उच्यते- न शयनादिवत्ततो ऽन्येनार्थवत्त्वात् । तद्यथा शयनाद्यङ्गानां सति परस्परोपकारित्वे ततो ऽन्येनार्थवत्त्वात्तदभावे चार्थानर्थक्यम् । एवं चक्षुरादीनां सति परस्परोपकारित्वे ततो ऽन्येनार्थवत्त्वं भवितुमर्हति । तदभावे चार्थानर्थक्यमिति । आह, शयनादीनां देवदत्तार्थत्वात्तस्य च भेदा बहिर्भावात्परस्परार्थत्वप्रसंगः । एवं शयनादयो देवदत्तार्थाः, कार्यकारणसंघातश्च देवदत्तशब्दवाच्यस्तत्र भेदानामेव भेदार्थत्वात्पुरुषार्थसिद्धिः । दृष्टान्ताभावो वा । अथ मतं शयनादयो न देवदत्तार्थाः, किं तर्हि क्षेत्रज्ञार्थाः । तथा सति साध्यसमो दृष्टान्त इति । उच्यते- न, प्रसिद्ध्यनुरोधात् । सत्यं कार्यकारणसंघातस्य पारार्थ्यम् । भोक्तृत्वं नोपपद्यते । लोके तु देवदत्तार्थत्वं शयनादीनां प्रसिद्धम् । अतस्तदनुगच्छन्तो वयमप्येवं ब्रूमः । कस्मात् ? प्रसिद्धेः । प्रसिद्धेन ह्यप्रसिद्धं तद्धर्मतामापद्यते भवद्भिरप्युक्तं "यस्य हि प्रतिक्षणमन्यथात्वं नास्ति तस्य बाह्यप्रत्यययोः भेदः, पश्चाद्विशेषग्रहणे नास्ति । तद्यथा भूमेरपच्यमानायाः पाकजानाम् ।" न च भूमेः प्रतिक्षणमन्यथात्वं नास्ति, अक्षणिकत्वप्रसंगात् । सौक्ष्म्याद्दुरधिगमो भेद इति दृष्टान्तः प्रयुक्तः । तस्मात्सिद्धं संघातपरार्थत्वादस्ति पुरुषः । इतश्च- त्रिगुणादिविपर्ययात् त्रिगुणमविवेकि विषयः सामान्यमचेतनं प्रसवधर्मि च बाह्याध्यात्मिकं तथा प्रधानम् । तत्र यद्येतावदेतत्स्यात् किमपेक्ष्य व्यक्ताव्यक्तयोस्त्रैगुण्यादिति ? किं चान्यत् । अधिष्ठानात् । इहाकस्मिक्यां प्रधानप्रवृत्तावर्थवशः सन्निवेशनियमो न स्यात् । श्रोत्रादि पृथिव्यादीनां देवमानुषतिर्यक्षु हितयोगार्थश्चाप्रतिषेधार्थश्च सः । तस्मादस्ति तद्व्यतिरिक्तो यदधिष्ठितानां गुणानामयं चित्ररूपो विपरिणामः । कर्तृत्वप्रसंगादधिष्ठानानुपपत्तिरिति चेत्, स्यान्मतं यदि गुणानां पुरुषाधिष्ठितानां प्रवृत्तिरभ्युपगम्यते, कर्तृत्वमस्य प्राप्तम् । अथाकर्ता न तर्ह्यस्त्यधिष्ठातृत्वमिति । एतच्चायुक्तम् । कस्मात् ? अर्थे तदुपचारात् । यथापुरुषार्थः सिद्ध्यति तथा गुणा कार्यकारणभावेन व्यूह्यन्त इत्यतस्तत्पारतन्त्र्यादेषामधिष्ठितत्वमुपपद्यते, पुरुषस्य चाधिष्ठितृत्वम् । अतो नास्य कर्तृत्वप्रसंगः । तस्माद्युक्तमेतत् अधिष्ठानात्पुरुषः । किञ्चान्यत् । पुरुषो ऽस्ति भोक्तृभावात् इह सुखदुःखमोहात्मकत्वादचेतनं व्यक्तमव्यक्तं च, तस्मादस्य परस्परेण भोगो नोपपद्यते, इत्यवश्यं भोक्त्रा भवितव्यम् । यो ऽसौ भोक्ता स पुरुषः । आह, कः