Library·Anandavardhana: Dhvanyaloka, Uddyota·4

Anandavardhana: Dhvanyaloka, Uddyota 4

चतुर्थ उद्द्योतः चतुर्थ उद्द्योतः एवं ध्वनिं सप्रपञ्चं विप्रतिपत्तिनिरासार्थं व्युत्पाद्य तद्व्युत्पादने लोचनम् चतुर्थ उद्द्योतः कृत्यपञ्चकनिर्वाहयोगे ऽपि परमेश्वरः । नान्योपकरणापेक्षो यया तां नौमि शाङ्करीम् ॥ ॥ उद्योतान्तरसङ्गतिं विरचयितुं वृतिकार आह---एवमिति । प्रयोजनान्तरमिति । यद्यपि ऽसहदयमनःप्रीतयऽ इत्यनेन प्रयोजनं प्रागेवोक्तं, तृतीयोद्योतावधौ च सत्काव्यं कर्तुं वा ज्ञातुं वेति तदेवेषत्स्फुटीकृतं, तथापि स्फुटतरीकर्तुमिदानीं यत्नः । यतस्सुस्पष्टरूपत्वेन विज्ञायते, अतो ऽस्पष्टनिरूपितात्स्पष्टनिरूपणमन्यथैव प्रतिभातीति प्रयोजनान्तरमित्युक्तम् । अथवा पूर्वोक्तयोः प्रयोजनयोरन्तरं विशेषो ऽभिधीयते; केन विशेषेण सत्काव्यकरणमस्य प्रयोजनं, केन च सत्काव्यबोध इति विशेषो निरूप्यते । बालप्रिया अथ चतुर्थोद्योतटिप्पणी प्रारभ्यते अर्थोद्योतं चतुर्थे च लोचनस्य यथामति । किमपि व्याकरिष्यामि प्रसीदन्त्वत्र मे बुधाः ॥ ॥ कृत्येति । कृत्यपञ्चकं सृष्ट्यादिरूपम् । यथोक्तं---"पञ्चविधं तत्कृत्यं सृष्टिस्थितिसंहारतिरोभावः तद्वदनुग्रहकरणं प्रोक्तं सततोदितस्यास्य" इति । यया मायारूपया हेतुना । नान्योपकरणापेक्ष इति सम्बन्धः । मायारूपां यामेवापेक्षमाणः सृष्ट्यादिकं निर्वहतीत्यर्थः । उद्योतान्तरसङ्गतिमिति । तृतीयोद्योतेन सह चतुर्थोद्योतस्य सङ्गतिमित्यर्थः । पूर्वोक्तस्यैव प्रयोजनस्य वक्ष्यमाणत्वात् प्रयोजनान्तरमित्युक्तिरयुक्तेत्याशङ्क्य समाधत्ते--यद्यपीत्यादि । ननु प्रीतिरूपप्रयोजनस्योक्तत्वे ऽपि वक्ष्यमाणं तदन्यदेवेत्यत आह--तृतीयेत्यादि । तदेवेति । प्रयोजनमेवेत्यर्थः । स्फुटतरीकर्तुमिति । तदेवेत्यनुषज्यते । विज्ञायत इति । वक्ष्यमाणमिति शेषः । ततः किमत आह--अत इत्यादि । अस्पष्टनिरूपितादिति । प्रयोजनादिति शेषः । सत्काव्यं कर्तुं वा ज्ञातुं वा सम्यगभियुक्तैः सद्भिः ध्वनिः प्रयत्नतो विवेच्य इत्युक्त्या सत्काव्यकरणज्ञानयोः ध्वनिविवेचनप्रयोजनत्वमर्थाल्लभ्यत इत्यतस्तत्प्रयोजनमस्पष्टनिरूपितमित्यर्थः । स्पष्टनिरूपणमिति । स्पष्टमुक्तमित्यर्थः । प्रकारान्तरेण व्याचष्टे--अथवेत्यादि । उक्तस्यैव विवरणम्--केन विशेषेणेत्यादि । अस्येति । ध्वनिव्युत्पादनस्येत्यर्थः । प्रयोजनान्तरमुच्यते-- ध्वनेर् यः सगुणी-भूत-व्यङ्ग्यस्याध्वा प्रदर्शितः । अनेनानन्त्यम् आयाति कवीनां प्रतिभा-गुणः

caturtha uddyotaḥ caturtha uddyotaḥ evaṃ dhvaniṃ saprapañcaṃ vipratipattinirāsārthaṃ vyutpādya tadvyutpādane locanam caturtha uddyotaḥ kṛtyapañcakanirvāhayoge 'pi parameśvaraḥ / nānyopakaraṇāpekṣo yayā tāṃ naumi śāṅkarīm // // udyotāntarasaṅgatiṃ viracayituṃ vṛtikāra āha---evamiti / prayojanāntaramiti / yadyapi 'sahadayamanaḥprītaya' ityanena prayojanaṃ prāgevoktaṃ, tṛtīyodyotāvadhau ca satkāvyaṃ kartuṃ vā jñātuṃ veti tadeveṣatsphuṭīkṛtaṃ, tathāpi sphuṭatarīkartumidānīṃ yatnaḥ / yatassuspaṣṭarūpatvena vijñāyate, ato 'spaṣṭanirūpitātspaṣṭanirūpaṇamanyathaiva pratibhātīti prayojanāntaramityuktam / athavā pūrvoktayoḥ prayojanayorantaraṃ viśeṣo 'bhidhīyate; kena viśeṣeṇa satkāvyakaraṇamasya prayojanaṃ, kena ca satkāvyabodha iti viśeṣo nirūpyate / bālapriyā atha caturthodyotaṭippaṇī prārabhyate arthodyotaṃ caturthe ca locanasya yathāmati / kimapi vyākariṣyāmi prasīdantvatra me budhāḥ // // kṛtyeti / kṛtyapañcakaṃ sṛṣṭyādirūpam / yathoktaṃ---"pañcavidhaṃ tatkṛtyaṃ sṛṣṭisthitisaṃhāratirobhāvaḥ tadvadanugrahakaraṇaṃ proktaṃ satatoditasyāsya" iti / yayā māyārūpayā hetunā / nānyopakaraṇāpekṣa iti sambandhaḥ / māyārūpāṃ yāmevāpekṣamāṇaḥ sṛṣṭyādikaṃ nirvahatītyarthaḥ / udyotāntarasaṅgatimiti / tṛtīyodyotena saha caturthodyotasya saṅgatimityarthaḥ / pūrvoktasyaiva prayojanasya vakṣyamāṇatvāt prayojanāntaramityuktirayuktetyāśaṅkya samādhatte--yadyapītyādi / nanu prītirūpaprayojanasyoktatve 'pi vakṣyamāṇaṃ tadanyadevetyata āha--tṛtīyetyādi / tadeveti / prayojanamevetyarthaḥ / sphuṭatarīkartumiti / tadevetyanuṣajyate / vijñāyata iti / vakṣyamāṇamiti śeṣaḥ / tataḥ kimata āha--ata ityādi / aspaṣṭanirūpitāditi / prayojanāditi śeṣaḥ / satkāvyaṃ kartuṃ vā jñātuṃ vā samyagabhiyuktaiḥ sadbhiḥ dhvaniḥ prayatnato vivecya ityuktyā satkāvyakaraṇajñānayoḥ dhvanivivecanaprayojanatvamarthāllabhyata ityatastatprayojanamaspaṣṭanirūpitamityarthaḥ / spaṣṭanirūpaṇamiti / spaṣṭamuktamityarthaḥ / prakārāntareṇa vyācaṣṭe--athavetyādi / uktasyaiva vivaraṇam--kena viśeṣeṇetyādi / asyeti / dhvanivyutpādanasyetyarthaḥ / prayojanāntaramucyate-- dhvaner yaḥ saguṇī-bhūta-vyaṅgyasyādhvā pradarśitaḥ / anenānantyam āyāti kavīnāṃ pratibhā-guṇaḥ

Sanskrit only: no published translation is held for this verse.

ध्वनेर्यः सगुणीभूतव्यङ्ग्यस्याध्वा प्रदर्शितः । अनेनानन्त्यमायाति कवीनां प्रतिभागुणः ॥ १ ॥ य एष ध्वनेर्गुणभूतव्यङ्ग्यस्य च मार्गः प्रकाशितस्तस्य फलान्तरं कविप्रतिभानन्त्यम् । कथमिति चेत्--- अतो ह्य् अन्यतमेनापि प्रकारेण विभूषिता । वाणी नवत्वम् आयाति पूर्वार्थान्वयवत्य् अपि

dhvaneryaḥ saguṇībhūtavyaṅgyasyādhvā pradarśitaḥ / anenānantyamāyāti kavīnāṃ pratibhāguṇaḥ // 1 // ya eṣa dhvanerguṇabhūtavyaṅgyasya ca mārgaḥ prakāśitastasya phalāntaraṃ kavipratibhānantyam / kathamiti cet--- ato hy anyatamenāpi prakāreṇa vibhūṣitā / vāṇī navatvam āyāti pūrvārthānvayavaty api

Sanskrit only: no published translation is held for this verse.

