Library·Jayaditya & Vamana: Kasikavrtti·1·1.2

Jayaditya & Vamana: Kasikavrtti 1.2

गाङ्-कुटादिभ्यो ऽञ्णिन्ङित्

gāṅ-kuṭādibhyo 'ñṇinṅit

Sanskrit only: no published translation is held for this verse.

अतिदेशो ऽयम् । गाङ् इति इङ्-आदेशो र्ह्यते, न गाङ् गतौ इति, ङ-कारस्य अनन्य-अर्थत्वात् । कुटादयो ऽपि कुट कौटिल्ये इत्येत दारभ्य यावत् कुङ् शब्दे इति । एग्यो गाङ्-कुटादिभ्यः परे अञ्णितः प्रत्यया ङितो भवन्ति ङिद्वद् भवन्ति इत्य् अर्थः । गाङः -- अध्यगीष्ट । अध्यगीषाताम् । अध्यगीषत । कुटादिभ्यः--कुटिता । कुटितुम् । कुटितव्यम् । उत्पुटिता उत्पुटितुम् । उत्पुटितव्यम् । अञ्णित् इति किम् ? उत्कोटयति । उच्चुकोट । उत्कोटकः । उत्कोटो वतते । व्यचेः कुटादित्वमनसीति वक्तव्यम् । विचिता । विचितुम् । विचितव्यम् । अनसि इति किम् ? उरुव्यचाः ॥ विज इट्

atideśo 'yam / gāṅ iti iṅ-ādeśo rhyate, na gāṅ gatau iti, ṅa-kārasya ananya-arthatvāt / kuṭādayo 'pi kuṭa kauṭilye ityeta dārabhya yāvat kuṅ śabde iti / egyo gāṅ-kuṭādibhyaḥ pare añṇitaḥ pratyayā ṅito bhavanti ṅidvad bhavanti ity arthaḥ / gāṅaḥ -- adhyagīṣṭa / adhyagīṣātām / adhyagīṣata / kuṭādibhyaḥ--kuṭitā / kuṭitum / kuṭitavyam / utpuṭitā utpuṭitum / utpuṭitavyam / añṇit iti kim ? utkoṭayati / uccukoṭa / utkoṭakaḥ / utkoṭo vatate / vyaceḥ kuṭāditvamanasīti vaktavyam / vicitā / vicitum / vicitavyam / anasi iti kim ? uruvyacāḥ // vija iṭ

Sanskrit only: no published translation is held for this verse.

ओविजी भय-चलनयोः, अस्मात् परः इड्-आदिः प्रत्ययो ङिद्वद् भवति । उद्विजिता । उद्विजितुम् । उद्विजितव्यम् । इट् इति किम् ? उद्वेजनम् । उद्वेजनीयम् ॥ विभाषा-ऊर्णोः

ovijī bhaya-calanayoḥ, asmāt paraḥ iḍ-ādiḥ pratyayo ṅidvad bhavati / udvijitā / udvijitum / udvijitavyam / iṭ iti kim ? udvejanam / udvejanīyam // vibhāṣā-ūrṇoḥ

Sanskrit only: no published translation is held for this verse.

इट् इति वर्तते । ऊर्-णुञ् आच्छादने, अस्मात् परः इडादिः प्रत्ययो विभाषा ङिद्वद् भवति । प्रोर्णुविता । प्रोर्णविता । इट् इत्येव प्रोर्णवनम् । प्रोर्णवतीयम् ॥ सार्वधातुकम् अपित्

iṭ iti vartate / ūr-ṇuñ ācchādane, asmāt paraḥ iḍādiḥ pratyayo vibhāṣā ṅidvad bhavati / prorṇuvitā / prorṇavitā / iṭ ityeva prorṇavanam / prorṇavatīyam // sārvadhātukam apit

Sanskrit only: no published translation is held for this verse.

सार्वधातुकं यद् अपित् तन् ङिद्वद् भवति । कुरुतः । कुर्वन्ति । चिनुतः । चिन्वन्ति । सार्वधतुकम् इति किम् ? कर्ता । कर्तुम् । कर्तव्यम् । अपित् इति किम् ? करोति । करोषि । करोमि । असंयोगाल् लिट् कित्

sārvadhātukaṃ yad apit tan ṅidvad bhavati / kurutaḥ / kurvanti / cinutaḥ / cinvanti / sārvadhatukam iti kim ? kartā / kartum / kartavyam / apit iti kim ? karoti / karoṣi / karomi / asaṃyogāl liṭ kit

Sanskrit only: no published translation is held for this verse.

इन्धि-भवतिभ्यां च

indhi-bhavatibhyāṃ ca

Sanskrit only: no published translation is held for this verse.

इन्धि भवति इत्य् एताभ्यां परो लिट् प्रत्ययः किड् भवति । समीधे दस्यु हन्तमम् । पुत्र ईधे अथर्वणः । भवतेः खल्व् अपि -- बभूव । बभूविथ । इन्धेः संयोगर्थं ग्रहणम् । भवतेः पिदर्थम् । अत्र-इष्टिः -- श्रन्थिग्रन्थिदम्भिस्वञ्जीनामिति वक्तव्यम् । श्रेथतुः, श्रेथुः । ग्रेथतुः, ग्रेथुः । देभतुः, देभुः । परिषस्वजे, परिषस्वजाते ॥ मृड्-अमृद-गुध-कुष-क्लिश-वद-वसः क्त्वा

indhi bhavati ity etābhyāṃ paro liṭ pratyayaḥ kiḍ bhavati / samīdhe dasyu hantamam / putra īdhe atharvaṇaḥ / bhavateḥ khalv api -- babhūva / babhūvitha / indheḥ saṃyogarthaṃ grahaṇam / bhavateḥ pidartham / atra-iṣṭiḥ -- śranthigranthidambhisvañjīnāmiti vaktavyam / śrethatuḥ, śrethuḥ / grethatuḥ, grethuḥ / debhatuḥ, debhuḥ / pariṣasvaje, pariṣasvajāte // mṛḍ-amṛda-gudha-kuṣa-kliśa-vada-vasaḥ ktvā

Sanskrit only: no published translation is held for this verse.