पुनरयं भोगो नाम ? उच्यते- भोग उपलब्धिसद्भावात् । विज्ञानमेव हि विषयोपलब्धिसमर्थमित्यतस्तावन्मात्रमेवास्तु किं पुरुषेण परिकल्पितेनेति ? उच्यते- किं पुनरिदं विज्ञानं नामेति ? आह, चित्तं मनो विज्ञानमिति । तच्च षड्विधं ज्ञानं- चक्षुर्विज्ञानं, श्रोत्रविज्ञानं, घ्राणविज्ञानं, जिह्वाविज्ञानं, कायविज्ञानं, मनोविज्ञानमिति । तत्र रूपं प्रतीत्य चक्षुश्चोत्पद्यते चक्षुर्विज्ञानम् । एवं श्रोत्रशब्दघ्राणगन्धजिह्वारसमनोधर्माश्चित्तमुत्पादयन्ति । तस्य धर्माः - वेदना, संज्ञा, स्पर्शो, मनः, संस्कार एवमादयः तस्माद्विज्ञानस्कन्धस्यैवोपभोगसामर्थान्नास्त्यात्मेति । उच्यते- न, अचेतनविकारस्य चेतनानुपत्तेः । तत्तु खल्विदमिष्यते रूपं प्रतीत्य चक्षुश्चोत्पद्यते चक्षुर्विज्ञानमित्यादि, तेनाचेतनविकारत्वात्तदचेतनं घटादिवदित्यापन्नम् । तस्मान्मनोधर्मश्चेतनेति मनोरथमात्रमेतत् । विलक्षणकार्योत्पत्तिदर्शनात्तत्सिद्धिरिति चेत्, स्यान्मतं नायं नियमः यदुत यज्जातीयं कारणं तज्जातीयकेन कार्येण भवितव्यम् । किं तर्हि विलक्षणकार्योत्पत्तिरिति भावानामुपलभ्यते । तद्यथा- शृङ्गाच्छरो जायते, गोलोमाविलोमभ्यो दूर्वा । वत्सतरान्मुक यश्चन्द्रकान्तेन्दुसंयोगात्सलिलम् । सूर्यकान्तगोमयार्कसम्पर्कात् सुधोदकसम्पर्कादरणीनिर्मथनाच्चाग्निः । एवमचेतनेभ्यो रूपादिभ्यश्चेतनमुत्पद्यत इति । एतच्चायुक्तम्, चेतनाचेतनोत्पत्तिनियमवत्तन्नियमात् । यथा सत्येतस्मिन्विलक्षणकार्यप्रादुर्भावे भवतश्चेतनाच्चित्तान्नाचेतनं घटाद्युत्पद्यत इति नियमः, तथा सत्येतस्मिन्विलक्षणकार्यप्रादुर्भावे नाचेतनेभ्यो रूपादिभ्यश्चेतनं चित्तमुत्पद्यत इत्ययं नियमो नः । तस्मादेषां दृष्टानां सति बहुत्वे मायाकारनगरविन्यासवदयथार्थज्ञानविषयत्वादसाधीयस्त्वम् । प्रदीपवत्तद्व्यवस्थेति चेत्, स्यादेतत् यथाचेतनेभ्यः सत्त्वादिभ्यो ऽव्यवसायकं घटाद्युत्पद्यत इति नेदानीं व्यवसायको महान्नोत्पद्यते । एवं रूपादिभ्यो ऽचेतनं घटाद्युत्पद्यत इति नेदानीं चेतनं चित्तं नोत्पद्यत इति । एतदप्यनुपपन्नम् । कस्मात् ? शक्तिभेदात् । प्रकाशस्वाभाव्याद्व्यवसायात्मकं सत्त्वम् । तद्युक्तं यदि तत्प्रान्याद्व्यवसायात्मको महानुत्पद्यते । तमः प्राधान्याद्व्यवसायका घटादयः । भवतस्त्वेकाकाराः रूपादयः तस्मादायमसमः समाधिरिति । आह, किं व्यवसायचैतन्ययोः कश्चिद्रूपभेदो ऽस्ति न वेति ? उच्यते- किं तर्हि त्रैगुण्यात्सति प्रत्ययरूपत्वे संवेद्या बुद्धिर्यथा तु व्यवसायरूपं तथा चैतन्यरूपमिति । तथा च वार्षगणाः पठन्ति- बुद्धिवृत्त्याविष्टो हि प्रत्ययत्वेनानुवर्तमानामनुयाति पुरुष इति । आह च अर्थाकार इवाभाति यथा बुद्धिस्तथा पुमान् । आभासमानो बुद्ध्यातो बोद्धा मणिवदुच्यते ॥ यथा यथा मनोवृत्तिः पुरुषो ऽस्ति तथा तथा । बुद्धिरूपमवाप्नोति चेतनत्वात्पराश्रयम् ॥ आह, रूपाभेदात्पुरुषान्तःकरणयोरन्यतरपरिकल्पनानर्थक्यम् । यदि तर्हि यथा व्यवसायरूपं तथा चैतन्यरूपम्, एवं सति व्यवसायमात्रं परिकल्पनीयं चैतन्यमात्रं वा ? कस्मात् ? न ह्येकान्तकारिणोर्युगपत् कल्पने सामर्थ्यमस्ति । रूपान्तराभिधानं वा । अथ व्यवसायचैतन्ययोः पदार्थानामन्तरमेवेति नित्यतो विशेष्यते, तर्हि वक्तव्यमिदममुष्यैव रूपं नामुष्येति । उच्यते- य एवमाह रूपाभेदादर्थाभेद इति स तावदिदं प्रष्टव्यः- अथ किम् ? भवतः किं विज्ञानविषययोराकारहेदो ऽस्ति उत नास्तीति ? नेत्याह । कस्मात् ? आकारान्तरे सति विषयपरिच्छेदानुपपत्तेः । न हि विषयस्य विज्ञानप्रत्यवभासमन्तरेण शक्यं स्वरूपं परिच्छेत्तुम् । तत्र यदन्याकारो गौरन्याकारं गोविज्ञानं स्यात्तेन यथान्याकारेणाश्वविज्ञानेनान्याकारस्य गोरपरिच्छेदः, एवमन्याकारेण गोविज्ञानेनान्याकारस्य गोपरिच्छेदः स्यात् । तस्मान्नास्ति विषयविज्ञानयोराकारभेद इति । उच्यते- तयोरिदानीं विषयविषयविज्ञानयोः किमुभयत्वमुताभेद इति ? आह, कस्मात् ? ज्ञाप्यज्ञापकभावादिति । उच्यते- ज्ञानविज्ञेययोर्यद्वद्रूपाभेदे ऽपि भिन्नता । ग्राह्यग्राहकभावेन तथैवात्मप्रकाशयोः ॥ यथैव तर्हि भवतः सत्यप्याकारभेदे ज्ञानविज्ञेययोर्ग्राह्यग्राहकभावपरिकल्पनाद्भेद एवं पुरुषान्तःकरणयोरपीति । ग्राह्यग्राहकभावासिद्धेरयुक्तमिति चेत् स्यादेतत्, यथा गोतद्विज्ञानयोर्ग्राह्यग्राहकभावो निश्चितो नैवं पुरुषान्तःकरणयोः । तस्माद्वैषम्यमिति । एतदनुपपन्नम् । कस्मात् ? मार्गान्तरगमनात् । प्रागुक्तं येषामाकारभेदो नास्ति तेषामेकत्वम् । इदानीं तु रूपाभेदे ऽपि ग्राह्यग्राहकभावादेवं ब्रुवतो मार्गान्तरम् । ज्ञानमात्राभ्युपगमादशाक्यीयमिति चेत् स्यान्मतम्, ज्ञानमेवान्तरासद्विषयभूतानुरञ्जितं विषयविषयिरूपेण प्रत्यवभासते । न तु किंचिद्बाह्यं किंचिद् ग्राह्यरूपापन्नमस्ति । तस्माज्ज्ञानविज्ञेययोर्ग्राह्यग्राहकभेदाद्भेद इत्यशाक्यीयमेतत् इति । तदप्ययुक्तम् । कस्मात् ? सिद्धान्तभेदात् । येषां बाह्यो विषयो ऽस्ति तत्पक्षे ऽयं दोषः । इतरेषां तु ज्ञानमात्रस्य विषयविषयिभावं प्रतिषेत्स्याम इति । आह, एवमपि विषयानवस्थाप्रसंगः । विषयिणो विषयत्वप्रतिज्ञानात् । यदि विषयिणो ऽप्यध्यवसायस्य