एवंविधप्रीतिकारित्वादेवेत्यर्थः । इतीति । इत्युक्तमित्यर्थः । निरुद्धत्वोक्त्या गम्यमाह--हठात्प्रवर्तमानो ऽपीति । धृतः वैलक्ष्याद्विमुखीभवेदिति पुनस्तस्याप्यनारम्भिणः साकाङ्क्षप्रतिपत्ति नाम हृदयं यातं तु पारं रतेः ॥ ॥ इत्यादेःश्लोकस्य, शून्यं वासगृहं विलोक्य शयनादुत्थाय किञ्चिच्छनै- र्निद्राव्याजमुपागतस्य सुचिरं निर्वर्ण्य पत्युर्मुखम् । विस्रब्धं परिचुम्ब्य जातपुलकामालोक्य गण्डस्थलीं लज्जानम्रमुखी प्रियेण हसता बाला चिरं चुम्बिता ॥ ॥ इत्यादिषु श्लोकेषु सत्स्वपि नवत्वम् । यथा वा---ऽतरङ्गभ्रूभङ्गाऽ लोचनम् क्षणमात्रन्धृतश्चुम्बनाभिलाषो यया । अत एव आभोगेन पुनः पुनर्निद्राविचारनिर्वर्णनया विलोलं कृत्वा स्थिता, न तु सर्वथैव चुम्बनान्निवर्तितुं शक्नोतीत्यर्थः । एवंभूतैषा यदि मया परिचुम्ब्यते, तद्विलक्षा विमुखीभवेदिति तस्यापि प्रियस्य परिचुम्बनविषये निरारम्भस्य । हृदयं साकाङ्क्षप्रतिपत्ति नामेति । साकाङ्क्षा साभिलाषा प्रतिपत्तिः स्थितिर्यस्य तादृशं रुहिरुहिकाकदर्थितं न तु मनोरथसम्पत्तिचरितार्थं, किन्तु रेतः परस्परजीवितसर्वस्वाभिमानरूपायाः परनिर्वृतेः केन चिदप्यनुभवेनालब्धावगाहनायाः पारङ्गतमिति परिपूर्णीभूत एव शृङ्गारः । द्वितीयश्लोके तु परिचुम्बनं सम्पन्नं लज्जा स्वशब्देनोक्ता । तेनापि सा परिचुम्बितेति यद्यपि पोषित एव शृङ्गारः, तथापि प्रथमश्लोके परस्पराभिलाषप्रसरनिरोधपरम्परापर्यवसानासम्भवेन या बालप्रिया प्रतिबद्धः । भोगपदस्य साक्षात्कारार्थकत्वमभिप्रेत्याह--आभागेनेत्यादि । निद्रेति । निद्राविचारेण अयं निद्रातीति बुद्ध्या या निर्वर्णना दर्शनं तयेत्यर्थः । अनेन चुम्बनाभिलाषस्य पुनराविर्भावो गम्यते । विलोलं कृत्वा चुम्बनसंशयसहितं यथा तथा । भावार्थमाह--न त्वित्यादि । उत्तरार्धं विवृणोति--एवमित्यादि । विलक्षा लज्जिता सती । इतीति हेतौ । अपीति वध्वाः समुच्चये । रुहरुहिकाकदर्थितं औत्सुक्येन पीडितम् । गम्यमर्थमाह---न त्वित्यादि । चरितार्थमित्यस्यानन्तरं यद्यपीति क्वचित् ग्रन्थे पाठः, तत्तु नामशब्दविवरणम् । किन्त्विति तुशब्दार्थकथनम् । अनुभवेनेति । चुम्बनालिङ्गनाद्यनुभवेनेत्यर्थः । अलब्धेति । अलब्धमवगाहनं यस्यां तस्यामित्यर्थः । अवगाहनस्यालाभे ऽपि पारं गतमित्यापाततो विरोधः । श्लोकस्यास्य नवत्वं दर्शयितुमाह--द्वितीयश्लोक इत्यादि । शङ्कते--तेनापीत्यादि । समाधत्ते--तथापीत्यादि । परस्परेति । परस्पराभिलाषप्रसरस्य या निरोधपरम्परा तस्या यत्पर्यवसान् इत्यादिश्लोकस्य ऽनानाभङ्गिभ्रमद्भूःऽ इत्यादिश्लोकापेक्षयान्यत्वम् । युक्त्यानयानुसर्तव्यो रसादिर् बहु-विस्तरः । मिथो ऽप्य् अनन्ततां प्राप्तः काव्य-मार्गो यदाश्रयात्

evaṃvidhaprītikāritvādevetyarthaḥ / itīti / ityuktamityarthaḥ / niruddhatvoktyā gamyamāha--haṭhātpravartamāno 'pīti / dhṛtaḥ vailakṣyādvimukhībhavediti punastasyāpyanārambhiṇaḥ sākāṅkṣapratipatti nāma hṛdayaṃ yātaṃ tu pāraṃ rateḥ // // ityādeḥślokasya, śūnyaṃ vāsagṛhaṃ vilokya śayanādutthāya kiñcicchanai- rnidrāvyājamupāgatasya suciraṃ nirvarṇya patyurmukham / visrabdhaṃ paricumbya jātapulakāmālokya gaṇḍasthalīṃ lajjānamramukhī priyeṇa hasatā bālā ciraṃ cumbitā // // ityādiṣu ślokeṣu satsvapi navatvam / yathā vā---'taraṅgabhrūbhaṅgā' locanam kṣaṇamātrandhṛtaścumbanābhilāṣo yayā / ata eva ābhogena punaḥ punarnidrāvicāranirvarṇanayā vilolaṃ kṛtvā sthitā, na tu sarvathaiva cumbanānnivartituṃ śaknotītyarthaḥ / evaṃbhūtaiṣā yadi mayā paricumbyate, tadvilakṣā vimukhībhavediti tasyāpi priyasya paricumbanaviṣaye nirārambhasya / hṛdayaṃ sākāṅkṣapratipatti nāmeti / sākāṅkṣā sābhilāṣā pratipattiḥ sthitiryasya tādṛśaṃ ruhiruhikākadarthitaṃ na tu manorathasampatticaritārthaṃ, kintu retaḥ parasparajīvitasarvasvābhimānarūpāyāḥ paranirvṛteḥ kena cidapyanubhavenālabdhāvagāhanāyāḥ pāraṅgatamiti paripūrṇībhūta eva śṛṅgāraḥ / dvitīyaśloke tu paricumbanaṃ sampannaṃ lajjā svaśabdenoktā / tenāpi sā paricumbiteti yadyapi poṣita eva śṛṅgāraḥ, tathāpi prathamaśloke parasparābhilāṣaprasaranirodhaparamparāparyavasānāsambhavena yā bālapriyā pratibaddhaḥ / bhogapadasya sākṣātkārārthakatvamabhipretyāha--ābhāgenetyādi / nidreti / nidrāvicāreṇa ayaṃ nidrātīti buddhyā yā nirvarṇanā darśanaṃ tayetyarthaḥ / anena cumbanābhilāṣasya punarāvirbhāvo gamyate / vilolaṃ kṛtvā cumbanasaṃśayasahitaṃ yathā tathā / bhāvārthamāha--na tvityādi / uttarārdhaṃ vivṛṇoti--evamityādi / vilakṣā lajjitā satī / itīti hetau / apīti vadhvāḥ samuccaye / ruharuhikākadarthitaṃ autsukyena pīḍitam / gamyamarthamāha---na tvityādi / caritārthamityasyānantaraṃ yadyapīti kvacit granthe pāṭhaḥ, tattu nāmaśabdavivaraṇam / kintviti tuśabdārthakathanam / anubhaveneti / cumbanāliṅganādyanubhavenetyarthaḥ / alabdheti / alabdhamavagāhanaṃ yasyāṃ tasyāmityarthaḥ / avagāhanasyālābhe 'pi pāraṃ gatamityāpātato virodhaḥ / ślokasyāsya navatvaṃ darśayitumāha--dvitīyaśloka ityādi / śaṅkate--tenāpītyādi / samādhatte--tathāpītyādi / paraspareti / parasparābhilāṣaprasarasya yā nirodhaparamparā tasyā yatparyavasān ityādiślokasya 'nānābhaṅgibhramadbhūḥ' ityādiślokāpekṣayānyatvam / yuktyānayānusartavyo rasādir bahu-vistaraḥ / mitho 'py anantatāṃ prāptaḥ kāvya-mārgo yadāśrayāt

Sanskrit only: no published translation is held for this verse.

एतदेवोपपादयितुमुच्यते-- लोचनम् प्रतिपादितं "भावानचेतनानपि चेतनवच्चेतनानचेतनवदि"त्यत्र । अतथास्थितानपि बहिस्तथासंस्थितानिवेति । इवशब्देन एकतरत्र विश्रान्तियोगाभावादेव सुतरां विचित्ररूपानित्यर्थः । हृदय इति । प्रधानतमे समस्तभावकनकनिकषस्थान इत्यर्थः । निवेशयति यस्य यस्य हृदयमस्ति, तस्य तस्य अचलतया तत्र स्थापयतीत्यर्थः । अतेव ते प्रसिद्धार्थेभ्यो ऽन्य एवेत्यर्थविशेषास्सम्पद्यन्ते । हृदयनिविष्टा एव च तथा भवन्ति नान्यथेत्यर्थः । सा जयति परिच्छिन्नशक्तिभ्यः प्रजापतिभ्यो ऽप्युत्कर्षेण वर्तते । तत्प्रसादादेव कविगोचरो वर्णनीयो ऽर्थो विकटो निस्सीमासम्पद्यते ॥ ३ ॥ ॥ ॥ प्रतिभानां वाणीनाञ्चानन्त्यं ध्वनिकृतमिति यदनुद्भिन्नमुक्तं, तदेव कारिकया भङ्ग्या निरूप्यत इत्याह--उपपादयितुमिति । उपपत्या निरूपयितुमित्यर्थः । यद्यप्यर्थानन्त्यमात्रे हेतुर्वृत्तिकारेणोक्तः, तथापि कारिकाकारेण नोक्त इति भावः । यदि वा उच्यते संग्रहश्लोको ऽयमिति भावः । अत एवास्य श्लोकस्य वृत्तिग्रन्थे व्याख्यानं न कृतम् । बालप्रिया इवशब्देनेति । सम्भावनार्थकेनेति भावः । इत्यर्थ इति । गम्यत इति शेषः । समस्तेति । समस्तभावाः सकलपदार्था एव कनकानि तेषां निकषस्थान इत्यर्थः । हृदये निवेशयतीत्यस्य विवरणम्--यस्येत्यादि । अत एव हृदयस्थापनादेव । ते हृदयस्थापितार्थाः । अर्थविशेषानित्यस्य विवरणम्--प्रसिद्धेत्यादि । तथेति । अर्थविशेषा इत्यर्थः । विकटः कविगोचरो यस्या इति व्युत्पत्तिमभिप्रेत्य विवृणोति--कविगोचर इत्यादि ॥ ३ ॥ ॥ ॥ ऽएतदेवेऽत्यादिग्रन्थमवतारयति--प्रतिभानामित्यादि । ध्वनिकृतमिति । ध्वनिभेदकृतार्थानन्त्यप्रयुक्तमित्यर्थः । अनुद्भिन्नमिति । उपपत्तेरकथनेनास्फुटमित्यर्थः । उक्तमिति । ध्वनेर्य इत्यादिनोक्तमित्यर्थः । वृत्तिकारेणोक्त इति । ऽयुक्त्यानयेऽत्यादिकारिकाव्याख्यावसर इति शेषः । संग्रहश्लोक इति । वृत्तिकारकृतः परिकरश्लोक इत्यर्थः । दृष्ट-पूर्वा अपि ह्य् अर्थाः काव्ये रस-परिग्रहात् । सर्वे नवा इवाभान्ति मधु-मास इव द्रुमाः

etadevopapādayitumucyate-- locanam pratipāditaṃ "bhāvānacetanānapi cetanavaccetanānacetanavadi"tyatra / atathāsthitānapi bahistathāsaṃsthitāniveti / ivaśabdena ekataratra viśrāntiyogābhāvādeva sutarāṃ vicitrarūpānityarthaḥ / hṛdaya iti / pradhānatame samastabhāvakanakanikaṣasthāna ityarthaḥ / niveśayati yasya yasya hṛdayamasti, tasya tasya acalatayā tatra sthāpayatītyarthaḥ / ateva te prasiddhārthebhyo 'nya evetyarthaviśeṣāssampadyante / hṛdayaniviṣṭā eva ca tathā bhavanti nānyathetyarthaḥ / sā jayati paricchinnaśaktibhyaḥ prajāpatibhyo 'pyutkarṣeṇa vartate / tatprasādādeva kavigocaro varṇanīyo 'rtho vikaṭo nissīmāsampadyate // 3 // // // pratibhānāṃ vāṇīnāñcānantyaṃ dhvanikṛtamiti yadanudbhinnamuktaṃ, tadeva kārikayā bhaṅgyā nirūpyata ityāha--upapādayitumiti / upapatyā nirūpayitumityarthaḥ / yadyapyarthānantyamātre heturvṛttikāreṇoktaḥ, tathāpi kārikākāreṇa nokta iti bhāvaḥ / yadi vā ucyate saṃgrahaśloko 'yamiti bhāvaḥ / ata evāsya ślokasya vṛttigranthe vyākhyānaṃ na kṛtam / bālapriyā ivaśabdeneti / sambhāvanārthakeneti bhāvaḥ / ityartha iti / gamyata iti śeṣaḥ / samasteti / samastabhāvāḥ sakalapadārthā eva kanakāni teṣāṃ nikaṣasthāna ityarthaḥ / hṛdaye niveśayatītyasya vivaraṇam--yasyetyādi / ata eva hṛdayasthāpanādeva / te hṛdayasthāpitārthāḥ / arthaviśeṣānityasya vivaraṇam--prasiddhetyādi / tatheti / arthaviśeṣā ityarthaḥ / vikaṭaḥ kavigocaro yasyā iti vyutpattimabhipretya vivṛṇoti--kavigocara ityādi // 3 // // // 'etadeve'tyādigranthamavatārayati--pratibhānāmityādi / dhvanikṛtamiti / dhvanibhedakṛtārthānantyaprayuktamityarthaḥ / anudbhinnamiti / upapatterakathanenāsphuṭamityarthaḥ / uktamiti / dhvanerya ityādinoktamityarthaḥ / vṛttikāreṇokta iti / 'yuktyānaye'tyādikārikāvyākhyāvasara iti śeṣaḥ / saṃgrahaśloka iti / vṛttikārakṛtaḥ parikaraśloka ityarthaḥ / dṛṣṭa-pūrvā api hy arthāḥ kāvye rasa-parigrahāt / sarve navā ivābhānti madhu-māsa iva drumāḥ

Sanskrit only: no published translation is held for this verse.

हतस्नुषया तथा कृतो यथा काण्डकरण्डकं वहति ॥ इति च्छाया] । एवमादिष्वर्थेषु सत्स्वप्यनालीढतैव । यथा व्यङ्ग्यभेदसमाक्षयेण ध्वनेः काव्यार्थानां नवत्वमुत्पद्यते, तथा व्यञ्जकभेदसमाश्रयेणापि । तत्तु ग्रन्थविस्तरभयान्न लिख्यते स्वयमेव सहृदयैरभ्यूह्यम् । अत्र च पुनःपुनरुक्तमपि सारतयेदमुच्यते-- व्यङ्ग्य-व्यञ्जक-भावे ऽस्मिन् विविधे सम्भवत्य् अपि । रसादि-मय एकस्मिन् कविः स्याद् अवधानवान्

hatasnuṣayā tathā kṛto yathā kāṇḍakaraṇḍakaṃ vahati // iti cchāyā] / evamādiṣvartheṣu satsvapyanālīḍhataiva / yathā vyaṅgyabhedasamākṣayeṇa dhvaneḥ kāvyārthānāṃ navatvamutpadyate, tathā vyañjakabhedasamāśrayeṇāpi / tattu granthavistarabhayānna likhyate svayameva sahṛdayairabhyūhyam / atra ca punaḥpunaruktamapi sāratayedamucyate-- vyaṅgya-vyañjaka-bhāve 'smin vividhe sambhavaty api / rasādi-maya ekasmin kaviḥ syād avadhānavān

Sanskrit only: no published translation is held for this verse.

क्षणमात्रमात्रमपि न दत्ता विश्रामकथेति युक्तमिदम् ॥ ॥ इतिछाया । इतीदंयुक्तमित्यत्र काक्वा इत्येतन्न युक्तमित्यर्थः । चाइअणेति । लोचनम् नवत्वन्ददाति, सत्यपि पुराणकविस्पृष्टे ऽर्थे । तथाहि पुराणीगाथा--- चाइअणकरपरम्परसञ्चारणखे अणिस्सहससरीरा । अथ्था किवणधरन्थ्था सथ्नापथ्थास्ववन्तीव ॥ अलङ्कारेण व्यङ्ग्येन वाच्योपस्कारे नवत्वं यथा ममैव-- वसन्तमत्तालिपरम्परोपमाः कचास्तवासन् कल रागवृद्धये । श्मशानभूभागपरागभासुराः कथन्तदेतेन मनाग्विरक्तये ॥ ॥ अत्र ह्याक्षेपेण विभावनया च ध्वन्यमानाभ्यां वाच्यमुपस्कृतमिति नवत्वं सत्यपि पुराणार्थयोगित्वे । तथाहि पुराणश्लोकः--- क्षुत्तृष्णाकाममात्सर्यं मरणाच्च महद्भयम् । पञ्चैतानि विवर्धन्ते वार्धके विदुषामपि ॥ इति । व्यङ्ग्येन रसेन गुणीभूतेन वाच्योपस्कारेण नवत्वं यथा ममेव-- जरा नेयं मूर्ध्नि ध्रुवमयमसौ कालभुजगः क्रुधान्धः फूत्कारैः स्फुटगरलफेनान् प्रकिरति ॥ ॥ तदेनं संपश्यत्यथ च सुखितम्मन्यहृदयः शिवो पायन्नेच्छन् बत बत सुधीरः खलु जनः ॥ बालप्रिया त्यागिजनकरपरम्परासञ्चारणखेदनिस्सहशरीराः । अर्थाः कृपणगृहस्थाः स्वस्थावस्थाः स्वपन्तीव ॥ ॥ इति छाया । अर्थःस्पष्टः । वसन्तेति । कञ्चन मित्रं प्रति कस्यचिदुक्तिः । वसन्ते वसन्तेन वा मत्ता ये अलयो भृङ्गास्तत्परम्परोपमाः तेषां परम्परया तुल्याः अतिनीलस्निग्धा इति यावत् । तथाभूताः कचा इत्यनेन यौवनदशा प्रदर्शिता । तव रागस्य वृद्धये आसन् किल । श्मशानभूभागे ये परागाः भस्मरेणवस्ते इव भासुराः शुभ्राः जरया शुक्ला इति यावत् । एते कचाः । रागस्य वैराग्यस्य चोद्दीपकत्वात्तत्तदुपमानमुपात्तम् । तव मनागीषदुपि विरक्तये वैराग्याय न भवन्ति । तत् तथं वैराग्यस्य कारणे सत्यपि तदजननं कुत इत्यर्थः । अनेन प्रत्युत कारणाभावे ऽपि काम एव वर्धन्त इत्यर्थस्य कामस्य महिमा वर्णयितुमशक्य इत्यर्थस्य च प्रकाशनाद्विभावनाक्षेपौ व्यज्येते, ताभ्यां च वाच्यमुपस्क्रियत इत्याह--अत्र हीत्यादि ॥ ॥ क्षुत्तृण्णेत्यादिसमाहारद्वन्द्वः । जरेति । जराजीर्ण कञ्चिदुश्योक्तिः । मूर्ध्नि इयं दृश्यमाना जरा न भवति । अयमसौ क्रधान्धः । कालभुजगः कृण्णसर्पः । अथ च अन्तकरूपो भुजगः । फूत्कारैः स्फुटं गरलं येषु तथाभूतान् फेनान् प्रकिरति वर्षति । इयं न जरा, किन्तु शिरस्थकालभुजगाभिवृष्टः फेननिकर ध्वनेर् इत्थं गुणीभूत-व्यङ्ग्यस्य च समाश्रयात् । न काव्यार्थ-विरामो ऽस्ति यदि स्यात् प्रतिभा-गुणः

kṣaṇamātramātramapi na dattā viśrāmakatheti yuktamidam // // itichāyā / itīdaṃyuktamityatra kākvā ityetanna yuktamityarthaḥ / cāiaṇeti / locanam navatvandadāti, satyapi purāṇakavispṛṣṭe 'rthe / tathāhi purāṇīgāthā--- cāiaṇakaraparamparasañcāraṇakhe aṇissahasasarīrā / aththā kivaṇadharanththā sathnāpaththāsvavantīva // alaṅkāreṇa vyaṅgyena vācyopaskāre navatvaṃ yathā mamaiva-- vasantamattāliparamparopamāḥ kacāstavāsan kala rāgavṛddhaye / śmaśānabhūbhāgaparāgabhāsurāḥ kathantadetena manāgviraktaye // // atra hyākṣepeṇa vibhāvanayā ca dhvanyamānābhyāṃ vācyamupaskṛtamiti navatvaṃ satyapi purāṇārthayogitve / tathāhi purāṇaślokaḥ--- kṣuttṛṣṇākāmamātsaryaṃ maraṇācca mahadbhayam / pañcaitāni vivardhante vārdhake viduṣāmapi // iti / vyaṅgyena rasena guṇībhūtena vācyopaskāreṇa navatvaṃ yathā mameva-- jarā neyaṃ mūrdhni dhruvamayamasau kālabhujagaḥ krudhāndhaḥ phūtkāraiḥ sphuṭagaralaphenān prakirati // // tadenaṃ saṃpaśyatyatha ca sukhitammanyahṛdayaḥ śivo pāyannecchan bata bata sudhīraḥ khalu janaḥ // bālapriyā tyāgijanakaraparamparāsañcāraṇakhedanissahaśarīrāḥ / arthāḥ kṛpaṇagṛhasthāḥ svasthāvasthāḥ svapantīva // // iti chāyā / arthaḥspaṣṭaḥ / vasanteti / kañcana mitraṃ prati kasyaciduktiḥ / vasante vasantena vā mattā ye alayo bhṛṅgāstatparamparopamāḥ teṣāṃ paramparayā tulyāḥ atinīlasnigdhā iti yāvat / tathābhūtāḥ kacā ityanena yauvanadaśā pradarśitā / tava rāgasya vṛddhaye āsan kila / śmaśānabhūbhāge ye parāgāḥ bhasmareṇavaste iva bhāsurāḥ śubhrāḥ jarayā śuklā iti yāvat / ete kacāḥ / rāgasya vairāgyasya coddīpakatvāttattadupamānamupāttam / tava manāgīṣadupi viraktaye vairāgyāya na bhavanti / tat tathaṃ vairāgyasya kāraṇe satyapi tadajananaṃ kuta ityarthaḥ / anena pratyuta kāraṇābhāve 'pi kāma eva vardhanta ityarthasya kāmasya mahimā varṇayitumaśakya ityarthasya ca prakāśanādvibhāvanākṣepau vyajyete, tābhyāṃ ca vācyamupaskriyata ityāha--atra hītyādi // // kṣuttṛṇṇetyādisamāhāradvandvaḥ / jareti / jarājīrṇa kañciduśyoktiḥ / mūrdhni iyaṃ dṛśyamānā jarā na bhavati / ayamasau kradhāndhaḥ / kālabhujagaḥ kṛṇṇasarpaḥ / atha ca antakarūpo bhujagaḥ / phūtkāraiḥ sphuṭaṃ garalaṃ yeṣu tathābhūtān phenān prakirati varṣati / iyaṃ na jarā, kintu śirasthakālabhujagābhivṛṣṭaḥ phenanikara dhvaner itthaṃ guṇībhūta-vyaṅgyasya ca samāśrayāt / na kāvyārtha-virāmo 'sti yadi syāt pratibhā-guṇaḥ

Sanskrit only: no published translation is held for this verse.

सर्व हि पुराणकविनैव स्पृष्टमिति किमिदानीं वर्ण्यं, यत्र कवेर्वर्णनाव्यापारस्स्यात् । ननु यद्यपि वर्ण्यमपूर्वन्नास्ति, तथाप्युक्तिपरिपाकगुम्भघटनाद्यपरपर्यायबन्धच्छाया नवनवा भविष्यति । यन्नवेशने काव्यान्तराणां संरम्भ इत्याशङ्क्याह---बन्धच्छायापीति । अर्थद्वयं गुणीभूतव्यङ्ग्यं प्रधानभूतं व्यङ्ग्यं च । नेदीय इति । निकटतरं हृदयानुप्रवेशि न भवतीत्यर्थः । अत्र हेतुमाह--एवं हि सतीति । बालप्रिया इत्यर्थः । ध्रुवमित्युत्प्रेक्षायाम् । तदिति जनः । तदेनान् तथाभूतान् फेनान् । फेनमिति तदेनमिति वा पाठः । सम्पश्यति अथ च सुखितमन्यहृदयः शिवोपायं नेच्छंश्च । अतः सुधीरः खल्वित्यन्वयः । बतेत्यद्भुते । जरेति । तदिति तस्मादित्यर्थः । मृत्युर्नास्तीति विश्चयः हृदयेदृढमस्ति नूनमित्यन्वयः ॥ ५ ॥ ॥ ॥ उपस्कार इति । सत्स्वपीत्यादेः न काव्यार्थविरामो ऽस्तीत्यनेनान्वय इति भावः । यदीत्यादेर्भावं विवृणोति--विद्यमान इत्यादि । वृत्तौ ऽबन्धच्छायेऽत्यस्य विवरणम्--ऽअर्थद्वयानुरूपशब्दसन्निवेशऽइति । तद्रूपा बन्धच्छायेत्यर्थः । ऽअनपेक्षितेऽत्यादिशङ्काग्रन्थः । इतीदं सहृदयानां न नेदीय इति सम्बन्धः । पुनश्शङ्कते--ऽशब्दार्थयोऽरित्यादि । ऽकाव्यत्वऽ इति निमित्ते सप्तमी । शब्दार्थयोः सहितयोः काव्यत्वेन हेतुनेत्यर्थः । ऽतथाविधऽ इति । अर्थानपेक्षचतुरमधुरवचनरचन इत्यर्थः । ऽकव्यव्यवस्थेऽति । काव्यव्यपदेश इत्यर्थः । समाधत्ते---ऽपरेऽत्यादि । ऽतत्काव्यत्वेऽति तत्पदेन परः परामृश्यते । ऽकाव्यसन्दर्भाणाम्ऽ इति । तत्काव्यत्वव्यवहार इत्यनुषज्यते । काव्यव्यपदेशः प्रवर्तेत । शब्दार्थयोः साहित्येन काव्यत्वे कथं तथाविधे विषये काव्यव्यवस्थेति चेत्---परोपनिबद्धार्थविरचने यथा तत्काव्यत्वव्यवहारस्तथा तथाविधानां काव्यसन्दर्भाणाम् । न चार्थानन्त्यं व्यङ्ग्यार्थापेक्षयैव यावद्वाच्यार्थापेक्षयापीति प्रतिपादयितुमुच्यते-- अवस्थादेश-कालादि-विशेषैर् अपि जायते । आनन्त्यम् एव वाच्यस्य शुद्धस्यापि स्वभावतः

sarva hi purāṇakavinaiva spṛṣṭamiti kimidānīṃ varṇyaṃ, yatra kavervarṇanāvyāpārassyāt / nanu yadyapi varṇyamapūrvannāsti, tathāpyuktiparipākagumbhaghaṭanādyaparaparyāyabandhacchāyā navanavā bhaviṣyati / yannaveśane kāvyāntarāṇāṃ saṃrambha ityāśaṅkyāha---bandhacchāyāpīti / arthadvayaṃ guṇībhūtavyaṅgyaṃ pradhānabhūtaṃ vyaṅgyaṃ ca / nedīya iti / nikaṭataraṃ hṛdayānupraveśi na bhavatītyarthaḥ / atra hetumāha--evaṃ hi satīti / bālapriyā ityarthaḥ / dhruvamityutprekṣāyām / taditi janaḥ / tadenān tathābhūtān phenān / phenamiti tadenamiti vā pāṭhaḥ / sampaśyati atha ca sukhitamanyahṛdayaḥ śivopāyaṃ necchaṃśca / ataḥ sudhīraḥ khalvityanvayaḥ / batetyadbhute / jareti / taditi tasmādityarthaḥ / mṛtyurnāstīti viścayaḥ hṛdayedṛḍhamasti nūnamityanvayaḥ // 5 // // // upaskāra iti / satsvapītyādeḥ na kāvyārthavirāmo 'stītyanenānvaya iti bhāvaḥ / yadītyāderbhāvaṃ vivṛṇoti--vidyamāna ityādi / vṛttau 'bandhacchāye'tyasya vivaraṇam--'arthadvayānurūpaśabdasanniveśa'iti / tadrūpā bandhacchāyetyarthaḥ / 'anapekṣite'tyādiśaṅkāgranthaḥ / itīdaṃ sahṛdayānāṃ na nedīya iti sambandhaḥ / punaśśaṅkate--'śabdārthayo'rityādi / 'kāvyatva' iti nimitte saptamī / śabdārthayoḥ sahitayoḥ kāvyatvena hetunetyarthaḥ / 'tathāvidha' iti / arthānapekṣacaturamadhuravacanaracana ityarthaḥ / 'kavyavyavasthe'ti / kāvyavyapadeśa ityarthaḥ / samādhatte---'pare'tyādi / 'tatkāvyatve'ti tatpadena paraḥ parāmṛśyate / 'kāvyasandarbhāṇām' iti / tatkāvyatvavyavahāra ityanuṣajyate / kāvyavyapadeśaḥ pravarteta / śabdārthayoḥ sāhityena kāvyatve kathaṃ tathāvidhe viṣaye kāvyavyavastheti cet---paropanibaddhārthaviracane yathā tatkāvyatvavyavahārastathā tathāvidhānāṃ kāvyasandarbhāṇām / na cārthānantyaṃ vyaṅgyārthāpekṣayaiva yāvadvācyārthāpekṣayāpīti pratipādayitumucyate-- avasthādeśa-kālādi-viśeṣair api jāyate / ānantyam eva vācyasya śuddhasyāpi svabhāvataḥ

Sanskrit only: no published translation is held for this verse.

वस्तुविशेषप्रतीतेः प्रत्याख्यातुमशक्यत्वादित्यर्थः । पुनरुक्तिवैचित्र्यादित्यत्रत्यपुनश्शब्दस्य व्याख्यानम्---भूय इति । ऽयश्चायम्ऽ इत्यादिग्रन्थस्य भावार्थविवरणम्--उपमेत्यादि । उपमा हि विचित्रीभवत्येवेति सम्बन्धः । ननु निभप्रतिमादिशब्दानां समानार्थकत्वात् कथं त चित्र्यमित्यत आह---वस्तुत इत्यादि । उपसंहरति---एवमिति । तदिति । रलङ्कारवर्गः प्रसिद्ध स भणितिवैचित्र्यादुपनिबध्यमानः स्वयमेवानवधिर्धत्ते पुनः शतशाखताम् । भणितिश्च स्वभाषाभेदेन व्यवस्थिता सती प्रतिनियतभाषागोचरार्थवैचित्र्यनिबन्धनं पुनरपरं काव्यार्थानामानन्त्यमापादयति । यथा ममैव--- महमह इत्ति भणन्तौ वज्जदि कालो जणस्स । तोइ ण देउ जणद्दण गोअरी भोदि मणसो ॥ ॥ इत्थं यथा यथा निरूप्यते तथा तथा न लभ्यते ऽन्तः काव्यार्थानाम् । इदं तूच्यते--- अवस्थादिविभिन्नानां वाच्यानां विनिबन्धनम् । यत्प्रदर्शितं प्राक् लोचनम् तदनुकारतया तु प्रतिमशब्द इत्येवं सर्वत्र वाच्यं केवलं बालोपयोगि काव्यटीकापरिशीलनदौरात्म्यादेषु पर्यायत्वभ्रम इति भावः । एवमर्थानन्त्यमलङ्कारानन्त्यञ्च भणितिवैचित्र्याद्भवति । अन्यथापि च तत्ततो भवतीति दर्शययि---भणितिश्चेति । प्रतिनियताया भाषाया गोचरो वाच्योयो ऽर्थस्तत्कृतं यद्वैचित्र्यं तन्निबन्धनं निमित्तं यस्य, अलङ्काराणां काव्यार्थानाञ्चानन्त्यस्य । तत्कर्मभूतं भणितिवैचित्र्यं कर्तृभूतमापादयतीति सम्बन्धः । कर्मणो विशेषणच्छलेन हेतुर्दर्शितः । मम मम इति भणतो व्रजति कालो हेतुर्दर्शितः । तथापि न देवो जनार्दनो गोचरो भवति मनसः ॥ ॥ मधुमथन इति यो अनवरतं भणति, तस्य कथन्न देवो मनोगोचरो भवतीति वीरोधालङ्कारच्छाया । सौन्धवभाषया महमह इत्यनया भणित्या समुन्मेषिता ॥ ७ ॥ अवस्थादिविभिन्नानां वाच्यानां विनिबन्धनम् । बालप्रिया अर्थाद्यानन्त्यमित्यर्थः । तत इति । भणितिवैचित्र्यादित्यर्थः । यस्तेत्यन्यपदार्थविवररणम्--अलङ्काराणामित्यादि । विशेषणच्छलेनेति । प्रतिनियतेत्यादिविशेषणव्याजेनेत्यर्थः । ऽमहेऽत्यादेः छायामाह--ममेत्यादि । मम मम इति भणतः ममायं ममेदमित्यादि भणतः । अत्र ममेति प्रकृतार्थः । मधुमथन इति प्रतीयमानो विरुद्धार्थः । तथापीति विरोधद्योतकम् । समुन्मिषितेति । महमह इत्यस्य मम मम इति मधुमथन इति च छाया भवतीति भावः ॥ ७ ॥ ॥ ॥ इत ऊर्ध्वङ्कारिकावृत्योर्भेदस्य दुर्ग्रहतया तदुभयं पृथक्प्रदर्शयन् विवृणोति--अवस्थेत्यादि । भूम्नैव दृश्यते लक्ष्ये न तच् छक्यम् अपोहितुम् । । । । । । । । । । । ।तत् तु भाति रसाश्रयात्