मृड मृद गुध कुष क्लिश वद वस इत्य् एतेभ्यः परः क्त्वा-प्रत्ययः किद् भवति । न क्त्वा सेट् (*१,२।१८) इति प्रतिषेधं वक्ष्यति तस्यायं पुरस्तादपकर्षः । गुध-कुष-क्लिशीनां तु रलो व्-य्-उपधाद्-धल्-आदेः संश् च (*१,२।२६) इति विकल्पे प्राप्ते नित्य-अर्थं वचनम् । मृडित्वा । मृदित्वा । गुधित्वा । कुषित्वा । क्लिशित्वा । उदित्वा । उषित्वा ॥ रुद-विद-मुष-ग्रहि-स्वपि-प्रच्छः संश् च

mṛḍa mṛda gudha kuṣa kliśa vada vasa ity etebhyaḥ paraḥ ktvā-pratyayaḥ kid bhavati / na ktvā seṭ (*1,2.18) iti pratiṣedhaṃ vakṣyati tasyāyaṃ purastādapakarṣaḥ / gudha-kuṣa-kliśīnāṃ tu ralo v-y-upadhād-dhal-ādeḥ saṃś ca (*1,2.26) iti vikalpe prāpte nitya-arthaṃ vacanam / mṛḍitvā / mṛditvā / gudhitvā / kuṣitvā / kliśitvā / uditvā / uṣitvā // ruda-vida-muṣa-grahi-svapi-pracchaḥ saṃś ca

Sanskrit only: no published translation is held for this verse.

रुद विद मुष ग्रहि स्वपि प्रच्छ इत्य् एतेभ्यः संश्च क्त्वा च कितौ भवतः । रुद-विद-मुषीणां रलो व्युपधाद्-धल्-आदेः संश्च (*१,२।२३) इति विकल्पे प्राप्ते नित्य-अर्थं ग्रहणम् । ग्रहेर् विध्य्-अर्थम् एव । स्वपि-प्रच्छ्योः सन्न्-अर्थं ग्रहणम् । किदेव हि इत्वा । रुदित्वा, रुरुदिषति । विदित्वा, विविदिशति । मुषित्वा, मुमुषिषति । गृहीत्व, जिघृक्षति । सुप्त्वा, सुषुप्सति । पृष्ट्वा, पिपृच्छिषति । ग्रह-आदीनां कित्त्वात् सम्प्रसारणं भवति । किरश् च पञ्चभ्यः (*७,२।७५) इति प्रच्छेर् इड्-आगमः ॥ इको झल्

ruda vida muṣa grahi svapi praccha ity etebhyaḥ saṃśca ktvā ca kitau bhavataḥ / ruda-vida-muṣīṇāṃ ralo vyupadhād-dhal-ādeḥ saṃśca (*1,2.23) iti vikalpe prāpte nitya-arthaṃ grahaṇam / graher vidhy-artham eva / svapi-pracchyoḥ sann-arthaṃ grahaṇam / kideva hi itvā / ruditvā, rurudiṣati / viditvā, vividiśati / muṣitvā, mumuṣiṣati / gṛhītva, jighṛkṣati / suptvā, suṣupsati / pṛṣṭvā, pipṛcchiṣati / graha-ādīnāṃ kittvāt samprasāraṇaṃ bhavati / kiraś ca pañcabhyaḥ (*7,2.75) iti praccher iḍ-āgamaḥ // iko jhal

Sanskrit only: no published translation is held for this verse.

इकः कित्त्वं गुणो मा भूत् दीर्घ-आरम्भात् कृते भतेत् । अनर्थकम् तु ह्रस्व-अर्थं दीर्घाणां तु प्रसज्यते ॥१॥ सामर्थ्याद्धि पुनर्भाव्यमॄदित्त्वं दीर्घसंश्रयम् । दीर्घाणां नाकृते कीर्घे णिलोपस्तु प्रयोजनम् ॥२॥ हलन्ताच् च

ikaḥ kittvaṃ guṇo mā bhūt dīrgha-ārambhāt kṛte bhatet / anarthakam tu hrasva-arthaṃ dīrghāṇāṃ tu prasajyate //1// sāmarthyāddhi punarbhāvyamṝdittvaṃ dīrghasaṃśrayam / dīrghāṇāṃ nākṛte kīrghe ṇilopastu prayojanam //2// halantāc ca

Sanskrit only: no published translation is held for this verse.

हलन्ताद् इको झल् कित् इति वर्तते । सन् इति निवृत्तम् । इग्-अन्तद् इक्-समीपाद्-धलः परौ झल्-आदी । लिङ्-सिचौ आत्मनेपदेषु

halantād iko jhal kit iti vartate / san iti nivṛttam / ig-antad ik-samīpād-dhalaḥ parau jhal-ādī / liṅ-sicau ātmanepadeṣu

Sanskrit only: no published translation is held for this verse.

लिङ्-सिचौ इति किम् ? द्वेष्टा द्वेक्ष्यति ॥ उश् च

liṅ-sicau iti kim ? dveṣṭā dvekṣyati // uś ca

Sanskrit only: no published translation is held for this verse.

ऋ-वर्ण-अन्ताद् धातोः परौ लिङ्-सिचौ आत्मनेपदेशु झल्-आदी कितौ भवतः । कृषीष्ट । हृषीष्ट । सिचः खल्व् अपि अकृत । अहृत । झल् इत्य् एव । वरिषीष्ट । अवरिष्ट । वृ-ऋतो वा (*७,२।३८) अवरीष्ट ॥ वा गमः

ṛ-varṇa-antād dhātoḥ parau liṅ-sicau ātmanepadeśu jhal-ādī kitau bhavataḥ / kṛṣīṣṭa / hṛṣīṣṭa / sicaḥ khalv api akṛta / ahṛta / jhal ity eva / variṣīṣṭa / avariṣṭa / vṛ-ṛto vā (*7,2.38) avarīṣṭa // vā gamaḥ

Sanskrit only: no published translation is held for this verse.

हनः सिच्

hanaḥ sic

Sanskrit only: no published translation is held for this verse.

हन्तेर् धातोः परः सिच् किद् भवति । आहत, आहसाताम्, आहसत । सिचः कित्त्वाद् अनुनासिक-लोपः । सिज्-ग्रहणं लिङ्-निवृत्त्य्-अर्थम् । उत्तरत्र-अनुवृत्तिर् मा भूत् । अत्मनेपद-ग्रहणम् उत्तर-अर्थम् अनुवर्तते । इह तु परस्मैपदे हन्तेर् वधभावस्य नित्यत्वात् कित्त्वस्य प्रयोजनं न अस्ति ॥ यमो गन्धने

hanter dhātoḥ paraḥ sic kid bhavati / āhata, āhasātām, āhasata / sicaḥ kittvād anunāsika-lopaḥ / sij-grahaṇaṃ liṅ-nivṛtty-artham / uttaratra-anuvṛttir mā bhūt / atmanepada-grahaṇam uttara-artham anuvartate / iha tu parasmaipade hanter vadhabhāvasya nityatvāt kittvasya prayojanaṃ na asti // yamo gandhane

Sanskrit only: no published translation is held for this verse.