विषयभावः प्रतिज्ञायते, तेन पुरुषस्यापि विषयिणो ऽन्यो विषयीति प्राप्तम्, तस्याप्यन्य इत्यनवस्थाः । अथ मा भूदयं दोष इति पुरुषो निश्चयरूपत्वान्न विषयो न तर्ह्यध्यवसायादपि निश्चेतुरर्थान्तरं कल्पयितव्यमिति । उच्यते- चेतनात्वात्पुरुषे तदनुपपत्तिः । इन्द्रियाणि तावद्ग्रहणमात्ररूपत्वादप्रत्ययानीति प्रत्ययवदन्तस्तावत्करणं परिकल्प्यते । अनःकरणमप्युपात्तविषयेन्द्रियवृत्त्युपनिपातात्तद्रूपापत्तावपि सत्यामचेतनत्वात्स्वयमुपलब्धुमसमर्थमेव विषयमित्यतो भोक्तारं चेतनं पुरुषमपेक्षते । पुरुषस्य तु चेतनत्वाद् द्रष्ट्रन्तरमशक्यं कल्पयितुम् । तस्मान्नानवस्थाप्रसंगः । आह, पुरुषस्याध्यवसायकर्तृत्वप्रसंगः, चैतन्यात् । यद्यचेतना बुद्धिस्तेन तस्या अध्यवसायो वृत्तिर्घटादिवन्न प्राप्नोति । अतः पुरुषस्याध्यवसायः प्राप्तः । ततश्च बुद्ध्यभाव इति । उच्यते- न, कैवल्यादप्रतिबन्धप्रसंगात् । अनामिश्ररूपं पुरुषतत्त्वमिति एतदुपरिष्टाद्वक्ष्यामः । स यदि व्यवसायात्मकः स्यात्, अप्रतिबन्धेन दिङ्निश्चयादिषु सुप्तमत्तमूर्च्छितानां च व्यवसायः स्यात् । दृष्टस्त्वेवमवस्थस्य व्यवसायप्रतिबन्धः । तस्मान्न पुरुषस्य व्यवसायह । यस्य पुनरन्तःकरणं व्यवसायकं तस्यैवं दोषो नास्ति । कस्मात् ? त्रैगुण्यात् । सत्त्वादिसंस्थानविशेषो हि बुद्धिः, करणान्तरप्रतिषेधात् । तत्र यदाध्यवसायलक्षणं सत्त्वं गुणाभावात्प्रधानभूतेन तमसा तिरस्कृतशक्ति भवति तदाध्यवसायप्रतिबन्धः । आह, कथं पुनरेतद् गम्यते सर्वमिदमचेतनमिति ? उच्यते- प्रकृतिविकारभूतत्वात् । इह यत्प्रकृतिविकारभूतं तदचेतनम् । तद्यथा तन्तुपटादयः प्रकृतिविकारभूतं तस्मादचेतनम् । आकाशे दर्शनान्नैकान्त इति चेन्न, असिद्धत्वात् । न ह्याकाशस्यात्मपक्षे प्रकृतिविकारत्वाभावः सिद्धः । तस्माद्युक्तमेतत्प्रकृतिविकारभूतत्वादचेतनं सर्वम् । अत एव च चेतनस्याप्रकृतिविकारभूतत्वं परस्परवैधर्म्यात् । तस्मान्नान्यस्य परमार्थस्य भोक्तृत्वमाचेतन्यादुपपद्यते, न चेत् सूक्तं भोक्तृभावादस्ति पुरुषः । कैवल्यार्थं प्रवृत्तेश्च
ucyate- na śayanādivattato 'nyenārthavattvāt / tadyathā śayanādyaṅgānāṃ sati parasparopakāritve tato 'nyenārthavattvāttadabhāve cārthānarthakyam / evaṃ cakṣurādīnāṃ sati parasparopakāritve tato 'nyenārthavattvaṃ bhavitumarhati / tadabhāve cārthānarthakyamiti / āha, śayanādīnāṃ devadattārthatvāttasya ca bhedā bahirbhāvātparasparārthatvaprasaṃgaḥ / evaṃ śayanādayo