vastuviśeṣapratīteḥ pratyākhyātumaśakyatvādityarthaḥ / punaruktivaicitryādityatratyapunaśśabdasya vyākhyānam---bhūya iti / 'yaścāyam' ityādigranthasya bhāvārthavivaraṇam--upametyādi / upamā hi vicitrībhavatyeveti sambandhaḥ / nanu nibhapratimādiśabdānāṃ samānārthakatvāt kathaṃ ta citryamityata āha---vastuta ityādi / upasaṃharati---evamiti / taditi / ralaṅkāravargaḥ prasiddha sa bhaṇitivaicitryādupanibadhyamānaḥ svayamevānavadhirdhatte punaḥ śataśākhatām / bhaṇitiśca svabhāṣābhedena vyavasthitā satī pratiniyatabhāṣāgocarārthavaicitryanibandhanaṃ punaraparaṃ kāvyārthānāmānantyamāpādayati / yathā mamaiva--- mahamaha itti bhaṇantau vajjadi kālo jaṇassa / toi ṇa deu jaṇaddaṇa goarī bhodi maṇaso // // itthaṃ yathā yathā nirūpyate tathā tathā na labhyate 'ntaḥ kāvyārthānām / idaṃ tūcyate--- avasthādivibhinnānāṃ vācyānāṃ vinibandhanam / yatpradarśitaṃ prāk locanam tadanukāratayā tu pratimaśabda ityevaṃ sarvatra vācyaṃ kevalaṃ bālopayogi kāvyaṭīkāpariśīlanadaurātmyādeṣu paryāyatvabhrama iti bhāvaḥ / evamarthānantyamalaṅkārānantyañca bhaṇitivaicitryādbhavati / anyathāpi ca tattato bhavatīti darśayayi---bhaṇitiśceti / pratiniyatāyā bhāṣāyā gocaro vācyoyo 'rthastatkṛtaṃ yadvaicitryaṃ tannibandhanaṃ nimittaṃ yasya, alaṅkārāṇāṃ kāvyārthānāñcānantyasya / tatkarmabhūtaṃ bhaṇitivaicitryaṃ kartṛbhūtamāpādayatīti sambandhaḥ / karmaṇo viśeṣaṇacchalena heturdarśitaḥ / mama mama iti bhaṇato vrajati kālo heturdarśitaḥ / tathāpi na devo janārdano gocaro bhavati manasaḥ // // madhumathana iti yo anavarataṃ bhaṇati, tasya kathanna devo manogocaro bhavatīti vīrodhālaṅkāracchāyā / saundhavabhāṣayā mahamaha ityanayā bhaṇityā samunmeṣitā // 7 // avasthādivibhinnānāṃ vācyānāṃ vinibandhanam / bālapriyā arthādyānantyamityarthaḥ / tata iti / bhaṇitivaicitryādityarthaḥ / yastetyanyapadārthavivararaṇam--alaṅkārāṇāmityādi / viśeṣaṇacchaleneti / pratiniyatetyādiviśeṣaṇavyājenetyarthaḥ / 'mahe'tyādeḥ chāyāmāha--mametyādi / mama mama iti bhaṇataḥ mamāyaṃ mamedamityādi bhaṇataḥ / atra mameti prakṛtārthaḥ / madhumathana iti pratīyamāno viruddhārthaḥ / tathāpīti virodhadyotakam / samunmiṣiteti / mahamaha ityasya mama mama iti madhumathana iti ca chāyā bhavatīti bhāvaḥ // 7 // // // ita ūrdhvaṅkārikāvṛtyorbhedasya durgrahatayā tadubhayaṃ pṛthakpradarśayan vivṛṇoti--avasthetyādi / bhūmnaiva dṛśyate lakṣye na tac chakyam apohitum / . . . . . . . . . . .tat tu bhāti rasāśrayāt

Sanskrit only: no published translation is held for this verse.

॥। न तच्छक्यमपोहितुम् । तत्तु भाति रसाश्रयात् ॥ ८ ॥ तदिदमत्र सङ्क्षेपेणाभिधीयते सत्कवीनामुपदेशाय--- रस-भावादि-सम्बद्धा यद्य् औचित्यानुसारिणी । अन्वीयते वस्तु-गतिर् देश-कालादि-भेदिनी

... na tacchakyamapohitum / tattu bhāti rasāśrayāt // 8 // tadidamatra saṅkṣepeṇābhidhīyate satkavīnāmupadeśāya--- rasa-bhāvādi-sambaddhā yady aucityānusāriṇī / anvīyate vastu-gatir deśa-kālādi-bhedinī

Sanskrit only: no published translation is held for this verse.

रसभावादिसम्बद्धा यद्यौचित्यानुसारिणी । अन्वीयते वस्तुगतिर्देशकालादिभेदिनी ॥ ९ ॥ तत्का गणना कवीनामन्येषां परिमितशक्तीनाम् । वाचस्पति-सहस्राणां सहस्रैर् अपि यत्नतः । निबद्धा सा क्षयं नैति प्रकृतिर् जगताम् इव

rasabhāvādisambaddhā yadyaucityānusāriṇī / anvīyate vastugatirdeśakālādibhedinī // 9 // tatkā gaṇanā kavīnāmanyeṣāṃ parimitaśaktīnām / vācaspati-sahasrāṇāṃ sahasrair api yatnataḥ / nibaddhā sā kṣayaṃ naiti prakṛtir jagatām iva

Sanskrit only: no published translation is held for this verse.

वाचस्पतिसहस्राणां सहस्रैरपि यत्नतः । निबद्धा सा क्षयं नैति प्रकृतर्जगतामिव ॥ १० ॥ ॥ ॥ यथाहि जगत्प्रकृतिरतीतकल्पपरम्पराविर्भूतविचित्रवस्तुप्रपञ्चा सती लोचनम् भूम्नैव दृश्यते लक्ष्ये तत्तु भाति रसाश्रयात् ॥ ॥ इति कारिका । अन्यस्तु ग्रन्थो मध्योपस्कारः ॥ ८ ॥ ॥ ॥ अत्र तु पादत्रयस्यार्थमनूद्य चतुर्थपादार्थो ऽपूर्वतयाभिधीयते । तदित्यादि । शक्तीनामित्यन्तं कारिकयोर्मध्योपस्कारः । द्वितीयकारिकायास्तुर्यं पादं व्याचष्टे--यथाहीति ॥ १॥ , १० ॥ बालप्रिय अन्यस्तु ग्रन्थ इति । ऽयत्प्रदर्शितं प्रागिऽति ऽन तच्छक्यमपोहितुम्ऽ इति च ग्रन्थ इत्यर्थः ॥ ८ ॥ ॥ ॥ चतुर्थेत्यादि । ऽतत्तु भात रसाश्रयाऽदित्यस्यार्थो ऽत्र विधीयमान इत्यर्थः । करिकयोरिति । ऽरसभावेऽत्यादेः ऽवाचस्पतीऽत्यादेश्च कारकयोरित्यर्थ- । उपस्कार इति । यद्यन्वीयते अन्यैः कविभिः तत्तर्हि इत्यर्थः । अन्येषां वाल्मीकिव्यतिरिक्तानाम् । कवीनां गणना का । ते अगण्या भवेयुरिति तदर्थः । तुर्यं पादमिति । प्रकृतिर्जगतामिवेति पादमित्यर्थः । व्याचष्ट इति । क्षयं नैतीत्यनेन सह विवृणोतीत्यर्थः । यथाहीतीति । ऽयथाहीऽत्यादिना ऽअभिधातुम्ऽ इत्यन्तग्रन्थेनेत्यर्थः। ऽतद्वदिऽत्यादिकं तु वाचस्पतीत्यादिपादत्रयार्थविवरणम् । वृत्तौ ऽजगत्प्रकृतिरिऽति । जगत्कारणभूता प्रकृतिरित्यर्थः । ऽअतीतेऽति । अतीतानां कल्पनां परम्परायामाविर्भून्तः आविर्भावितः विचित्राणां वस्तूनां प्रपञ्चो यया सा ऽपरीऽति । परिक्षीणा नष्टा अपरपदार्थानां निर्माणशक्तिर्यस्यास्सेत्यर्थः ॥ १॥ , १० ॥ पुनरिदानीं परिक्षीणा परपदार्थानिर्माणशक्तिरिति न शक्यते ऽभिधातुम् । तद्वदेवेयं काव्यस्थितिरनन्ताभिः कविमतिभिरुपभुक्तापि नेदानीं परिहीयते, प्रत्युत नवनवाभिर्व्युत्पत्तिभिः परिवर्धते । इत्थं स्थिते ऽपि-- संवादास् तु भवन्त्य् एव बाहुल्येन सुमेधसाम् । स्थितं ह्य् एतत् संवादिन्य एव मेधाविनां बुद्धयः । किन्तु- नैक-रूपतया सर्वे ते मन्तव्या विपश्चिता

