teṣāṃ vākyārthatvenābhyupagamāt / vākyārthasya vācyasya ca yau vidhy-anuvādau tau tad-ākṣiptānāṃ rasānāṃ kena vāryate / yair vā sākṣāt-kāvyārthatā rasādīnāṃ nābhyupagamyate, tais teṣāṃ tan-nimittatā tāvad avaśyam abhyupagantavyā / tathāpy atra śloke na virodhaḥ / yasmād anūdyamānāṅga-nimittobhaya-rasa-vastu-sahakāriṇo vidhīyamānāṃśād bhāva-viśeṣa-pratītir utpadyate tataś ca na kaścid virodhaḥ / dṛśyate hi viruddhobhaya-sahakāriṇaḥ kāraṇāt kārya-viśeṣotpattiḥ / viruddha-phalotpādana-hetutvaṃ hi yugapad ekasya kāraṇasya viruddhaṃ na tu viruddhobhaya-sahakāritvam / evaṃ-vidha-viruddha-padārtha-viṣayaḥ katham abhinayaḥ prayoktavya iti cet, anūdyamānaivaṃ-vidha-vācya-viṣaye yā vārtā sātrāpi bhaviṣyati / evaṃ-vidhy-anuvādanayāśrayeṇātra śloke parihṛtas tāvad virodhaḥ / kiṃ ca nāyakasyābhinandanīyodayasya kasyacit prabhāvātiśaya-varṇane tat-pratipakṣāṇāṃ yaḥ karuṇo rasaḥ sa parīkṣakāṇāṃ na vaiklavyam ādadhāti pratyuta prīty-atiśaya-nimittatāṃ pratipadyata ity atas tasya kuṇṭha-śaktikatvāt tad-virodha-vidhāyino na kaścid doṣaḥ / tasmād vākyārthī-bhūtasya rasasya bhāvasya vā virodhī rasa-virodhīti vaktuṃ nyāyyaḥ, na tv aṅga-bhūtasya kasyacit / athavā vākyārthī-bhūtasyāpi kasyacit karuṇa-rasa-viṣayasya tādṛśena śṛṅgāra-vastunā bhaṅgi-viśeṣāśrayeṇa saṃyojanaṃ rasa-paripoṣāyaiva jāyate / yataḥ prakṛti-madhurāḥ padārthāḥ śocanīyatāṃ prāptāḥ prāg-avasthā-bhāvibhiḥ saṃsmaryamāṇair vilāsair adhikataraṃ śokāveśam upajanayanti / yathā- ayaṃ sa raśanotkarṣī pīna-stana-vimardanaḥ / nābhyūru-jaghana-sparśī nīvī-visraṃsanaḥ karaḥ //ity ādau / tad atra tripura-yuvatīnāṃ śāmbhavaḥ śarāgnir ārdrāparādhaḥ kāmī yathā vyavaharati sma / tathā vyavahṛtavān ity anenāpi prakāreṇāsty eva nirvirodhatvam / tasmād yathā yathā nirūpyate tathā tathātra doṣābhāvaḥ / itthaṃ ca- krāmantyaḥ kṣata-komalāṅguli-galad-raktaiḥ sadarbhāḥ sthalīḥ pādaiḥ pātita-yāvakair iva patad-bāṣpāmbu-dhautānanāḥ / bhītā bhartṛ-karāvalambita-karās tvad-vairi-nātho 'dhunā dāvāgniṃ parito bhramanti punar apy udyad-vivāhā iva // ity evam ādīnāṃ sarveṣām eva nirvirodhatvam avagantavyam / evaṃ tāvad rasādīnāṃ virodhi-rasādibhiḥ samāveśāsamāveśayor viṣaya-vibhāgo darśitaḥ

Sanskrit only: no published translation is held for this verse.

प्रबन्धेषु महाकाव्यादिषु नाटकादिषु वा विप्रकीर्णतयाङ्गाङ्गि-भावेन बहवो रसा उपनिबध्यन्त इत्य् अत्र प्रसिद्धौ सत्याम् अपि यः प्रबन्धानां छायातिशय-योगम् इच्छति तेन तेषां रसानाम् अन्यतमः कश्चिद् विवक्षितो रसो ऽङ्गित्वेन विनिवेशयितव्य इत्य् अयं युक्ततरो मार्गः

prabandheṣu mahākāvyādiṣu nāṭakādiṣu vā viprakīrṇatayāṅgāṅgi-bhāvena bahavo rasā upanibadhyanta ity atra prasiddhau satyām api yaḥ prabandhānāṃ chāyātiśaya-yogam icchati tena teṣāṃ rasānām anyatamaḥ kaścid vivakṣito raso 'ṅgitvena viniveśayitavya ity ayaṃ yuktataro mārgaḥ

Sanskrit only: no published translation is held for this verse.

प्रबन्धेषु प्रथमतरं प्रस्तुतः सन् पुनः पुनर् अनुसन्धीयमानत्वेन स्थायी यो रसस् तस्य सकल-बन्ध-व्यापिनो रसान्तरैर् अन्तराल-वर्तिभिः समावेशो यः स नाङ्गिताम् उपहन्ति

prabandheṣu prathamataraṃ prastutaḥ san punaḥ punar anusandhīyamānatvena sthāyī yo rasas tasya sakala-bandha-vyāpino rasāntarair antarāla-vartibhiḥ samāveśo yaḥ sa nāṅgitām upahanti

Sanskrit only: no published translation is held for this verse.

सन्ध्यादि-मयस्य प्रबन्ध-शरीरस्य यथा कार्यम् एकम् अनुयायि व्यापकं कल्प्यते न च तत्-कार्यान्तरैर् न सङ्कीर्यते, न च तैः सङ्कीर्यमाणस्यापि तस्य प्राधान्यम् अपचीयते, तथैव रसस्याप्य् एकस्य सन्निवेशे क्रियमाणे विरोधो न कश्चित् । प्रत्युत प्रत्युदित-विवेकानाम् अनुसन्धानवतां स-चेतसां तथा-विधे विषये प्रह्लादातिशयः प्रवर्तते

sandhyādi-mayasya prabandha-śarīrasya yathā kāryam ekam anuyāyi vyāpakaṃ kalpyate na ca tat-kāryāntarair na saṅkīryate, na ca taiḥ saṅkīryamāṇasyāpi tasya prādhānyam apacīyate, tathaiva rasasyāpy ekasya sanniveśe kriyamāṇe virodho na kaścit / pratyuta pratyudita-vivekānām anusandhānavatāṃ sa-cetasāṃ tathā-vidhe viṣaye prahlādātiśayaḥ pravartate

Sanskrit only: no published translation is held for this verse.

अङ्गिनि रसान्तरे शृङ्गारादौ प्रबन्ध-व्यङ्ग्ये सति अविरोधी विरोधी वा रसः परिपोषं न नेतव्यः । तत्राविरोधिनो रसस्याङ्गि-रसापेक्षयात्य् अन्तम् आधिक्यं न कर्तव्यम् इत्य् अयं प्रथमः परिपोष-परिहारः । उत्कर्ष-साम्ये ऽपि तयोर् विरोधासम्भवात् । यथा- एकतो रोदिति प्रिया अन्यतः समर-तूर्य-निर्घोषः । स्नेहेन रण-रसेन च भटस्य दोलायितं हृदयम् । यथा वा- कण्ठाच् छित्वाक्षमालावलयम् इव करे हारम् आवर्तयन्ती कृत्वा पर्यङ्क-बन्धं विषधर-पतिना मेखलाया गुणेन । मिथ्या-मन्त्राभिजापस्फुरद्-अधर-पुट-व्यञ्जिताव्यक्त-हासा देवी सन्ध्याभ्यसूया हसित-पशुपतिस् तत्र दृष्टा तु वो ऽव्यात् ॥इत्य् अत्र । अङ्गिरस-विरुद्धानां व्यभिचारिणां प्राचुर्येणानिवेशनम्, निवेशने वा क्षिप्रम् एवाङ्गिरस-व्यभिचार्य्-अनुवृत्तिर् इति द्वितीयः । अङ्गत्वेन पुनः पुनः प्रत्यवेक्षा परिपोषं नीयमानस्याप्य् अङ्ग-भूतस्य रसस्येति तृतीयः । अनया दिशान्ये ऽपि प्रकारा उत्प्रेक्षणीयाः । विरोधिनस् तु रसस्याङ्गिरसापेक्षया कस्यचिन् न्यूनता सम्पादनीया । यथा शान्ते ऽङ्गिनि शृङ्गारस्य शृङ्गारे वा शान्तस्य । परिपोष-रहितस्य रसस्य कथं रसत्वम् इति चेत्-उक्तम् अत्राङ्गिरसापेक्षयेति । अङ्गिनो हि रसस्य यावान् परिपोषस् तावांस् तस्य न कर्तव्यः, स्वतस् तु सम्भवी परिपोषः केन वार्यते । एतच् चापेक्षिकं प्रकर्ष-योगित्वम् एकस्य रसस्य बहु-रसेषु प्रबन्धेषु रसानाम् अङ्गाङ्गि-भावम् अनभ्युपगच्छताप्य् अशक्य-प्रतिक्षेपम् इत्य् अनेन प्रकारेणाविरोधिनां विरोधिनां च रसानाम् अङ्गाङ्गि-भावेन समावेशे प्रबन्धेषु स्याद् अविरोधः । एतच् च सर्वं येषां रसो रसान्तरस्य व्यभिचारी भवति इति दर्शनं तन्-मतेनोच्यते । मतान्तरे ऽपि रसानां स्थायिनो भावा उपचाराद् रस-शब्देनोक्तास् तेषाम् अङ्गत्वं निर्विरोधम् एव

aṅgini rasāntare śṛṅgārādau prabandha-vyaṅgye sati avirodhī virodhī vā rasaḥ paripoṣaṃ na netavyaḥ / tatrāvirodhino rasasyāṅgi-rasāpekṣayāty antam ādhikyaṃ na kartavyam ity ayaṃ prathamaḥ paripoṣa-parihāraḥ / utkarṣa-sāmye 'pi tayor virodhāsambhavāt / yathā- ekato roditi priyā anyataḥ samara-tūrya-nirghoṣaḥ / snehena raṇa-rasena ca bhaṭasya dolāyitaṃ hṛdayam / yathā vā- kaṇṭhāc chitvākṣamālāvalayam iva kare hāram āvartayantī kṛtvā paryaṅka-bandhaṃ viṣadhara-patinā mekhalāyā guṇena / mithyā-mantrābhijāpasphurad-adhara-puṭa-vyañjitāvyakta-hāsā devī sandhyābhyasūyā hasita-paśupatis tatra dṛṣṭā tu vo 'vyāt //ity atra / aṅgirasa-viruddhānāṃ vyabhicāriṇāṃ prācuryeṇāniveśanam, niveśane vā kṣipram evāṅgirasa-vyabhicāry-anuvṛttir iti dvitīyaḥ / aṅgatvena punaḥ punaḥ pratyavekṣā paripoṣaṃ nīyamānasyāpy aṅga-bhūtasya rasasyeti tṛtīyaḥ / anayā diśānye 'pi prakārā utprekṣaṇīyāḥ / virodhinas tu rasasyāṅgirasāpekṣayā kasyacin nyūnatā sampādanīyā / yathā śānte 'ṅgini śṛṅgārasya śṛṅgāre vā śāntasya / paripoṣa-rahitasya rasasya kathaṃ rasatvam iti cet-uktam atrāṅgirasāpekṣayeti / aṅgino hi rasasya yāvān paripoṣas tāvāṃs tasya na kartavyaḥ, svatas tu sambhavī paripoṣaḥ kena vāryate / etac cāpekṣikaṃ prakarṣa-yogitvam ekasya rasasya bahu-raseṣu prabandheṣu rasānām aṅgāṅgi-bhāvam anabhyupagacchatāpy aśakya-pratikṣepam ity anena prakāreṇāvirodhināṃ virodhināṃ ca rasānām aṅgāṅgi-bhāvena samāveśe prabandheṣu syād avirodhaḥ / etac ca sarvaṃ yeṣāṃ raso rasāntarasya vyabhicārī bhavati iti darśanaṃ tan-matenocyate / matāntare 'pi rasānāṃ sthāyino bhāvā upacārād rasa-śabdenoktās teṣām aṅgatvaṃ nirvirodham eva

Sanskrit only: no published translation is held for this verse.