सिच आत्मनेपदेषु इति वर्तते । यमेर् धातोर् गन्धने वर्तमानात् परः सिच् प्रत्ययः किद् भवति आत्मनेपदेषु परतः । गन्धनं सूचनं, परेण प्रच्छाद्यमानस्यावद्यस्याविष्करणम् । अनेक-अर्थत्वाद् धातूनां यमिस् तत्र वर्तते । उदयत, उदायसाताम्, उदायसत । सूचितवान् इत्य् अर्थः । सिचः कित्त्वाद् अनुनासिक-लोपः । आङो यमहनः (*१,३।२८) इत्य् आत्मनेपदम् । गन्धन इति किम् ? उदायंस्त पादम् । उदायंस्त कूपाद् उदकम् । उध्दृतवान् इत्य् अर्थः । सकर्मकत्वे ऽपि समुद्दाङ्भ्यो य्मो ऽग्रन्थे (*१,३।७५) इत्य् आत्मनेपदम् ॥ विभाषा-उपयमने

sica ātmanepadeṣu iti vartate / yamer dhātor gandhane vartamānāt paraḥ sic pratyayaḥ kid bhavati ātmanepadeṣu parataḥ / gandhanaṃ sūcanaṃ, pareṇa pracchādyamānasyāvadyasyāviṣkaraṇam / aneka-arthatvād dhātūnāṃ yamis tatra vartate / udayata, udāyasātām, udāyasata / sūcitavān ity arthaḥ / sicaḥ kittvād anunāsika-lopaḥ / āṅo yamahanaḥ (*1,3.28) ity ātmanepadam / gandhana iti kim ? udāyaṃsta pādam / udāyaṃsta kūpād udakam / udhdṛtavān ity arthaḥ / sakarmakatve 'pi samuddāṅbhyo ymo 'granthe (*1,3.75) ity ātmanepadam // vibhāṣā-upayamane

Sanskrit only: no published translation is held for this verse.

यमः सिज्-आत्मनेपदेषु इति वर्तते । यमेर् धातोः उपयमने वर्तमानात् परः सिच्-प्रत्ययओ विभाषा किद् भवति आत्मनेपदेषु परतः । उपायत कन्याम्, उपायंस्त कन्याम् । उपायत भार्याम्, उपायंस्त भार्याम् । उपयमनं स्वीकरणं, विवाहः, दारकर्म, पाणि-ग्रहणम् इत्य् अर्थः । उपाद्यमः स्वकरणे (*१,३।५६) इत्य् आत्मनेपदम् ॥ स्थाघ्वोर् इच्च

yamaḥ sij-ātmanepadeṣu iti vartate / yamer dhātoḥ upayamane vartamānāt paraḥ sic-pratyayao vibhāṣā kid bhavati ātmanepadeṣu parataḥ / upāyata kanyām, upāyaṃsta kanyām / upāyata bhāryām, upāyaṃsta bhāryām / upayamanaṃ svīkaraṇaṃ, vivāhaḥ, dārakarma, pāṇi-grahaṇam ity arthaḥ / upādyamaḥ svakaraṇe (*1,3.56) ity ātmanepadam // sthāghvor icca

Sanskrit only: no published translation is held for this verse.

सिज्-आत्मनेपदेषु इति वर्तते । तिष्ठतेर् धातोः घु-सञ्ज्ञकानां च इ-कारश् च अन्ताद् एशः सिच् च किद् भवति आत्मनेपदेषु परतः । उपास्थित, उपास्थिषाताम्, उपास्थिषत । घु-सञ्ज्ञकानम् -- अदित । अधित । इच्च कस्य तकारेत्त्वं दीर्घो मा भूद् ऋते ऽपि सः । अनन्तरे प्लुतो मा भूत् प्लुतश् च विषये स्मृतः ॥ न क्त्वा स-इट्

sij-ātmanepadeṣu iti vartate / tiṣṭhater dhātoḥ ghu-sañjñakānāṃ ca i-kāraś ca antād eśaḥ sic ca kid bhavati ātmanepadeṣu parataḥ / upāsthita, upāsthiṣātām, upāsthiṣata / ghu-sañjñakānam -- adita / adhita / icca kasya takārettvaṃ dīrgho mā bhūd ṛte 'pi saḥ / anantare pluto mā bhūt plutaś ca viṣaye smṛtaḥ // na ktvā sa-iṭ

Sanskrit only: no published translation is held for this verse.

न सेडिति कृते ऽकित्त्वे निष्ठायाम् अवधारणात् । ज्ञापकान्-न प्रोक्षायां सनि झल्-ग्रहणं विदुः ॥ इत्त्वं कित्वंनिहोगेन रेण तुल्यं सुधीवनि । वस्व्-अर्थं किद्-अतीदेशान्नि गृहीतिः प्रयोजनम् ॥ निष्ठा शीङ्-स्विदि-मिदि-क्ष्विदि-धृषः

na seḍiti kṛte 'kittve niṣṭhāyām avadhāraṇāt / jñāpakān-na prokṣāyāṃ sani jhal-grahaṇaṃ viduḥ // ittvaṃ kitvaṃnihogena reṇa tulyaṃ sudhīvani / vasv-arthaṃ kid-atīdeśānni gṛhītiḥ prayojanam // niṣṭhā śīṅ-svidi-midi-kṣvidi-dhṛṣaḥ

Sanskrit only: no published translation is held for this verse.

न सेट् इति वर्तते । शीङ् स्विदि मिदि क्ष्विदि धृष् इत्य् एतेभ्यः प्रो निष्ठा-प्रत्ययः सेण् न किद् भवति । शयितह्, शयित्वान् । प्रस्वेदितः, प्रस्वेदितवान् । प्रमेदितः, प्रमेदितवान् । प्रक्ष्वेदितह्, प्रक्ष्वेदितवान् । प्रधर्षितः प्रधर्षितवान् । सेट् इत्य् एव स्विन्नः, स्विन्नवान् । स्विद्-आदीनम् आदितश् च (*७,२।१६) इति निष्ठायामिट् प्रतिषिध्यते । विभाषा भाव-आदिकर्मणोः (*७,२।१७) इति पक्षे ऽभ्यनुज्ञायते स विषयः कित्त्व-प्रतिषेधस्य ॥ मृषस् तितिक्षायाम्

na seṭ iti vartate / śīṅ svidi midi kṣvidi dhṛṣ ity etebhyaḥ pro niṣṭhā-pratyayaḥ seṇ na kid bhavati / śayitah, śayitvān / prasveditaḥ, prasveditavān / prameditaḥ, prameditavān / prakṣveditah, prakṣveditavān / pradharṣitaḥ pradharṣitavān / seṭ ity eva svinnaḥ, svinnavān / svid-ādīnam āditaś ca (*7,2.16) iti niṣṭhāyāmiṭ pratiṣidhyate / vibhāṣā bhāva-ādikarmaṇoḥ (*7,2.17) iti pakṣe 'bhyanujñāyate sa viṣayaḥ kittva-pratiṣedhasya // mṛṣas titikṣāyām

Sanskrit only: no published translation is held for this verse.