vācaspatisahasrāṇāṃ sahasrairapi yatnataḥ / nibaddhā sā kṣayaṃ naiti prakṛtarjagatāmiva // 10 // // // yathāhi jagatprakṛtiratītakalpaparamparāvirbhūtavicitravastuprapañcā satī locanam bhūmnaiva dṛśyate lakṣye tattu bhāti rasāśrayāt // // iti kārikā / anyastu grantho madhyopaskāraḥ // 8 // // // atra tu pādatrayasyārthamanūdya caturthapādārtho 'pūrvatayābhidhīyate / tadityādi / śaktīnāmityantaṃ kārikayormadhyopaskāraḥ / dvitīyakārikāyāsturyaṃ pādaṃ vyācaṣṭe--yathāhīti // 1// , 10 // bālapriya anyastu grantha iti / 'yatpradarśitaṃ prāgi'ti 'na tacchakyamapohitum' iti ca grantha ityarthaḥ // 8 // // // caturthetyādi / 'tattu bhāta rasāśrayā'dityasyārtho 'tra vidhīyamāna ityarthaḥ / karikayoriti / 'rasabhāve'tyādeḥ 'vācaspatī'tyādeśca kārakayorityartha- / upaskāra iti / yadyanvīyate anyaiḥ kavibhiḥ tattarhi ityarthaḥ / anyeṣāṃ vālmīkivyatiriktānām / kavīnāṃ gaṇanā kā / te agaṇyā bhaveyuriti tadarthaḥ / turyaṃ pādamiti / prakṛtirjagatāmiveti pādamityarthaḥ / vyācaṣṭa iti / kṣayaṃ naitītyanena saha vivṛṇotītyarthaḥ / yathāhītīti / 'yathāhī'tyādinā 'abhidhātum' ityantagranthenetyarthaḥ. 'tadvadi'tyādikaṃ tu vācaspatītyādipādatrayārthavivaraṇam / vṛttau 'jagatprakṛtiri'ti / jagatkāraṇabhūtā prakṛtirityarthaḥ / 'atīte'ti / atītānāṃ kalpanāṃ paramparāyāmāvirbhūntaḥ āvirbhāvitaḥ vicitrāṇāṃ vastūnāṃ prapañco yayā sā 'parī'ti / parikṣīṇā naṣṭā aparapadārthānāṃ nirmāṇaśaktiryasyāssetyarthaḥ // 1// , 10 // punaridānīṃ parikṣīṇā parapadārthānirmāṇaśaktiriti na śakyate 'bhidhātum / tadvadeveyaṃ kāvyasthitiranantābhiḥ kavimatibhirupabhuktāpi nedānīṃ parihīyate, pratyuta navanavābhirvyutpattibhiḥ parivardhate / itthaṃ sthite 'pi-- saṃvādās tu bhavanty eva bāhulyena sumedhasām / sthitaṃ hy etat saṃvādinya eva medhāvināṃ buddhayaḥ / kintu- naika-rūpatayā sarve te mantavyā vipaścitā

Sanskrit only: no published translation is held for this verse.

संवादास्तु भवन्त्येव बाहुल्येन सुमेधसाम् । स्थितं ह्येतत् संवादिन्य एव मेधाविनां बुद्धयः । किन्तु-- नैकरूपतया सर्वे ते मन्तव्या विपश्चिता ॥ ११ ॥ कथमिति चेत्--- संवादो ह्यन्यसादृश्यं तत्पुनः प्रतिबिम्बवत् । आलेख्याकारवत्तुल्यदेहिवच्च शरीरिणाम् ॥ १२ ॥ संवादो हि काव्यार्थस्योच्यते यदन्येन काव्यवस्तुना सादृश्यम् । तत्पुनः शरीरिणां प्रतिबिम्बवदालेख्याकारवत्तुल्यदेहिवच्च त्रिधा व्यवस्थितम् । किञ्चिद्धि काव्यवस्तु वस्त्वन्तरस्य शरीरिणः प्रतिबिम्बकल्पम्, लोचनम् संवादा इति कारि काया अर्धं, नैकरूपतयेति द्वितीयम् ॥ ११ ॥ किमियं राजाज्ञेत्यभिप्रायेणाशङ्कते---कथमिति चेदिति । अत्रोत्तरम्-- संवादो ह्य् अन्य-सादृश्यं तत् पुनः प्रतिबिम्बवत् । आलेख्याकारवत् तुल्य-देहिवच् च शरीरिणाम्

saṃvādāstu bhavantyeva bāhulyena sumedhasām / sthitaṃ hyetat saṃvādinya eva medhāvināṃ buddhayaḥ / kintu-- naikarūpatayā sarve te mantavyā vipaścitā // 11 // kathamiti cet--- saṃvādo hyanyasādṛśyaṃ tatpunaḥ pratibimbavat / ālekhyākāravattulyadehivacca śarīriṇām // 12 // saṃvādo hi kāvyārthasyocyate yadanyena kāvyavastunā sādṛśyam / tatpunaḥ śarīriṇāṃ pratibimbavadālekhyākāravattulyadehivacca tridhā vyavasthitam / kiñciddhi kāvyavastu vastvantarasya śarīriṇaḥ pratibimbakalpam, locanam saṃvādā iti kāri kāyā ardhaṃ, naikarūpatayeti dvitīyam // 11 // kimiyaṃ rājājñetyabhiprāyeṇāśaṅkate---kathamiti cediti / atrottaram-- saṃvādo hy anya-sādṛśyaṃ tat punaḥ pratibimbavat / ālekhyākāravat tulya-dehivac ca śarīriṇām

Sanskrit only: no published translation is held for this verse.

संवादो ह्यन्यसादृश्यन्तत्पुनः प्रतिबम्बवत् । आलेख्या कारवत्तुल्यदेहिवच्च शरीरिणाम् ॥ १२ ॥ इत्यनेया कारिकया । एषा खण्डीकृत्य वृत्तौ व्याख्याता । शरीरिणामित्ययञ्चशब्दः प्रतिवाक्यं द्रष्टव्य इति दर्शितम् । शरीरिण इति । पूर्वमेव प्रतिलब्धस्वरूपतया बालप्रिया लोचने--संवादा इत्यादि । ऽसंवादाऽ इत्यादिऽसुमेधसाम्ऽ इत्यन्तं कारिकायाः प्रथमार्धं, ऽनैकेऽत्यादि ऽविपश्चितेऽ त्यन्तं द्वितीयार्धं चेत्यर्थः । अत्र सुमेधसां संवादा इत्यस्य सुमेधसां बुद्धीनां काव्यानां च संवादा इत्यर्थ इत्यभिप्रेत्य ऽस्थितं ह्येतदिऽत्यादिकं ऽसंवादो हि काव्यार्थस्योच्यतऽ इति च वृत्तावुक्तमिति बोध्यम् ॥११ ॥ ख एडीकृत्य(?) वृत्तौ व्याख्यातेति । केषुचित्पुस्तकेष्विति शेषः । अत एव वक्ष्यते--केषुचित् पुस्तकेषु कारिका अखण्डीकृता एव दृश्यन्त इति । खण्डीकृत्य व्याख्यानं तु ऽसंवादो ह्यन्यसादृश्यम्ऽ ऽसंवादो हि काव्यार्थस्योच्यते, यदन्येन काव्यवस्तुना सादृश्यम्, तत् पुनः प्रतिबिम्बवत्, तत्पुनश्शरीरिणां प्रतिबिम्बवत्ऽ इत्यादिकं बोध्यम् । प्रतिवाक्यमित्यादि । शरीरिणामित्यस्य प्रतिबिम्बादिभिस्त्रिभिस्सम्बन्ध इति भावः । अन्यदालेख्यप्रख्यम् अन्यत्तुल्येन शरीरणा सदृशम् । तत्र पूर्वम् अनन्यात्म तुच्छात्म तद्-अनन्तरम् । तृतीयं तु प्रसिद्धात्म नान्य-साम्यं त्यजेत् कविः

saṃvādo hyanyasādṛśyantatpunaḥ pratibambavat / ālekhyā kāravattulyadehivacca śarīriṇām // 12 // ityaneyā kārikayā / eṣā khaṇḍīkṛtya vṛttau vyākhyātā / śarīriṇāmityayañcaśabdaḥ prativākyaṃ draṣṭavya iti darśitam / śarīriṇa iti / pūrvameva pratilabdhasvarūpatayā bālapriyā locane--saṃvādā ityādi / 'saṃvādā' ityādi'sumedhasām' ityantaṃ kārikāyāḥ prathamārdhaṃ, 'naike'tyādi 'vipaścite' tyantaṃ dvitīyārdhaṃ cetyarthaḥ / atra sumedhasāṃ saṃvādā ityasya sumedhasāṃ buddhīnāṃ kāvyānāṃ ca saṃvādā ityartha ityabhipretya 'sthitaṃ hyetadi'tyādikaṃ 'saṃvādo hi kāvyārthasyocyata' iti ca vṛttāvuktamiti bodhyam //11 // kha eḍīkṛtya(?) vṛttau vyākhyāteti / keṣucitpustakeṣviti śeṣaḥ / ata eva vakṣyate--keṣucit pustakeṣu kārikā akhaṇḍīkṛtā eva dṛśyanta iti / khaṇḍīkṛtya vyākhyānaṃ tu 'saṃvādo hyanyasādṛśyam' 'saṃvādo hi kāvyārthasyocyate, yadanyena kāvyavastunā sādṛśyam, tat punaḥ pratibimbavat, tatpunaśśarīriṇāṃ pratibimbavat' ityādikaṃ bodhyam / prativākyamityādi / śarīriṇāmityasya pratibimbādibhistribhissambandha iti bhāvaḥ / anyadālekhyaprakhyam anyattulyena śarīraṇā sadṛśam / tatra pūrvam ananyātma tucchātma tad-anantaram / tṛtīyaṃ tu prasiddhātma nānya-sāmyaṃ tyajet kaviḥ

Sanskrit only: no published translation is held for this verse.

