वाचस्पतिसहस्राणां सहस्रैरपि यत्नतः । निबद्धा सा क्षयं नैति प्रकृतर्जगतामिव ॥ १० ॥ ॥ ॥ यथाहि जगत्प्रकृतिरतीतकल्पपरम्पराविर्भूतविचित्रवस्तुप्रपञ्चा सती लोचनम् भूम्नैव दृश्यते लक्ष्ये तत्तु भाति रसाश्रयात् ॥ ॥ इति कारिका । अन्यस्तु ग्रन्थो मध्योपस्कारः ॥ ८ ॥ ॥ ॥ अत्र तु पादत्रयस्यार्थमनूद्य चतुर्थपादार्थो ऽपूर्वतयाभिधीयते । तदित्यादि । शक्तीनामित्यन्तं कारिकयोर्मध्योपस्कारः । द्वितीयकारिकायास्तुर्यं पादं व्याचष्टे--यथाहीति ॥ १॥ , १० ॥ बालप्रिय अन्यस्तु ग्रन्थ इति । ऽयत्प्रदर्शितं प्रागिऽति ऽन तच्छक्यमपोहितुम्ऽ इति च ग्रन्थ इत्यर्थः ॥ ८ ॥ ॥ ॥ चतुर्थेत्यादि । ऽतत्तु भात रसाश्रयाऽदित्यस्यार्थो ऽत्र विधीयमान इत्यर्थः । करिकयोरिति । ऽरसभावेऽत्यादेः ऽवाचस्पतीऽत्यादेश्च कारकयोरित्यर्थ- । उपस्कार इति । यद्यन्वीयते अन्यैः कविभिः तत्तर्हि इत्यर्थः । अन्येषां वाल्मीकिव्यतिरिक्तानाम् । कवीनां गणना का । ते अगण्या भवेयुरिति तदर्थः । तुर्यं पादमिति । प्रकृतिर्जगतामिवेति पादमित्यर्थः । व्याचष्ट इति । क्षयं नैतीत्यनेन सह विवृणोतीत्यर्थः । यथाहीतीति । ऽयथाहीऽत्यादिना ऽअभिधातुम्ऽ इत्यन्तग्रन्थेनेत्यर्थः। ऽतद्वदिऽत्यादिकं तु वाचस्पतीत्यादिपादत्रयार्थविवरणम् । वृत्तौ ऽजगत्प्रकृतिरिऽति । जगत्कारणभूता प्रकृतिरित्यर्थः । ऽअतीतेऽति । अतीतानां कल्पनां परम्परायामाविर्भून्तः आविर्भावितः विचित्राणां वस्तूनां प्रपञ्चो यया सा ऽपरीऽति । परिक्षीणा नष्टा अपरपदार्थानां निर्माणशक्तिर्यस्यास्सेत्यर्थः ॥ १॥ , १० ॥ पुनरिदानीं परिक्षीणा परपदार्थानिर्माणशक्तिरिति न शक्यते ऽभिधातुम् । तद्वदेवेयं काव्यस्थितिरनन्ताभिः कविमतिभिरुपभुक्तापि नेदानीं परिहीयते, प्रत्युत नवनवाभिर्व्युत्पत्तिभिः परिवर्धते । इत्थं स्थिते ऽपि-- संवादास् तु भवन्त्य् एव बाहुल्येन सुमेधसाम् । स्थितं ह्य् एतत् संवादिन्य एव मेधाविनां बुद्धयः । किन्तु- नैक-रूपतया सर्वे ते मन्तव्या विपश्चिता
vācaspatisahasrāṇāṃ sahasrairapi yatnataḥ / nibaddhā sā kṣayaṃ naiti prakṛtarjagatāmiva // 10 // // // yathāhi jagatprakṛtiratītakalpaparamparāvirbhūtavicitravastuprapañcā satī locanam bhūmnaiva dṛśyate lakṣye tattu bhāti rasāśrayāt // // iti kārikā / anyastu grantho madhyopaskāraḥ // 8 // // // atra tu pādatrayasyārthamanūdya caturthapādārtho 'pūrvatayābhidhīyate / tadityādi / śaktīnāmityantaṃ kārikayormadhyopaskāraḥ / dvitīyakārikāyāsturyaṃ pādaṃ vyācaṣṭe--yathāhīti // 1// , 10 // bālapriya anyastu grantha iti / 'yatpradarśitaṃ prāgi'ti 'na tacchakyamapohitum' iti ca grantha ityarthaḥ // 8 // // // caturthetyādi / 'tattu bhāta rasāśrayā'dityasyārtho 'tra vidhīyamāna ityarthaḥ / karikayoriti / 'rasabhāve'tyādeḥ 'vācaspatī'tyādeśca kārakayorityartha- / upaskāra iti / yadyanvīyate anyaiḥ kavibhiḥ tattarhi ityarthaḥ / anyeṣāṃ vālmīkivyatiriktānām / kavīnāṃ gaṇanā kā / te agaṇyā bhaveyuriti tadarthaḥ / turyaṃ pādamiti / prakṛtirjagatāmiveti pādamityarthaḥ / vyācaṣṭa iti / kṣayaṃ naitītyanena saha vivṛṇotītyarthaḥ / yathāhītīti / 'yathāhī'tyādinā 'abhidhātum' ityantagranthenetyarthaḥ. 'tadvadi'tyādikaṃ tu vācaspatītyādipādatrayārthavivaraṇam / vṛttau 'jagatprakṛtiri'ti / jagatkāraṇabhūtā prakṛtirityarthaḥ / 'atīte'ti / atītānāṃ kalpanāṃ paramparāyāmāvirbhūntaḥ āvirbhāvitaḥ vicitrāṇāṃ vastūnāṃ prapañco yayā sā 'parī'ti / parikṣīṇā naṣṭā aparapadārthānāṃ nirmāṇaśaktiryasyāssetyarthaḥ // 1// , 10 // punaridānīṃ parikṣīṇā parapadārthānirmāṇaśaktiriti na śakyate 'bhidhātum / tadvadeveyaṃ kāvyasthitiranantābhiḥ kavimatibhirupabhuktāpi nedānīṃ parihīyate, pratyuta navanavābhirvyutpattibhiḥ parivardhate / itthaṃ sthite 'pi-- saṃvādās tu bhavanty eva bāhulyena sumedhasām / sthitaṃ hy etat saṃvādinya eva medhāvināṃ buddhayaḥ / kintu- naika-rūpatayā sarve te mantavyā vipaścitā
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.