Library·Gandavyuhasutra·4·4.6

Gandavyuhasutra 4.6

Gand 4.6

अथ खलु सुधनः श्रेष्ठिदारकस्तमेव बोधिसत्त्वसरस्वतीधारण्यालोकव्यूहमनुविचिन्तयन्, तमेव बोधिसत्त्वमन्त्रनयसागरमवतरन्, तमेव बोधिसत्त्वचित्तव्यवदानविशुद्धिमनुस्मरन्, तमेव बोधिसत्त्वकुशलवासनोपसंहाराभिनिर्हारमभिनिर्हरन्, तदेव बोधिसत्त्वपरिपाकमुखं विशोधनयन्, तदेव बोधिसत्त्वानां सत्त्वसंग्रहज्ञानमुत्तापयन्, तामेव बोधिसत्त्वाशयबलविशुद्धिं दृढीकुर्वाणः तदेव बोधिसत्त्वाध्याशयबलमुपस्तम्भयन्, तमेव बोधिसत्त्वाधिमुक्तिवंशं परिशोधयन्, तामेव बोधिसत्त्वाशयचित्तकल्याणतां संभावयन्, तमेव बोधिसत्त्वव्यवसायमुत्तारयन्, सुधनः श्रेइष्ठिदारको दृढप्रतिज्ञाप्रणिधिचित्तापरिखिन्नसंतानव्यूहो ऽनिवर्त्यविक्रान्तवीर्यः प्रत्युदावर्त्यमनोव्यवसायः असंहार्यश्रद्धाबलोपेतः वज्रनारायणाभेद्यचित्तः सर्वकल्याणमित्रानुशासनीप्रदक्षिणग्राही अनुपहतप्रज्ञाविषयः समन्तमुखविशुद्धयभिमुखः अप्रतिहतज्ञानविशुद्धिगोचरः समन्तनेत्रज्ञाननयालोकः समन्तभूमिधारण्यवभासप्रतिलब्धः धर्मधातुतलभेदाभिमुखचित्तः समन्ततलाप्रतिष्ठानव्यूहविशुद्धिस्वभावविज्ञप्तः अनिकेतासमाद्वयगोचरपरमः सर्वसंज्ञाविक्रमणज्ञानमुखविशुद्धः सर्वदिक्कुलभेददिक्प्रत्यूहव्यूहः लोकतलदिग्भेदानिवर्त्यः धर्मतलदिग्भेदाप्रत्युदावर्त्यः बुद्धदिक्कुलभेददर्शनविज्ञप्तिपरमः अधदिक्कुलभेदानुगतज्ञानी रुचिरधर्मचक्रसंभृतबुद्धिः समन्तरुचिरज्ञानसमाध्याकारलोकावभासितचित्तः समन्तविषयभूम्यनुगतमनःशरीरः तथागतज्ञानविद्युदवभासितसंतानः सर्वज्ञतोर्मिप्रसादावेगसंजातः बुद्धधर्मप्रसादवेगाविरहितः तथागताधिष्ठानावेगाविष्टः सर्वबुद्धस्वचित्तानुगमालोकावभासितः सर्वलोकधातुजालस्वशरीरस्फरणप्रणिधिसमन्वागतः सर्वधर्मधातुस्वकायसमवसरणाभिनिर्हारपरमो ऽनुपूर्वेण द्वादशभिर्वर्षैस्तं वनवासिजनपदमनुप्राप्तः । स तं मुक्तकं श्रेष्ठिनं परिमार्गमाणो ऽद्राक्षीत् । दृष्ट्वा च पुनः सर्वशरीरेण प्रणिपत्य पुरतः प्राञ्जलिः स्थित्वा एवमाह - आर्य, लब्धा मे लाभाः, यस्य मेघकल्याणमित्रसमवधानम् । तत्कस्य हेतोः? दुर्लभदर्शनानि हि कल्याणमित्राणि दुर्लभप्रादुर्भावानि दुःप्रत्यागतानि दुरुपसंक्रमणानि दुःपर्युपास्यानि । दुरासदानि दुःसंवासानि दुरभिसाध्यानि दुरनुबन्ध्यानि कल्यानमित्राणि । तच्च मेघकल्याणमित्रसमवधानं जातम् । मया आर्य अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् । यदुत सर्वबुद्धारागणतायै सर्वबुद्धाभिराधनतायै सर्वबुद्धदर्शनतायै सर्वबुद्धविज्ञप्तये सर्वबुद्धसमतानुगमाय सर्वबुद्धप्रणिध्यनुगमाय सर्वबुद्धप्रणिधिपरिपूरये सर्वबुद्धसमुदागमज्ञानालोकनतायै सर्वबुद्धस्वशरीराभिनिर्हरणतायै सर्वबुद्धसमुदागमस्वचर्याभिनिर्हरणतायै सर्वबुद्धविकुर्वितप्रत्यक्षाभिज्ञतायै सर्वबुद्धबलवैशारद्यपरिशुद्धये सर्वधर्मदेशनाश्रवणावितृप्ततायै सर्वबुद्धधर्मदेशनाश्रवणोद्ग्रहणतायै सर्वबुद्धधर्मदेशनासंधारणतायै सर्वबुद्धधर्मदेशनाविभजनतायै सर्वबुद्धशासनसंधारणतायै सर्वबुद्धसत्त्वैकत्वतायै सर्वबोधिसत्त्वसभागतायै सर्वबोधिसत्त्वचर्यापरिशुद्ध्ये सर्वबोधिसत्त्वपारमितापरिपूरये (ग्व् ६४) सर्वबोधिसत्त्वप्रणिध्यभिनिर्हारविशुद्धये सर्वबोधिसत्त्वबुद्धाधिष्ठानकोशप्रतिलाभितायै सर्वबोधिसत्त्वधर्मनिधानकोशाक्षयज्ञानालोकतायै सर्वबोधिसत्त्वनिधानकोशानुगमाय सर्वबोधिसत्त्वाप्रमाणकोशाभिनिर्हरणतायै सर्वबोधिसत्त्वमहाकरुणानिधानकोशसत्त्वविनयनिष्ठापर्यन्तगमनतायै सर्वबोधिसत्त्वविकुर्वितनिधानकोशविज्ञप्तये सर्वबोधिसत्त्ववशितानिधानकोशस्वचित्तवशवर्तनतायै सर्वबोधिसत्त्वविशुद्धिनिधानकोशसर्वाकारव्यूहतायै । एवंचित्तो ऽहमार्य इहोपसंक्रान्तः, एवमभिप्रायः एवंमनोरथः एवमभिनन्द्यः एवमाशयः एवंनिध्यप्तिपरमः एवंगोचराभिमुखः एवनयानुगमाभिमुखः एवंविशुद्धिपरमः एवंव्यूहाभिप्रायः एवंप्रणतचित्तः एवंकल्याणप्रयोगः एवमभिमुखेन्द्रियः । श्रुतं च मे आर्यो बोधिसत्त्वानामववादानुशासनीं ददातीति, नयमुपदिशति, अनुगमनमवभासयति, मार्गमुपदिशति, तीर्थमवतारयति, धर्मद्वारं विवृणोति, संशयान् छिनत्ति, काङ्क्षां विनोदयति, कथंकथाशल्यमुद्धरति, विचिकित्सामलमपकर्षयति, चित्तगहनमवभासयति, चित्तमलमपहरति, चित्तसंततिं प्रसादयति, चित्तकौटिल्यमपनयति, चित्ततापं प्रह्लादयति, व्यावर्तयति, संसारचित्तं