यतस्तदनन्यात्म तात्त्विकशरीरशून्यम् । तदनन्तरमालेख्यप्रख्यमन्यसाम्यं शरीरान्तरयुक्तमपि तुच्छात्मत्वेन त्यक्तव्यम् । तृतीयं तु विभिन्नकमनीयशरीरसद्भावे सति ससंवादमपि काव्यवस्तु न त्यक्तव्यं कविना । न हि शरीरी शरीरिणान्येन सदृशो ऽप्येक एवेति शक्यते वक्तुम् । लोचनम् प्रधानभूतस्येत्यर्थः ॥ १२ ॥ तत्र पूर्वमनन्यात्म तुच्छात्म तदनन्तरम् । तृतीयन्तु प्रसिद्धत्म नान्यसाम्यन्त्यजेत्कविः ॥ ॥ इति कारिका । अनन्यः पूर्वोपनिबन्धकाव्यादात्मा स्वभावो यस्य तदनन्यात्म येन रूपेण भाति तत्प्राक्कविस्पृष्टमेव, यथा येन रूपेण प्रतिबिम्बं भाति, तेन रूपेण बिम्बमेवैतत् । स्वयन्तु तत्कीदृशमित्यत्राह--तात्विकशरीरशून्यमिति । न हि तेन किञ्चिदपूर्वमुत्प्रेक्षितं प्रतिबिम्बमप्येवमेव । एवं प्रथमं प्रकारं व्याख्याय द्वितीयं व्याचष्टे--तदनन्तरन्त्विति । द्वितीयमित्यर्थः । अन्येन साम्यं यस्य तत्तथा । तुच्छात्मेति । अनुकारे ह्यनुकार्यबुद्धिरेव चित्रपुस्तादाविव न तु सिन्दूरादिबुद्धिः स्फुरति, सापि च न चारुगत्वायेति भावः ॥१३॥ बालप्रिया वृत्तौ ऽकाव्यार्थस्येऽति पूरतम् । काव्यार्थगतमन्यसादृश्यं विवृणोति--ऽयदन्येनेऽत्यादि । प्रतिबिम्बवदित्यादित्रये षष्ट्यन्ताद्वतिः । प्रतिबिम्बे अन्यसादृश्यं शरीरिणा बिम्बेन सादृश्यमेवमालेख्याकारतुल्यदेहनोश्च शरीरिणा सादृश्यं बोध्यम् । ऽकिञ्चिद्धीऽत्यादिफलितरथकथनम् । तत्र शरीरिण इत्येतत्पदस्य विवरणं लोचने--पूर्वमेवेत्यादि । नान्यसाम्यं त्यजेत्कविरित्युक्त्या गम्यस्यार्थस्य विवरणं वृत्तौ ऽपरिहर्तव्यं सुमतिनेऽति । ऽत्यक्तव्यम्ऽ इति च ॥ १२ ॥ ॥ ॥ तात्विकशरीरशून्यमित्यनन्यात्मेत्यस्य विवरणमित्यन्यथा प्रतिपत्तिः स्यादित्यतो लोचने विवृणोत--अनन्य इत्यादि । भातीति । काव्यवस्त्विति शेषः । तस्य प्रतिबिम्बकल्पत्वं दर्शयति--यथेत्यादि । इत्यत्राहेति । तथाच तात्विकेत्यादिकमनन्यात्मेत्यस्य विवरणं नेति भावः । तात्विकशरीरशून्यत्वे हेतुमाह--न हीत्यादि । तेनेति । नवीनकविनेत्यर्थः । अपूर्वमिति । काव्यवस्त्विति शेषः । तुच्छात्मत्वमुपपादयति--अनुकारे हीत्यादि । सापीति । सा अनुकार्यबुद्धिः ॥ १३॥ एतदेवोपपादयितुमुच्यते-- आत्मनो ऽन्यस्य सद्-भावे पूर्व-स्थित्य्-अनुयाय्य् अपि । वस्तु भातितरां तन्व्याः शशि-च्छायम् इवाननम्

yatastadananyātma tāttvikaśarīraśūnyam / tadanantaramālekhyaprakhyamanyasāmyaṃ śarīrāntarayuktamapi tucchātmatvena tyaktavyam / tṛtīyaṃ tu vibhinnakamanīyaśarīrasadbhāve sati sasaṃvādamapi kāvyavastu na tyaktavyaṃ kavinā / na hi śarīrī śarīriṇānyena sadṛśo 'pyeka eveti śakyate vaktum / locanam pradhānabhūtasyetyarthaḥ // 12 // tatra pūrvamananyātma tucchātma tadanantaram / tṛtīyantu prasiddhatma nānyasāmyantyajetkaviḥ // // iti kārikā / ananyaḥ pūrvopanibandhakāvyādātmā svabhāvo yasya tadananyātma yena rūpeṇa bhāti tatprākkavispṛṣṭameva, yathā yena rūpeṇa pratibimbaṃ bhāti, tena rūpeṇa bimbamevaitat / svayantu tatkīdṛśamityatrāha--tātvikaśarīraśūnyamiti / na hi tena kiñcidapūrvamutprekṣitaṃ pratibimbamapyevameva / evaṃ prathamaṃ prakāraṃ vyākhyāya dvitīyaṃ vyācaṣṭe--tadanantarantviti / dvitīyamityarthaḥ / anyena sāmyaṃ yasya tattathā / tucchātmeti / anukāre hyanukāryabuddhireva citrapustādāviva na tu sindūrādibuddhiḥ sphurati, sāpi ca na cārugatvāyeti bhāvaḥ //13// bālapriyā vṛttau 'kāvyārthasye'ti pūratam / kāvyārthagatamanyasādṛśyaṃ vivṛṇoti--'yadanyene'tyādi / pratibimbavadityāditraye ṣaṣṭyantādvatiḥ / pratibimbe anyasādṛśyaṃ śarīriṇā bimbena sādṛśyamevamālekhyākāratulyadehanośca śarīriṇā sādṛśyaṃ bodhyam / 'kiñciddhī'tyādiphalitarathakathanam / tatra śarīriṇa ityetatpadasya vivaraṇaṃ locane--pūrvamevetyādi / nānyasāmyaṃ tyajetkavirityuktyā gamyasyārthasya vivaraṇaṃ vṛttau 'parihartavyaṃ sumatine'ti / 'tyaktavyam' iti ca // 12 // // // tātvikaśarīraśūnyamityananyātmetyasya vivaraṇamityanyathā pratipattiḥ syādityato locane vivṛṇota--ananya ityādi / bhātīti / kāvyavastviti śeṣaḥ / tasya pratibimbakalpatvaṃ darśayati--yathetyādi / ityatrāheti / tathāca tātviketyādikamananyātmetyasya vivaraṇaṃ neti bhāvaḥ / tātvikaśarīraśūnyatve hetumāha--na hītyādi / teneti / navīnakavinetyarthaḥ / apūrvamiti / kāvyavastviti śeṣaḥ / tucchātmatvamupapādayati--anukāre hītyādi / sāpīti / sā anukāryabuddhiḥ // 13// etadevopapādayitumucyate-- ātmano 'nyasya sad-bhāve pūrva-sthity-anuyāyy api / vastu bhātitarāṃ tanvyāḥ śaśi-cchāyam ivānanam

Sanskrit only: no published translation is held for this verse.

आत्मनो ऽन्यस्य सद्भावे पूर्वस्थित्यनुयाय्यपि । वस्तु भातितरां तन्व्याः शशिच्छायमिवाननम् ॥ १४ ॥ ॥ ॥ तत्त्वस्य सारभूतस्यात्मनः सद्धावे ऽन्यस्य पूर्वस्थित्यनुयाय्यपि वस्तु भातितराम् । पुराणरमणीयच्छायानुगृहीतं हि वस्तु शरीरवत्परां शोभां पुष्यति । न तु पुनरुक्तत्वेनावभासते । तन्व्याः शशिच्छायमिवाननम् । एवं तावत्ससंवादानां समुदायरूपाणां वाक्यार्थानां विभक्ताः सीमानः । पदार्थरूपाणां च वस्त्वन्तरसदृशानां काव्यवस्तूनां नास्त्येव दोष इति प्रतिपादयितुमुच्यते-- अक्षरादि-रचनेव योज्यते यत्र वस्तु-रचना पुरातनी । नूतने स्फुरति काव्य-वस्तुनि व्यक्तम् एव खलु सा न दुष्यति

ātmano 'nyasya sadbhāve pūrvasthityanuyāyyapi / vastu bhātitarāṃ tanvyāḥ śaśicchāyamivānanam // 14 // // // tattvasya sārabhūtasyātmanaḥ saddhāve 'nyasya pūrvasthityanuyāyyapi vastu bhātitarām / purāṇaramaṇīyacchāyānugṛhītaṃ hi vastu śarīravatparāṃ śobhāṃ puṣyati / na tu punaruktatvenāvabhāsate / tanvyāḥ śaśicchāyamivānanam / evaṃ tāvatsasaṃvādānāṃ samudāyarūpāṇāṃ vākyārthānāṃ vibhaktāḥ sīmānaḥ / padārtharūpāṇāṃ ca vastvantarasadṛśānāṃ kāvyavastūnāṃ nāstyeva doṣa iti pratipādayitumucyate-- akṣarādi-racaneva yojyate yatra vastu-racanā purātanī / nūtane sphurati kāvya-vastuni vyaktam eva khalu sā na duṣyati

Sanskrit only: no published translation is held for this verse.

अक्षरादिरचनेव योज्यते यत्र वस्तुरचना पुरातनी । नूतने स्फुरति काव्यवस्तुनि व्यक्तमेव खलु सान दुष्यति ॥ १५ ॥ ॥ ॥ न हि वाच्यस्पतिनाप्यक्षराणि पदानि वा कानिचिदपूर्वाणि घटयितुं लोचनम् एतदेवेति तृतीयस्य रूपस्यात्याज्यत्वम् । आत्मनो ऽन्यस्य सद्भावे पूर्वस्थित्यनुयाय्यपि । वस्तु भातितरान्तन्व्याश्शशिच्छायमिवाननम् ॥ ॥ इति कारिका खण्डीकृत्य वृत्तौ पठिता । केषुचित्पुस्तकेषु कारिका अखण्डीकृता एव दृश्यन्ते । आत्मन इत्यस्य शब्दस्य पूर्वपठिताभ्यामेव तत्वस्य सारभूतस्येति च पदाभ्यामर्थो निरूपितः ॥ १४ ॥ ससंवादानामिति पाठः । संवादानामिति तु पाठे वाक्यार्थरूपाणां समुदायानां ये संवादाः तेषामिति वैयधिकरण्येन संगतिः । वस्तुशब्तदेन एको वा द्वौ वा त्रयो बालप्रिया एतदेवेत्यत्रत्यैतत्पदार्थविवरणम्--तृतीयस्येत्यादि । आत्मन इत्यस्यार्थो निरूपित इति सम्बन्धः तत्त्वस्य सारभूतस्येति चात्मपदार्थविवरणमिति भावः । वृत्तौ । ऽपूर्वस्थितीऽ त्याद्युक्तस्यैव विवरणं ऽपुराणेऽत्यादि । ऽपुष्यतीऽ त्यन्तम् । ऽपुराणेऽति । पुराणी रमणीया च या छाया तयानुगृहीतमित्यर्थः । ऽशरीरवत्ऽ शरीरेण तुल्यम् ॥१४ ॥ ॥ ॥ कारिकायां वस्तुरचनेत्यत्र वस्तुपदं विवृणोति लोचने--वस्तुशब्देनेत्यादि । शक्यन्ते । तानि तु तान्येवोपनिबद्धानि न काव्यादिषु नवतां विरुध्यन्ति । तथैव पदार्थरूपाणि श्लेषादिमयान्यर्थतत्त्वानि । तस्मात्-- यदपि तदपि रम्यं यत्र लोकस्य किञ्चित्-स्फुरितमिदमितीयं बुद्धिरभ्युज्जिहीते । स्फुरणेयं काचिदिति सहृदयानां चमत्कृतिरुत्पद्यते । अनुगतम् अपि पूर्व-च्छायया वस्तु तादृक् सुकविर् उपनिबध्नन् निन्द्यतां नोपयाति

