सर्वबोधिसत्त्ववशितासु सत्त्वान् प्रतिष्ठापयमानान्, अपरान्तकोट्याविद्धं महाप्रणिधानरथचक्रं सर्वधर्मानुसरणं सर्वक्लेशविनिवर्तनमज्ञानपर्वतविकिरणं लोके प्रभावयमानान्, नानाप्रणिधानविकुर्वितैः चित्तक्षणे चित्तक्षणे धर्मधातुं स्फरमाणानपश्यत् । असंख्येयबुद्धक्षेत्रपरमाणुरजःसमांश्च बोधिसत्त्वान्निश्चरित्वा बोधिसत्त्वबलमवभासयमानान्, बोधिसत्त्वबलपरिनिष्पत्तिरुतं प्रमुञ्चमानान्, बलपारमितापरिनिष्पत्तिसंभवपूर्वयोगमेघान् सर्वरोमविवरेभ्यो निश्चारयमाणान्, सर्वमारपरप्रवाद्यनवमृद्यबलं संदर्शयमानान्, सर्वचक्रवालवज्रपर्वतशरीरोपनिपातात्मभेद्यबलं प्रभावयमानान्, (ग्व् ७४) सर्वकल्पोद्दाहाग्निसागरसंवासशरीरानुद्दयोतबलं संदर्शयमानान्, गगनतले सर्वलोकधातुप्रसरपाणितलसंधारणबलतां संदर्शयमानान्, चित्तक्षणे चित्तक्षणे ऋद्धिवशितायां सत्त्वान् प्रतिष्ठापयमानान् धर्मधातुस्फरणाप्रतिप्रस्रब्धानपश्यत् । असंख्येयबुद्धक्षेत्रपरमाणुरजःसमांश्च बोधिसत्त्वान् निश्चरित्वा सत्त्वानां ज्ञानमण्डलं द्योतयमानान्, ज्ञानपरिमितापरिशुद्धिसंप्रयुक्तान् पूर्वयोगमेघान् सर्वरोमविवरेभ्यः प्रमुञ्चमानान्, सर्वबुद्धगुणज्ञानाभिज्ञावतीं ज्ञानभूमिं लोके प्रभावयमाणान्, सर्वबुद्धसंज्ञाभिज्ञावतीं ज्ञानभूमिं संदर्शयमानान्, सर्वप्रणिध्यभिनिर्हाराभिज्ञानाभिज्ञावतीं ज्ञानभूमिं परिदीपयमानान्, सर्वसत्त्वसंग्रहप्रणिध्यभिनिर्हारज्ञानाभिज्ञावतीं ज्ञानभूमिं विख्यापयमानान्, सर्वसत्त्वनैरात्म्यास्वभावावताराभिज्ञावतीं ज्ञानभूमिं विख्यापयमानान्, सर्वसत्त्वचित्तसागरव्यवलोकनाभिज्ञावतीं ज्ञानभूमिं प्रकाशयमानान्, सर्वसत्त्वेन्द्रियविचयज्ञानाभिज्ञावतीं ज्ञानभूमिं प्रविभजमानान्, सर्वसत्त्वाशयाधिमुक्तिव्यवलोकनज्ञानाभिज्ञावतीं ज्ञानभूमिं संवर्णयमानान्, सर्वसत्त्वकर्मसागरावताराभिज्ञावतीं ज्ञानभूमिं विवरमाणान्, सर्वसत्त्वप्रणिधानसागरावतारज्ञानाभिज्ञावतीं ज्ञानभूमिं संदर्श्यं ज्ञानपारमितायां सत्त्वान् प्रतिष्ठापयमानान्, चित्तक्षणे चित्तक्षणे धर्मधातुं स्फरमाणान् सुधनः श्रेष्ठिदारको ऽपश्यत् ॥ मूर्धत उष्णीषविवरादसंख्येयबुद्धक्षेत्रपरमाणुरजःसमांस्तथागतविग्रहान् वरलक्षणानुव्यञ्जनविशुद्धयलंकारान् प्रतप्तजाम्बूनदकनकपर्वतनिर्भासान् सर्वदशदिक्प्रतापनाप्रमाणदीप्तप्रभामण्डलधर्मधातुनयस्फरणघोषान् अनन्तमध्यबुद्धविकुर्वितसंदर्शनान् सर्वजगदसंभिन्नधर्ममेघानभिप्रवर्षमाणान्, यदुत बोधिमण्डवरगतानां बोधिसत्त्वानां समन्तधर्मधातुतलभेदाभिमुखज्ञानमेघं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, अभिषेकप्राप्तानां बोधिसत्त्वानां समन्ततलमेघं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, महाधर्मयौवराज्याभिषिक्तानां बोधिसत्त्वानां समन्तमुखप्रवेशं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, कुमारभूतानां बोधिसत्त्वानां समन्तव्यूहं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, अविवर्त्यानां बोधिसत्त्वानां महाकरूणादृढकूटं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, शुद्धाध्याशयानां बोधिसत्त्वानां सर्वधर्मस्वभावभेदज्ञानवज्रं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, पूर्वयोगसंपन्नानां बोधिसत्त्वानां समन्तजगत्संग्रहव्यूहं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, जन्मजानां बोधिसत्त्वानां त्र्यध्वतथागतपर्षन्मण्डलाभिमुखविज्ञप्तिमेघं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, योगाचाराणां बोधिसत्त्वानां सर्वधर्मस्वभावतलनिर्घोषं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, आदिकर्मिकाणां बोधिसत्त्वानां महाकरुणानयोपायगर्भमेघसंभवं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, प्रथमचित्तोत्पादिकानां बोधिसत्त्वानां प्रग्रह कोशोपचयगर्भं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, उदाराधिमुक्तिकानां बोधिसत्त्वानामक्षयविमोक्षतथागतप्रणिधिप्रग्रहकोशं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, रूपावचराणां सत्त्वानां समन्ततलाक्षयकोशं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, ब्रह्मकायिकानां देवानामप्रमाणनयसागरनिगर्जितघोषं (ग्व् ७५) नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, वशवर्तिनां देवानां बलसंभवधर्मोपकरणाक्षयकोशं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, मारकायिकानां देवानां चित्रध्वजसर्वज्ञतासंभारसंमार्जनघोषं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, निर्माणरतीनां देवानां ज्ञानरत्नविचित्रधुरं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, तुषितानां देवानां बोधिसत्त्वप्रणिधिविचित्रध्वजं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, यामानां देवानां सर्वतथागतानुस्मृतिकोशं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, शक्रदेवेन्द्रभवनेषु तथागतदर्शनप्रीतिवेगसंभवं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, यक्षेन्द्रभवनेषु धर्मधातुगगनतथागतविकुर्वितस्फरणमेघं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, गन्धर्वेन्द्रभवनेषु सर्वतथागतधर्मसंगीतिनिर्घोषं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, असुरेन्द्रभवनेषु ज्ञाननयवज्रमण्डलं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, गरुडेन्द्रभवनेषु सर्वतथागतसंभवोपायमेघं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, किन्नरेन्द्रभवनेषु सर्वधर्ममेघसंगीतिनिर्घोषं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, नागेन्द्रभवनेषु बोधिसत्त्वविकुर्वितनिर्घोषभवगत्युद्वेगसंभवं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, महोरगेन्द्रभवनेषु प्रीतिसागरविवर्धनवेगं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, मनुष्यलोकेषु सर्वजगद्विशेषज्ञानविषयं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, नरकलोकेषु सर्वसंसारदुःखप्रशान्तनिर्घोषार्यमार्गवचनाधारालंकारं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, तिर्यग्योनिषु अनवद्यकर्मपथप्रतिपत्तिनिर्घोषतथागतानुस्मृतिमेघमण्डलशरीरं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, यामलौकिकेषु सर्वतथागतपारमितानिर्नादसर्वसत्त्वत्यागचित्तसंभवं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, विनिपतितेषु सत्त्वेषु सर्वदुःखोपशमप्रतिलाभसमाश्वासनस्वरनिर्घोषं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, सर्वधर्मधातुं स्फरमाणान् सुधनः श्रेष्ठिदारको ऽपश्यत् ॥ सर्वरोममुखेभ्यश्च एकैकस्माद्रोमविवरादसंख्येयबुद्धक्षेत्रपरमाणुरजःसमानि रश्मिजालमण्डलानि निश्चरित्वा असंख्येयबलरूपावर्तव्यूहान् असंख्येयविचित्रकार्यप्रत्युपस्थानानि दश दिशो धर्मधातुं स्फरमाणान्यपश्यत् । यदुत कुतश्चिद्रोममुखरश्मिजालमण्डलाद्विमलदानचर्यासर्वस्वपरित्यागविकुर्वितमपश्यत् । कुतश्चिद्रोममुखरश्मिजालमण्डलात्सर्वत्र्यध्वबोधिसत्त्वशीलव्रतसमादानाकल्पमण्डलविकुर्वितमपश्यत् । कुतश्चिद्रोममुखरश्मिजालमण्डलात्सर्वबोधिसत्त्वक्षान्तिचर्यारूपत्र्यध्वप्राप्तानां बोधिसत्त्वानां हस्तपादोत्तमाङ्गच्छेदाधिवासनविकुर्वितं पाणिदण्डशस्रशरीरोपनिपाताधिवासनविकुर्वितं सर्वशरीरभेदनहृदयनयनोद्धरणाधिवासनविकुर्वितपश्यत् । यैरप्यन्यैस्त्र्यध्वप्राप्तबोधिसत्त्वविकल्पितात्मभावैः सर्वज्ञताधर्मपर्येष्टिनिदानं सर्वकायिकचैतसिकप्रपीडितान्यङ्गप्रत्यङ्गच्छेदनानि महाकरूणाप्रपीडितैरधिवासितानि मर्षितानि अध्युपेक्षितानि, तान्यपि सर्वबोधिसत्त्वक्षान्तिचर्याविकुर्वितप्रतिबिम्बरूपाण्यपश्यत् । कुतश्चिद्रोममुखरश्मिजालमण्डलात्सर्वबोधिसत्त्ववीर्यचर्याधिमात्रताविभक्तरूपाण्यतीतानागतप्रत्युत्पन्नानि बोधिसत्त्वविकुर्वितानि लोकसंकम्पनसागरसंक्षोभनसत्त्वसंवेजनसर्वतीर्थ्यसंत्रासनमारमण्डलविद्रावणधर्मदिग्द्योतनमहाबोधिसत्त्वविक्रमविकुर्वितान्यपश्यत् । (ग्व् ७६) कुतश्चिद्रोममुखरश्मिजालमण्डलाद् यानि सर्वबोधिसत्त्वचर्यानिरूपणानि यान्यात्मभावोपादानानि ये कुलोपपत्तिपरिग्रहाय रूपकाय परिनिष्पत्तये ये कल्याणमित्रानुशासनीपरिग्रहाः, यानि कल्याणमित्रोपदेशप्रतिपत्तिस्थानानि, यानि तथागतध्यानाङ्गपरिनिष्पत्त्यनुरूपविहारभवनविमानजनपदगिरिकन्दराणि, यानि ऋषिशरीराणि, यैस्तानि ध्यानाङ्गानि निष्पादितानि, यानि नृपाधिपत्यानि, यानि नैष्क्रम्यमुखानि, ये व्रतसमादानाकल्पेर्यापथाः, तत्सर्वं सुधनः श्रेष्ठिदारको ऽपश्यत् ॥ कुतश्चिद्रोममुखरश्मिजालमण्डलात् प्रज्ञापारमिताचर्याविहारसर्वधर्मपर्येष्टिसंप्रयुक्तान् कायपरिग्रहानपश्यत् । यैः कायैरेकैकंधर्मपदं सर्वास्तिपरित्यागितया सर्वसत्त्वानामन्तिकात्पर्येषितं सर्वोपस्थानपरिचर्यासर्वकल्याणमित्रसकाशात्पर्येषितं श्रद्धागौरवनिर्जातेन च कायप्रमाणेन तथागतसकाशात्पर्येषितम्, यथा चैकत्वं धर्मपदं तथा सर्वधर्मपदानि प्रज्ञापारमिताप्रतिसंयुक्तानि यानि सर्वजगदुपपत्तिप्रतिभासैः कायैः पर्येषितानि, तत्सर्वं सुधनः श्रेष्ठिदारकः एकैकस्माद्रोममुखरश्मिजालमण्डलादपश्यत् । कुतश्चिद्रोममुखरश्मिजालमण्डलात्सर्वबोधिसत्त्वपरिपाकोपायसत्त्वगतिसमुद्रप्रसरितान् सर्वसत्त्वसंग्रहप्रयोगानपश्यत् । एकैकं च सत्त्वं सर्वसत्त्वकायसदृशैरात्मभावोपचारमुखैः पूर्वात्मभावोपादानैरुपायकौशल्यचर्याप्रयुक्तैः संगृह्यमाणं तत एकैकस्माद्रोममुखरश्मिजालमण्डलादपश्यत् । कुतश्चिद्रोममुखरश्मिजालमण्डलात् या भगवतः पूर्वसर्वकल्पप्रणिध्यभिनिर्हारचर्या सर्वसत्त्वपरिपाकप्रणिध्यभिनिर्हारचर्या सर्वक्षेत्रपरिशुद्धिप्रणिध्यभिनिर्हारचर्या, यानि च सर्वप्रणिध्यभिनिर्हारमण्डलानि तेषु तेषु तथागतपादमूलेषु अभिनिर्हृतानि सर्वसंसारदोषाणां तस्य तस्य संसारदोषस्य प्रतिपक्षेण, तत्सर्वं सुधनः श्रेष्ठिदारकस्तत एकैकस्माद्रोममुखरश्मिजालमण्डलादपश्यत् । कुतश्चिद्रोममुखरश्मिजालमण्डलात्सर्वबलपारमिताचर्यासंप्रयुक्तान् पूर्वयोगसमुद्रानपश्यत् । कुतश्चिद्रोममुखरश्मिजालमण्डलात्सर्वज्ञानचर्याविचारसंप्रयुक्तानज्ञाननिद्राप्रसुप्तसत्त्वप्रबोधनशरीरान् पूर्वयोगसमुद्रानपश्यत् ॥ अथ खलु सुधनः श्रेष्ठिदारकः सारध्वजं भिक्षुं तथा समाहितमुपनिध्यायन्तमुपपरीक्षमाणः, तत्समाधिविमोक्षमण्डलमनुस्मरन्, तामचिन्त्यां बोधिसत्त्वसमाधिवृषभितामनुविचिन्तयन्, तमचिन्त्यं सत्त्वार्थनयसागरमवतरन्, तदचिन्त्यं समन्तस्रोताभिमुखव्यूहाभिसंस्कारमुखमनुसरन्, अधिमुच्यमानः, तद्धर्मधातुव्यूहविशुद्धिज्ञानमुखमवतरन्, तद्बुद्धाधिष्ठानं संप्रतीच्छन्, ज्ञानं निस्तीरयमाणः, तद्बोधिसत्त्ववशिताबलं संजनयन्, तद्बोधिसत्त्वप्रणिधिबलं दृढीकुर्वाणः, तद्बोधिसत्त्वचर्याबलं विस्तारयन्, सारध्वजस्य भिक्षोः पुरतः एकमपि रात्रिंदिवसमतिनामयति, द्वावपि, सप्तापि रात्रिंदिवानि पुरतो ऽतिनामयति, अर्धमासमपि, मासद्वयमपि, यावत् षडपि मासान् षड् वा रात्रिंदिवानि सारध्वजस्य भिक्षोः पुरतो ऽतिनामयति । ततः षण्णां मासानां षण्णां च रात्रिंदिवानामत्ययेन सारध्वजो भिक्षुस्तस्मात्समाधेर्व्युत्थितः । सुधन आह - आश्चर्यं बतेदम्, आर्य, यावद्गम्भीर एष (ग्व् ७७) समाधिः । यावद्विपुलो यावदप्रमाणविषयो यावदचिन्त्यविकुर्वितव्यूहः यावदतुल्यालोकः यावदसंख्येयव्यूहः यावदसंहार्यगोचरः यावदसंभिन्नविषयः यावत्समदिग्विरोचनः यावदप्रमाणसत्त्वार्थप्रयोग एष समाधिः, यत्र हि नाम एवं सर्वसत्त्वानामपरिमाणदुःखस्कन्धव्युपशमाय प्रत्युपस्थितः, यदुत दारिद्र्यदुः खस्कन्धव्युपशमार्थेन प्रत्युपस्थितः । नरकगतिव्युपच्छेदनार्थेन तिर्यग्योनिगतिपरित्राणार्थेन सर्वाक्षणगतिद्वारपिथनार्थेन स्वर्गगत्युपनयनार्थेन देवमनुष्यरतिसुखसंभवार्थेन ध्यानविषयरत्यनुभवार्थेन संस्कृतावचरसुखसंवर्धनार्थेन त्रैधातुकनिःसरणमुखसंदर्शनार्थेन प्रत्युपस्थितः । बोधिचित्तसंभवहेतुपरिदीपनार्थेन प्रत्युपस्थितः । पुण्यज्ञानसंभारसंभवहेतुसंवर्धनार्थेन विपुलमहाकरुणावेगविवर्धनार्थेन महाप्रणिधानबलसंजननार्थेन बोधिसत्त्वमार्गावभासप्रतिलम्भार्थेन महापारमितायानव्यूहार्थेन महायानविशेषावताराभिनिर्हारार्थेन समन्तभद्रचर्याज्ञानावलोकार्थेन बोधिसत्त्वभूमिज्ञानालोकप्रतिलाभार्थेन सर्वबोधिसत्त्वप्रणिधिचर्यानिर्याणव्यूहविशुद्धिसमुदागमार्थेन सर्वज्ञविषयाक्रमणाधिष्ठानार्थेन प्रत्युपस्थितः । को नाम आर्य एष समाधिः? आह - अस्ति कुलपुत्र, समन्तचक्षुरुपेक्षाप्रतिलब्धा नाम प्रज्ञापारमिता । तदालोक एष समाधिः समन्तमुखविशुद्धिव्यूहो नाम । एतस्य कुलपुत्र समन्तचक्षुरुपेक्षाप्रतिलब्धप्रज्ञापारमितालोकनिर्जातस्य समन्तमुखविशुद्धिव्यूहस्य समाधेः सुभावितत्वात्समन्तमुखविशुद्धिव्यूहपूर्वंगमानि परिपूर्णानि दश समाध्यसंख्येयशतसहस्राण्याजायन्ते । आह - एतावत्परमः