विनिवर्तयति, अकुशलेभ्यो विवर्तयति, नरकेभ्यो विवेचयति, निकेतनेभ्य उच्चालयति, अनभिनिवेशात् परिमोचयति, सर्वसङ्गेभ्य आवर्जयति, सर्वज्ञतायामभिमुखीकरोति, धर्मनगरानुप्रवेशाय आवर्तयति, महाकरुणायां प्रतिष्ठापयति, महामैत्र्यां नियोजयति, बोधिसत्त्वचर्यायां प्रवेशयति, समाधिमुखभवनतायां निवेशयति, अनुगममुखेषु स्थापयति, स्वभावनिध्यप्तौ स्फरति, बलानुगमेन विभजति सर्वजगत्समतानुगमाय चित्तम् । तद्वदतु मे आर्यः - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्? कथमभियोक्तव्यम्? कथं प्रयोक्तव्यम्? कथं प्रयुक्तस्य क्षिप्रं विशुध्यति बोधिसत्त्वचर्यामण्डलम्? अथ खलु मुक्तकः श्रेष्ठी तस्यां वेलायां सर्वबुद्धक्षेत्रसमवसरणं नाम अनन्तावर्तधारणीमुखपूर्वंगमं बोधिसत्त्वसमाधिमुखं समापद्यत पूर्वकुशलमूलबलाधानेन तथागताधिष्ठानेन, मञ्जुश्रियश्च कुमारभूतस्य समन्वाहरेण ज्ञानालोकोपसंहारेण च । समनन्तरसमापन्नस्य च मुक्तकस्य श्रेष्ठिनस्तथारूपा कायपरिशुद्धिः संस्थिता यया कायपरिशुद्धया दशसु दिक्षु दशबुद्धक्षेत्रपरमाणुरजःसमा बुद्धा भगवन्तः सह बुद्धक्षेत्रपरिशुद्धया सपर्षन्मण्डलाः सह प्रभाविशुद्धया सपूर्वचर्यासंवासाः सबुद्धविकुर्विताः सप्रणिधानसंभाराः सहचर्यानिर्याणव्यूहविशुद्धया साभिसंबोधिसंदर्शनाः सहधर्मचक्रोद्दयोतनाः ससत्त्वपरिपाकाः सधर्मनिष्ठापर्यन्ताः सर्वकाये ऽन्तर्गताः अनुप्रविष्टाः संदृश्यन्ते स्म । अन्योन्यासंभिन्ना अन्योन्यानावरणा अन्योन्यसुविभक्ता अन्योन्यसुव्यवस्थितनानाकल्पसंस्थाना यथावद्विज्ञप्ता नानाबुद्धक्षेत्रव्यूहाः नानाबोधिसत्त्वपर्षन्मण्डलालंकारा नानाबुद्धविकुर्वितं संदर्शयन्तः संदृश्यन्ते स्म । नानायाननयव्यवस्थाना नानाप्रणिधानमुखपरिदीपनाः क्वचिल्लोकधातौ तुषितभवनोपपन्नाः संदृश्यन्ते । सर्वबुद्धकार्यं कुर्वन्तः क्वचित्तुषितभवनाच्च्यवमानाः, क्वचिन्मातुः कुक्षिगताः विविधविकुर्वितानि (ग्व् ६५) संदर्शयन्तः, क्वचिज्जायमानाः बालक्रीडामुपदर्शयन्तः, क्वचिदन्तःपुरमध्यगताः, क्वचिदभिनिष्क्रामन्तः क्वचिद्बोधिमण्डवरगताः महाव्यूहविकुर्वितमारसैन्यपराजयं कुर्वन्तः संदृश्यन्ते । क्वचिद्देवनागयक्षगन्धर्वपरिवृता ब्रह्मेन्द्रैर्धर्मचक्रप्रवर्तनायाध्येष्यमाणाः, क्वचिद्धर्मचक्रं प्रवर्तयन्तः क्वचित्सर्वसत्त्वभवनगताः क्वचित्परिनिर्वायमाणाः संदृश्यन्ते । क्वचिल्लोकधातौ तथागतानां परिनिर्वृतानां धातुविभङ्गाः संदृश्यन्ते । क्वचिद्बुद्धक्षेत्रदेवमनुष्यास्तथागतचैत्यान्यलंकुर्वन्तः संदृश्यन्ते । यच्च ते बुद्धा भगवन्तो भाषन्ते नानासत्त्वनिकायेषु नानासत्त्वलोकेषु नानासत्त्वगतिषु नानासत्त्वोपपत्तिषु नानासत्त्वसंनिपातेषु नानासत्त्वकुशलमूलपरिवर्तेषु नानासत्त्वगतिपरिवर्तेषु नानासत्त्वाशयपरिवर्तेषु नानासत्त्वाधिमुक्तिपरिवर्तेषु नानासत्त्वेन्द्रियपरिवर्तेषु नानाकालपरिवर्तेषु नानासत्त्वकर्मसंभेदेषु नानासत्त्वकर्मविमात्रतासु नानासत्त्वलोकविभावनासु नानागतिचर्याविचरितेषु सत्त्वनयेषु नानाशयप्रयोगेषु सत्त्वसमुद्रेषु नानेन्द्रियविमात्रताविशुद्धेषु नानाक्लेशवासनानुशयितेषु सत्त्वप्रसरेषु विविधबुद्धिविकुर्वितसंदर्शनैर्नानानिरुक्तिभिर्नानास्वराङ्गरुतनिर्हारैर्नानासूत्रान्तनयोदाहारैर्नानाधारणीमुखपरिवर्तैर्नानाप्रतिसंविन्नयप्रभवैर्नानासत्यनामसमुद्रपरिवर्तैः नानाबुद्धर्षभसिंहनादनैः नानासत्त्वकुशलमूलदेशनाप्रातिहार्यसंदर्शनैः नानामुखस्मृतिनिदर्शनविकुर्वितैः नानाबोधिसत्त्वव्याकरणसिंहनादैः नानातथागतधर्मचक्रविजृम्भितैः अनन्तमध्येषु पर्षन्मण्डलेषु अनन्तसंभेदेष्वन्योन्यारम्बणेषु नानाविशुद्धपर्षन्मण्डलेषु विपुलेषु सूक्ष्मपर्षन्मण्डलसमवसरणेषु योजनप्रमाणेषु दशयोजनप्रमाणेषु यावदनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमलोकधातुप्रमाणेषु पर्षन्मण्डलेषु यत्ते बुद्धा भगवन्तो धर्मं भाषन्ते सर्वस्वराङ्गरुतघोषानुगामिन्या तथागतवाचा, तं सर्वं सुधनः श्रेष्ठिदारकः शृणोति उद्गृह्णाति संधारयति प्रवर्तयति उपनिध्यायति । तच्च विकुर्वितं पश्यति, तां च अचिन्त्यां बोधिसत्त्वसमाधिवृषभिताम् ॥ अथ खलु मुक्तकः श्रेष्ठी स्मृतः संप्रजानंस्तस्मात्समाधेर्व्यूत्थाय सुधनं श्रेष्ठिदारकमेतदवोचत् - अहं कुलपुत्र असङ्गव्यूहं नाम तथागतविमोक्षमायूहामि निर्यूहामि । तस्य मे कुलपुत्र असङ्गव्यूहं तथागतविमोक्षमायूहतो निर्यूहतः पूर्वस्यां दिशि जाम्बूनदप्रभासवत्यां लोकधातौ तारेश्वरराजो नाम तथागतो ऽर्हन् सम्यक्संबुद्धः सार्धं वैरोचनगर्भबोधिसत्त्वप्रमुखेन सर्वबोधिसत्त्वपर्षन्मण्डलेन चक्षुष आभासमागच्छति । दक्षिणायां दिशि सर्वबलवेगवत्यां लोकधातौ समन्तगन्धवितानो नाम तथागतो ऽर्हन् सम्यक्संबुद्धः सार्धं चिन्ताराजबोधिसत्त्वप्रमुखेन सर्वबोधिसत्त्वपर्षन्मण्डलेन चक्षुष (ग्व् ६६) आभासमागच्छति । पश्चिमायां दिशि सर्वगन्धप्रभासवत्यां लोकधातौ मेरुप्रदीपराजो नाम तथागतो ऽर्हन् सम्यक्संबुद्धः सार्धमसङ्गचित्तबोधिसत्त्वप्रमुखेन सर्वबोधिसत्त्वपर्षन्मण्डलेन चक्षुष आभासमागच्छति । उत्तरायां दिशि काषायध्वजायां लोकधातौ वज्रप्रमर्दनो नाम तथागतो ऽर्हन् सम्यक्संबुद्धः सार्धं वज्रपदविक्रामिबोधिसत्त्वप्रमुखेन सर्वबोधिसत्त्वपर्षन्मण्डलेन चक्षुषआभासमागच्छति । उत्तरपूर्वायां दिशि सर्वरत्नरुचिरायां लोकधातौ अनिलम्भचक्षुर्वैरोचनो नाम तथागतो ऽर्हन् सम्यक्संबुद्धः सार्धमनिलम्भसुनिर्मितबोधिसत्त्वपूर्वंगमेन सर्वबोधिसत्त्वपर्षन्मण्डलेन चक्षुष आभासमागच्छति । पूर्वदक्षिणायां दिशि गन्धार्चिःप्रभास्वरायां लोकधातौ गन्धप्रदीपो नाम तथागतो ऽर्हन् सम्यक्संबुद्धः सार्धं सर्वधर्मधातुतलभेदकेतुराजबोधिसत्त्वपूर्वंगमेन बोधिसत्त्वपर्षन्मण्डलेन चक्षुष आभासमागच्छति । दक्षिणपश्चिमायां दिशि सूर्यकेसरनिर्भासायां लोकधातौ समन्तमुखज्ञानविरोचनघोषो नाम तथागतो ऽर्हन् सम्यक्संबुद्धः सार्धं समन्तकुसुमार्चिःप्रलम्बचूडबोधिसत्त्वपूर्वंगमेन सर्वबोधिसत्त्वपर्षन्मण्डलेन चक्षुष आभासमागच्छति । पश्चिमोत्तरायां दिशि गन्धालंकाररुचिरशुभगर्भायां लोकधातावप्रमाणगुणसागरप्रभो नाम तथागतो ऽर्हन् सम्यक्संबुद्धः सार्धमसङ्गकायरश्मितेजोमतिबोधिसत्त्वपूर्वंगमेन सर्वबोधिसत्त्वपर्षन्मण्डलेन चक्षुष आभासमागच्छति । अघोदिशि रत्नसिंहावभासज्वलनायां लोकधातौ धर्मधातुविद्योतितरश्मिर्नाम् तथागतो ऽर्हन् सम्यक्संबुद्धः सार्धं धर्मधात्वर्चिर्वैरोचनसंभवमतिबोधिसत्त्वपूर्वंगमेन सर्वबोधिसत्त्वपर्षन्मण्डलेन चक्षुष आभासमागच्छति । ऊर्ध्वायां दिशि लक्षणरुचिरवैरोचनायां लोकधातावप्रतिहतगुणकीर्तिविमोक्षप्रभराजो नाम तथागतो ऽर्हन् सम्यक्संबुद्धः सार्धमसङ्गबलवीर्यमतिबोधिसत्त्वपूर्वंगमेन सर्वबोधिसत्त्वपर्षन्मण्डलेन चक्षुष आभासमागच्छति ॥ इति हि कुलपुत्र, एतान् दश तथागतान् प्रमुखान् कृत्वा दशसु दिक्षु दशबुद्धक्षेत्रपरमाणुरजःसमांस्तथागतानर्हतः सम्यक्संबुद्धान् पश्यामि । न च ते तथागता इहागच्छन्ति, न चाहं तत्र गच्छामि । यस्यां च वेलायामिच्छामि, तस्यां वेलायां सुखावत्यां लोकधातावमिताभं तथागतं पश्यामि । चन्दनवत्यां लोकधातौ वज्राभं तथागतं पश्यामि । गन्धवत्यां लोकधातौ रत्नाभं तथागतं पश्यामि । पद्मवत्यां लोकधातौ रत्नपद्माभं तथागतं पश्यामि । कनकवत्यां लोकधातौ शान्ताभं तथागतं पश्यामि । अभिरत्यां लोकधातौ अक्षोभ्यं तथागतं पश्यामि । सुप्रतिष्ठायां लोकधातौ सिंहं तथागतं पश्यामि । आदर्शमण्डलनिभासायां लोकधातौ चन्द्रबुद्धिं तथागतं पश्यामि । रत्नश्रीहंसचित्रायां लोकधातौ वैरोचनं तथागतं पश्यामि । इति हि कुलपुत्र यस्यां यस्यां दिशि यस्यां यस्यां लोकधातौ यं यमेव तथागतं द्रष्टुमाकाङ्क्षामि, तं तमेव तथागतं पश्यामि । यस्मिन् यस्मिन्नध्वनि यस्मिन् यस्मिन्नारम्बणे यस्यां यस्यां पूर्वचयायां तथागतं द्रष्टुमाकाङ्क्षामि, यस्मिन् यस्मिन् विकुर्वितकारणे यस्मिन् यस्मिन् सत्त्वविनयकारणे यं यं तथागतं द्रष्टुमाकाङ्क्षामि, तं तमेव तथागतं पश्यामि । न च ते तथागता इहागच्छन्ति, न चाहं तत्र गच्छामि । सो ऽहं कुलपुत्र न कुतश्चिदागमनतां तथागतानां प्रजानन्, न क्वचिद्गमनतां स्वकायस्य प्रजानन्, स्वप्नोपमविज्ञप्तिं च तथागतानां प्रजानन्, स्वप्नसमविचारविज्ञप्तिं स्वचित्तस्य प्रजानन्, प्रतिभाससमविज्ञप्तिं च तथागतानां प्रजानन्, अच्छोदकभाजनविज्ञप्तिं च स्वचित्तस्य प्रजानन्, मायाकृतरूपविज्ञप्तिं च तथागतानां प्रजानन्, मायोपमविज्ञप्तिं च स्वचित्तस्य प्रजानन्, प्रतिश्रुत्कागिरिघोषानुरवणतां च तथागतघोषस्य प्रजानन्, प्रतिश्रुत्कासमविज्ञप्तिं च स्वचित्तस्य प्रजानन्, एवमनुगच्छामि (ग्व् ६७) एवमनुस्मरामि स्वचित्ताधिष्ठानं बोधिसत्त्वानां सर्वबुद्धधर्म इति । स्वचित्ताधिष्ठानं सर्वबुद्धक्षेत्रपरिशुद्धिः, स्वचित्ताधिष्ठानं सर्वबुद्धबोधिसत्त्वचर्या, स्वचित्ताधिष्ठानं सर्वसत्त्वपरिपाकविनयः, स्वचित्ताधिष्ठानं सर्वबोधिसत्त्वप्रणिधानाभिनिर्हारः, स्वचित्ताधिष्ठानं सर्वज्ञतानगरानुप्राप्तिः, स्वचित्ताधिष्ठानमचिन्त्यबोधिसत्त्वविमोक्षविक्रीडनता, स्वचित्ताधिष्ठानं बुद्धबोध्यभिसंबोधः, स्वचित्ताधिष्ठानं समन्तधर्मधातुसमवसरणवृषभिताविकुर्वितम्, स्वचित्ताधिष्ठानं सर्वकल्पसूक्ष्मसमवसरणज्ञानमिति ॥ तस्य मम कुलपुत्र एवं भवति - स्वचित्तमेवोपस्तम्भयितव्यं सर्वकुशलमूलैः । स्वचित्तमेव परिष्यन्दयितव्यं धर्ममेघैः । स्वचित्तमेव परिशोधयितव्यमारम्बणीयधर्मेभ्यः । स्वचितमेव दृढीकर्तव्यं वीर्येण । स्वचित्तमेव शमीकर्तव्यं क्षान्त्या । स्वचितमेव प्रणयितव्यं ज्ञानानुगमेषु । स्वचित्तमेवोत्तापयितव्यं प्रज्ञया । स्वचित्तमेवाभिनिर्हर्तव्यं वशिताशु । स्वचित्तमेवविपुलीकर्तव्यं बुद्धसमतायाम् । स्वचित्तमेवावभासयितव्यां दशतथागतबलैः । एतमहं कुलपुत्र असङ्गव्यूहतथागतविमोक्षं जानामि आयूहामि निर्यूहामि । किं मया शक्यं बोधिसत्त्वानामसङ्गचित्तानामसङ्गविहारगोचराणां प्रत्युत्पन्नसर्वबुद्धधर्मसंमुखावस्थितसमाधिप्रतिलब्धानामपरिओनिर्वाणकोटिगतसंबोधिमुखसमाधिप्रतिलब्धानां त्र्यध्वसमतानुप्राप्तानां समन्ततलसंभेदसमाधिगोचरविधिज्ञानां सर्वबुद्धक्षेत्रसुविभक्तशरीराणामसंभिन्नबुद्धविषयविहारिणां सर्वदिगभिमुखगोचराणामपराङ्भुखज्ञानमण्डलव्यवलोकनानां चर्या ज्ञातुं गुणान् वा वक्तुम्, येषामात्मभावसर्वलोकधातुसंवर्तविवर्ताः प्रज्ञायन्ते । न चैषामात्मनि लोकधातुषु वा द्वयसंज्ञा प्रवर्तते ॥ गच्छ कुलपुत्र, इहैव दक्षिणापथे मिलस्फरणं नाम जम्बूद्वीपशीर्षम् । तत्र सारध्वजो नाम भिक्षुः प्रतिवसति । तमुपसंक्रम्य परिपृच्छ - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रयोक्तव्यम् ॥ अथ खलु सुधनः श्रेष्ठिदारको मुक्तकस्य श्रेष्ठिनः पादौ शिरसाभिवन्द्य मुक्तकं श्रेष्ठिनमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य मुक्तकस्य श्रेष्ठिनो ऽसंख्यान् गुणानुदानयन् उपविचारयन्, अभिलषन्, अविजहन् रुदन् परिदेवन् कल्याणमित्रस्नेहजातः कल्याणमित्रप्रतिशरणः कल्याणमित्रारागणाभिमुखः कल्याणमित्रज्ञानमविकोपयन् कल्याणमित्राधीनां सर्वज्ञतां समनुपश्यन् कल्याणमित्रानुगताशयः कल्याणमित्रोपायसाध्योपचारः कल्याणमित्रचेतनावशर्ती, मातृसंज्ञी कल्याणमित्रेषु सर्वाहितपरिवर्जनतया, पितृसंज्ञी कल्याणमित्रेषु सर्वकुशलधर्मसंजननतया, मुक्तकस्य श्रेष्ठिनो ऽन्तिकात्प्रक्रान्तः

atha khalu sudhanaḥ śreṣṭhidārakastameva bodhisattvasarasvatīdhāraṇyālokavyūhamanuvicintayan, tameva bodhisattvamantranayasāgaramavataran, tameva bodhisattvacittavyavadānaviśuddhimanusmaran, tameva bodhisattvakuśalavāsanopasaṃhārābhinirhāramabhinirharan, tadeva bodhisattvaparipākamukhaṃ viśodhanayan, tadeva bodhisattvānāṃ sattvasaṃgrahajñānamuttāpayan, tāmeva bodhisattvāśayabalaviśuddhiṃ dṛḍhīkurvāṇaḥ tadeva bodhisattvādhyāśayabalamupastambhayan, tameva bodhisattvādhimuktivaṃśaṃ pariśodhayan, tāmeva bodhisattvāśayacittakalyāṇatāṃ saṃbhāvayan, tameva bodhisattvavyavasāyamuttārayan, sudhanaḥ śreiṣṭhidārako dṛḍhapratijñāpraṇidhicittāparikhinnasaṃtānavyūho 'nivartyavikrāntavīryaḥ pratyudāvartyamanovyavasāyaḥ asaṃhāryaśraddhābalopetaḥ vajranārāyaṇābhedyacittaḥ sarvakalyāṇamitrānuśāsanīpradakṣiṇagrāhī anupahataprajñāviṣayaḥ samantamukhaviśuddhayabhimukhaḥ apratihatajñānaviśuddhigocaraḥ samantanetrajñānanayālokaḥ samantabhūmidhāraṇyavabhāsapratilabdhaḥ dharmadhātutalabhedābhimukhacittaḥ samantatalāpratiṣṭhānavyūhaviśuddhisvabhāvavijñaptaḥ aniketāsamādvayagocaraparamaḥ sarvasaṃjñāvikramaṇajñānamukhaviśuddhaḥ sarvadikkulabhedadikpratyūhavyūhaḥ lokataladigbhedānivartyaḥ dharmataladigbhedāpratyudāvartyaḥ buddhadikkulabhedadarśanavijñaptiparamaḥ adhadikkulabhedānugatajñānī ruciradharmacakrasaṃbhṛtabuddhiḥ samantarucirajñānasamādhyākāralokāvabhāsitacittaḥ samantaviṣayabhūmyanugatamanaḥśarīraḥ tathāgatajñānavidyudavabhāsitasaṃtānaḥ sarvajñatormiprasādāvegasaṃjātaḥ buddhadharmaprasādavegāvirahitaḥ tathāgatādhiṣṭhānāvegāviṣṭaḥ sarvabuddhasvacittānugamālokāvabhāsitaḥ sarvalokadhātujālasvaśarīraspharaṇapraṇidhisamanvāgataḥ sarvadharmadhātusvakāyasamavasaraṇābhinirhāraparamo 'nupūrveṇa dvādaśabhirvarṣaistaṃ vanavāsijanapadamanuprāptaḥ / sa taṃ muktakaṃ śreṣṭhinaṃ parimārgamāṇo 'drākṣīt / dṛṣṭvā ca punaḥ sarvaśarīreṇa praṇipatya purataḥ prāñjaliḥ sthitvā evamāha - ārya, labdhā me lābhāḥ, yasya meghakalyāṇamitrasamavadhānam / tatkasya hetoḥ? durlabhadarśanāni hi kalyāṇamitrāṇi durlabhaprādurbhāvāni duḥpratyāgatāni durupasaṃkramaṇāni duḥparyupāsyāni / durāsadāni duḥsaṃvāsāni durabhisādhyāni duranubandhyāni kalyānamitrāṇi / tacca meghakalyāṇamitrasamavadhānaṃ jātam / mayā ārya anuttarāyāṃ samyaksaṃbodhau cittamutpāditam / yaduta sarvabuddhārāgaṇatāyai sarvabuddhābhirādhanatāyai sarvabuddhadarśanatāyai sarvabuddhavijñaptaye sarvabuddhasamatānugamāya sarvabuddhapraṇidhyanugamāya sarvabuddhapraṇidhiparipūraye sarvabuddhasamudāgamajñānālokanatāyai sarvabuddhasvaśarīrābhinirharaṇatāyai sarvabuddhasamudāgamasvacaryābhinirharaṇatāyai sarvabuddhavikurvitapratyakṣābhijñatāyai sarvabuddhabalavaiśāradyapariśuddhaye sarvadharmadeśanāśravaṇāvitṛptatāyai sarvabuddhadharmadeśanāśravaṇodgrahaṇatāyai sarvabuddhadharmadeśanāsaṃdhāraṇatāyai sarvabuddhadharmadeśanāvibhajanatāyai sarvabuddhaśāsanasaṃdhāraṇatāyai sarvabuddhasattvaikatvatāyai sarvabodhisattvasabhāgatāyai sarvabodhisattvacaryāpariśuddhye sarvabodhisattvapāramitāparipūraye (Gv 64) sarvabodhisattvapraṇidhyabhinirhāraviśuddhaye sarvabodhisattvabuddhādhiṣṭhānakośapratilābhitāyai sarvabodhisattvadharmanidhānakośākṣayajñānālokatāyai sarvabodhisattvanidhānakośānugamāya sarvabodhisattvāpramāṇakośābhinirharaṇatāyai sarvabodhisattvamahākaruṇānidhānakośasattvavinayaniṣṭhāparyantagamanatāyai sarvabodhisattvavikurvitanidhānakośavijñaptaye sarvabodhisattvavaśitānidhānakośasvacittavaśavartanatāyai sarvabodhisattvaviśuddhinidhānakośasarvākāravyūhatāyai / evaṃcitto 'hamārya ihopasaṃkrāntaḥ, evamabhiprāyaḥ evaṃmanorathaḥ evamabhinandyaḥ evamāśayaḥ evaṃnidhyaptiparamaḥ evaṃgocarābhimukhaḥ evanayānugamābhimukhaḥ evaṃviśuddhiparamaḥ evaṃvyūhābhiprāyaḥ evaṃpraṇatacittaḥ evaṃkalyāṇaprayogaḥ evamabhimukhendriyaḥ / śrutaṃ ca me āryo bodhisattvānāmavavādānuśāsanīṃ dadātīti, nayamupadiśati, anugamanamavabhāsayati, mārgamupadiśati, tīrthamavatārayati, dharmadvāraṃ vivṛṇoti, saṃśayān chinatti, kāṅkṣāṃ vinodayati, kathaṃkathāśalyamuddharati, vicikitsāmalamapakarṣayati, cittagahanamavabhāsayati, cittamalamapaharati, cittasaṃtatiṃ prasādayati, cittakauṭilyamapanayati, cittatāpaṃ prahlādayati, vyāvartayati, saṃsāracittaṃ vinivartayati, akuśalebhyo vivartayati, narakebhyo vivecayati, niketanebhya uccālayati, anabhiniveśāt parimocayati, sarvasaṅgebhya āvarjayati, sarvajñatāyāmabhimukhīkaroti, dharmanagarānupraveśāya āvartayati, mahākaruṇāyāṃ pratiṣṭhāpayati, mahāmaitryāṃ niyojayati, bodhisattvacaryāyāṃ praveśayati, samādhimukhabhavanatāyāṃ niveśayati, anugamamukheṣu sthāpayati, svabhāvanidhyaptau spharati, balānugamena vibhajati sarvajagatsamatānugamāya cittam / tadvadatu me āryaḥ - kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam? kathamabhiyoktavyam? kathaṃ prayoktavyam? kathaṃ prayuktasya kṣipraṃ viśudhyati bodhisattvacaryāmaṇḍalam? atha khalu muktakaḥ śreṣṭhī tasyāṃ velāyāṃ sarvabuddhakṣetrasamavasaraṇaṃ nāma anantāvartadhāraṇīmukhapūrvaṃgamaṃ bodhisattvasamādhimukhaṃ samāpadyata pūrvakuśalamūlabalādhānena