यः पुनर् एकाधिकरणत्वे निर्विरोधो नैरन्तर्ये तु विरोधी स रसान्तर-व्यवधानेन प्रबन्धे निवेशयितव्यः । यथा शान्त-शृङ्गारौ नागानन्दे निवेशितौ । शान्तश् च तृष्णा-क्षय-सुखस्य यः परिपोषस् तल्-लक्षणो रसः प्रतीयत एव । तथा चोक्तम्- यच् च काम-सुखं लोके यच् च दिव्यं महत् सुखम् । तृष्णाक्षय-सुखस्यैते नार्हतः षोडशीं कलाम् ॥ यदि नाम सर्व-जनानुभव-गोचरता तस्य नास्ति नैतावतासाव् अलोक-सामान्य-महानुभाव-चित्त-वृत्ति-विशेषः प्रतिक्षेप्तुं शक्यः । न च वीरे तस्यान्तर्-भावः कर्तुं युक्तः । तस्याभिमान-मयत्वेन व्यवस्थापनात् । अस्य चाहङ्कार-प्रशमैक-रूपतया स्थितेः । तयोश् चैवं-विध-विशेष-सद्भावे ऽपि यद्य् ऐक्यं परिकल्प्यते तद् वीर-रौद्रयोर् अपि तथा प्रसङ्गः । दया-वीरादीनां च चित्त-वृत्ति-विशेषाणां सर्वाकारम् अहङ्कार-रहितत्वेन शान्त-रस-प्रभेदत्वम्, इतरथा तु वीर-प्रभेदत्वम् इति व्यवस्थाप्यमाने न कश्चिद् विरोधः । तद् एवम् अस्ति शान्तो रसः । तस्य चाविरुद्ध-रस-व्यवधानेन प्रबन्धे विरोधि-रस-समावेशे सत्य् अपि निर्विरोधत्वम् । यथा प्रदर्शिते विषये

yaḥ punar ekādhikaraṇatve nirvirodho nairantarye tu virodhī sa rasāntara-vyavadhānena prabandhe niveśayitavyaḥ / yathā śānta-śṛṅgārau nāgānande niveśitau / śāntaś ca tṛṣṇā-kṣaya-sukhasya yaḥ paripoṣas tal-lakṣaṇo rasaḥ pratīyata eva / tathā coktam- yac ca kāma-sukhaṃ loke yac ca divyaṃ mahat sukham / tṛṣṇākṣaya-sukhasyaite nārhataḥ ṣoḍaśīṃ kalām // yadi nāma sarva-janānubhava-gocaratā tasya nāsti naitāvatāsāv aloka-sāmānya-mahānubhāva-citta-vṛtti-viśeṣaḥ pratikṣeptuṃ śakyaḥ / na ca vīre tasyāntar-bhāvaḥ kartuṃ yuktaḥ / tasyābhimāna-mayatvena vyavasthāpanāt / asya cāhaṅkāra-praśamaika-rūpatayā sthiteḥ / tayoś caivaṃ-vidha-viśeṣa-sadbhāve 'pi yady aikyaṃ parikalpyate tad vīra-raudrayor api tathā prasaṅgaḥ / dayā-vīrādīnāṃ ca citta-vṛtti-viśeṣāṇāṃ sarvākāram ahaṅkāra-rahitatvena śānta-rasa-prabhedatvam, itarathā tu vīra-prabhedatvam iti vyavasthāpyamāne na kaścid virodhaḥ / tad evam asti śānto rasaḥ / tasya cāviruddha-rasa-vyavadhānena prabandhe virodhi-rasa-samāveśe saty api nirvirodhatvam / yathā pradarśite viṣaye

Sanskrit only: no published translation is held for this verse.

वाच्यानाम् इतिवृत्त-विशेषाणां वाचकानां च तद्-विषयाणां रसादि-विषयेणौचित्येन यद् योजनम् एतन् महाकवेर् मुख्यं कर्म । अयम् एव हि महाकवेर् मुख्यो व्यापारो यद् रसादीनाम् एव मुख्यतया काव्यार्थीकृत्य तद्-व्यक्त्य्-अनुगुणत्वेन शब्दानाम् अर्थानां चोपनिबन्धनम्

vācyānām itivṛtta-viśeṣāṇāṃ vācakānāṃ ca tad-viṣayāṇāṃ rasādi-viṣayeṇaucityena yad yojanam etan mahākaver mukhyaṃ karma / ayam eva hi mahākaver mukhyo vyāpāro yad rasādīnām eva mukhyatayā kāvyārthīkṛtya tad-vyakty-anuguṇatvena śabdānām arthānāṃ copanibandhanam

Sanskrit only: no published translation is held for this verse.

च गुण-वृत्तेर् विषयस्तद् अपि च व्यञ्जकत्वानुप्रवेशेन । तस्माद् गुण-वृत्तेर् अपि व्यञ्जकत्वस्यात्यन्त-विलक्षणत्वम् । वाचकत्व-गुण-वृत्ति-विलक्षणस्यापि च तस्य तद्-उभयाश्रयत्वेन व्यवस्थानम् । व्यञ्जकत्वं हि क्वचिद् वाचकत्वाश्रयेण व्यवतिष्ठते, यथा विवक्षितान्य-पर-वाच्ये ध्वनौ । क्वचित् तु गुण-वृत्त्य्-आश्रयेण यथा अविवक्षित-वाच्ये ध्वनौ । तद्-उभयाश्रयत्व-प्रतिपादनायैव च ध्वनेः प्रथमतरं द्वौ प्रभेदाव् उपन्यस्तौ । तद् उभयाश्रितत्वाच् च तद्-एक-रूपत्वं तस्य न शक्यते वक्तुम् । यस्मान् न तद्-वाचकत्वैक-रूपम् एव, क्वचिल् लक्षणाश्रयेण वृत्तेः । न च लक्षणैक-रूपम् एवान्यत्र वाचकत्वाश्रयेण व्यवस्थानात् । न चोभय-धर्मत्वेनैव तद्-एकैक-रूपं न भवति । यावद् वाचकत्व-लक्षणादि-रूप-रहित-शब्द्-अधर्मत्वेनापि । तथा हि गीत-ध्वनीनाम् अपि व्यञ्जकत्वम् अस्ति रसादि-विषयम् । न च तेषां वाचकत्वं लक्षणा वा कथञ्चिल् लक्ष्यते । शब्दाद् अन्यत्रापि विषये व्यञ्जकत्वस्य दर्शनाद् वाचकत्वादि-शब्द-धर्म-प्रकारत्वम् अयुक्तं वक्तुम् । यदि च वाचकत्व-लक्षणादीनां शब्द-प्रकाराणां प्रसिद्ध-प्रकार-विलक्षणत्वे ऽपि व्यञ्जकत्वं प्रकारत्वेन परिकल्प्यते तच् छब्दस्यैव प्रकारत्वेन कस्मान् न परिकल्प्यते ? तद् एवं शाब्दे व्यवहारे त्रयः प्रकाराः-वाचकत्वं गुण-वृत्तिर् व्यञ्जकत्वं च । तत्र व्यञ्जकत्वे यदा व्यङ्ग्य-प्राधान्यं तदा ध्वनिः, तस्य चाविवक्षित-वाच्यो विवक्षितान्य-पर-वाच्यश् चेति द्वौ प्रभेदाव् अनुक्रान्तौ प्रथमतरं तौ सविस्तरं निर्णीतौ । अन्यो ब्रूयात्-ननु विवक्षितान्य-पर-वाच्ये ध्वनौ गुण-वृत्तिता नास्तीति यद् उच्यते तद् युक्तम् । यस्माद् वाच्य-वाचक-प्रतीति-पूर्विका यत्रार्थान्तर-प्रतिपत्तिस् तत्र कथं गुण-वृत्ति-व्यवहारः, न हि गुण-वृत्तौ यदा निमित्तेन केनचिद् विषयान्तरे शब्द आरोप्यते अत्यन्त-तिरस्कृत-स्वार्थः । यथा-"अग्निर् माणवकः" इत्य् आदौ, यदा वा स्वार्थम् अंशेनापरित्यजंस् तत्-सम्बन्ध-द्वारेण विषयान्तरम् आक्रामति, यथा "गङ्गायां घोषः" इत्य् आदौ । तदाविवक्षित-वाच्यत्वम् उपपद्यते । अत एव च विवक्षितान्य-पर-वाच्ये ध्वनौ वाच्य-वाचकयोर् द्वयोर् अपि स्वरूप-प्रतीतिर् अर्थावगमनं च दृश्यत इति व्यञ्जकत्व-व्यवहारो युक्त्य्-अनुरोधी । स्वरूपं प्रकाशयन्न् एव परावभासको व्यञ्जक इत्य् उच्यते, तथाविधे विषये वाचकत्वस्यैव व्यञ्जकत्वम् इति गुण-वृत्ति-व्यवहारो नियमेनैव न शक्यते कर्तुम् । अविवक्षित-वाच्यस् तु ध्वनिर् गुण-वृत्तेः कथं भिद्यते ? तस्य प्रभेद-द्वये गुण-वृत्तिप्रभेदद्वय-रूपता लक्ष्यत एव यतः । अयम् अपि न दोषः । यस्माद् अविवक्षित-वाच्यो ध्वनिर् गुण-वृत्ति-मार्गाश्रयो ऽपि भवति न तु गुण-वृत्ति-रूप एव । गुण-वृत्तिर् हि व्यञ्जकत्व-शून्यापि दृश्यते । व्यञ्जकत्वं च यथोक्त-चारुत्व-हेतुं व्यङ्ग्यं विना न व्यवतिष्ठते । गुण-वृत्तिस् तु वाच्य-धर्माश्रयेणैव व्यङ्ग्य-मात्राश्रयेण चाभेदोपचार-रूपा सम्भवति, यथा-तीक्ष्णत्वाद् अग्निर् माणवकः, आह्लादकत्वाच् चन्द्र एवास्या मुखम् इत्य् आदौ । यथा च "प्रिये जने नास्ति पुनर् उक्तम्" इत्य् आदौ । यापि लक्षण-रूप-गुण-वृत्तिः साप्य् उपलक्षणीयार्थ-संबन्ध-मात्राश्रयेण चारु-रूप-व्यङ्ग्य-प्रतीतिं विनापि सम्भवत्य् एव, यथा-"मञ्चाः क्रोशन्ति" इत्य् आदौ विषये । यत्र तु सा चारु-रूप-व्यङ्ग्य-प्रतीति-हेतुस् तत्रापि व्यञ्जकत्वानुप्रवेशेनैव वाचकत्ववत् । असम्भविना चार्थेन यत्र व्यवहारः, यथा-"सुवर्ण-पुष्पां पृथिवीम्" इत्य् आदौ तत्र चारु-रूप-व्यङ्ग्य-प्रतीतिर् एव प्रयोजिकेति तथा-विधे ऽपि विषये गुण-वृत्तौ सत्याम् अपि ध्वनि-व्यवहार एव युक्त्य्-अनुरोधी । तस्माद् अविवक्षित-वाच्ये ध्वनौ द्वयोर् अपि प्रभेदयोर् व्यञ्जकत्व-विशेषाविशिष्टा गुण-वृत्तिर् न तु तद्-एक-रूपा सहृदय-हृदयाह्लादिनी प्रतीयमाना प्रतीति-हेतुत्वाद् विषयान्तरे तद्-रूप-शून्याया दर्शनात् । एतच् च सर्वं प्राक् सूचितम् अपि स्फुटतर-प्रतीतये पुनर् उक्तम् । अपि च व्यञ्जकत्व-लक्षणो यः शब्दार्थयोर् धर्मः स प्रसिद्ध-सम्बन्धानुरोधीति न कस्यचिद् विमति-विषयताम् अर्हति । शब्दार्थयोर् हि प्रसिद्धो यः सम्बन्धो वाच्य-वाचक-भावाख्यस् तम् अनुरुन्धान एव व्यञ्जकत्व-लक्षणो व्यापारः सामग्र्य्-अन्तर-सम्बन्धाद् औपाधिकः प्रवर्तते । अत एव वाचकत्वात् तस्य विशेषः । वाचकत्वं हि शब्द-विशेषस्य नियत आत्मा व्युत्पत्ति-कालाद् आरभ्य तद्-अविनाभावेन तस्य प्रसिद्धत्वात् । स त्व् अनियतः, औपाधिकत्वात् । प्रकरणाद्य्-अवच्छेदेन तस्य प्रतीतेर् इतरथा त्व् अप्रतीतेः । ननु यद्य् अनियतस् तत् किं तस्य स्वरूप-परीक्षया ? नैष दोषः ; यतः शब्दात्मनि तस्यानियतत्वम्, न तु स्वे विषये व्यङ्ग्य-लक्षणे । लिङ्गत्व-न्यायश् चास्य व्यञ्जक-भावस्य लक्ष्यते, यथा लिङ्गत्वम् आश्रयेष्व् अनियतावभासम्, इच्छाधीनत्वात् ; स्व-विषयाव्यभिचारि च । तथैवेदं यथा दर्शितं व्यञ्जकत्वम् । शब्दात्मन्य् अनियतत्वाद् एव च तस्य वाचकत्व-प्रकारता न शक्या कल्पयितुम् । यदि हि वाचकत्व-प्रकारता तस्य भवेत् तच्-छब्दात्मनि नियततापि स्याद् वाचकत्ववत् । स च तथा-विध औपाधिको धर्मः शब्दानाम् औत्पत्तिक-शब्दार्थ-सम्बन्ध-वादिना वाक्य-तत्त्व-विदा पौरुषापौरुषेययोर् वाक्ययोर् विशेषम् अभिदधता नियमेनाभ्युपगन्तव्यः, तद् अनभ्युपगमे हि तस्य शब्दार्थ-सम्बन्ध-नित्यत्वे सत्य् अप्य् अपौरुषेय-पौरुषेययोर् वाक्ययोर् अर्थ-प्रतिपादने निर्विशेषत्वं स्यात् । तद्-अभ्युपगमे तु पौरुषेयाणां वाक्यानां पुरुषेच्छानुविधान-समारोपितौपाधिक-व्यापारान्तराणां सत्य् अपि स्वाभिधेय-सम्बन्धापरित्यागे मिथ्यार्थतापि भवेत् । दृश्यते हि भावानाम् अपरित्यक्त-स्व-स्वभावानाम् अपि सामग्र्य्-अन्तर-सम्पात-सम्पादितौपाधिक-व्यापारान्तराणां विरुद्ध-क्रियत्वम् । तथा हि-हिम-मयूख-प्रभृतीनां निर्वापित-सकल-जीव-लोकं शीतलत्वम् उद्वहताम् एव प्रिया-विरह-दहन-दह्यमान-मानसैर् जनैर् आलोक्यमानानां सतां सन्ताप-कारित्वं प्रसिद्धम् एव । तस्मात् पौरुषेयाणां वाक्यानां सत्य् अपि नैसर्गिके ऽर्थ-सम्बन्धे मिथ्यार्थत्वं समर्थयितुम् इच्छता वाचकत्व-व्यतिरिक्तं किंचिद् रूपम् औपाधिकं व्यक्तम् एवाभिधानीयम् । तच् च व्यञ्जकत्वादृते नान्यत् । व्यङ्ग्य-प्रकाशनं हि व्यञ्जकत्वम् । पौरुषेयाणि च वाक्यानि प्राधान्येन पुरुषाभिप्रायम् एव प्रकाशयन्ति । स च व्यङ्ग्य एव न त्व् अभिधेयः, तेन सहाभिधानस्य वाच्य-वाचकभाव-लक्षण-सम्बन्धाभावात् । नन्व् अनेन न्यायेन सर्वेषाम् एव लौकिकानां वाक्यानां ध्वनि-व्यवहारः प्रसक्तः । सर्वेषाम् अप्य् अनेन न्यायेन व्यञ्जकत्वात् । सत्यम् एतत्; किं तु वक्त्र्-अभिप्राय-प्रकाशनेन यद् व्यञ्जकत्वं तत् सर्वेषाम् एव लौकिकानां वाक्यानाम् अविशिष्टम् । तत् तु वाचकत्वान् न भिद्यते व्यङ्ग्यम् हि तत्र नान्तरीयकतया व्यवस्थितम् । न