आर्य अस्य समाधेर्विषयः? आह - एतं कुलपुत्र समाधिं समापन्नस्य अधिष्ठानं लोकधातुविज्ञप्तिषु । अधिष्ठानं लोकधात्ववतारेषु । अधिष्ठानं लोकधातुविक्रमेषु । अधिष्ठानं लोकधातुप्रतिमण्डलेषु । अधिष्ठानं लोकधातुपरिकर्मसु । अधिष्ठानं लोकधातुपरिशोधनेषु । अधिष्ठानं बुद्धदर्शनविज्ञप्तिषु । अधिष्ठानं बुद्धमाहात्म्यप्रत्यवेक्षायाम् । अधिष्ठानं बुद्धविकुर्वितज्ञानतायाम् । अधिष्ठानं बुद्धबलावतारानुगमेषु । अधिष्ठानं बुद्धगुणसमुद्रावतरणतासु । अधिष्ठानं बुद्धधर्ममेघसंप्रतीच्छनतासु । अधिष्ठानं सर्वबुद्धधर्मचक्रप्रवर्तनासंभेदज्ञानानुगमेषु । अधिष्ठानं बुद्धपर्षण्डलसमुद्रावतरणावगाहनतासु । अधिष्ठानं दशदिक्प्रवेशानुसरणतासु । अधिष्ठानं बुद्धधर्मदेशनानुविलोकनेषु । अधिष्ठानं बुद्धदिगनुलोकनतासु । अधिष्ठानं महाकरुणादिगविजहनतासु । अधिष्ठानं मैत्रीदिक्स्फरणतासु । अधिष्ठानं बुद्धदर्शनदिगवतारातृप्तिषु । अधिष्ठानं सर्वसत्त्वसमुद्रावतारानुगमेषु । अधिष्ठानं सर्वसत्त्वेन्द्रियसमुद्रज्ञानानुगमेषु । अधिष्ठानं सर्वसत्त्वेन्द्रियसंभेदज्ञानेषु । एतमहं कुलपुत्र प्रज्ञापारमिताविहारं जानामि । किं मया शक्यं प्रज्ञापारमिताविहारसागरावतीर्णानां धर्मधातुविषयमतिविशुद्धानां सर्वधर्मगत्यनुसृतिज्ञानिनां विपुलबुद्ध्यप्रमाणविषयस्फरणानां महाधारण्यवभासवशवर्तिनां सर्वसमाधिमण्डलालोकसुपरिशुद्धानामभिज्ञाविकुर्वितवृषभितानिर्यातानामक्षयप्रतिसंवित्सागरावतीर्णानां भूमिगर्भमधुरनिर्घोषाणां सर्वजगत्प्रतिशरणभूतानां बोधिसत्त्वानां चर्या ज्ञातुम्, गुणान् वा वक्तुम्, गोचरो वा निदर्शयितुम्, (ग्व् ७८) विषयो वा प्रभावयितुम्, महाप्रणिधानबलं वा संवर्णयितुम्, निर्याणमुखं वा अवभासयितुम्, समुदागमो वा अभिद्योतयितुम्, मार्गं वा परिदीपयितुम्, समाधिस्रोतो व अनुसर्तुम्, चित्तविषयो वा ज्ञातुम्, ज्ञानं वा समता वा अवगन्तुम् ॥ गच्छ कुलपुत्र इहैव दक्षिणापथे समुद्रवेताडी नाम प्रत्युद्देशः । तत्र समन्तव्यूहं नामोद्यानं महाप्रभस्य नगरस्य पूर्वेण । तत्र आशा नामोपासिका प्रतिवसति सुप्रभस्य मनुजेन्द्रस्य भार्या । तामुपसंक्रम्य परिपृच्छ - कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रयोक्तव्यम् ॥ अथ खलु सुधनः श्रेष्ठिदारकस्तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातः सारध्वजस्य भिक्षोरन्तिकादात्तसारः उपजीवितधर्मा अवतीर्णसमाधिविषयो लब्धालोकावभासितज्ञानः समाध्यवभासप्रतिलब्धः अधिमुक्तिविशुद्धयनुगतधर्मनयालोकानुगतचेतनः विशुद्धिमुखानुगतालोको दिगालोकप्रसृतज्ञानः सारध्वजस्य भिक्षोः पादौ शिरसाभिवन्द्य अनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य सारध्वजं भिक्षुमवलोक्य प्रणिपत्य पुनः पुनरवलोकयन् अभिविलोकयन् निपतन् प्रणिपतन् नमस्यन् अवनमन् मनसिकुर्वंश्चिन्तयन् भावयन् पारिभावयन् उदानमुदानयन् हाक्कारं कुर्वन् गुणानभिमुखीकुर्वन् अनुगमयन् अनुस्मरन् अनुस्मारयन् दृढीकुर्वन् अविजहन् मनसा आगमयन् उपनिबध्नन् प्रणिधिं समवसरन् दर्शनमभिलषन् स्वरनिमित्तमुद्गृह्णन् धारयन् धारणानुगतचित्तो वर्णसंस्थानमनुस्मरन् ज्ञानविशेषमनुविचिन्तयन् समाधिविषयं समवतरन् प्रणिधिविषयमनुप्रबन्धन् गोचरविषयं विचारयन् ज्ञानावभासं संप्रतीच्छन् सारध्वजस्य भिक्षोरन्तिकात्प्रक्रान्तः
sarvabodhisattvavaśitāsu sattvān pratiṣṭhāpayamānān, aparāntakoṭyāviddhaṃ mahāpraṇidhānarathacakraṃ sarvadharmānusaraṇaṃ sarvakleśavinivartanamajñānaparvatavikiraṇaṃ loke prabhāvayamānān, nānāpraṇidhānavikurvitaiḥ cittakṣaṇe cittakṣaṇe dharmadhātuṃ spharamāṇānapaśyat / asaṃkhyeyabuddhakṣetraparamāṇurajaḥsamāṃśca bodhisattvānniścaritvā bodhisattvabalamavabhāsayamānān, bodhisattvabalapariniṣpattirutaṃ pramuñcamānān, balapāramitāpariniṣpattisaṃbhavapūrvayogameghān sarvaromavivarebhyo niścārayamāṇān, sarvamāraparapravādyanavamṛdyabalaṃ saṃdarśayamānān, sarvacakravālavajraparvataśarīropanipātātmabhedyabalaṃ prabhāvayamānān, (Gv 74) sarvakalpoddāhāgnisāgarasaṃvāsaśarīrānuddayotabalaṃ saṃdarśayamānān, gaganatale sarvalokadhātuprasarapāṇitalasaṃdhāraṇabalatāṃ saṃdarśayamānān, cittakṣaṇe cittakṣaṇe ṛddhivaśitāyāṃ sattvān pratiṣṭhāpayamānān dharmadhātuspharaṇāpratiprasrabdhānapaśyat / asaṃkhyeyabuddhakṣetraparamāṇurajaḥsamāṃśca bodhisattvān niścaritvā sattvānāṃ jñānamaṇḍalaṃ dyotayamānān, jñānaparimitāpariśuddhisaṃprayuktān pūrvayogameghān sarvaromavivarebhyaḥ pramuñcamānān, sarvabuddhaguṇajñānābhijñāvatīṃ jñānabhūmiṃ loke prabhāvayamāṇān, sarvabuddhasaṃjñābhijñāvatīṃ jñānabhūmiṃ saṃdarśayamānān, sarvapraṇidhyabhinirhārābhijñānābhijñāvatīṃ jñānabhūmiṃ paridīpayamānān, sarvasattvasaṃgrahapraṇidhyabhinirhārajñānābhijñāvatīṃ jñānabhūmiṃ vikhyāpayamānān, sarvasattvanairātmyāsvabhāvāvatārābhijñāvatīṃ jñānabhūmiṃ vikhyāpayamānān, sarvasattvacittasāgaravyavalokanābhijñāvatīṃ jñānabhūmiṃ prakāśayamānān, sarvasattvendriyavicayajñānābhijñāvatīṃ jñānabhūmiṃ pravibhajamānān, sarvasattvāśayādhimuktivyavalokanajñānābhijñāvatīṃ jñānabhūmiṃ saṃvarṇayamānān, sarvasattvakarmasāgarāvatārābhijñāvatīṃ jñānabhūmiṃ vivaramāṇān, sarvasattvapraṇidhānasāgarāvatārajñānābhijñāvatīṃ jñānabhūmiṃ saṃdarśyaṃ jñānapāramitāyāṃ sattvān pratiṣṭhāpayamānān, cittakṣaṇe cittakṣaṇe dharmadhātuṃ spharamāṇān sudhanaḥ śreṣṭhidārako 'paśyat // mūrdhata uṣṇīṣavivarādasaṃkhyeyabuddhakṣetraparamāṇurajaḥsamāṃstathāgatavigrahān varalakṣaṇānuvyañjanaviśuddhayalaṃkārān prataptajāmbūnadakanakaparvatanirbhāsān sarvadaśadikpratāpanāpramāṇadīptaprabhāmaṇḍaladharmadhātunayaspharaṇaghoṣān anantamadhyabuddhavikurvitasaṃdarśanān sarvajagadasaṃbhinnadharmameghānabhipravarṣamāṇān, yaduta bodhimaṇḍavaragatānāṃ bodhisattvānāṃ samantadharmadhātutalabhedābhimukhajñānameghaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, abhiṣekaprāptānāṃ bodhisattvānāṃ samantatalameghaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, mahādharmayauvarājyābhiṣiktānāṃ bodhisattvānāṃ samantamukhapraveśaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, kumārabhūtānāṃ bodhisattvānāṃ samantavyūhaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, avivartyānāṃ bodhisattvānāṃ mahākarūṇādṛḍhakūṭaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, śuddhādhyāśayānāṃ bodhisattvānāṃ sarvadharmasvabhāvabhedajñānavajraṃ nāma dharmameghavarṣamabhipravarṣamāṇān, pūrvayogasaṃpannānāṃ bodhisattvānāṃ samantajagatsaṃgrahavyūhaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, janmajānāṃ bodhisattvānāṃ tryadhvatathāgataparṣanmaṇḍalābhimukhavijñaptimeghaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, yogācārāṇāṃ bodhisattvānāṃ sarvadharmasvabhāvatalanirghoṣaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, ādikarmikāṇāṃ bodhisattvānāṃ mahākaruṇānayopāyagarbhameghasaṃbhavaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, prathamacittotpādikānāṃ bodhisattvānāṃ pragraha kośopacayagarbhaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, udārādhimuktikānāṃ bodhisattvānāmakṣayavimokṣatathāgatapraṇidhipragrahakośaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, rūpāvacarāṇāṃ sattvānāṃ samantatalākṣayakośaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, brahmakāyikānāṃ devānāmapramāṇanayasāgaranigarjitaghoṣaṃ (Gv 75) nāma dharmameghavarṣamabhipravarṣamāṇān, vaśavartināṃ devānāṃ balasaṃbhavadharmopakaraṇākṣayakośaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, mārakāyikānāṃ devānāṃ citradhvajasarvajñatāsaṃbhārasaṃmārjanaghoṣaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, nirmāṇaratīnāṃ devānāṃ jñānaratnavicitradhuraṃ nāma dharmameghavarṣamabhipravarṣamāṇān, tuṣitānāṃ devānāṃ bodhisattvapraṇidhivicitradhvajaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, yāmānāṃ devānāṃ sarvatathāgatānusmṛtikośaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, śakradevendrabhavaneṣu tathāgatadarśanaprītivegasaṃbhavaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, yakṣendrabhavaneṣu dharmadhātugaganatathāgatavikurvitaspharaṇameghaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, gandharvendrabhavaneṣu sarvatathāgatadharmasaṃgītinirghoṣaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, asurendrabhavaneṣu jñānanayavajramaṇḍalaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, garuḍendrabhavaneṣu sarvatathāgatasaṃbhavopāyameghaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, kinnarendrabhavaneṣu sarvadharmameghasaṃgītinirghoṣaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, nāgendrabhavaneṣu bodhisattvavikurvitanirghoṣabhavagatyudvegasaṃbhavaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, mahoragendrabhavaneṣu prītisāgaravivardhanavegaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, manuṣyalokeṣu sarvajagadviśeṣajñānaviṣayaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, narakalokeṣu sarvasaṃsāraduḥkhapraśāntanirghoṣāryamārgavacanādhārālaṃkāraṃ nāma dharmameghavarṣamabhipravarṣamāṇān, tiryagyoniṣu anavadyakarmapathapratipattinirghoṣatathāgatānusmṛtimeghamaṇḍalaśarīraṃ nāma dharmameghavarṣamabhipravarṣamāṇān, yāmalaukikeṣu sarvatathāgatapāramitānirnādasarvasattvatyāgacittasaṃbhavaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, vinipatiteṣu sattveṣu sarvaduḥkhopaśamapratilābhasamāśvāsanasvaranirghoṣaṃ nāma dharmameghavarṣamabhipravarṣamāṇān, sarvadharmadhātuṃ spharamāṇān sudhanaḥ śreṣṭhidārako 'paśyat // sarvaromamukhebhyaśca ekaikasmādromavivarādasaṃkhyeyabuddhakṣetraparamāṇurajaḥsamāni raśmijālamaṇḍalāni niścaritvā asaṃkhyeyabalarūpāvartavyūhān asaṃkhyeyavicitrakāryapratyupasthānāni daśa diśo dharmadhātuṃ spharamāṇānyapaśyat / yaduta kutaścidromamukharaśmijālamaṇḍalādvimaladānacaryāsarvasvaparityāgavikurvitamapaśyat / kutaścidromamukharaśmijālamaṇḍalātsarvatryadhvabodhisattvaśīlavratasamādānākalpamaṇḍalavikurvitamapaśyat / kutaścidromamukharaśmijālamaṇḍalātsarvabodhisattvakṣānticaryārūpatryadhvaprāptānāṃ bodhisattvānāṃ hastapādottamāṅgacchedādhivāsanavikurvitaṃ pāṇidaṇḍaśasraśarīropanipātādhivāsanavikurvitaṃ sarvaśarīrabhedanahṛdayanayanoddharaṇādhivāsanavikurvitapaśyat / yairapyanyaistryadhvaprāptabodhisattvavikalpitātmabhāvaiḥ sarvajñatādharmaparyeṣṭinidānaṃ sarvakāyikacaitasikaprapīḍitānyaṅgapratyaṅgacchedanāni mahākarūṇāprapīḍitairadhivāsitāni marṣitāni adhyupekṣitāni, tānyapi sarvabodhisattvakṣānticaryāvikurvitapratibimbarūpāṇyapaśyat / kutaścidromamukharaśmijālamaṇḍalātsarvabodhisattvavīryacaryādhimātratāvibhaktarūpāṇyatītānāgatapratyutpannāni bodhisattvavikurvitāni lokasaṃkampanasāgarasaṃkṣobhanasattvasaṃvejanasarvatīrthyasaṃtrāsanamāramaṇḍalavidrāvaṇadharmadigdyotanamahābodhisattvavikramavikurvitānyapaśyat / (Gv 76) kutaścidromamukharaśmijālamaṇḍalād yāni sarvabodhisattvacaryānirūpaṇāni yānyātmabhāvopādānāni ye kulopapattiparigrahāya rūpakāya pariniṣpattaye ye kalyāṇamitrānuśāsanīparigrahāḥ, yāni kalyāṇamitropadeśapratipattisthānāni, yāni tathāgatadhyānāṅgapariniṣpattyanurūpavihārabhavanavimānajanapadagirikandarāṇi, yāni ṛṣiśarīrāṇi, yaistāni dhyānāṅgāni niṣpāditāni, yāni nṛpādhipatyāni, yāni naiṣkramyamukhāni, ye vratasamādānākalperyāpathāḥ, tatsarvaṃ sudhanaḥ śreṣṭhidārako 'paśyat // kutaścidromamukharaśmijālamaṇḍalāt prajñāpāramitācaryāvihārasarvadharmaparyeṣṭisaṃprayuktān kāyaparigrahānapaśyat / yaiḥ kāyairekaikaṃdharmapadaṃ sarvāstiparityāgitayā sarvasattvānāmantikātparyeṣitaṃ sarvopasthānaparicaryāsarvakalyāṇamitrasakāśātparyeṣitaṃ śraddhāgauravanirjātena ca kāyapramāṇena tathāgatasakāśātparyeṣitam, yathā caikatvaṃ dharmapadaṃ tathā sarvadharmapadāni prajñāpāramitāpratisaṃyuktāni yāni sarvajagadupapattipratibhāsaiḥ kāyaiḥ paryeṣitāni, tatsarvaṃ sudhanaḥ śreṣṭhidārakaḥ ekaikasmādromamukharaśmijālamaṇḍalādapaśyat / kutaścidromamukharaśmijālamaṇḍalātsarvabodhisattvaparipākopāyasattvagatisamudraprasaritān sarvasattvasaṃgrahaprayogānapaśyat / ekaikaṃ ca sattvaṃ sarvasattvakāyasadṛśairātmabhāvopacāramukhaiḥ pūrvātmabhāvopādānairupāyakauśalyacaryāprayuktaiḥ saṃgṛhyamāṇaṃ tata ekaikasmādromamukharaśmijālamaṇḍalādapaśyat / kutaścidromamukharaśmijālamaṇḍalāt yā bhagavataḥ pūrvasarvakalpapraṇidhyabhinirhāracaryā sarvasattvaparipākapraṇidhyabhinirhāracaryā sarvakṣetrapariśuddhipraṇidhyabhinirhāracaryā, yāni ca sarvapraṇidhyabhinirhāramaṇḍalāni teṣu teṣu tathāgatapādamūleṣu abhinirhṛtāni sarvasaṃsāradoṣāṇāṃ tasya tasya saṃsāradoṣasya pratipakṣeṇa, tatsarvaṃ sudhanaḥ śreṣṭhidārakastata ekaikasmādromamukharaśmijālamaṇḍalādapaśyat / kutaścidromamukharaśmijālamaṇḍalātsarvabalapāramitācaryāsaṃprayuktān pūrvayogasamudrānapaśyat / kutaścidromamukharaśmijālamaṇḍalātsarvajñānacaryāvicārasaṃprayuktānajñānanidrāprasuptasattvaprabodhanaśarīrān pūrvayogasamudrānapaśyat // atha khalu sudhanaḥ śreṣṭhidārakaḥ sāradhvajaṃ bhikṣuṃ tathā samāhitamupanidhyāyantamupaparīkṣamāṇaḥ, tatsamādhivimokṣamaṇḍalamanusmaran, tāmacintyāṃ bodhisattvasamādhivṛṣabhitāmanuvicintayan, tamacintyaṃ sattvārthanayasāgaramavataran, tadacintyaṃ samantasrotābhimukhavyūhābhisaṃskāramukhamanusaran, adhimucyamānaḥ, taddharmadhātuvyūhaviśuddhijñānamukhamavataran, tadbuddhādhiṣṭhānaṃ saṃpratīcchan, jñānaṃ nistīrayamāṇaḥ, tadbodhisattvavaśitābalaṃ saṃjanayan, tadbodhisattvapraṇidhibalaṃ dṛḍhīkurvāṇaḥ, tadbodhisattvacaryābalaṃ vistārayan, sāradhvajasya bhikṣoḥ purataḥ ekamapi rātriṃdivasamatināmayati, dvāvapi, saptāpi rātriṃdivāni purato 'tināmayati, ardhamāsamapi, māsadvayamapi, yāvat ṣaḍapi māsān ṣaḍ vā rātriṃdivāni sāradhvajasya bhikṣoḥ purato 'tināmayati / tataḥ ṣaṇṇāṃ māsānāṃ ṣaṇṇāṃ ca rātriṃdivānāmatyayena sāradhvajo bhikṣustasmātsamādhervyutthitaḥ / sudhana āha - āścaryaṃ batedam, ārya, yāvadgambhīra eṣa (Gv 77) samādhiḥ / yāvadvipulo yāvadapramāṇaviṣayo yāvadacintyavikurvitavyūhaḥ yāvadatulyālokaḥ yāvadasaṃkhyeyavyūhaḥ yāvadasaṃhāryagocaraḥ yāvadasaṃbhinnaviṣayaḥ yāvatsamadigvirocanaḥ yāvadapramāṇasattvārthaprayoga eṣa samādhiḥ, yatra hi nāma evaṃ sarvasattvānāmaparimāṇaduḥkhaskandhavyupaśamāya pratyupasthitaḥ, yaduta dāridryaduḥ khaskandhavyupaśamārthena pratyupasthitaḥ / narakagativyupacchedanārthena tiryagyonigatiparitrāṇārthena sarvākṣaṇagatidvārapithanārthena svargagatyupanayanārthena devamanuṣyaratisukhasaṃbhavārthena dhyānaviṣayaratyanubhavārthena saṃskṛtāvacarasukhasaṃvardhanārthena traidhātukaniḥsaraṇamukhasaṃdarśanārthena pratyupasthitaḥ / bodhicittasaṃbhavahetuparidīpanārthena pratyupasthitaḥ / puṇyajñānasaṃbhārasaṃbhavahetusaṃvardhanārthena vipulamahākaruṇāvegavivardhanārthena mahāpraṇidhānabalasaṃjananārthena bodhisattvamārgāvabhāsapratilambhārthena mahāpāramitāyānavyūhārthena mahāyānaviśeṣāvatārābhinirhārārthena samantabhadracaryājñānāvalokārthena bodhisattvabhūmijñānālokapratilābhārthena sarvabodhisattvapraṇidhicaryāniryāṇavyūhaviśuddhisamudāgamārthena sarvajñaviṣayākramaṇādhiṣṭhānārthena pratyupasthitaḥ / ko nāma ārya eṣa samādhiḥ? āha - asti