tathāgatādhiṣṭhānena, mañjuśriyaśca kumārabhūtasya samanvāhareṇa jñānālokopasaṃhāreṇa ca / samanantarasamāpannasya ca muktakasya śreṣṭhinastathārūpā kāyapariśuddhiḥ saṃsthitā yayā kāyapariśuddhayā daśasu dikṣu daśabuddhakṣetraparamāṇurajaḥsamā buddhā bhagavantaḥ saha buddhakṣetrapariśuddhayā saparṣanmaṇḍalāḥ saha prabhāviśuddhayā sapūrvacaryāsaṃvāsāḥ sabuddhavikurvitāḥ sapraṇidhānasaṃbhārāḥ sahacaryāniryāṇavyūhaviśuddhayā sābhisaṃbodhisaṃdarśanāḥ sahadharmacakroddayotanāḥ sasattvaparipākāḥ sadharmaniṣṭhāparyantāḥ sarvakāye 'ntargatāḥ anupraviṣṭāḥ saṃdṛśyante sma / anyonyāsaṃbhinnā anyonyānāvaraṇā anyonyasuvibhaktā anyonyasuvyavasthitanānākalpasaṃsthānā yathāvadvijñaptā nānābuddhakṣetravyūhāḥ nānābodhisattvaparṣanmaṇḍalālaṃkārā nānābuddhavikurvitaṃ saṃdarśayantaḥ saṃdṛśyante sma / nānāyānanayavyavasthānā nānāpraṇidhānamukhaparidīpanāḥ kvacillokadhātau tuṣitabhavanopapannāḥ saṃdṛśyante / sarvabuddhakāryaṃ kurvantaḥ kvacittuṣitabhavanāccyavamānāḥ, kvacinmātuḥ kukṣigatāḥ vividhavikurvitāni (Gv 65) saṃdarśayantaḥ, kvacijjāyamānāḥ bālakrīḍāmupadarśayantaḥ, kvacidantaḥpuramadhyagatāḥ, kvacidabhiniṣkrāmantaḥ kvacidbodhimaṇḍavaragatāḥ mahāvyūhavikurvitamārasainyaparājayaṃ kurvantaḥ saṃdṛśyante / kvaciddevanāgayakṣagandharvaparivṛtā brahmendrairdharmacakrapravartanāyādhyeṣyamāṇāḥ, kvaciddharmacakraṃ pravartayantaḥ kvacitsarvasattvabhavanagatāḥ kvacitparinirvāyamāṇāḥ saṃdṛśyante / kvacillokadhātau tathāgatānāṃ parinirvṛtānāṃ dhātuvibhaṅgāḥ saṃdṛśyante / kvacidbuddhakṣetradevamanuṣyāstathāgatacaityānyalaṃkurvantaḥ saṃdṛśyante / yacca te buddhā bhagavanto bhāṣante nānāsattvanikāyeṣu nānāsattvalokeṣu nānāsattvagatiṣu nānāsattvopapattiṣu nānāsattvasaṃnipāteṣu nānāsattvakuśalamūlaparivarteṣu nānāsattvagatiparivarteṣu nānāsattvāśayaparivarteṣu nānāsattvādhimuktiparivarteṣu nānāsattvendriyaparivarteṣu nānākālaparivarteṣu nānāsattvakarmasaṃbhedeṣu nānāsattvakarmavimātratāsu nānāsattvalokavibhāvanāsu nānāgaticaryāvicariteṣu sattvanayeṣu nānāśayaprayogeṣu sattvasamudreṣu nānendriyavimātratāviśuddheṣu nānākleśavāsanānuśayiteṣu sattvaprasareṣu vividhabuddhivikurvitasaṃdarśanairnānāniruktibhirnānāsvarāṅgarutanirhārairnānāsūtrāntanayodāhārairnānādhāraṇīmukhaparivartairnānāpratisaṃvinnayaprabhavairnānāsatyanāmasamudraparivartaiḥ nānābuddharṣabhasiṃhanādanaiḥ nānāsattvakuśalamūladeśanāprātihāryasaṃdarśanaiḥ nānāmukhasmṛtinidarśanavikurvitaiḥ nānābodhisattvavyākaraṇasiṃhanādaiḥ nānātathāgatadharmacakravijṛmbhitaiḥ anantamadhyeṣu parṣanmaṇḍaleṣu anantasaṃbhedeṣvanyonyārambaṇeṣu nānāviśuddhaparṣanmaṇḍaleṣu vipuleṣu sūkṣmaparṣanmaṇḍalasamavasaraṇeṣu yojanapramāṇeṣu daśayojanapramāṇeṣu yāvadanabhilāpyabuddhakṣetraparamāṇurajaḥsamalokadhātupramāṇeṣu parṣanmaṇḍaleṣu yatte buddhā bhagavanto dharmaṃ bhāṣante sarvasvarāṅgarutaghoṣānugāminyā tathāgatavācā, taṃ sarvaṃ sudhanaḥ śreṣṭhidārakaḥ śṛṇoti udgṛhṇāti saṃdhārayati pravartayati upanidhyāyati / tacca vikurvitaṃ paśyati, tāṃ ca acintyāṃ bodhisattvasamādhivṛṣabhitām // atha khalu muktakaḥ śreṣṭhī smṛtaḥ saṃprajānaṃstasmātsamādhervyūtthāya sudhanaṃ śreṣṭhidārakametadavocat - ahaṃ kulaputra asaṅgavyūhaṃ nāma tathāgatavimokṣamāyūhāmi niryūhāmi / tasya me kulaputra asaṅgavyūhaṃ tathāgatavimokṣamāyūhato niryūhataḥ pūrvasyāṃ diśi jāmbūnadaprabhāsavatyāṃ lokadhātau tāreśvararājo nāma tathāgato 'rhan samyaksaṃbuddhaḥ sārdhaṃ vairocanagarbhabodhisattvapramukhena sarvabodhisattvaparṣanmaṇḍalena cakṣuṣa ābhāsamāgacchati / dakṣiṇāyāṃ diśi sarvabalavegavatyāṃ lokadhātau samantagandhavitāno nāma tathāgato 'rhan samyaksaṃbuddhaḥ sārdhaṃ cintārājabodhisattvapramukhena sarvabodhisattvaparṣanmaṇḍalena