devadattārthāḥ, kāryakāraṇasaṃghātaśca devadattaśabdavācyastatra bhedānāmeva bhedārthatvātpuruṣārthasiddhiḥ / dṛṣṭāntābhāvo vā / atha mataṃ śayanādayo na devadattārthāḥ, kiṃ tarhi kṣetrajñārthāḥ / tathā sati sādhyasamo dṛṣṭānta iti / ucyate- na, prasiddhyanurodhāt / satyaṃ kāryakāraṇasaṃghātasya pārārthyam / bhoktṛtvaṃ nopapadyate / loke tu devadattārthatvaṃ śayanādīnāṃ prasiddham / atastadanugacchanto vayamapyevaṃ brūmaḥ / kasmāt ? prasiddheḥ / prasiddhena hyaprasiddhaṃ taddharmatāmāpadyate bhavadbhirapyuktaṃ "yasya hi pratikṣaṇamanyathātvaṃ nāsti tasya bāhyapratyayayoḥ bhedaḥ, paścādviśeṣagrahaṇe nāsti / tadyathā bhūmerapacyamānāyāḥ pākajānām /" na ca bhūmeḥ pratikṣaṇamanyathātvaṃ nāsti, akṣaṇikatvaprasaṃgāt / saukṣmyādduradhigamo bheda iti dṛṣṭāntaḥ prayuktaḥ / tasmātsiddhaṃ saṃghātaparārthatvādasti puruṣaḥ / itaśca- triguṇādiviparyayāt triguṇamaviveki viṣayaḥ sāmānyamacetanaṃ prasavadharmi ca bāhyādhyātmikaṃ tathā pradhānam / tatra yadyetāvadetatsyāt kimapekṣya vyaktāvyaktayostraiguṇyāditi ? kiṃ cānyat / adhiṣṭhānāt / ihākasmikyāṃ pradhānapravṛttāvarthavaśaḥ sanniveśaniyamo na syāt / śrotrādi pṛthivyādīnāṃ devamānuṣatiryakṣu hitayogārthaścāpratiṣedhārthaśca saḥ / tasmādasti tadvyatirikto yadadhiṣṭhitānāṃ guṇānāmayaṃ citrarūpo vipariṇāmaḥ / kartṛtvaprasaṃgādadhiṣṭhānānupapattiriti cet, syānmataṃ yadi guṇānāṃ puruṣādhiṣṭhitānāṃ pravṛttirabhyupagamyate, kartṛtvamasya prāptam / athākartā na tarhyastyadhiṣṭhātṛtvamiti / etaccāyuktam / kasmāt ? arthe tadupacārāt / yathāpuruṣārthaḥ siddhyati tathā guṇā kāryakāraṇabhāvena vyūhyanta ityatastatpāratantryādeṣāmadhiṣṭhitatvamupapadyate, puruṣasya cādhiṣṭhitṛtvam / ato nāsya kartṛtvaprasaṃgaḥ / tasmādyuktametat adhiṣṭhānātpuruṣaḥ / kiñcānyat / puruṣo 'sti bhoktṛbhāvāt iha sukhaduḥkhamohātmakatvādacetanaṃ vyaktamavyaktaṃ ca, tasmādasya paraspareṇa bhogo nopapadyate, ityavaśyaṃ bhoktrā bhavitavyam / yo 'sau bhoktā sa puruṣaḥ / āha, kaḥ punarayaṃ bhogo nāma ? ucyate- bhoga upalabdhisadbhāvāt / vijñānameva hi viṣayopalabdhisamarthamityatastāvanmātramevāstu kiṃ puruṣeṇa parikalpiteneti ? ucyate- kiṃ punaridaṃ vijñānaṃ nāmeti ? āha, cittaṃ mano vijñānamiti / tacca ṣaḍvidhaṃ jñānaṃ- cakṣurvijñānaṃ, śrotravijñānaṃ, ghrāṇavijñānaṃ, jihvāvijñānaṃ, kāyavijñānaṃ, manovijñānamiti / tatra rūpaṃ pratītya cakṣuścotpadyate cakṣurvijñānam / evaṃ śrotraśabdaghrāṇagandhajihvārasamanodharmāścittamutpādayanti / tasya dharmāḥ - vedanā, saṃjñā, sparśo, manaḥ, saṃskāra evamādayaḥ tasmādvijñānaskandhasyaivopabhogasāmarthānnāstyātmeti / ucyate- na, acetanavikārasya cetanānupatteḥ / tattu khalvidamiṣyate rūpaṃ pratītya cakṣuścotpadyate cakṣurvijñānamityādi, tenācetanavikāratvāttadacetanaṃ ghaṭādivadityāpannam / tasmānmanodharmaścetaneti manorathamātrametat / vilakṣaṇakāryotpattidarśanāttatsiddhiriti cet, syānmataṃ nāyaṃ niyamaḥ yaduta yajjātīyaṃ kāraṇaṃ tajjātīyakena kāryeṇa bhavitavyam / kiṃ tarhi vilakṣaṇakāryotpattiriti bhāvānāmupalabhyate / tadyathā- śṛṅgāccharo jāyate, golomāvilomabhyo dūrvā / vatsatarānmuka yaścandrakāntendusaṃyogātsalilam / sūryakāntagomayārkasamparkāt sudhodakasamparkādaraṇīnirmathanāccāgniḥ / evamacetanebhyo rūpādibhyaścetanamutpadyata iti / etaccāyuktam, cetanācetanotpattiniyamavattanniyamāt / yathā satyetasminvilakṣaṇakāryaprādurbhāve bhavataścetanāccittānnācetanaṃ ghaṭādyutpadyata iti niyamaḥ, tathā satyetasminvilakṣaṇakāryaprādurbhāve nācetanebhyo rūpādibhyaścetanaṃ cittamutpadyata ityayaṃ niyamo naḥ / tasmādeṣāṃ dṛṣṭānāṃ sati bahutve māyākāranagaravinyāsavadayathārthajñānaviṣayatvādasādhīyastvam / pradīpavattadvyavastheti cet, syādetat yathācetanebhyaḥ sattvādibhyo 'vyavasāyakaṃ ghaṭādyutpadyata iti nedānīṃ vyavasāyako mahānnotpadyate / evaṃ rūpādibhyo 'cetanaṃ ghaṭādyutpadyata iti nedānīṃ cetanaṃ cittaṃ notpadyata iti / etadapyanupapannam / kasmāt ? śaktibhedāt / prakāśasvābhāvyādvyavasāyātmakaṃ sattvam / tadyuktaṃ yadi tatprānyādvyavasāyātmako mahānutpadyate / tamaḥ prādhānyādvyavasāyakā ghaṭādayaḥ / bhavatastvekākārāḥ rūpādayaḥ tasmādāyamasamaḥ samādhiriti / āha, kiṃ vyavasāyacaitanyayoḥ kaścidrūpabhedo 'sti na veti ? ucyate- kiṃ tarhi traiguṇyātsati pratyayarūpatve saṃvedyā buddhiryathā tu vyavasāyarūpaṃ tathā caitanyarūpamiti / tathā ca vārṣagaṇāḥ paṭhanti- buddhivṛttyāviṣṭo hi