kulaputra, samantacakṣurupekṣāpratilabdhā nāma prajñāpāramitā / tadāloka eṣa samādhiḥ samantamukhaviśuddhivyūho nāma / etasya kulaputra samantacakṣurupekṣāpratilabdhaprajñāpāramitālokanirjātasya samantamukhaviśuddhivyūhasya samādheḥ subhāvitatvātsamantamukhaviśuddhivyūhapūrvaṃgamāni paripūrṇāni daśa samādhyasaṃkhyeyaśatasahasrāṇyājāyante / āha - etāvatparamaḥ ārya asya samādherviṣayaḥ? āha - etaṃ kulaputra samādhiṃ samāpannasya adhiṣṭhānaṃ lokadhātuvijñaptiṣu / adhiṣṭhānaṃ lokadhātvavatāreṣu / adhiṣṭhānaṃ lokadhātuvikrameṣu / adhiṣṭhānaṃ lokadhātupratimaṇḍaleṣu / adhiṣṭhānaṃ lokadhātuparikarmasu / adhiṣṭhānaṃ lokadhātupariśodhaneṣu / adhiṣṭhānaṃ buddhadarśanavijñaptiṣu / adhiṣṭhānaṃ buddhamāhātmyapratyavekṣāyām / adhiṣṭhānaṃ buddhavikurvitajñānatāyām / adhiṣṭhānaṃ buddhabalāvatārānugameṣu / adhiṣṭhānaṃ buddhaguṇasamudrāvataraṇatāsu / adhiṣṭhānaṃ buddhadharmameghasaṃpratīcchanatāsu / adhiṣṭhānaṃ sarvabuddhadharmacakrapravartanāsaṃbhedajñānānugameṣu / adhiṣṭhānaṃ buddhaparṣaṇḍalasamudrāvataraṇāvagāhanatāsu / adhiṣṭhānaṃ daśadikpraveśānusaraṇatāsu / adhiṣṭhānaṃ buddhadharmadeśanānuvilokaneṣu / adhiṣṭhānaṃ buddhadiganulokanatāsu / adhiṣṭhānaṃ mahākaruṇādigavijahanatāsu / adhiṣṭhānaṃ maitrīdikspharaṇatāsu / adhiṣṭhānaṃ buddhadarśanadigavatārātṛptiṣu / adhiṣṭhānaṃ sarvasattvasamudrāvatārānugameṣu / adhiṣṭhānaṃ sarvasattvendriyasamudrajñānānugameṣu / adhiṣṭhānaṃ sarvasattvendriyasaṃbhedajñāneṣu / etamahaṃ kulaputra prajñāpāramitāvihāraṃ jānāmi / kiṃ mayā śakyaṃ prajñāpāramitāvihārasāgarāvatīrṇānāṃ dharmadhātuviṣayamativiśuddhānāṃ sarvadharmagatyanusṛtijñānināṃ vipulabuddhyapramāṇaviṣayaspharaṇānāṃ mahādhāraṇyavabhāsavaśavartināṃ sarvasamādhimaṇḍalālokasupariśuddhānāmabhijñāvikurvitavṛṣabhitāniryātānāmakṣayapratisaṃvitsāgarāvatīrṇānāṃ bhūmigarbhamadhuranirghoṣāṇāṃ sarvajagatpratiśaraṇabhūtānāṃ bodhisattvānāṃ caryā jñātum, guṇān vā vaktum, gocaro vā nidarśayitum, (Gv 78) viṣayo vā prabhāvayitum, mahāpraṇidhānabalaṃ vā saṃvarṇayitum, niryāṇamukhaṃ vā avabhāsayitum, samudāgamo vā abhidyotayitum, mārgaṃ vā paridīpayitum, samādhisroto va anusartum, cittaviṣayo vā jñātum, jñānaṃ vā samatā vā avagantum // gaccha kulaputra ihaiva dakṣiṇāpathe samudravetāḍī nāma pratyuddeśaḥ / tatra samantavyūhaṃ nāmodyānaṃ mahāprabhasya nagarasya pūrveṇa / tatra āśā nāmopāsikā prativasati suprabhasya manujendrasya bhāryā / tāmupasaṃkramya paripṛccha - kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ prayoktavyam // atha khalu sudhanaḥ śreṣṭhidārakastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātaḥ sāradhvajasya bhikṣorantikādāttasāraḥ upajīvitadharmā avatīrṇasamādhiviṣayo labdhālokāvabhāsitajñānaḥ samādhyavabhāsapratilabdhaḥ adhimuktiviśuddhayanugatadharmanayālokānugatacetanaḥ viśuddhimukhānugatāloko digālokaprasṛtajñānaḥ sāradhvajasya bhikṣoḥ pādau śirasābhivandya anekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya sāradhvajaṃ bhikṣumavalokya praṇipatya punaḥ punaravalokayan abhivilokayan nipatan praṇipatan namasyan avanaman manasikurvaṃścintayan bhāvayan pāribhāvayan udānamudānayan hākkāraṃ kurvan guṇānabhimukhīkurvan anugamayan anusmaran anusmārayan dṛḍhīkurvan avijahan manasā āgamayan upanibadhnan praṇidhiṃ samavasaran darśanamabhilaṣan svaranimittamudgṛhṇan dhārayan dhāraṇānugatacitto varṇasaṃsthānamanusmaran jñānaviśeṣamanuvicintayan samādhiviṣayaṃ samavataran praṇidhiviṣayamanuprabandhan gocaraviṣayaṃ vicārayan jñānāvabhāsaṃ saṃpratīcchan sāradhvajasya bhikṣorantikātprakrāntaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.