तु विवक्षितत्वेन । यस्य तु विवक्षितत्वेन व्यङ्ग्यस्य स्थितिः तद् व्यञ्जकत्वं ध्वनि-व्यवहारस्य प्रयोजकम् । यत् त्व् अभिप्राय-विशेष-रूपं व्यङ्ग्यं शब्दार्थाभ्यां प्रकाशते तद् भवति विवक्षितं तात्पर्येण प्रकाश्यमानं सत् । किन्तु तद् एव केवलम् अपरिमित-विषयस्य ध्वनि-व्यवहारस्य न प्रयोजकम् अव्यापकत्वात् । तथा दर्शित-भेद-त्रय-रूपं तात्पर्येण द्योत्यमानम् अभिप्राय-रूपम् अनभिप्राय-रूपं च सर्वम् एव ध्वनि-व्यवहारस्य प्रयोजकम् इति यथोक्त-व्यञ्जक्त्व-विशेषे ध्वनि-लक्षणे नातिव्याप्तिर् न चाव्याप्तिः । तस्माद् वाक्य-तत्त्व-विदां मतेन तावद् व्यञ्जकत्व-लक्षणः शाब्दो व्यापारो न विरोधी प्रत्युतानुगुण एव लक्ष्यते । परिनिश्चित-निरप-भ्रंश-शब्द-ब्रह्मणां विपश्चितां मतम् आश्रित्यैव प्रवृत्तो ऽयं ध्वनि-व्यवहार इति तैः सह किं विरोधाविरोधौ चिन्त्येते । कृत्रिम-शब्दार्थ-सम्बन्ध-वादिनां तु युक्ति-विदाम् अनुभव-सिद्ध एवायं व्यञ्जक-भावः शब्दानाम् अर्थान्तराणाम् इवाविरोधश् चेति न प्रतिक्षेप्य-पदवीम् अवतरति । वाचकत्वे हि तार्किकाणां विप्रतिपत्तयः प्रवर्तन्ताम्, किम् इदं स्वाभाविकं शब्दानाम् आहो स्वित् सामयिकम् इत्य् आद्याः । व्यञ्जकत्वे तु तत्-पृष्ठ-भाविनि भावान्तर-साधारणे लोक-प्रसिद्ध एवानुगम्यमाने को विमतीनाम् अवसरः । अलौकिके ह्य् अर्थे तार्किकाणां विमतयो निखिलाः प्रवर्तन्ते न तु लौकिके । न हि नील-मधुरादिष्व् अशेष-लोकेन्द्रिय-गोचरे बाधा-रहिते तत्त्वे परस्परं विप्रतिपन्ना दृश्यन्ते । न हि बाधा-रहितं नीलं नीलम् इति ब्रुवन्न् अपरेण प्रतिषिध्यते नैतन् नीलं पीतम् एतद् इति । तथैव व्यञ्जकत्वं वाचकानां शब्दानाम् अवाचकानां च गीत-ध्वनीनाम् अशब्द-रूपाणां च चेष्टादीनां यत् सर्वेषाम् अनुभव-सिद्धम् एव तत् केनापह्नूयते । अशब्दम् अर्थं रमणीयं हि सूचयन्तो व्याहारास् तथा व्यापारा निबद्धाश् चानिबद्धाश् च विदग्ध-परिषत्सु विविधा विभाव्यन्ते । तान् उपहास्यताम् आत्मनः परिहरन् को ऽतिसन्दधीत सचेताः । अथ ब्रूयात्, अस्त्य् अतिसन्धानावसरः व्यञ्जकत्वं शब्दानां गमकत्वं तच् च लिङ्गत्वम् अतश् च व्यङ्ग्य-प्रतीतिर् लिङ्गि-प्रतीतिर् एवेति लिङ्गि-लिङ्ग-भाव एव तेषां व्यङ्ग्य-व्यञ्जक-भावो नापरः कश्चित् । अतश् चैतद् अवश्यम् एव बोद्धव्यं यस्माद् वक्त्र्-अभिप्रायापेक्षया व्यञ्जकत्वम् इदानीम् एव त्वया प्रतिपादितं वक्त्र्-अभिप्रायश् चानुमेय-रूप एव । अत्रोच्यते-नन्व् एवम् अपि यदि नाम स्यात् तत् किं नश् छिन्नम् । वाचकत्व-गुण-वृत्ति-व्यतिरिक्तो व्यञ्जकत्व-लक्षणः शब्द-व्यापारो ऽस्तीत्य् अस्माभिर् अभ्युपगतम् । तस्य चैवम् अपि न काचित् क्षतिः । तद् धि व्यञ्जकत्वं लिङ्गत्वम् अस्तु अन्यद् वा । सर्वथा प्रसिद्ध-शाब्द-प्रकार-विलक्षणत्वं शब्द-व्यापार-विषयत्वं च तस्यास्तीति नास्त्य् एवावयोर् विवादः । न पुनर् अयं परमार्थो यद्-व्यञ्जकत्वं लिङ्गत्वम् एव सर्वत्र व्यङ्ग्य-प्रतीतिश् च लिङ्गि-प्रतीतिर् एवेति । यद् अपि स्व-पक्ष-सिद्धये ऽस्मद्-उक्तम् अनूदितं त्वया वक्त्र्-अभिप्रायस्य व्यङ्ग्यत्वेनाभ्युपगमात् तत्-प्रकाशने शब्दानां लिङ्गत्वम् एवेति तद् एतद् यथास्माभिर् अभिहितं तद् विभज्यं प्रतिपाद्यते श्रूयताम्-द्विविधो विषयः शब्दानां- अनुमेयः प्रतिपाद्यश् च । तत्रानुमेयो विवक्षा-लक्षणः । विवक्षा च शब्द-स्वरूप-प्रकाशनेच्छा शब्देनार्थ-प्रकाशनेच्छा चेति द्वि-प्रकारा । तत्राद्या न शाब्द-व्यवहाराङ्गम् । सा हि प्राणित्व-मात्र-प्रतिपत्ति-फला । द्वितीया तु शब्द-विशेषावधारणा-वसित-व्यवहितापि शब्द-करण-व्यवहार-निबन्धनम् । ते तु द्वे अप्य् अनुमेयो विषयः शब्दानाम् । प्रतिपाद्यस् तु प्रयोक्तुर् अर्थ-प्रतिपादन-समीहा-विषयीकृतो ऽर्थः । स च द्विविधः-वाच्यो व्यङ्ग्यश् च । प्रयोक्ता हि कदाचित् स्व-शब्देनार्थं प्रकाशयितुं समीहते कदाचित् स्व-शब्दानभिधेयत्वेन प्रयोजनापेक्षया कयाचित् । स तु द्विविधो ऽपि प्रतिपाद्यो विषयः शब्दानां न लिङ्गितया स्वरूपेण प्रकाशते, अपि तु कृत्रिमेणाकृत्रिमेण वा सम्बन्धान्तरेण । विवक्षा-विषयत्वं हि तस्यार्थस्य शब्दैर् लिङ्गितया प्रतीयते न तु स्वरूपम् । यदि हि लिङ्गितया तत्र शब्दानां व्यापारः स्यात् तच् छब्दार्थे सम्यङ् मिथ्यात्वादि विवादा एव न प्रवर्तेरन् धूमादि-लिङ्गानुमितानुमेयान्तरवत् । व्यङ्ग्यश् चार्थो वाच्य-सामर्थ्याक्षिप्ततया वाच्यवच् छब्दस्य सम्बन्धी भवत्य् एव । साक्षाद्-असाक्षाद्-भावो हि सम्बन्धस्याप्रयोजकः । वाच्य-वाचक-भावाश्रयत्वं च व्यञ्जकत्वस्य प्राग् एव दर्शितम् । तस्माद् वक्त्रभिप्राय-रूप एव व्यङ्ग्ये लिङ्गतया शब्दानां व्यापारः । तद्-विषयीकृते तु प्रतिपाद्यतया । प्रतीयमाने तस्मिन्न् अभिप्राय-रूपे ऽनभिप्राय-रूपे च वाचकत्वे नैव व्यापारः सम्बन्धान्तरेण वा । न तावद् वाचकत्वेन यथोक्तं प्राक् । सम्बन्धान्तरेण व्यञ्जकत्वम् एव । न च व्यञ्जकत्वं लिङ्गत्व-रूपम् एव आलोकादिष्व् अन्यथा दृष्टत्वात् । तस्मात् प्रतिपाद्यो विषयः शब्दानां न लिङ्गित्वेन सम्बन्धी वाच्यवत् । यो हि लिङ्गित्वेन तेषां सम्बन्धी यथा दर्शितो विषयः स न वाच्यत्वेन प्रतीयते, अपि तूपाधित्वेन । प्रतिपाद्यस्य च विषयस्य लिङ्गित्वे तद्-विषयाणां विप्रतिपत्तीनां लौकिकैर् एव क्रियमाणानाम् अभावः प्रसज्येतेति । एतच् चोक्तम् एव । यथा च वाच्य-विषये प्रमाणान्तरानुगमेन सम्यक्त्व-प्रतीतौ क्वचित् क्रियमाणायां तस्य प्रमाणान्तर-विषयत्वे सत्य् अपि न शब्द-व्यापार-विषयता-हानिस् तद्-व्यङ्ग्यस्यापि । काव्य-विषये च व्यङ्ग्य-प्रतीतीनां सत्या सत्य-निरूपणस्याप्रयोजकत्वम् एवेति तत्र प्रमाणान्तर-व्यापार-परीक्षोपहासायैव सम्पद्यते । तस्माल् लिङ्गि-प्रतीतिर् एव सर्वत्र व्यङ्ग्य-प्रतीतिर् इति न शक्यते वक्तुम् । यत् त्व् अनुमेय-रूप-व्यङ्ग्य-विषयं शब्दानां व्यञ्जकत्वं तद्-ध्वनि-व्यवहारस्याप्रयोजकम् । अपि तु व्यञ्जकत्व-लक्षणः शब्दानां व्यापार औत्पत्तिक-शब्दार्थ-सम्बन्ध-वादिनाप्य् अभ्युपगन्तव्य इति प्रदर्शनार्थम् उपन्यस्तम् । तद् धि व्यञ्जकत्वं कदाचिल् लिङ्गत्वेन कदाचिद् रूपान्तरेण शब्दानां वाचकानाम् अवाचकानां च सर्व-वादिभिर् अप्रतिक्षेप्यम् इत्य् अयम् अस्माभिर् यत्न आरब्धः । तद् एवं गुण-वृत्ति-वाचकत्वादिभ्यः शब्द-प्रकारेभ्यो नियमेनैव तावद् विलक्षणं व्यञ्जकत्वम् । तद्-अन्तः-पातित्वे ऽपि तस्य हठाद् अभिधीयमाने तद्-विशेषस्य ध्वनेर् यत्-प्रकाशनं विप्रतिपत्ति-निरासाय सहृदय-व्युत्पत्तये वा तत्-क्रियमाणम् अनतिसन्धेयम् एव । न हि सामान्य-मात्र-लक्षणेनोपयोगि-विशेष-लक्षणानां प्रतिक्षेपः शक्यः कर्तुम् । एवं हि सति सत्ता-मात्र-लक्षणे कृते सकल-सद्-वस्तु-लक्षणानां पौनरुक्त्य-प्रसङ्गः । तद् एवम्- विमति-विषयो य आसीन् मनीषिणां सततम् अविदित-स-तत्त्वः । ध्वनि-संज्ञितः प्रकारः काव्यस्य व्यञ्जितः सो ऽयम्