cakṣuṣa (Gv 66) ābhāsamāgacchati / paścimāyāṃ diśi sarvagandhaprabhāsavatyāṃ lokadhātau merupradīparājo nāma tathāgato 'rhan samyaksaṃbuddhaḥ sārdhamasaṅgacittabodhisattvapramukhena sarvabodhisattvaparṣanmaṇḍalena cakṣuṣa ābhāsamāgacchati / uttarāyāṃ diśi kāṣāyadhvajāyāṃ lokadhātau vajrapramardano nāma tathāgato 'rhan samyaksaṃbuddhaḥ sārdhaṃ vajrapadavikrāmibodhisattvapramukhena sarvabodhisattvaparṣanmaṇḍalena cakṣuṣaābhāsamāgacchati / uttarapūrvāyāṃ diśi sarvaratnarucirāyāṃ lokadhātau anilambhacakṣurvairocano nāma tathāgato 'rhan samyaksaṃbuddhaḥ sārdhamanilambhasunirmitabodhisattvapūrvaṃgamena sarvabodhisattvaparṣanmaṇḍalena cakṣuṣa ābhāsamāgacchati / pūrvadakṣiṇāyāṃ diśi gandhārciḥprabhāsvarāyāṃ lokadhātau gandhapradīpo nāma tathāgato 'rhan samyaksaṃbuddhaḥ sārdhaṃ sarvadharmadhātutalabhedaketurājabodhisattvapūrvaṃgamena bodhisattvaparṣanmaṇḍalena cakṣuṣa ābhāsamāgacchati / dakṣiṇapaścimāyāṃ diśi sūryakesaranirbhāsāyāṃ lokadhātau samantamukhajñānavirocanaghoṣo nāma tathāgato 'rhan samyaksaṃbuddhaḥ sārdhaṃ samantakusumārciḥpralambacūḍabodhisattvapūrvaṃgamena sarvabodhisattvaparṣanmaṇḍalena cakṣuṣa ābhāsamāgacchati / paścimottarāyāṃ diśi gandhālaṃkāraruciraśubhagarbhāyāṃ lokadhātāvapramāṇaguṇasāgaraprabho nāma tathāgato 'rhan samyaksaṃbuddhaḥ sārdhamasaṅgakāyaraśmitejomatibodhisattvapūrvaṃgamena sarvabodhisattvaparṣanmaṇḍalena cakṣuṣa ābhāsamāgacchati / aghodiśi ratnasiṃhāvabhāsajvalanāyāṃ lokadhātau dharmadhātuvidyotitaraśmirnām tathāgato 'rhan samyaksaṃbuddhaḥ sārdhaṃ dharmadhātvarcirvairocanasaṃbhavamatibodhisattvapūrvaṃgamena sarvabodhisattvaparṣanmaṇḍalena cakṣuṣa ābhāsamāgacchati / ūrdhvāyāṃ diśi lakṣaṇaruciravairocanāyāṃ lokadhātāvapratihataguṇakīrtivimokṣaprabharājo nāma tathāgato 'rhan samyaksaṃbuddhaḥ sārdhamasaṅgabalavīryamatibodhisattvapūrvaṃgamena sarvabodhisattvaparṣanmaṇḍalena cakṣuṣa ābhāsamāgacchati // iti hi kulaputra, etān daśa tathāgatān pramukhān kṛtvā daśasu dikṣu daśabuddhakṣetraparamāṇurajaḥsamāṃstathāgatānarhataḥ samyaksaṃbuddhān paśyāmi / na ca te tathāgatā ihāgacchanti, na cāhaṃ tatra gacchāmi / yasyāṃ ca velāyāmicchāmi, tasyāṃ velāyāṃ sukhāvatyāṃ lokadhātāvamitābhaṃ tathāgataṃ paśyāmi / candanavatyāṃ lokadhātau vajrābhaṃ tathāgataṃ paśyāmi / gandhavatyāṃ lokadhātau ratnābhaṃ tathāgataṃ paśyāmi / padmavatyāṃ lokadhātau ratnapadmābhaṃ tathāgataṃ paśyāmi / kanakavatyāṃ lokadhātau śāntābhaṃ tathāgataṃ paśyāmi / abhiratyāṃ lokadhātau akṣobhyaṃ tathāgataṃ paśyāmi / supratiṣṭhāyāṃ lokadhātau siṃhaṃ tathāgataṃ paśyāmi / ādarśamaṇḍalanibhāsāyāṃ lokadhātau candrabuddhiṃ tathāgataṃ paśyāmi / ratnaśrīhaṃsacitrāyāṃ lokadhātau vairocanaṃ tathāgataṃ paśyāmi / iti hi kulaputra yasyāṃ yasyāṃ diśi yasyāṃ yasyāṃ lokadhātau yaṃ yameva tathāgataṃ draṣṭumākāṅkṣāmi, taṃ tameva tathāgataṃ paśyāmi / yasmin yasminnadhvani yasmin yasminnārambaṇe yasyāṃ yasyāṃ pūrvacayāyāṃ tathāgataṃ draṣṭumākāṅkṣāmi, yasmin yasmin vikurvitakāraṇe yasmin yasmin sattvavinayakāraṇe yaṃ yaṃ tathāgataṃ draṣṭumākāṅkṣāmi, taṃ tameva tathāgataṃ paśyāmi / na ca te tathāgatā ihāgacchanti, na cāhaṃ tatra gacchāmi / so 'haṃ kulaputra na kutaścidāgamanatāṃ tathāgatānāṃ prajānan, na kvacidgamanatāṃ svakāyasya prajānan, svapnopamavijñaptiṃ ca tathāgatānāṃ prajānan, svapnasamavicāravijñaptiṃ svacittasya prajānan, pratibhāsasamavijñaptiṃ ca tathāgatānāṃ prajānan, acchodakabhājanavijñaptiṃ ca svacittasya prajānan, māyākṛtarūpavijñaptiṃ ca tathāgatānāṃ prajānan, māyopamavijñaptiṃ ca svacittasya prajānan, pratiśrutkāgirighoṣānuravaṇatāṃ ca tathāgataghoṣasya prajānan, pratiśrutkāsamavijñaptiṃ ca svacittasya prajānan, evamanugacchāmi (Gv 67) evamanusmarāmi svacittādhiṣṭhānaṃ bodhisattvānāṃ sarvabuddhadharma iti / svacittādhiṣṭhānaṃ sarvabuddhakṣetrapariśuddhiḥ, svacittādhiṣṭhānaṃ sarvabuddhabodhisattvacaryā, svacittādhiṣṭhānaṃ sarvasattvaparipākavinayaḥ, svacittādhiṣṭhānaṃ sarvabodhisattvapraṇidhānābhinirhāraḥ, svacittādhiṣṭhānaṃ sarvajñatānagarānuprāptiḥ, svacittādhiṣṭhānamacintyabodhisattvavimokṣavikrīḍanatā, svacittādhiṣṭhānaṃ buddhabodhyabhisaṃbodhaḥ, svacittādhiṣṭhānaṃ samantadharmadhātusamavasaraṇavṛṣabhitāvikurvitam, svacittādhiṣṭhānaṃ sarvakalpasūkṣmasamavasaraṇajñānamiti // tasya mama kulaputra evaṃ bhavati - svacittamevopastambhayitavyaṃ sarvakuśalamūlaiḥ / svacittameva pariṣyandayitavyaṃ dharmameghaiḥ / svacittameva pariśodhayitavyamārambaṇīyadharmebhyaḥ / svacitameva dṛḍhīkartavyaṃ vīryeṇa / svacittameva śamīkartavyaṃ kṣāntyā / svacitameva praṇayitavyaṃ jñānānugameṣu / svacittamevottāpayitavyaṃ prajñayā / svacittamevābhinirhartavyaṃ vaśitāśu / svacittamevavipulīkartavyaṃ buddhasamatāyām / svacittamevāvabhāsayitavyāṃ daśatathāgatabalaiḥ / etamahaṃ kulaputra asaṅgavyūhatathāgatavimokṣaṃ jānāmi āyūhāmi niryūhāmi / kiṃ mayā śakyaṃ bodhisattvānāmasaṅgacittānāmasaṅgavihāragocarāṇāṃ pratyutpannasarvabuddhadharmasaṃmukhāvasthitasamādhipratilabdhānāmaparionirvāṇakoṭigatasaṃbodhimukhasamādhipratilabdhānāṃ tryadhvasamatānuprāptānāṃ samantatalasaṃbhedasamādhigocaravidhijñānāṃ sarvabuddhakṣetrasuvibhaktaśarīrāṇāmasaṃbhinnabuddhaviṣayavihāriṇāṃ sarvadigabhimukhagocarāṇāmaparāṅbhukhajñānamaṇḍalavyavalokanānāṃ caryā jñātuṃ guṇān vā vaktum, yeṣāmātmabhāvasarvalokadhātusaṃvartavivartāḥ prajñāyante / na caiṣāmātmani lokadhātuṣu vā dvayasaṃjñā pravartate // gaccha kulaputra, ihaiva dakṣiṇāpathe milaspharaṇaṃ nāma jambūdvīpaśīrṣam / tatra sāradhvajo nāma bhikṣuḥ prativasati / tamupasaṃkramya paripṛccha - kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ prayoktavyam // atha khalu sudhanaḥ śreṣṭhidārako muktakasya śreṣṭhinaḥ pādau śirasābhivandya muktakaṃ śreṣṭhinamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya muktakasya śreṣṭhino 'saṃkhyān guṇānudānayan upavicārayan, abhilaṣan, avijahan rudan paridevan kalyāṇamitrasnehajātaḥ kalyāṇamitrapratiśaraṇaḥ kalyāṇamitrārāgaṇābhimukhaḥ kalyāṇamitrajñānamavikopayan kalyāṇamitrādhīnāṃ sarvajñatāṃ samanupaśyan kalyāṇamitrānugatāśayaḥ kalyāṇamitropāyasādhyopacāraḥ kalyāṇamitracetanāvaśartī, mātṛsaṃjñī kalyāṇamitreṣu sarvāhitaparivarjanatayā, pitṛsaṃjñī kalyāṇamitreṣu sarvakuśaladharmasaṃjananatayā, muktakasya śreṣṭhino 'ntikātprakrāntaḥ

Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.

Sanskrit only: no published translation is held for this verse.

Permanent address: hreem.cc/library/Gand/4.6

Cite as: Gandavyuhasutra 4.6, in HREEM (hreem.cc/library/Gand/4.6), after GRETIL, Gandavyuhasutra Based on the edition by P.L.

Edition, numbering and licence

GRETIL 4_rellit/buddh/bsu016_u.htm — Gandavyuhasutra Based on the edition by P.L. Vaidya. Gaṇḍavyūhasūtram, Darbhanga: The Mithila Institute, 1960 (Buddhist Sanskrit Texts No. 5). Input by members of the Sanskrit Buddhist Input Project. With kind permission of the Digital Sanskrit Buddhist Canon | NOTE: the file numbers verses only within chapters; chapter numbers were inferred from each restart at 1 — verify against a printed edition before citing formally.

GRETIL (SUB Göttingen), CC BY-NC-SA 4.0 — non-commercial use with attribution; the Companion is kept free while this corpus is held. Devanagari generated mechanically from GRETIL's IAST.

More about this text