मृषेर् धातोः तितिक्षायाम् अर्थे निष्ठा सेण् न किद् भवति । तितिक्षा क्षमा । मर्षितः, मृषितवान् ॥ तितिक्षायाम् इति किम् ? अपमृषितं वाक्यम् आह ॥ उदुपधाद् भाव-आदिकर्मणोर् अन्यतरस्याम्

mṛṣer dhātoḥ titikṣāyām arthe niṣṭhā seṇ na kid bhavati / titikṣā kṣamā / marṣitaḥ, mṛṣitavān // titikṣāyām iti kim ? apamṛṣitaṃ vākyam āha // udupadhād bhāva-ādikarmaṇor anyatarasyām

Sanskrit only: no published translation is held for this verse.

निष्ठा सेण् न कित् इति वर्तते । उदुपधाद् धातोः परो भावे आदिकर्मणि च वर्तमानो निष्ठा-प्रत्ययः सेड्-अन्यतरस्यां न किद् भवति । द्युतितत्मनेन, द्योतितमनेन । प्रद्युतितः, प्रद्योतितः मुदितमनेन, मोदितमनेन । प्रमुदितः, प्रमोदितः । उदुपधात् इति किम् ? लिखितमनेन । भाव-आदिकर्मणोः इति किम्? रुचितं कार्षापणं ददाति । सेट् इत्य् एव । प्रभुक्त ओदनः । व्यवस्थित-विभाषा च-इयम् । तेन शब्-विकरणानाम् एव भवति । गुध परिवेष्टने, गुधितम् इत्य् अत्र न भवति ॥ पूङः क्त्वा च

niṣṭhā seṇ na kit iti vartate / udupadhād dhātoḥ paro bhāve ādikarmaṇi ca vartamāno niṣṭhā-pratyayaḥ seḍ-anyatarasyāṃ na kid bhavati / dyutitatmanena, dyotitamanena / pradyutitaḥ, pradyotitaḥ muditamanena, moditamanena / pramuditaḥ, pramoditaḥ / udupadhāt iti kim ? likhitamanena / bhāva-ādikarmaṇoḥ iti kim? rucitaṃ kārṣāpaṇaṃ dadāti / seṭ ity eva / prabhukta odanaḥ / vyavasthita-vibhāṣā ca-iyam / tena śab-vikaraṇānām eva bhavati / gudha pariveṣṭane, gudhitam ity atra na bhavati // pūṅaḥ ktvā ca

Sanskrit only: no published translation is held for this verse.

न-उपधात् थ-फ-अन्ताद् वा

na-upadhāt tha-pha-antād vā

Sanskrit only: no published translation is held for this verse.

निष्ठा इति निवृत्तम् । निकार-उपधाद् धातोः थकारान्तात् फकरान्ताच् च परः क्त्वा प्रत्ययः सेड् व न किद् भवति । ग्रथित्वा, ग्रन्थित्व । श्रथित्वा, श्रन्थित्वा । गुफित्वा, गुम्फित्वा । न-उपधात् इति किम् ? रेफित्वा । गोफित्वा । थ-फ-अन्तात् इति किम् ? स्रंसित्व । ध्वंसित्वा ॥ वञ्चि-लुञ्च्य्-ऋतश् च

niṣṭhā iti nivṛttam / nikāra-upadhād dhātoḥ thakārāntāt phakarāntāc ca paraḥ ktvā pratyayaḥ seḍ va na kid bhavati / grathitvā, granthitva / śrathitvā, śranthitvā / guphitvā, gumphitvā / na-upadhāt iti kim ? rephitvā / gophitvā / tha-pha-antāt iti kim ? sraṃsitva / dhvaṃsitvā // vañci-luñcy-ṛtaś ca

Sanskrit only: no published translation is held for this verse.

वञ्चि लुञ्चि ऋत् इत्य् एतेभ्यः परः क्त्वा प्रत्ययः सेड् वा न किद् भ्वति । वचित्वा, वञ्चित्व । लुचित्वा, । उञ्चित्वा । ऋतित्व, अर्तित्वा । ऋतेर् ईयङ् (*३,१।२९) आर्धधातुके विकल्पितः (*३,१।३१) । स यत्र पक्षे न अस्ति तत्र-इदम् उदाहरणम् । सेट् इत्य् एव । वक्त्वा ॥ तृषि-मृषि-कृशेः काश्यपस्य

vañci luñci ṛt ity etebhyaḥ paraḥ ktvā pratyayaḥ seḍ vā na kid bhvati / vacitvā, vañcitva / lucitvā, / uñcitvā / ṛtitva, artitvā / ṛter īyaṅ (*3,1.29) ārdhadhātuke vikalpitaḥ (*3,1.31) / sa yatra pakṣe na asti tatra-idam udāharaṇam / seṭ ity eva / vaktvā // tṛṣi-mṛṣi-kṛśeḥ kāśyapasya

Sanskrit only: no published translation is held for this verse.

न क्त्वा सेट् (*१,२।१८) इति प्रतिषेधे प्रापे कित्त्वं विकल्प्यते । तृषि मृषि कृशि इत्य् एतेभ्यः परः क्र्वा प्रत्ययः सेट् काश्यपस्य आचार्यस्य मते वा न किड् भवति । तृषित्वा, त्र्षित्वा । मृषित्व, म्र्षित्व । कृशित्व, कर्शित्वा । कश्यप-ग्रहणं पूज-अर्थम् । वा इत्य् एव हि वर्तते ॥ रलो व्-य्-उपधद्-धल्-आदेः संश् च

na ktvā seṭ (*1,2.18) iti pratiṣedhe prāpe kittvaṃ vikalpyate / tṛṣi mṛṣi kṛśi ity etebhyaḥ paraḥ krvā pratyayaḥ seṭ kāśyapasya ācāryasya mate vā na kiḍ bhavati / tṛṣitvā, trṣitvā / mṛṣitva, mrṣitva / kṛśitva, karśitvā / kaśyapa-grahaṇaṃ pūja-artham / vā ity eva hi vartate // ralo v-y-upadhad-dhal-ādeḥ saṃś ca

Sanskrit only: no published translation is held for this verse.

