समानं रूपम् एषाम् इति सरूपाः । सरूपाणां शब्दानं एकविभक्तौ परत एकशेषो भवति । एकः शिष्यते तरे निवर्तन्ते । वृक्षश् च वृक्षश् च वृक्षौ । वृक्षश् च वृक्षश् च व्र्क्षश् च वृक्षाः । प्रत्यर्थं शब्द-निवेशान् न+एकेन अनेकस्य अभिधानम् । तत्र अनेक-अर्थ-अभिधाने ऽनेक-शब्दत्वं प्राप्तं तस्माद् एकशेषः । सरुपाणाम् इति किम् ? प्लक्षन्यग्रोधाः । रूप-ग्रहणं किम् ? भिन्ने ऽप्यर्थे यथा स्यात् । अक्षाः । पादाः । माषाः । एकग्रहणं किम् ? द्विबह्वोः शेषो मा भूत् । शेषग्रहनं किम् ? आदेशो मा भूत् । एकविभक्तौ इति किम् ? पयः पयो जरयति । ब्राह्मणाभ्यां च कृतं ब्राह्मणाभ्यां च देहि ॥ वृद्धो यूना तल्-लक्षणश् चेद्-एव विशेषः
samānaṃ rūpam eṣām iti sarūpāḥ / sarūpāṇāṃ śabdānaṃ ekavibhaktau parata ekaśeṣo bhavati / ekaḥ śiṣyate tare nivartante / vṛkṣaś ca vṛkṣaś ca vṛkṣau / vṛkṣaś ca vṛkṣaś ca Vrkṣaś ca vṛkṣāḥ / pratyarthaṃ śabda-niveśān na+ekena anekasya abhidhānam / tatra aneka-artha-abhidhāne 'neka-śabdatvaṃ prāptaṃ tasmād ekaśeṣaḥ / sarupāṇām iti kim ? plakṣanyagrodhāḥ / rūpa-grahaṇaṃ kim ? bhinne 'pyarthe yathā syāt / akṣāḥ / pādāḥ / māṣāḥ / ekagrahaṇaṃ kim ? dvibahvoḥ śeṣo mā bhūt / śeṣagrahanaṃ kim ? ādeśo mā bhūt / ekavibhaktau iti kim ? payaḥ payo jarayati / brāhmaṇābhyāṃ ca kṛtaṃ brāhmaṇābhyāṃ ca dehi // vṛddho yūnā tal-lakṣaṇaś ced-eva viśeṣaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.