ca guṇa-vṛtter viṣayastad api ca vyañjakatvānupraveśena / tasmād guṇa-vṛtter api vyañjakatvasyātyanta-vilakṣaṇatvam / vācakatva-guṇa-vṛtti-vilakṣaṇasyāpi ca tasya tad-ubhayāśrayatvena vyavasthānam / vyañjakatvaṃ hi kvacid vācakatvāśrayeṇa vyavatiṣṭhate, yathā vivakṣitānya-para-vācye dhvanau / kvacit tu guṇa-vṛtty-āśrayeṇa yathā avivakṣita-vācye dhvanau / tad-ubhayāśrayatva-pratipādanāyaiva ca dhvaneḥ prathamataraṃ dvau prabhedāv upanyastau / tad ubhayāśritatvāc ca tad-eka-rūpatvaṃ tasya na śakyate vaktum / yasmān na tad-vācakatvaika-rūpam eva, kvacil lakṣaṇāśrayeṇa vṛtteḥ / na ca lakṣaṇaika-rūpam evānyatra vācakatvāśrayeṇa vyavasthānāt / na cobhaya-dharmatvenaiva tad-ekaika-rūpaṃ na bhavati / yāvad vācakatva-lakṣaṇādi-rūpa-rahita-śabd-adharmatvenāpi / tathā hi gīta-dhvanīnām api vyañjakatvam asti rasādi-viṣayam / na ca teṣāṃ vācakatvaṃ lakṣaṇā vā kathañcil lakṣyate / śabdād anyatrāpi viṣaye vyañjakatvasya darśanād vācakatvādi-śabda-dharma-prakāratvam ayuktaṃ vaktum / yadi ca vācakatva-lakṣaṇādīnāṃ śabda-prakārāṇāṃ prasiddha-prakāra-vilakṣaṇatve 'pi vyañjakatvaṃ prakāratvena parikalpyate tac chabdasyaiva prakāratvena kasmān na parikalpyate ? tad evaṃ śābde vyavahāre trayaḥ prakārāḥ-vācakatvaṃ guṇa-vṛttir vyañjakatvaṃ ca / tatra vyañjakatve yadā vyaṅgya-prādhānyaṃ tadā dhvaniḥ, tasya cāvivakṣita-vācyo vivakṣitānya-para-vācyaś ceti dvau prabhedāv anukrāntau prathamataraṃ tau savistaraṃ nirṇītau / anyo brūyāt-nanu vivakṣitānya-para-vācye dhvanau guṇa-vṛttitā nāstīti yad ucyate tad yuktam / yasmād vācya-vācaka-pratīti-pūrvikā yatrārthāntara-pratipattis tatra kathaṃ guṇa-vṛtti-vyavahāraḥ, na hi guṇa-vṛttau yadā nimittena kenacid viṣayāntare śabda āropyate atyanta-tiraskṛta-svārthaḥ / yathā-"agnir māṇavakaḥ" ity ādau, yadā vā svārtham aṃśenāparityajaṃs tat-sambandha-dvāreṇa viṣayāntaram ākrāmati, yathā "gaṅgāyāṃ ghoṣaḥ" ity ādau / tadāvivakṣita-vācyatvam upapadyate / ata eva ca vivakṣitānya-para-vācye dhvanau vācya-vācakayor dvayor api svarūpa-pratītir arthāvagamanaṃ ca dṛśyata iti vyañjakatva-vyavahāro yukty-anurodhī / svarūpaṃ prakāśayann eva parāvabhāsako vyañjaka ity ucyate, tathāvidhe viṣaye vācakatvasyaiva vyañjakatvam iti guṇa-vṛtti-vyavahāro niyamenaiva na śakyate kartum / avivakṣita-vācyas tu dhvanir guṇa-vṛtteḥ kathaṃ bhidyate ? tasya prabheda-dvaye guṇa-vṛttiprabhedadvaya-rūpatā lakṣyata eva yataḥ / ayam api na doṣaḥ / yasmād avivakṣita-vācyo dhvanir guṇa-vṛtti-mārgāśrayo 'pi bhavati na tu guṇa-vṛtti-rūpa eva / guṇa-vṛttir hi vyañjakatva-śūnyāpi dṛśyate / vyañjakatvaṃ ca yathokta-cārutva-hetuṃ vyaṅgyaṃ vinā na vyavatiṣṭhate / guṇa-vṛttis tu vācya-dharmāśrayeṇaiva vyaṅgya-mātrāśrayeṇa cābhedopacāra-rūpā sambhavati, yathā-tīkṣṇatvād agnir māṇavakaḥ, āhlādakatvāc candra evāsyā mukham ity ādau / yathā ca "priye jane nāsti punar uktam" ity ādau / yāpi lakṣaṇa-rūpa-guṇa-vṛttiḥ sāpy upalakṣaṇīyārtha-saṃbandha-mātrāśrayeṇa cāru-rūpa-vyaṅgya-pratītiṃ vināpi sambhavaty eva, yathā-"mañcāḥ krośanti" ity ādau viṣaye / yatra tu sā cāru-rūpa-vyaṅgya-pratīti-hetus tatrāpi vyañjakatvānupraveśenaiva vācakatvavat / asambhavinā cārthena yatra vyavahāraḥ, yathā-"suvarṇa-puṣpāṃ pṛthivīm" ity ādau tatra cāru-rūpa-vyaṅgya-pratītir eva prayojiketi tathā-vidhe 'pi viṣaye guṇa-vṛttau satyām api dhvani-vyavahāra eva yukty-anurodhī / tasmād avivakṣita-vācye dhvanau dvayor api prabhedayor vyañjakatva-viśeṣāviśiṣṭā guṇa-vṛttir na tu tad-eka-rūpā sahṛdaya-hṛdayāhlādinī pratīyamānā pratīti-hetutvād viṣayāntare tad-rūpa-śūnyāyā darśanāt / etac ca sarvaṃ prāk sūcitam api sphuṭatara-pratītaye punar uktam / api ca vyañjakatva-lakṣaṇo yaḥ śabdārthayor dharmaḥ sa prasiddha-sambandhānurodhīti na kasyacid vimati-viṣayatām arhati / śabdārthayor hi prasiddho yaḥ sambandho vācya-vācaka-bhāvākhyas tam anurundhāna eva vyañjakatva-lakṣaṇo vyāpāraḥ sāmagry-antara-sambandhād aupādhikaḥ pravartate / ata eva vācakatvāt tasya viśeṣaḥ / vācakatvaṃ hi śabda-viśeṣasya niyata ātmā vyutpatti-kālād ārabhya tad-avinābhāvena tasya prasiddhatvāt / sa tv aniyataḥ, aupādhikatvāt / prakaraṇādy-avacchedena tasya pratīter itarathā tv apratīteḥ / nanu yady aniyatas tat kiṃ tasya svarūpa-parīkṣayā ? naiṣa doṣaḥ ; yataḥ śabdātmani tasyāniyatatvam, na tu sve viṣaye vyaṅgya-lakṣaṇe / liṅgatva-nyāyaś cāsya vyañjaka-bhāvasya lakṣyate, yathā liṅgatvam āśrayeṣv aniyatāvabhāsam, icchādhīnatvāt ; sva-viṣayāvyabhicāri ca / tathaivedaṃ yathā darśitaṃ vyañjakatvam / śabdātmany aniyatatvād eva ca tasya vācakatva-prakāratā na śakyā kalpayitum / yadi hi vācakatva-prakāratā tasya bhavet tac-chabdātmani niyatatāpi syād vācakatvavat / sa ca tathā-vidha aupādhiko dharmaḥ śabdānām autpattika-śabdārtha-sambandha-vādinā vākya-tattva-vidā pauruṣāpauruṣeyayor vākyayor viśeṣam abhidadhatā niyamenābhyupagantavyaḥ, tad anabhyupagame hi tasya śabdārtha-sambandha-nityatve saty apy apauruṣeya-pauruṣeyayor vākyayor artha-pratipādane nirviśeṣatvaṃ syāt / tad-abhyupagame tu pauruṣeyāṇāṃ vākyānāṃ puruṣecchānuvidhāna-samāropitaupādhika-vyāpārāntarāṇāṃ saty api svābhidheya-sambandhāparityāge mithyārthatāpi bhavet / dṛśyate hi bhāvānām aparityakta-sva-svabhāvānām api sāmagry-antara-sampāta-sampāditaupādhika-vyāpārāntarāṇāṃ viruddha-kriyatvam / tathā hi-hima-mayūkha-prabhṛtīnāṃ nirvāpita-sakala-jīva-lokaṃ śītalatvam udvahatām eva priyā-viraha-dahana-dahyamāna-mānasair janair ālokyamānānāṃ satāṃ santāpa-kāritvaṃ prasiddham eva / tasmāt pauruṣeyāṇāṃ vākyānāṃ saty api naisargike 'rtha-sambandhe mithyārthatvaṃ samarthayitum icchatā vācakatva-vyatiriktaṃ kiṃcid rūpam aupādhikaṃ vyaktam evābhidhānīyam / tac ca vyañjakatvādṛte nānyat / vyaṅgya-prakāśanaṃ hi vyañjakatvam / pauruṣeyāṇi ca vākyāni prādhānyena puruṣābhiprāyam eva prakāśayanti / sa ca vyaṅgya eva na tv abhidheyaḥ, tena sahābhidhānasya vācya-vācakabhāva-lakṣaṇa-sambandhābhāvāt / nanv anena nyāyena sarveṣām eva laukikānāṃ vākyānāṃ dhvani-vyavahāraḥ prasaktaḥ / sarveṣām apy anena nyāyena vyañjakatvāt / satyam etat; kiṃ tu vaktr-abhiprāya-prakāśanena yad vyañjakatvaṃ tat sarveṣām eva laukikānāṃ vākyānām aviśiṣṭam / tat tu vācakatvān na bhidyate vyaṅgyam hi tatra nāntarīyakatayā vyavasthitam / na tu vivakṣitatvena / yasya tu vivakṣitatvena vyaṅgyasya sthitiḥ tad vyañjakatvaṃ dhvani-vyavahārasya prayojakam / yat tv abhiprāya-viśeṣa-rūpaṃ vyaṅgyaṃ śabdārthābhyāṃ prakāśate tad bhavati vivakṣitaṃ tātparyeṇa prakāśyamānaṃ sat / kintu tad eva kevalam aparimita-viṣayasya dhvani-vyavahārasya na prayojakam avyāpakatvāt / tathā darśita-bheda-traya-rūpaṃ tātparyeṇa dyotyamānam abhiprāya-rūpam anabhiprāya-rūpaṃ ca sarvam eva dhvani-vyavahārasya prayojakam iti yathokta-vyañjaktva-viśeṣe dhvani-lakṣaṇe nātivyāptir na cāvyāptiḥ / tasmād vākya-tattva-vidāṃ matena tāvad vyañjakatva-lakṣaṇaḥ śābdo vyāpāro na virodhī pratyutānuguṇa eva lakṣyate / pariniścita-nirapa-bhraṃśa-śabda-brahmaṇāṃ vipaścitāṃ matam āśrityaiva pravṛtto 'yaṃ dhvani-vyavahāra iti taiḥ saha kiṃ virodhāvirodhau cintyete / kṛtrima-śabdārtha-sambandha-vādināṃ tu yukti-vidām anubhava-siddha evāyaṃ vyañjaka-bhāvaḥ śabdānām arthāntarāṇām ivāvirodhaś ceti na pratikṣepya-padavīm avatarati / vācakatve hi tārkikāṇāṃ vipratipattayaḥ pravartantām, kim idaṃ svābhāvikaṃ śabdānām āho svit sāmayikam ity ādyāḥ / vyañjakatve tu tat-pṛṣṭha-bhāvini bhāvāntara-sādhāraṇe loka-prasiddha evānugamyamāne ko vimatīnām avasaraḥ / alaukike hy arthe tārkikāṇāṃ vimatayo nikhilāḥ pravartante na tu laukike / na hi nīla-madhurādiṣv aśeṣa-lokendriya-gocare bādhā-rahite tattve parasparaṃ vipratipannā dṛśyante / na hi bādhā-rahitaṃ nīlaṃ nīlam iti bruvann apareṇa pratiṣidhyate naitan nīlaṃ pītam etad iti / tathaiva vyañjakatvaṃ vācakānāṃ śabdānām avācakānāṃ ca gīta-dhvanīnām aśabda-rūpāṇāṃ ca ceṣṭādīnāṃ yat sarveṣām anubhava-siddham eva tat kenāpahnūyate / aśabdam arthaṃ ramaṇīyaṃ hi sūcayanto vyāhārās tathā vyāpārā nibaddhāś cānibaddhāś ca vidagdha-pariṣatsu vividhā vibhāvyante / tān upahāsyatām ātmanaḥ pariharan ko 'tisandadhīta sacetāḥ / atha brūyāt, asty atisandhānāvasaraḥ vyañjakatvaṃ śabdānāṃ gamakatvaṃ tac ca liṅgatvam ataś ca vyaṅgya-pratītir liṅgi-pratītir eveti liṅgi-liṅga-bhāva eva teṣāṃ vyaṅgya-vyañjaka-bhāvo nāparaḥ kaścit / ataś caitad avaśyam eva boddhavyaṃ yasmād vaktr-abhiprāyāpekṣayā vyañjakatvam idānīm eva tvayā pratipāditaṃ vaktr-abhiprāyaś cānumeya-rūpa eva / atrocyate-nanv evam api yadi nāma syāt tat kiṃ naś chinnam / vācakatva-guṇa-vṛtti-vyatirikto vyañjakatva-lakṣaṇaḥ śabda-vyāpāro 'stīty asmābhir abhyupagatam / tasya caivam api na kācit kṣatiḥ / tad dhi vyañjakatvaṃ liṅgatvam astu anyad vā / sarvathā prasiddha-śābda-prakāra-vilakṣaṇatvaṃ śabda-vyāpāra-viṣayatvaṃ ca tasyāstīti nāsty evāvayor vivādaḥ / na punar ayaṃ paramārtho yad-vyañjakatvaṃ liṅgatvam eva sarvatra vyaṅgya-pratītiś ca liṅgi-pratītir eveti / yad api sva-pakṣa-siddhaye 'smad-uktam anūditaṃ tvayā vaktr-abhiprāyasya vyaṅgyatvenābhyupagamāt tat-prakāśane śabdānāṃ liṅgatvam eveti tad etad yathāsmābhir abhihitaṃ tad vibhajyaṃ pratipādyate śrūyatām-dvividho viṣayaḥ śabdānāṃ- anumeyaḥ pratipādyaś ca / tatrānumeyo vivakṣā-lakṣaṇaḥ / vivakṣā ca śabda-svarūpa-prakāśanecchā śabdenārtha-prakāśanecchā ceti dvi-prakārā / tatrādyā na śābda-vyavahārāṅgam / sā hi prāṇitva-mātra-pratipatti-phalā / dvitīyā tu śabda-viśeṣāvadhāraṇā-vasita-vyavahitāpi śabda-karaṇa-vyavahāra-nibandhanam / te tu dve apy anumeyo viṣayaḥ śabdānām / pratipādyas tu prayoktur artha-pratipādana-samīhā-viṣayīkṛto 'rthaḥ / sa ca dvividhaḥ-vācyo vyaṅgyaś ca / prayoktā hi kadācit sva-śabdenārthaṃ prakāśayituṃ samīhate kadācit sva-śabdānabhidheyatvena prayojanāpekṣayā kayācit / sa tu dvividho 'pi pratipādyo viṣayaḥ śabdānāṃ na liṅgitayā svarūpeṇa prakāśate, api tu kṛtrimeṇākṛtrimeṇa vā sambandhāntareṇa / vivakṣā-viṣayatvaṃ hi tasyārthasya śabdair liṅgitayā pratīyate na tu svarūpam / yadi hi liṅgitayā tatra śabdānāṃ vyāpāraḥ syāt tac chabdārthe samyaṅ mithyātvādi vivādā eva na pravarteran dhūmādi-liṅgānumitānumeyāntaravat / vyaṅgyaś cārtho vācya-sāmarthyākṣiptatayā vācyavac chabdasya sambandhī bhavaty eva / sākṣād-asākṣād-bhāvo hi sambandhasyāprayojakaḥ / vācya-vācaka-bhāvāśrayatvaṃ ca vyañjakatvasya prāg eva darśitam / tasmād vaktrabhiprāya-rūpa eva vyaṅgye liṅgatayā śabdānāṃ vyāpāraḥ / tad-viṣayīkṛte tu pratipādyatayā / pratīyamāne tasminn abhiprāya-rūpe 'nabhiprāya-rūpe ca vācakatve naiva vyāpāraḥ sambandhāntareṇa vā / na tāvad vācakatvena yathoktaṃ prāk / sambandhāntareṇa vyañjakatvam eva / na ca vyañjakatvaṃ liṅgatva-rūpam eva ālokādiṣv anyathā dṛṣṭatvāt / tasmāt pratipādyo viṣayaḥ śabdānāṃ na liṅgitvena sambandhī vācyavat / yo hi liṅgitvena teṣāṃ sambandhī yathā darśito viṣayaḥ sa na vācyatvena pratīyate, api tūpādhitvena / pratipādyasya ca viṣayasya liṅgitve tad-viṣayāṇāṃ vipratipattīnāṃ laukikair eva kriyamāṇānām abhāvaḥ prasajyeteti / etac coktam eva / yathā ca vācya-viṣaye pramāṇāntarānugamena samyaktva-pratītau kvacit kriyamāṇāyāṃ tasya pramāṇāntara-viṣayatve saty api na śabda-vyāpāra-viṣayatā-hānis tad-vyaṅgyasyāpi / kāvya-viṣaye ca vyaṅgya-pratītīnāṃ satyā satya-nirūpaṇasyāprayojakatvam eveti tatra pramāṇāntara-vyāpāra-parīkṣopahāsāyaiva sampadyate / tasmāl liṅgi-pratītir eva sarvatra vyaṅgya-pratītir iti na śakyate vaktum / yat tv anumeya-rūpa-vyaṅgya-viṣayaṃ śabdānāṃ vyañjakatvaṃ tad-dhvani-vyavahārasyāprayojakam / api tu vyañjakatva-lakṣaṇaḥ śabdānāṃ vyāpāra autpattika-śabdārtha-sambandha-vādināpy abhyupagantavya iti pradarśanārtham upanyastam / tad dhi vyañjakatvaṃ kadācil liṅgatvena kadācid rūpāntareṇa śabdānāṃ vācakānām avācakānāṃ ca sarva-vādibhir apratikṣepyam ity ayam asmābhir yatna ārabdhaḥ / tad evaṃ guṇa-vṛtti-vācakatvādibhyaḥ śabda-prakārebhyo niyamenaiva tāvad vilakṣaṇaṃ vyañjakatvam / tad-antaḥ-pātitve 'pi tasya haṭhād abhidhīyamāne tad-viśeṣasya dhvaner yat-prakāśanaṃ vipratipatti-nirāsāya sahṛdaya-vyutpattaye vā tat-kriyamāṇam anatisandheyam eva / na hi sāmānya-mātra-lakṣaṇenopayogi-viśeṣa-lakṣaṇānāṃ pratikṣepaḥ śakyaḥ kartum / evaṃ hi sati sattā-mātra-lakṣaṇe kṛte sakala-sad-vastu-lakṣaṇānāṃ paunaruktya-prasaṅgaḥ / tad evam- vimati-viṣayo ya āsīn manīṣiṇāṃ satatam avidita-sa-tattvaḥ / dhvani-saṃjñitaḥ prakāraḥ kāvyasya vyañjitaḥ so 'yam