pratyayatvenānuvartamānāmanuyāti puruṣa iti / āha ca arthākāra ivābhāti yathā buddhistathā pumān / ābhāsamāno buddhyāto boddhā maṇivaducyate // yathā yathā manovṛttiḥ puruṣo 'sti tathā tathā / buddhirūpamavāpnoti cetanatvātparāśrayam // āha, rūpābhedātpuruṣāntaḥkaraṇayoranyataraparikalpanānarthakyam / yadi tarhi yathā vyavasāyarūpaṃ tathā caitanyarūpam, evaṃ sati vyavasāyamātraṃ parikalpanīyaṃ caitanyamātraṃ vā ? kasmāt ? na hyekāntakāriṇoryugapat kalpane sāmarthyamasti / rūpāntarābhidhānaṃ vā / atha vyavasāyacaitanyayoḥ padārthānāmantarameveti nityato viśeṣyate, tarhi vaktavyamidamamuṣyaiva rūpaṃ nāmuṣyeti / ucyate- ya evamāha rūpābhedādarthābheda iti sa tāvadidaṃ praṣṭavyaḥ- atha kim ? bhavataḥ kiṃ vijñānaviṣayayorākārahedo 'sti uta nāstīti ? netyāha / kasmāt ? ākārāntare sati viṣayaparicchedānupapatteḥ / na hi viṣayasya vijñānapratyavabhāsamantareṇa śakyaṃ svarūpaṃ paricchettum / tatra yadanyākāro gauranyākāraṃ govijñānaṃ syāttena yathānyākāreṇāśvavijñānenānyākārasya goraparicchedaḥ, evamanyākāreṇa govijñānenānyākārasya goparicchedaḥ syāt / tasmānnāsti viṣayavijñānayorākārabheda iti / ucyate- tayoridānīṃ viṣayaviṣayavijñānayoḥ kimubhayatvamutābheda iti ? āha, kasmāt ? jñāpyajñāpakabhāvāditi / ucyate- jñānavijñeyayoryadvadrūpābhede 'pi bhinnatā / grāhyagrāhakabhāvena tathaivātmaprakāśayoḥ // yathaiva tarhi bhavataḥ satyapyākārabhede jñānavijñeyayorgrāhyagrāhakabhāvaparikalpanādbheda evaṃ puruṣāntaḥkaraṇayorapīti / grāhyagrāhakabhāvāsiddherayuktamiti cet syādetat, yathā gotadvijñānayorgrāhyagrāhakabhāvo niścito naivaṃ puruṣāntaḥkaraṇayoḥ / tasmādvaiṣamyamiti / etadanupapannam / kasmāt ? mārgāntaragamanāt / prāguktaṃ yeṣāmākārabhedo nāsti teṣāmekatvam / idānīṃ tu rūpābhede 'pi grāhyagrāhakabhāvādevaṃ bruvato mārgāntaram / jñānamātrābhyupagamādaśākyīyamiti cet syānmatam, jñānamevāntarāsadviṣayabhūtānurañjitaṃ viṣayaviṣayirūpeṇa pratyavabhāsate / na tu kiṃcidbāhyaṃ kiṃcid grāhyarūpāpannamasti / tasmājjñānavijñeyayorgrāhyagrāhakabhedādbheda ityaśākyīyametat iti / tadapyayuktam / kasmāt ? siddhāntabhedāt / yeṣāṃ bāhyo viṣayo 'sti tatpakṣe 'yaṃ doṣaḥ / itareṣāṃ tu