वा इति वर्तते सेट् इति च । उश् च इश् च वी । वी उपधेयस्य स व्यौपधः । उकार-उपध-अदिकार-उपधच् च धातो रलन्ताद्-धलादेः परः संश् च क्त्वा च सेटौ व कितौ भवतः । द्युतित्वा, द्योतित्वा । दिद्युतिषते, दिद्योतिषते । लिखित्वा, लेखित्वा । लिलिखिषति, लिलेखिषति । रलः इति किम् ? देवित्वा, दिदेविषति । व्युपधात् इति किम् ? वर्तित्वा, विवर्तिषते । हलादेः इति किम् ? एषित्व, एषिषिष्ति । सेट् इत्य् एव । भुक्त्वा, बुभुक्षते ॥ ऊकालो ऽज्-झ्रस्व-दीर्घ-प्लुतः

vā iti vartate seṭ iti ca / uś ca iś ca vī / vī upadheyasya sa vyaupadhaḥ / ukāra-upadha-adikāra-upadhac ca dhāto ralantād-dhalādeḥ paraḥ saṃś ca ktvā ca seṭau va kitau bhavataḥ / dyutitvā, dyotitvā / didyutiṣate, didyotiṣate / likhitvā, lekhitvā / lilikhiṣati, lilekhiṣati / ralaḥ iti kim ? devitvā, dideviṣati / vyupadhāt iti kim ? vartitvā, vivartiṣate / halādeḥ iti kim ? eṣitva, eṣiṣiṣti / seṭ ity eva / bhuktvā, bubhukṣate // ūkālo 'j-jhrasva-dīrgha-plutaḥ

Sanskrit only: no published translation is held for this verse.

अज्-ग्रहणं संयोग-अच्-समुदाय-निवृत्त्य्-अर्थम् । प्रतक्ष्य, प्ररक्ष्य, ह्रस्वाश्रयस् तुङ् मा भूत् । तितौच्छात्रम्, दीर्घात् (*६,१।७५), पदान्ताद् वा (*६,१।७६) इति विभाषा तुङ् मा भूत् । ह्रस्व-दीर्घ-प्लुत-प्रदेशाः -- ह्रस्वो नपुंसके प्रातिपदिकस्य (*१,२।४७) । अकृत्-सर्वधातुकयोर् दीर्घः (*७,४।२५) । वाक्यस्य टेः प्लुत उदात्तः (*८,२।८२) ॥ अचश् च

aj-grahaṇaṃ saṃyoga-ac-samudāya-nivṛtty-artham / pratakṣya, prarakṣya, hrasvāśrayas tuṅ mā bhūt / titaucchātram, dīrghāt (*6,1.75), padāntād vā (*6,1.76) iti vibhāṣā tuṅ mā bhūt / hrasva-dīrgha-pluta-pradeśāḥ -- hrasvo napuṃsake prātipadikasya (*1,2.47) / akṛt-sarvadhātukayor dīrghaḥ (*7,4.25) / vākyasya ṭeḥ pluta udāttaḥ (*8,2.82) // acaś ca

Sanskrit only: no published translation is held for this verse.

परिभाषा इयं स्थानि-नियम-अर्था ह्रस्व-दीर्घ-प्लुतः स्वसञ्ज्ञया शिष्यमाणा अच एव स्थाने वेदितव्याः । वक्ष्यति ह्रस्वो नपुंसके प्रातिपदिकस्य (*१,२।४७), रै--अतिरि । नौ--अतिनु । गो--उपगु । अचः इति किम् ? सुवाग् ब्रह्मण-कुलम् । अकृत्-सार्वधातुकयोर् दीर्घः (*७,४।२५) -- चीयते । श्रूयते । अचः इति किम् ? भिद्यते । धिद्य्ते । वाक्यस्य टेः प्लुत उदात्तः (*७,२।८२) --देवदत्त३ । यज्ञदत्त३ । अचः इति किम् ? अग्निचि३त् । सोमसु३त् । तकारस्य मा भूत् । स्वसञ्ज्ञया वधाने नियमः । अच् इति वर्तते । इह मा भूत् । द्यौः पन्थाः । सः द्यौभ्याम् । द्युभिः । अत्र नियमो न अस्ति ॥ उच्चैर् उदात्तः

paribhāṣā iyaṃ sthāni-niyama-arthā hrasva-dīrgha-plutaḥ svasañjñayā śiṣyamāṇā aca eva sthāne veditavyāḥ / vakṣyati hrasvo napuṃsake prātipadikasya (*1,2.47), rai--atiri / nau--atinu / go--upagu / acaḥ iti kim ? suvāg brahmaṇa-kulam / akṛt-sārvadhātukayor dīrghaḥ (*7,4.25) -- cīyate / śrūyate / acaḥ iti kim ? bhidyate / dhidyte / vākyasya ṭeḥ pluta udāttaḥ (*7,2.82) --devadatta3 / yajñadatta3 / acaḥ iti kim ? agnici3t / somasu3t / takārasya mā bhūt / svasañjñayā vadhāne niyamaḥ / ac iti vartate / iha mā bhūt / dyauḥ panthāḥ / saḥ dyaubhyām / dyubhiḥ / atra niyamo na asti // uccair udāttaḥ

Sanskrit only: no published translation is held for this verse.

अच् इति वर्तते । उदात्त-आदि-शब्दाः स्वरे वर्णधर्मे लोक-वेदयोः प्रसिद्धा एव । ते इह तद्गुणे ऽचि परिभाष्यन्ते । उच्चैर् उपलभ्यमानो यो ऽच् स उदात्त-सञ्ज्ञो भवति । उच्चैः इति च श्रुति-प्रकर्षो न गृह्यते, उच्चैर् भाषते, उचैः पठति इति । किं तर्हि ? स्थान-कृतम् उच्चत्वं सञ्ज्ञिनो विशेषणम् । ताल्व्-आदिषु हि भागवत्सु स्थानेषु वर्णा निष्पद्यन्ते । तत्र यः समाने स्थाने ऊर्ध्व-भग-निष्पन्नो ऽच् स उदात्त-सञ्ज्ञो भवति । यस्मिन्न् उचार्यमाणे गात्राणामायामो निग्रहो भवति, रूक्षता अस्निग्धता स्वरस्य, संवृतता क्ण्ठविवरस्य । ये । ते । के । उदात्त-प्रदेशाः--आद्य्-उदात्तश् च (*३,१।३) इत्य् एवम् आदयः ॥ नीचैर् अनुदात्तः

ac iti vartate / udātta-ādi-śabdāḥ svare varṇadharme loka-vedayoḥ prasiddhā eva / te iha tadguṇe 'ci paribhāṣyante / uccair upalabhyamāno yo 'c sa udātta-sañjño bhavati / uccaiḥ iti ca śruti-prakarṣo na gṛhyate, uccair bhāṣate, ucaiḥ paṭhati iti / kiṃ tarhi ? sthāna-kṛtam uccatvaṃ sañjñino viśeṣaṇam / tālv-ādiṣu hi bhāgavatsu sthāneṣu varṇā niṣpadyante / tatra yaḥ samāne sthāne ūrdhva-bhaga-niṣpanno 'c sa udātta-sañjño bhavati / yasminn ucāryamāṇe gātrāṇāmāyāmo nigraho bhavati, rūkṣatā asnigdhatā svarasya, saṃvṛtatā kṇṭhavivarasya / ye / te / ke / udātta-pradeśāḥ--ādy-udāttaś ca (*3,1.3) ity evam ādayaḥ // nīcair anudāttaḥ

Sanskrit only: no published translation is held for this verse.