Sanskrit only: no published translation is held for this verse.

व्यङ्ग्यो ऽर्थो ललना-लावण्य-प्रख्यो यः प्रतिपादितस् तस्य प्राधान्ये ध्वनिर् इत्य् उक्तम् । तस्य तु गुणी-भावेन वाच्य-चारुत्व-प्रकर्षे गुणी-भूत-व्यङ्ग्यो नाम काव्य-प्रभेदः प्रकल्प्यते । तत्र वस्तु-मात्रस्य व्यङ्ग्यस्य तिरस्कृत-वाच्येभ्यः प्रतीयमानस्य कदाचिद् वाच्य-रूप-वाक्यार्थापेक्षया गुणी-भावे सति गुणी-भूत-व्यङ्ग्यता । यथा- लावण्य-सिन्धुर् अपरैव हि केयम् अत्र यत्रोत्पलानि शशिना सह सम्प्लवन्ते । उन्मज्जति द्विरद-कुम्भ-तटी च यत्र यत्रापरे कदलिकाण्ड-मृणाल-दण्डाः ॥ अतिरस्कृतवाच्येभ्यो ऽपि शब्देभ्यः प्रतीयमानस्य व्यङ्ग्यस्य कदाचिद् वाच्य-प्राधान्येन काव्यचारुत्वापेक्षया गुणीभावे सति गुणीभूत-व्यङ्ग्यता, यथोदाहृतम्-"अनुरागवती सन्ध्या" इत्य् एवम् आदि । तस्यैव स्वयम् उक्त्या प्रकाशीकृतत्वेन गुणीभावः, यथोदाहृतम्- "सङ्केत-काल-मनसम्" इत्य् आदि । रसादि-रूप-व्यङ्ग्यस्य गुणीभावो रसवद्-अलङ्कारे दर्शितः ; तत्र च तेषाम् आधिकारिक-वाक्यापेक्षया गुणीभावो विवहन-प्रवृत्त-भृत्यानुयायि-राजवत् । व्यङ्ग्यालङ्कारस्य गुणीभावे दीपकादि-विषयः

vyaṅgyo 'rtho lalanā-lāvaṇya-prakhyo yaḥ pratipāditas tasya prādhānye dhvanir ity uktam / tasya tu guṇī-bhāvena vācya-cārutva-prakarṣe guṇī-bhūta-vyaṅgyo nāma kāvya-prabhedaḥ prakalpyate / tatra vastu-mātrasya vyaṅgyasya tiraskṛta-vācyebhyaḥ pratīyamānasya kadācid vācya-rūpa-vākyārthāpekṣayā guṇī-bhāve sati guṇī-bhūta-vyaṅgyatā / yathā- lāvaṇya-sindhur aparaiva hi keyam atra yatrotpalāni śaśinā saha samplavante / unmajjati dvirada-kumbha-taṭī ca yatra yatrāpare kadalikāṇḍa-mṛṇāla-daṇḍāḥ // atiraskṛtavācyebhyo 'pi śabdebhyaḥ pratīyamānasya vyaṅgyasya kadācid vācya-prādhānyena kāvyacārutvāpekṣayā guṇībhāve sati guṇībhūta-vyaṅgyatā, yathodāhṛtam-"anurāgavatī sandhyā" ity evam ādi / tasyaiva svayam uktyā prakāśīkṛtatvena guṇībhāvaḥ, yathodāhṛtam- "saṅketa-kāla-manasam" ity ādi / rasādi-rūpa-vyaṅgyasya guṇībhāvo rasavad-alaṅkāre darśitaḥ ; tatra ca teṣām ādhikārika-vākyāpekṣayā guṇībhāvo vivahana-pravṛtta-bhṛtyānuyāyi-rājavat / vyaṅgyālaṅkārasya guṇībhāve dīpakādi-viṣayaḥ

Sanskrit only: no published translation is held for this verse.

अमृत-मृगाङ्कौ च सुतौ अहो कुटुम्बं महोदधेः ॥]

amṛta-mṛgāṅkau ca sutau aho kuṭumbaṃ mahodadheḥ //]

Sanskrit only: no published translation is held for this verse.

अनया सुप्रसिद्धो ऽप्य् अर्थः किम् अपि कामनीय-कमानीयते । तद् यथा- विश्रम्भोत्था मन्मथाज्ञा-विधाने ये मुग्धाक्ष्याः के ऽपि लीला-विशेषाः । अक्षुण्णास् ते चेतसा केवलेन स्थित्वैकान्ते सन्ततं भावनीयाः ॥ इत्य् अत्र के ऽपीत्य् अनेन पदेन वाच्यम् अस्पष्टम् अभिदधता प्रतीयमानं वस्त्व्-अक्लिष्टम् अनन्तम् अर्पयता का छाया नोपपादिता

anayā suprasiddho 'py arthaḥ kim api kāmanīya-kamānīyate / tad yathā- viśrambhotthā manmathājñā-vidhāne ye mugdhākṣyāḥ ke 'pi līlā-viśeṣāḥ / akṣuṇṇās te cetasā kevalena sthitvaikānte santataṃ bhāvanīyāḥ // ity atra ke 'pīty anena padena vācyam aspaṣṭam abhidadhatā pratīyamānaṃ vastv-akliṣṭam anantam arpayatā kā chāyā nopapāditā

Sanskrit only: no published translation is held for this verse.