jñānamātrasya viṣayaviṣayibhāvaṃ pratiṣetsyāma iti / āha, evamapi viṣayānavasthāprasaṃgaḥ / viṣayiṇo viṣayatvapratijñānāt / yadi viṣayiṇo 'pyadhyavasāyasya viṣayabhāvaḥ pratijñāyate, tena puruṣasyāpi viṣayiṇo 'nyo viṣayīti prāptam, tasyāpyanya ityanavasthāḥ / atha mā bhūdayaṃ doṣa iti puruṣo niścayarūpatvānna viṣayo na tarhyadhyavasāyādapi niśceturarthāntaraṃ kalpayitavyamiti / ucyate- cetanātvātpuruṣe tadanupapattiḥ / indriyāṇi tāvadgrahaṇamātrarūpatvādapratyayānīti pratyayavadantastāvatkaraṇaṃ parikalpyate / anaḥkaraṇamapyupāttaviṣayendriyavṛttyupanipātāttadrūpāpattāvapi satyāmacetanatvātsvayamupalabdhumasamarthameva viṣayamityato bhoktāraṃ cetanaṃ puruṣamapekṣate / puruṣasya tu cetanatvād draṣṭrantaramaśakyaṃ kalpayitum / tasmānnānavasthāprasaṃgaḥ / āha, puruṣasyādhyavasāyakartṛtvaprasaṃgaḥ, caitanyāt / yadyacetanā buddhistena tasyā adhyavasāyo vṛttirghaṭādivanna prāpnoti / ataḥ puruṣasyādhyavasāyaḥ prāptaḥ / tataśca buddhyabhāva iti / ucyate- na, kaivalyādapratibandhaprasaṃgāt / anāmiśrarūpaṃ puruṣatattvamiti etadupariṣṭādvakṣyāmaḥ / sa yadi vyavasāyātmakaḥ syāt, apratibandhena diṅniścayādiṣu suptamattamūrcchitānāṃ ca vyavasāyaḥ syāt / dṛṣṭastvevamavasthasya vyavasāyapratibandhaḥ / tasmānna puruṣasya vyavasāyaha / yasya punarantaḥkaraṇaṃ vyavasāyakaṃ tasyaivaṃ doṣo nāsti / kasmāt ? traiguṇyāt / sattvādisaṃsthānaviśeṣo hi buddhiḥ, karaṇāntarapratiṣedhāt / tatra yadādhyavasāyalakṣaṇaṃ sattvaṃ guṇābhāvātpradhānabhūtena tamasā tiraskṛtaśakti bhavati tadādhyavasāyapratibandhaḥ / āha, kathaṃ punaretad gamyate sarvamidamacetanamiti ? ucyate- prakṛtivikārabhūtatvāt / iha yatprakṛtivikārabhūtaṃ tadacetanam / tadyathā tantupaṭādayaḥ prakṛtivikārabhūtaṃ tasmādacetanam / ākāśe darśanānnaikānta iti cenna, asiddhatvāt / na hyākāśasyātmapakṣe prakṛtivikāratvābhāvaḥ siddhaḥ / tasmādyuktametatprakṛtivikārabhūtatvādacetanaṃ sarvam / ata eva ca cetanasyāprakṛtivikārabhūtatvaṃ parasparavaidharmyāt / tasmānnānyasya paramārthasya bhoktṛtvamācetanyādupapadyate, na cet sūktaṃ bhoktṛbhāvādasti puruṣaḥ / kaivalyārthaṃ pravṛtteśca
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.