समाहारः स्वरितः

samāhāraḥ svaritaḥ

Sanskrit only: no published translation is held for this verse.

अच् इति वर्तते । उदात्त-नुदात्त-स्वर-समाहारो यो ऽच् स स्वरित-सञ्ज्ञो भवति । सामर्थ्याच् च अत्र लोक-वेदयोः प्रसिद्धौ गुणाव् एव वर्ण-धर्माव् उदात्त-अनुदात्तौ गृह्येते, ना ऽचौ । तौ समाह्रियेते यस्मिन्न् अचि तस्य स्वरितः इत्य् एषा संज्ञा विधीयते । शिक्यम् । कन्या । सामन्यः । क्व । स्वरित-प्रदेशाः-- तित् स्वरितम् (*६,१।१७५) इत्य् एवम् आदयः ॥ तस्य-आदित उदात्तम् अर्ध-ह्रस्वम्

ac iti vartate / udātta-nudātta-svara-samāhāro yo 'c sa svarita-sañjño bhavati / sāmarthyāc ca atra loka-vedayoḥ prasiddhau guṇāv eva varṇa-dharmāv udātta-anudāttau gṛhyete, nā 'cau / tau samāhriyete yasminn aci tasya svaritaḥ ity eṣā saṃjñā vidhīyate / śikyam / kanyā / sāmanyaḥ / kva / svarita-pradeśāḥ-- tit svaritam (*6,1.175) ity evam ādayaḥ // tasya-ādita udāttam ardha-hrasvam

Sanskrit only: no published translation is held for this verse.

उदात्त-अनुदात्त-स्वर-समाहारः स्वरितः इत्य् उक्तम् । तत्र न ज्ञायते कस्मिन्नंशे उदात्तः कस्मिन्न् अनुदात्तः, कियान् वा उदात्तः कियान् वा अनुदात्तः इति । तद्-उभयम् अनेन-आख्यायते । तस्य स्वरितस्य आदाव् अर्ध-ह्रस्वम् उदात्तम्, परिशिष्टम् अनुदात्तम् । अर्ध-ह्रस्वम् इति च अर्धमात्र-उपलक्ष्यते । ह्रस्व-ग्रहणम् अतन्त्रम् । सर्वेषाम् एव ह्रस्व-दीर्घ-प्लुतानां स्वरितानाम् एष स्वर-विभागः । शिक्यम् इत्य् अत्र अर्ध-मात्रा आदित उदात्त, अपर-अर्ध-मात्रा अनुदात्ता, एक-श्रौतिर् वा । कन्या इत्य् अत्र अर्ध-मात्रा आदित उदत्ता अध्यर्ध-मात्रा अनुदात्ता । माणवक३ माणवक (*८,२।१०३) इत्य् अत्र अर्ध-मात्रा आदित उदात्ता अर्ध-तृतीय-मात्रा अनुदात्ता ॥ एक-श्रुति दूरात् सम्बुद्धौ

udātta-anudātta-svara-samāhāraḥ svaritaḥ ity uktam / tatra na jñāyate kasminnaṃśe udāttaḥ kasminn anudāttaḥ, kiyān vā udāttaḥ kiyān vā anudāttaḥ iti / tad-ubhayam anena-ākhyāyate / tasya svaritasya ādāv ardha-hrasvam udāttam, pariśiṣṭam anudāttam / ardha-hrasvam iti ca ardhamātra-upalakṣyate / hrasva-grahaṇam atantram / sarveṣām eva hrasva-dīrgha-plutānāṃ svaritānām eṣa svara-vibhāgaḥ / śikyam ity atra ardha-mātrā ādita udātta, apara-ardha-mātrā anudāttā, eka-śrautir vā / kanyā ity atra ardha-mātrā ādita udattā adhyardha-mātrā anudāttā / māṇavaka3 māṇavaka (*8,2.103) ity atra ardha-mātrā ādita udāttā ardha-tṛtīya-mātrā anudāttā // eka-śruti dūrāt sambuddhau

Sanskrit only: no published translation is held for this verse.

त्रैस्वर्ये पदानां प्राप्ते दूरात् सम्बुद्धाव्-ऐकश्रुत्यं विधीयते । एका श्रुतिर् यस्य तद् इदम् एकश्रुति । एक-श्रुति वाक्यं भवति । दूरात् सम्बोधयति येन वाक्येन तत् सम्बोधनं सम्बुद्धिः । न एक-वचनं सम्बुद्धिः । स्वराणाम् उदात्तादीनाम् अविभागो भेदति रोधानम् एकश्रुतिः । आगच्छ भो माणवक देवदत्त३ । दूरात् इति किम् ? आगच्छ भो माणवक देवदत्त ॥ यज्ञ-कर्मण्य्-अजप-न्यूङ्ख-सामसु

traisvarye padānāṃ prāpte dūrāt sambuddhāv-aikaśrutyaṃ vidhīyate / ekā śrutir yasya tad idam ekaśruti / eka-śruti vākyaṃ bhavati / dūrāt sambodhayati yena vākyena tat sambodhanaṃ sambuddhiḥ / na eka-vacanaṃ sambuddhiḥ / svarāṇām udāttādīnām avibhāgo bhedati rodhānam ekaśrutiḥ / āgaccha bho māṇavaka devadatta3 / dūrāt iti kim ? āgaccha bho māṇavaka devadatta // yajña-karmaṇy-ajapa-nyūṅkha-sāmasu

Sanskrit only: no published translation is held for this verse.

असामसु इति किम् ? विश्वं समत्रिणं दह । सामानि वाक्य-विशेष-स्थगीतय उच्यन्ते । तत्र-इकश्रुतिर् न भवति ॥ उच्चैस्तरां वा वषट्कारः

asāmasu iti kim ? viśvaṃ samatriṇaṃ daha / sāmāni vākya-viśeṣa-sthagītaya ucyante / tatra-ikaśrutir na bhavati // uccaistarāṃ vā vaṣaṭkāraḥ

Sanskrit only: no published translation is held for this verse.