सङ्कीर्णो हि कश्चिद् ध्वनेर् गुणीभूत-व्यङ्ग्यस्य च लक्ष्ये दृश्यते मार्गः । तत्र यस्य युक्ति-सहायता तत्र तेन व्यपदेशः कर्तव्यः । न सर्वत्र ध्वनिर् आगिणा भवितव्यम् । यथा- पत्युः शिरश्-चन्द्र-कलाम् अनेन स्पृशेति सख्या परिहास-पूर्वम् । सा रञ्जयित्वा चरणौ कृताशीर् माल्येन तां निर्वचनं जघान ॥ यथा च- प्रयच्छतोच्चैः कुसुमानि मानिनी विपक्ष-गोत्रं दयितेन लम्भिता । न किंचिद् ऊचे चरणेन केवलं लिलेख बाष्पाकुल-लोचना भुवम् ॥ इत्य् अत्र "निर्वचनं जघान" "न किंचिद् ऊचे" इति प्रतिषेध-मुखेन व्यङ्ग्यस्यार्थस्योक्त्या किंचिद् विषयी-कृतत्वाद् गुणीभाव एव शोभते । यदा वक्रोक्तिं विना व्यङ्ग्यो ऽर्थस् तात्पर्येण प्रतीयते तदा तस्य प्राधान्यम् । यथा "एवं वादिनि देवर्षौ" इत्य् आदौ । इह पुनरुक्तिर् भङ्ग्यास्तीति वाच्यस्यापि प्राधान्यम् । तस्मान् नात्रानुरणन-रूप-व्यङ्ग्य-ध्वनि-व्यपदेशो विधेयः

saṅkīrṇo hi kaścid dhvaner guṇībhūta-vyaṅgyasya ca lakṣye dṛśyate mārgaḥ / tatra yasya yukti-sahāyatā tatra tena vyapadeśaḥ kartavyaḥ / na sarvatra dhvanir āgiṇā bhavitavyam / yathā- patyuḥ śiraś-candra-kalām anena spṛśeti sakhyā parihāsa-pūrvam / sā rañjayitvā caraṇau kṛtāśīr mālyena tāṃ nirvacanaṃ jaghāna // yathā ca- prayacchatoccaiḥ kusumāni māninī vipakṣa-gotraṃ dayitena lambhitā / na kiṃcid ūce caraṇena kevalaṃ lilekha bāṣpākula-locanā bhuvam // ity atra "nirvacanaṃ jaghāna" "na kiṃcid ūce" iti pratiṣedha-mukhena vyaṅgyasyārthasyoktyā kiṃcid viṣayī-kṛtatvād guṇībhāva eva śobhate / yadā vakroktiṃ vinā vyaṅgyo 'rthas tātparyeṇa pratīyate tadā tasya prādhānyam / yathā "evaṃ vādini devarṣau" ity ādau / iha punaruktir bhaṅgyāstīti vācyasyāpi prādhānyam / tasmān nātrānuraṇana-rūpa-vyaṅgya-dhvani-vyapadeśo vidheyaḥ

Sanskrit only: no published translation is held for this verse.

यथा वा ममैव- अमी ये दृश्यन्ते ननु सुभग-रूपाः सफलता भवत्य् एषां यस्य क्षणम् उपगतानां विषयताम् । निरालोके लोके कथम् इदम् अहो चक्षुर् अधुना समं जातं सर्वैर् न समम् अथवान्यैर् अवयवैः ॥ अनयोर् हि द्वयोः श्लोकयोर् इक्षु-चक्षुषी विवक्षित-स्वरूपे एव न च प्रस्तुते । महा-गुणस्याविषय-पतितत्वाद् अप्राप्त-पर-भागस्य कस्यचित् स्वरूपम् उपवर्णयितुं द्वयोर् अपि श्लोकयोस् तात्पर्येण प्रस्तुतत्वात् । अविवक्षितत्वं यथा- कस् त्वं भोः कथयामि दैव-हतकं मां विद्धि शाखोटकं वैराग्याद् इव वक्षि, साधु विदितं कस्माद् इदं कथ्यते । वामेनात्र वटस् तम् अध्वग-जनः सर्वात्मना सेवते न च्छायापि परोपकार-करिणी मार्ग-स्थितस्यापि मे ॥ न हि वृक्ष-विशेषेण सहोक्ति-प्रत्युक्ती सम्भवत इत्य् अविवक्षिताभिधेयेनैवानेन श्लोकेन समृद्धासत्-पुरुष-समीप-वर्तिनो निर्धनस्य कस्यचिन् मनस्विनः परिदेवितं तात्पर्येण वाक्यार्थीकृतम् इति प्रतीयते । विवक्षितत्वाविवक्षितत्वं यथा- उत्पथ-जाताया अशोभनाया फल-कुसुम-पत्र-रहितायाः । बदर्या वृत्तिं ददत्-पामारः भोः हसिष्यसे ॥ अत्र हि वाच्यार्थो नात्यन्तं सम्भवी न चासम्भवी । तस्माद् वाच्य-व्यङ्ग्ययोः प्राधान्याप्राधान्ये यत्नतो निरूपणीये

yathā vā mamaiva- amī ye dṛśyante nanu subhaga-rūpāḥ saphalatā bhavaty eṣāṃ yasya kṣaṇam upagatānāṃ viṣayatām / nirāloke loke katham idam aho cakṣur adhunā samaṃ jātaṃ sarvair na samam athavānyair avayavaiḥ // anayor hi dvayoḥ ślokayor ikṣu-cakṣuṣī vivakṣita-svarūpe eva na ca prastute / mahā-guṇasyāviṣaya-patitatvād aprāpta-para-bhāgasya kasyacit svarūpam upavarṇayituṃ dvayor api ślokayos tātparyeṇa prastutatvāt / avivakṣitatvaṃ yathā- kas tvaṃ bhoḥ kathayāmi daiva-hatakaṃ māṃ viddhi śākhoṭakaṃ vairāgyād iva vakṣi, sādhu viditaṃ kasmād idaṃ kathyate / vāmenātra vaṭas tam adhvaga-janaḥ sarvātmanā sevate na cchāyāpi paropakāra-kariṇī mārga-sthitasyāpi me // na hi vṛkṣa-viśeṣeṇa sahokti-pratyuktī sambhavata ity avivakṣitābhidheyenaivānena ślokena samṛddhāsat-puruṣa-samīpa-vartino nirdhanasya kasyacin manasvinaḥ paridevitaṃ tātparyeṇa vākyārthīkṛtam iti pratīyate / vivakṣitatvāvivakṣitatvaṃ yathā- utpatha-jātāyā aśobhanāyā phala-kusuma-patra-rahitāyāḥ / badaryā vṛttiṃ dadat-pāmāraḥ bhoḥ hasiṣyase // atra hi vācyārtho nātyantaṃ sambhavī na cāsambhavī / tasmād vācya-vyaṅgyayoḥ prādhānyāprādhānye yatnato nirūpaṇīye

Sanskrit only: no published translation is held for this verse.