akṣarādiracaneva yojyate yatra vasturacanā purātanī / nūtane sphurati kāvyavastuni vyaktameva khalu sāna duṣyati // 15 // // // na hi vācyaspatināpyakṣarāṇi padāni vā kānicidapūrvāṇi ghaṭayituṃ locanam etadeveti tṛtīyasya rūpasyātyājyatvam / ātmano 'nyasya sadbhāve pūrvasthityanuyāyyapi / vastu bhātitarāntanvyāśśaśicchāyamivānanam // // iti kārikā khaṇḍīkṛtya vṛttau paṭhitā / keṣucitpustakeṣu kārikā akhaṇḍīkṛtā eva dṛśyante / ātmana ityasya śabdasya pūrvapaṭhitābhyāmeva tatvasya sārabhūtasyeti ca padābhyāmartho nirūpitaḥ // 14 // sasaṃvādānāmiti pāṭhaḥ / saṃvādānāmiti tu pāṭhe vākyārtharūpāṇāṃ samudāyānāṃ ye saṃvādāḥ teṣāmiti vaiyadhikaraṇyena saṃgatiḥ / vastuśabtadena eko vā dvau vā trayo bālapriyā etadevetyatratyaitatpadārthavivaraṇam--tṛtīyasyetyādi / ātmana ityasyārtho nirūpita iti sambandhaḥ tattvasya sārabhūtasyeti cātmapadārthavivaraṇamiti bhāvaḥ / vṛttau / 'pūrvasthitī' tyādyuktasyaiva vivaraṇaṃ 'purāṇe'tyādi / 'puṣyatī' tyantam / 'purāṇe'ti / purāṇī ramaṇīyā ca yā chāyā tayānugṛhītamityarthaḥ / 'śarīravat' śarīreṇa tulyam //14 // // // kārikāyāṃ vasturacanetyatra vastupadaṃ vivṛṇoti locane--vastuśabdenetyādi / śakyante / tāni tu tānyevopanibaddhāni na kāvyādiṣu navatāṃ virudhyanti / tathaiva padārtharūpāṇi śleṣādimayānyarthatattvāni / tasmāt-- yadapi tadapi ramyaṃ yatra lokasya kiñcit-sphuritamidamitīyaṃ buddhirabhyujjihīte / sphuraṇeyaṃ kāciditi sahṛdayānāṃ camatkṛtirutpadyate / anugatam api pūrva-cchāyayā vastu tādṛk sukavir upanibadhnan nindyatāṃ nopayāti

Sanskrit only: no published translation is held for this verse.

तानि त्विति । अक्षराणि च पदानि च । तान्येवेति । तेनैव रूपेण युक्तानि मनागप्यन्यरूपतामनागतानीत्यर्थः । एवमक्षरादिरचनैवेति दृष्टान्तभागं व्याख्याय दार्ष्टान्तिके योजयति--तथवेति । श्लेषादिमयानीति । श्लेषादिस्वभावानीत्यर्थः । सद्वृत्ततेजस्विगुणद्विजादयो हि शब्दाः पूर्वपूर्वैरपि कविसहस्रैः श्लेषच्छायया निबध्यन्ते, निबद्धाश्चन्द्रादयश्चोपमानत्वेन । तथैव पदार्थरूपाणीत्यत्र नापूर्वाणि घटयितुं शक्यन्ते इत्यादि विरुध्यन्तीत्येवमन्तं प्राक्तनं वाक्यमभिसन्धानीयम् ॥ १५ ॥ ॥ ॥ ऽलोक्येऽति व्याचष्टे--सहृदयानामिति । चमत्कृतिरिति । आस्वादप्रधाना बुद्धिरित्यर्थः । ऽअभ्युज्जीहीतऽ इति व्याचष्टे--उत्पद्यत इति । उदेतीत्यर्थः । बुद्धेरेवाकारं दर्शयति--स्फुरणेयं काचिदिति । यदपि तदपि रम्यं यत्र लोकस्य किञ्चि- त्स्फुरितमिदमितीयं बुद्धिरभ्युज्जिहीते । बालप्रिया अर्था इति । विवक्षिता इति शेषः । तानि त्वित्यादिकं विवृणोति--अक्षराणीत्यादि । तान्येवोपनिबद्धानीत्यस्य विवरणम्--तेनैवेत्यादि । व्याख्यायेति । न हीत्यादिना विरुध्यन्तीत्यन्तेनेति शेषः । सद्वृत्तेत्यादि । सद्वृत्तादयो हि शब्दा नानार्थकाः । निबद्धा इत्यादि । पूर्वैरुपमानत्वेन निबद्धाश्चन्द्रादयश्चाद्यतनैरुपमानत्वेन निबध्यन्त इत्यर्थः । अभिसन्धानीयमिति । अनुषञ्जनीयमित्यर्थः । कारिकायां यत्रेत्युक्त्या तत्रेत्यध्याहृत्य काव्यवस्तुनीत्यनेन योज्यम् । यत्रेत्यस्य स्थाने या त्विति वा पाठः । कारिकायां ऽयदपीऽत्यादि । ऽयदपि तदपिऽ यत्किञ्चित्तद्वस्त्वपि । ऽरम्यंऽ काव्ये चारु भवति । तत्पदार्थं विवृणोति--ऽयत्रेऽत्यादि । ऽयत्रऽ निबद्धे यस्मिन् वस्तुनि । इदं किञ्चित् स्फुरितमितीयं बुद्धिः लोकस्य उज्जिहीते इत्यन्वयः । तदनुगतमपि पूर्वच्छायया वस्तु तादृक् तादृक्षं सुकविर्विवक्षितव्यङ्ग्यवाच्यार्थसमर्पणसमर्थशब्दरचनारूपया बन्धच्छाययोपनिबध्नन्निन्धतां नैव याति । तदित्थं स्थितम्--- प्रतायन्तां वाचो निमितविविधार्थामृतरसा न सादः कर्तव्यः कविभिरनवद्ये स्वविषये । सन्ति नवाः काव्यार्थाः परोपनिबद्धार्थविरचने न कश्चित्कवेर्गुण इति भावयित्वा । परस्वादानेच्छा-विरत-मनसो वस्तु सुकवेः सरस्वत्य् एवैषा घटयति यथेष्टं भगवती

tāni tviti / akṣarāṇi ca padāni ca / tānyeveti / tenaiva rūpeṇa yuktāni manāgapyanyarūpatāmanāgatānītyarthaḥ / evamakṣarādiracanaiveti dṛṣṭāntabhāgaṃ vyākhyāya dārṣṭāntike yojayati--tathaveti / śleṣādimayānīti / śleṣādisvabhāvānītyarthaḥ / sadvṛttatejasviguṇadvijādayo hi śabdāḥ pūrvapūrvairapi kavisahasraiḥ śleṣacchāyayā nibadhyante, nibaddhāścandrādayaścopamānatvena / tathaiva padārtharūpāṇītyatra nāpūrvāṇi ghaṭayituṃ śakyante ityādi virudhyantītyevamantaṃ prāktanaṃ vākyamabhisandhānīyam // 15 // // // 'lokye'ti vyācaṣṭe--sahṛdayānāmiti / camatkṛtiriti / āsvādapradhānā buddhirityarthaḥ / 'abhyujjīhīta' iti vyācaṣṭe--utpadyata iti / udetītyarthaḥ / buddherevākāraṃ darśayati--sphuraṇeyaṃ kāciditi / yadapi tadapi ramyaṃ yatra lokasya kiñci- tsphuritamidamitīyaṃ buddhirabhyujjihīte / bālapriyā arthā iti / vivakṣitā iti śeṣaḥ / tāni tvityādikaṃ vivṛṇoti--akṣarāṇītyādi / tānyevopanibaddhānītyasya vivaraṇam--tenaivetyādi / vyākhyāyeti / na hītyādinā virudhyantītyanteneti śeṣaḥ / sadvṛttetyādi / sadvṛttādayo hi śabdā nānārthakāḥ / nibaddhā ityādi / pūrvairupamānatvena nibaddhāścandrādayaścādyatanairupamānatvena nibadhyanta ityarthaḥ / abhisandhānīyamiti / anuṣañjanīyamityarthaḥ / kārikāyāṃ yatretyuktyā tatretyadhyāhṛtya kāvyavastunītyanena yojyam / yatretyasya sthāne yā tviti vā pāṭhaḥ / kārikāyāṃ 'yadapī'tyādi / 'yadapi tadapi' yatkiñcittadvastvapi / 'ramyaṃ' kāvye cāru bhavati / tatpadārthaṃ vivṛṇoti--'yatre'tyādi / 'yatra' nibaddhe yasmin vastuni / idaṃ kiñcit sphuritamitīyaṃ buddhiḥ lokasya ujjihīte ityanvayaḥ / tadanugatamapi pūrvacchāyayā vastu tādṛk tādṛkṣaṃ sukavirvivakṣitavyaṅgyavācyārthasamarpaṇasamarthaśabdaracanārūpayā bandhacchāyayopanibadhnannindhatāṃ naiva yāti / taditthaṃ sthitam--- pratāyantāṃ vāco nimitavividhārthāmṛtarasā na sādaḥ kartavyaḥ kavibhiranavadye svaviṣaye / santi navāḥ kāvyārthāḥ paropanibaddhārthaviracane na kaścitkaverguṇa iti bhāvayitvā / parasvādānecchā-virata-manaso vastu sukaveḥ sarasvaty evaiṣā ghaṭayati yatheṣṭaṃ bhagavatī

Sanskrit only: no published translation is held for this verse.