यज्ञ-कर्मणि इति वर्तते । यज्ञ-कर्मणि वषट्कारः उच्चैस्तरां वा भवति एक-श्रुतिर् वा । वषट्-शब्देन अत्र वौषट् शब्दो लक्षयते । वौषट् इत्य् अस्य-इव-इदं स्वर-विधानम् । यद्य् एवं वौषड्-ग्रहणम् एव कस्मान् न कृतम् ? वैचित्र्य-अर्थम् । विचित्र हि सूत्रस्य कृतिः पाणिनेः । सोमस्य अग्ने वीही३षट् । सोमस्य अग्ने वीही३ वौ३षट् ॥ विभाषा छन्दसि

yajña-karmaṇi iti vartate / yajña-karmaṇi vaṣaṭkāraḥ uccaistarāṃ vā bhavati eka-śrutir vā / vaṣaṭ-śabdena atra vauṣaṭ śabdo lakṣayate / vauṣaṭ ity asya-iva-idaṃ svara-vidhānam / yady evaṃ vauṣaḍ-grahaṇam eva kasmān na kṛtam ? vaicitrya-artham / vicitra hi sūtrasya kṛtiḥ pāṇineḥ / somasya agne vīhī3ṣaṭ / somasya agne vīhī3 vau3ṣaṭ // vibhāṣā chandasi

Sanskrit only: no published translation is held for this verse.

छन्दसि विषये विभाषा एकश्रुतिर् भवति । पक्ष-अन्तरे त्रैस्वर्यम् एव भवति । वा इति प्रकृते विभाषा-ग्रहनं यज्ञ-कर्मणि इत्य् अस्य निवृत्त्य्-अर्थम् । तेन अयं स्वाध्याय-काले ऽपि पाक्षिक ऐकश्रुत्य-विधिर् भवति । इषे त्वोर्जे त्वा । इषे त्वोर्जे त्वा । अग्न आयाहि वीतये । अग्न आयाहि वीत्ये । अग्निमीले पुरोहितम् । अग्निमीले पुरोहितम् । शं नो देवीरभैष्टये । शं नो देवीरभैष्टये ॥ न सुब्रह्मण्यायां स्वरितस्य तु उदात्तः

chandasi viṣaye vibhāṣā ekaśrutir bhavati / pakṣa-antare traisvaryam eva bhavati / vā iti prakṛte vibhāṣā-grahanaṃ yajña-karmaṇi ity asya nivṛtty-artham / tena ayaṃ svādhyāya-kāle 'pi pākṣika aikaśrutya-vidhir bhavati / iṣe tvorje tvā / iṣe tvorje tvā / agna āyāhi vītaye / agna āyāhi vītye / agnimīle purohitam / agnimīle purohitam / śaṃ no devīrabhaiṣṭaye / śaṃ no devīrabhaiṣṭaye // na subrahmaṇyāyāṃ svaritasya tu udāttaḥ

Sanskrit only: no published translation is held for this verse.

शेषमन्-उदात्तम् । वृषणश्वस्य मेने इति समानं पूर्वेण । गौरावस्कन्दिन् इति तथ-इव द्वे आद्ये अक्षरे उदात्ते, शेषम् अनुदात्तम् । अहल्यायै जार इति सुबन्तस्य अमन्त्रित-अनुप्रवेशात् त् अद्वदेव स्वरः । द्वाव् उदात्तौ शेषम् अनुदात्तम् । कौशिकब्रह्मण इति समस्तमामन्त्रितमाद्य्-उदात्तं तत्र पूर्ववद् द्वाव् उदात्तौ शेषम् अनुदात्तम् । एवम् गौतम-ब्रुवाण इति द्वाव् उदात्तौ शेषम् अनुदात्ताम् । श्वः सुत्यामागच्छ मघवन् इति श्वः-शब्द उदात्तः सुत्याम् इत्य् अन्तोदात्तः । सञ्ज्ञायां समजनिषदनिपतमनविदषुञ् शीङ्भृञिणः (*३,३।९९) इति क्यपो विधाने उदात्तः इति वर्तते । अगच्छ इति द्व-उदात्तौ । अन्त्यो ऽनुदत्तः । मघवन् इति पदात् परमामन्त्रितं निहन्यते ॥ देव-ब्रह्मणोर् अनुदात्तः

śeṣaman-udāttam / vṛṣaṇaśvasya mene iti samānaṃ pūrveṇa / gaurāvaskandin iti tatha-iva dve ādye akṣare udātte, śeṣam anudāttam / ahalyāyai jāra iti subantasya amantrita-anupraveśāt t advadeva svaraḥ / dvāv udāttau śeṣam anudāttam / kauśikabrahmaṇa iti samastamāmantritamādy-udāttaṃ tatra pūrvavad dvāv udāttau śeṣam anudāttam / evam gautama-bruvāṇa iti dvāv udāttau śeṣam anudāttām / śvaḥ sutyāmāgaccha maghavan iti śvaḥ-śabda udāttaḥ sutyām ity antodāttaḥ / sañjñāyāṃ samajaniṣadanipatamanavidaṣuñ śīṅbhṛñiṇaḥ (*3,3.99) iti kyapo vidhāne udāttaḥ iti vartate / agaccha iti dva-udāttau / antyo 'nudattaḥ / maghavan iti padāt paramāmantritaṃ nihanyate // deva-brahmaṇor anudāttaḥ

Sanskrit only: no published translation is held for this verse.

सुब्रह्मण्यायाम् एव देवा ब्रह्माणः इति पठ्यते, तत्र पूर्वेण स्वरितस्य+उदात्ते प्राअप्ते ऽनेन-अनुदात्तो विधीयते । देव-ब्रह्मणोः स्वरितस्य अनुदात्त आदेशो भवति । देवा ब्रह्माण आगच्छत । द्वयोर् अपि पदयोर् आमन्त्रित-आद्य्-उदात्तत्वे शेषनिघाते च+उदात्ताद् अनुदात्तस्य स्वरितः कृतस् तस्य-अनुदात्तो भवति ॥ स्वरितात् संहितायाम् अनुदात्तानाम्

subrahmaṇyāyām eva devā brahmāṇaḥ iti paṭhyate, tatra pūrveṇa svaritasya+udātte prāapte 'nena-anudātto vidhīyate / deva-brahmaṇoḥ svaritasya anudātta ādeśo bhavati / devā brahmāṇa āgacchata / dvayor api padayor āmantrita-ādy-udāttatve śeṣanighāte ca+udāttād anudāttasya svaritaḥ kṛtas tasya-anudātto bhavati // svaritāt saṃhitāyām anudāttānām

Sanskrit only: no published translation is held for this verse.

