यथा च सलिलभूमिविरहान् न बीजं केनचित् प्रविरूढम् आलोकितं तत्प्रत्ययाच् च दृष्टं विरोहद् एवम् आत्मापि गृहीतव्यः । कर्माज्ञानतृष्णात्यागाच् च यो निश्चीयते मोक्षः सति चात्मनि तत्परित्यागम् नोपलभामहे । तदपरित्यागाच् च कुतो मोक्ष इत्य् अहंकारपरित्यागश् च सत्य् आत्मनि कुतो भवेत् । सति चाहंकारे स्थितम् एवेदं जन्मस्रोतसीत्य् अभिधाय । अराडस्याश्रमात् तस्मान् निष्क्रम्य स महामतिः । तपोभिर् दुष्करैस् तीव्रैः शोषयामास विग्रहम्
yathā ca salilabhūmivirahān na bījaṃ kenacit pravirūḍham ālokitaṃ tatpratyayāc ca dṛṣṭaṃ virohad evam ātmāpi gṛhītavyaḥ | karmājñānatṛṣṇātyāgāc ca yo niścīyate mokṣaḥ sati cātmani tatparityāgam nopalabhāmahe | tadaparityāgāc ca kuto mokṣa ity ahaṃkāraparityāgaś ca saty ātmani kuto bhavet | sati cāhaṃkāre sthitam evedaṃ janmasrotasīty abhidhāya | arāḍasyāśramāt tasmān niṣkramya sa mahāmatiḥ / tapobhir duṣkarais tīvraiḥ śoṣayāmāsa vigraham
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.