व्यङ्ग्यस्यार्थस्य प्राधान्ये ध्वनि-संज्ञित-काव्य-प्रकारः गुण-भावे तु गुणीभूत-व्यङ्ग्यता । ततो ऽन्यद् रस-भावादि-तात्पर्य-रहितं व्यङ्ग्यार्थ-विशेष-प्रकाशन-शक्ति-शून्यं च काव्यं केवल-वाच्य-वाचक-वैचित्र्य-मात्राश्रयेणोपनिबद्धम् आलेख्य-प्रख्यं यद् आभासते तच् चित्रम् । न तन्-मुख्यं काव्यम् । काव्यानुकारो ह्य् असौ । तत्र किंचिच् छब्द-चित्रं यथा दुष्कर-यमकादि । वाच्य-चित्रं ततः शब्द-चित्राद् अन्यद् व्यङ्ग्यार्थ-संस्पर्श-रहितं प्राधान्येन वाक्यार्थतया स्थितं रसादि-तात्पर्य-रहितम् उत्प्रेक्षादि । अथ किम् इदं चित्रं नाम ? यत्र न प्रतीयमानार्थ-संस्पर्शः । प्रतीयमानो ह्य् अर्थस् त्रिभेदः प्राक् प्रदर्शितः । तत्र यत्र वस्त्व्-अलङ्कारान्तरं वा व्यङ्ग्यं नास्ति स नाम चित्रस्य कल्प्यतां विषयः । यत्र तु रसादीनाम् अविषयत्वं स काव्य-प्रकारो न सम्भवत्य् एव । यस्माद् अवस्तु-संस्पर्शिता काव्यस्य नोपपद्यते । वस्तु च सर्वम् एव जगद् गतम् अवश्यं कस्यचिद् रसस्य भावस्य वाङ्गत्वं प्रतिपद्यते अन्ततो विभावत्वेन । चित्त-वृत्ति-विशेषा हि रसादयः, न च तद् अस्ति वस्तु किंचिद् यन् न चित्त-वृत्ति-विशेषम् उपजनयति तद्-अनुत्पादने वा कवि-विषयतैव तस्य न स्यात् कवि-विषयश् च चित्रतया कश्चिन् निरूप्यते । अत्रोच्यते-सत्यं न तादृक्-काव्य-प्रकारो ऽस्ति यत्र रसादीनाम् अप्रतीतिः । किं तु यदा रस-भावादि-विवक्षा-शून्यः कविः शब्दालङ्कारम् अर्थालङ्कारं वोपनिबध्नाति तदा तद्-विवक्षापेक्षया रसादि-शून्यतार्थस्य परिकल्प्यते । विवक्षोपारूढ एव हि काव्ये शब्दानाम् अर्थः । वाच्य-सामर्थ्य-वशेन वा कवि-विवक्षा-विरहे ऽपि तथा-विधे विषये रसादि-प्रतीतिर् भवन्ती परिदुर्बला भवतीत्य् अनेनापि प्रकारेण नीरसत्वं परिकल्प्य चित्र-विषयो व्यवस्थाप्यते । तद् इदम् उक्तम्- रस-भावादि-विषय-विवक्षा-विरहे सति । अलङ्कार-निबन्धो यः स चित्र-विषयो मतः ॥ रसादिषु विवक्षा तु स्यात् तात्पर्यवती यदा । तदा नास्त्य् एव तत् काव्यं ध्वनेर् यत्र न गोचरः ॥ एतच् च चित्रं कवीनां विशृङ्खल-गिरां रसादि-तात्पर्यम् अनपेक्ष्यैव काव्य-प्रवृत्ति-दर्शनाद् अस्माभिः परिकल्पितम् । इदानीन्तनानां तु न्याय्ये काव्य-नय-व्यवस्थापने क्रियमाणे नास्त्य् एव ध्वनि-व्यतिरिक्तः काव्य-प्रकारः । यतः परिपाकवतां कवीनां रसादि-तात्पर्य-विरहे व्यापार एव न शोभते । रसादि-तात्पर्ये च नास्त्य् एव तद् वस्तु यद् अभिमत-रसाङ्गतां नीयमानं न प्रगुणीभवति । अचेतना पि हि भावा यथायथम् उचित-रस-विभावतया चेतन-वृत्तान्त-योजनया वा न सन्त्य् एव ते ये यान्ति न रसाङ्गताम् । तथा चेदम् उच्यते- अपारे काव्य-संसारे कविर् एकः प्रजापतिः । यथास्मै रोचते विश्वं तथेदं परिवर्तते ॥ शृङ्गारी चेत् कविः काव्ये जातं रस-मयं जगत् । स एव वीत-रागश् चेन् नीरसं सर्वम् एव तत् ॥ भावान् अचेतनान् अपि चेतनवच् चेतनानचेतनवत् । व्यवहारयति यथेष्टं सुकविः काव्ये स्वतन्त्रतया ॥ तस्मान् नास्त्य् एव तद् वस्तु यत् सर्वात्मना रस-तात्पर्यवतः कवेस् तद्-इच्छया तद्-अभिमत-रसाङ्गतां न धत्ते । तथोपनिबध्यमानं वा न चारुत्वातिशयं पुष्णाति । सर्वम् एतच् च महा-कवीनां काव्येषु दृश्यते । अस्माभिर् अपि स्वेषु काव्य-प्रबन्धेषु यथायथं दर्शितम् एव । स्थिते चैवं सर्व एव काव्य-प्रकारो न ध्वनि-धर्मताम् अतिपतति रसाद्य्-अपेक्षायां कवेर् गुणीभूत-व्यङ्ग्य-लक्षणो ऽपि प्रकारस् तद्-अङ्गताम् अवलम्बत इत्य् उक्तं प्राक् । यदा तु चाटुषु देवता-स्तुतिषु वा रसादीनाम् अङ्गतया व्यवस्थानं हृदयवतीषु च सुप्रज्ञक-गाथासु कासुचिद् व्यङ्ग्य-विशिष्ट-वाच्ये प्राधान्यं तद् अपि गुणीभूत-व्यङ्ग्यस्य ध्वनि-निष्पन्द-भूतत्वम् एवेत्य् उक्तं प्राक् । तद् एवम् इदानींतन-कवि-काव्य-नयोपदेशे क्रियमाणे प्राथमिकानाम् अभ्यासार्थिनां यदि परं चित्रेण व्यवहारः, प्राप्त-परिणतीनां तु ध्वनिर् एव काव्यम् इति स्थितम् एतत् । तद् अयम् अत्र सङ्ग्रहः- यस्मिन् रसो वा भावो वा तात्पर्येण प्रकाशते । संवृत्त्याभिहितौ वस्तु यत्रालङ्कार एव वा ॥ काव्याध्वनि ध्वनिर् व्यङ्ग्य-प्राधान्यैक-निबन्धनः । सर्वत्र तत्र विषयी ज्ञेयः सहृदयैर् जनैः

vyaṅgyasyārthasya prādhānye dhvani-saṃjñita-kāvya-prakāraḥ guṇa-bhāve tu guṇībhūta-vyaṅgyatā / tato 'nyad rasa-bhāvādi-tātparya-rahitaṃ vyaṅgyārtha-viśeṣa-prakāśana-śakti-śūnyaṃ ca kāvyaṃ kevala-vācya-vācaka-vaicitrya-mātrāśrayeṇopanibaddham ālekhya-prakhyaṃ yad ābhāsate tac citram / na tan-mukhyaṃ kāvyam / kāvyānukāro hy asau / tatra kiṃcic chabda-citraṃ yathā duṣkara-yamakādi / vācya-citraṃ tataḥ śabda-citrād anyad vyaṅgyārtha-saṃsparśa-rahitaṃ prādhānyena vākyārthatayā sthitaṃ rasādi-tātparya-rahitam utprekṣādi / atha kim idaṃ citraṃ nāma ? yatra na pratīyamānārtha-saṃsparśaḥ / pratīyamāno hy arthas tribhedaḥ prāk pradarśitaḥ / tatra yatra vastv-alaṅkārāntaraṃ vā vyaṅgyaṃ nāsti sa nāma citrasya kalpyatāṃ viṣayaḥ / yatra tu rasādīnām aviṣayatvaṃ sa kāvya-prakāro na sambhavaty eva / yasmād avastu-saṃsparśitā kāvyasya nopapadyate / vastu ca sarvam eva jagad gatam avaśyaṃ kasyacid rasasya bhāvasya vāṅgatvaṃ pratipadyate antato vibhāvatvena / citta-vṛtti-viśeṣā hi rasādayaḥ, na ca tad asti vastu kiṃcid yan na citta-vṛtti-viśeṣam upajanayati tad-anutpādane vā kavi-viṣayataiva tasya na syāt kavi-viṣayaś ca citratayā kaścin nirūpyate / atrocyate-satyaṃ na tādṛk-kāvya-prakāro 'sti yatra rasādīnām apratītiḥ / kiṃ tu yadā rasa-bhāvādi-vivakṣā-śūnyaḥ kaviḥ śabdālaṅkāram arthālaṅkāraṃ vopanibadhnāti tadā tad-vivakṣāpekṣayā rasādi-śūnyatārthasya parikalpyate / vivakṣopārūḍha eva hi kāvye śabdānām arthaḥ / vācya-sāmarthya-vaśena vā kavi-vivakṣā-virahe 'pi tathā-vidhe viṣaye rasādi-pratītir bhavantī paridurbalā bhavatīty anenāpi prakāreṇa nīrasatvaṃ parikalpya citra-viṣayo vyavasthāpyate / tad idam uktam- rasa-bhāvādi-viṣaya-vivakṣā-virahe sati / alaṅkāra-nibandho yaḥ sa citra-viṣayo mataḥ // rasādiṣu vivakṣā tu syāt tātparyavatī yadā / tadā nāsty eva tat kāvyaṃ dhvaner yatra na gocaraḥ // etac ca citraṃ kavīnāṃ viśṛṅkhala-girāṃ rasādi-tātparyam anapekṣyaiva kāvya-pravṛtti-darśanād asmābhiḥ parikalpitam / idānīntanānāṃ tu nyāyye kāvya-naya-vyavasthāpane kriyamāṇe nāsty eva dhvani-vyatiriktaḥ kāvya-prakāraḥ / yataḥ paripākavatāṃ kavīnāṃ rasādi-tātparya-virahe vyāpāra eva na śobhate / rasādi-tātparye ca nāsty eva tad vastu yad abhimata-rasāṅgatāṃ nīyamānaṃ na praguṇībhavati / acetanā pi hi bhāvā yathāyatham ucita-rasa-vibhāvatayā cetana-vṛttānta-yojanayā vā na santy eva te ye yānti na rasāṅgatām / tathā cedam ucyate- apāre kāvya-saṃsāre kavir ekaḥ prajāpatiḥ / yathāsmai rocate viśvaṃ tathedaṃ parivartate // śṛṅgārī cet kaviḥ kāvye jātaṃ rasa-mayaṃ jagat / sa eva vīta-rāgaś cen nīrasaṃ sarvam eva tat // bhāvān acetanān api cetanavac cetanānacetanavat / vyavahārayati yatheṣṭaṃ sukaviḥ kāvye svatantratayā // tasmān nāsty eva tad vastu yat sarvātmanā rasa-tātparyavataḥ kaves tad-icchayā tad-abhimata-rasāṅgatāṃ na dhatte / tathopanibadhyamānaṃ vā na cārutvātiśayaṃ puṣṇāti / sarvam etac ca mahā-kavīnāṃ kāvyeṣu dṛśyate / asmābhir api sveṣu kāvya-prabandheṣu yathāyathaṃ darśitam eva / sthite caivaṃ sarva eva kāvya-prakāro na dhvani-dharmatām atipatati rasādy-apekṣāyāṃ kaver guṇībhūta-vyaṅgya-lakṣaṇo 'pi prakāras tad-aṅgatām avalambata ity uktaṃ prāk / yadā tu cāṭuṣu devatā-stutiṣu vā rasādīnām aṅgatayā vyavasthānaṃ hṛdayavatīṣu ca suprajñaka-gāthāsu kāsucid vyaṅgya-viśiṣṭa-vācye prādhānyaṃ tad api guṇībhūta-vyaṅgyasya dhvani-niṣpanda-bhūtatvam evety uktaṃ prāk / tad evam idānīṃtana-kavi-kāvya-nayopadeśe kriyamāṇe prāthamikānām abhyāsārthināṃ yadi paraṃ citreṇa vyavahāraḥ, prāpta-pariṇatīnāṃ tu dhvanir eva kāvyam iti sthitam etat / tad ayam atra saṅgrahaḥ- yasmin raso vā bhāvo vā tātparyeṇa prakāśate / saṃvṛttyābhihitau vastu yatrālaṅkāra eva vā // kāvyādhvani dhvanir vyaṅgya-prādhānyaika-nibandhanaḥ / sarvatra tatra viṣayī jñeyaḥ sahṛdayair janaiḥ

Sanskrit only: no published translation is held for this verse.

एतद्-ध्वनि-प्रवर्तनेन निर्णीतं काव्य-तत्त्वम् अस्फुट-स्फुरितं सद् अशक्नुवद्भिः प्रतिपादयितुं वैदर्भी गौडी पाञ्चाली चेति रीतयः प्रवर्तिताः । रीति-लक्षण-विधायिनां हि काव्य-तत्त्वम् एतद् अस्फुटतया मनाक्-स्फुरितम् आसीद् इति लक्ष्यते तद् अत्र स्फुटतया सम्प्रदर्शितेनान्येन रीति-लक्षणेन न किंचित्

etad-dhvani-pravartanena nirṇītaṃ kāvya-tattvam asphuṭa-sphuritaṃ sad aśaknuvadbhiḥ pratipādayituṃ vaidarbhī gauḍī pāñcālī ceti rītayaḥ pravartitāḥ / rīti-lakṣaṇa-vidhāyināṃ hi kāvya-tattvam etad asphuṭatayā manāk-sphuritam āsīd iti lakṣyate tad atra sphuṭatayā sampradarśitenānyena rīti-lakṣaṇena na kiṃcit

Sanskrit only: no published translation is held for this verse.