एक-श्रुतिः इति वर्तते । संहितायं विशये स्वरितात् परेषाम् अनुदात्तानाम् एकश्रुतिर् भवति । इमं मे गङ्गे यमुने सरस्वति शुतुद्रि । माणवक जटिलकाध्यापक क्व गमिष्यसि । इमम् इत्य् अन्त-उदात्तं, मे इति अनुदात्तं विधि-काल एव निघात-विधानात् । तत् पुनः उदात्ताद् अनुदातस्य स्वरितः (*८,४।६६) इति स्वरितं सम्पद्यते । तस्मात् स्वरितात् परेषाम् अनुदात्तानां गङ्गेप्रभृतीनाम् एकश्रुतिर् भवति । सर्व एते आमन्त्रित-निघातेन अनुदात्ताः । माणवक जटिलक इति प्रथमम् आमन्त्रितमाद्युदात्तं, तस्य द्वितीयम् अक्षरम् स्वरितं, ततः परेषाम् अनुदात्तानाम् एकश्रुतिर् भवति । संहिता-ग्रहणं किम् ? अवग्रहे मा भूत् । इमम् मे गङ्गे यमुने सर्स्वति ॥ उदात्त-स्वरित-परस्य सन्नतरः

eka-śrutiḥ iti vartate / saṃhitāyaṃ viśaye svaritāt pareṣām anudāttānām ekaśrutir bhavati / imaṃ me gaṅge yamune sarasvati śutudri / māṇavaka jaṭilakādhyāpaka kva gamiṣyasi / imam ity anta-udāttaṃ, me iti anudāttaṃ vidhi-kāla eva nighāta-vidhānāt / tat punaḥ udāttād anudātasya svaritaḥ (*8,4.66) iti svaritaṃ sampadyate / tasmāt svaritāt pareṣām anudāttānāṃ gaṅgeprabhṛtīnām ekaśrutir bhavati / sarva ete āmantrita-nighātena anudāttāḥ / māṇavaka jaṭilaka iti prathamam āmantritamādyudāttaṃ, tasya dvitīyam akṣaram svaritaṃ, tataḥ pareṣām anudāttānām ekaśrutir bhavati / saṃhitā-grahaṇaṃ kim ? avagrahe mā bhūt / imam me gaṅge yamune sarsvati // udātta-svarita-parasya sannataraḥ

Sanskrit only: no published translation is held for this verse.

तस्य प्रथमम् अक्षरम् उदात्तं तस्मिन् परभूते पूर्वस्य सरस्वति इति इकारस्य सन्नतर आदेशो भवति । माणवक जटिलकाद्यापक क्व गमिष्यसि । क्व इति स्वरितस् तस्मिन् परभूते क इति अनुदत्तस् तस्य सन्नतर आदेशो भवति ॥ अपृक्त एक-अल् प्रत्ययः

tasya prathamam akṣaram udāttaṃ tasmin parabhūte pūrvasya sarasvati iti ikārasya sannatara ādeśo bhavati / māṇavaka jaṭilakādyāpaka kva gamiṣyasi / kva iti svaritas tasmin parabhūte ka iti anudattas tasya sannatara ādeśo bhavati // apṛkta eka-al pratyayaḥ

Sanskrit only: no published translation is held for this verse.

अपृक्तः इति इयं सञ्ज्ञा भवति एक-अल् यः प्रत्ययस् तस्य । असहाय-वाची एक-शब्दः । स्प्शो ऽनुदके क्विन् (*३,२।५८) - धृतस्पृक् । भजो ण्विः (*३,२।६२) - अर्धभक् । पादभाक् । एक-अल् इति किम् ? दर्विः । जागृविः । प्रत्यय इति किम् ? सुराः । अपृक्त-प्रदेशाः -- वेर् अपृक्तस्य (*६,१।६७) इत्य् एवम् आद्यः ॥ तत्पुरुषः समान-अधिकरणः कर्मधारयः

apṛktaḥ iti iyaṃ sañjñā bhavati eka-al yaḥ pratyayas tasya / asahāya-vācī eka-śabdaḥ / spśo 'nudake kvin (*3,2.58) - dhṛtaspṛk / bhajo ṇviḥ (*3,2.62) - ardhabhak / pādabhāk / eka-al iti kim ? darviḥ / jāgṛviḥ / pratyaya iti kim ? surāḥ / apṛkta-pradeśāḥ -- ver apṛktasya (*6,1.67) ity evam ādyaḥ // tatpuruṣaḥ samāna-adhikaraṇaḥ karmadhārayaḥ

Sanskrit only: no published translation is held for this verse.

तत्पुरुषः इति समास-विशेषस्य सञ्ज्ञां वक्ष्यति । स तत्पुरुषः समान-अधिकरण-पदः कर्मधारय-सञ्ज्ञो भवति । अधिकरण-शब्दो ऽभिधेय-वाचि । समान-अधिकरणः समान-अभिधेयः । परमराज्यम् । उत्तमराज्यम् । अकर्मधारये राज्यम् (*६,२।१३०) इत्य् उत्तरपद-आद्य्-उदात्तं न भवति । पाचकवृन्दारिका । तत्पुरुषः इति किम् ? पाचिकाभार्यः । समान-अधिकरणः इति किम् ? ब्राह्मण-राज्यम् । कर्मधारय-प्रदेशाः - कर्मधारये ऽनिष्ठा (*६,२।४६) इत्य् एवम् आदयः ॥ प्रथमा-निर्दिष्टं समास उपसर्जनम्

tatpuruṣaḥ iti samāsa-viśeṣasya sañjñāṃ vakṣyati / sa tatpuruṣaḥ samāna-adhikaraṇa-padaḥ karmadhāraya-sañjño bhavati / adhikaraṇa-śabdo 'bhidheya-vāci / samāna-adhikaraṇaḥ samāna-abhidheyaḥ / paramarājyam / uttamarājyam / akarmadhāraye rājyam (*6,2.130) ity uttarapada-ādy-udāttaṃ na bhavati / pācakavṛndārikā / tatpuruṣaḥ iti kim ? pācikābhāryaḥ / samāna-adhikaraṇaḥ iti kim ? brāhmaṇa-rājyam / karmadhāraya-pradeśāḥ - karmadhāraye 'niṣṭhā (*6,2.46) ity evam ādayaḥ // prathamā-nirdiṣṭaṃ samāsa upasarjanam

Sanskrit only: no published translation is held for this verse.

प्रथमया विभाक्त्या यन् निर्दिश्यते समास-शास्त्रे तदुपसर्जन-सञ्ज्ञं भवति । समासे इति समास-विधायि शास्त्रं गृह्यते । वक्ष्यति - द्वितीया श्रित-अतीत-पतित-गत-अत्यस्त-प्राप्त-आपन्नैः (*२,१।२४) इति । द्विदीया-समासे द्वितीया इत्य् एतत् प्रथमा-निर्दिष्टं, तृतीया-समासे तृतीया इति, चतुर्थी-समासे चतुर्थी इति, पञ्चमी-समासे पञ्चमी इति, षष्ठी-समासे षष्ठी इति, सप्तमी-समासे सप्तमी इति । कष्ट-श्रितः । शङ्कुला-खण्डः । यूप-दारु । वृक-भयम् । राज-पुरुषः । अक्ष-शौण्डः । उपसर्जन-प्रदेशाः - उपसर्जनं पूर्वम् (*२,२।३०) इत्य् एवम् आदयः ॥ एक-विभाक्ति च अपूर्व-निपाते

prathamayā vibhāktyā yan nirdiśyate samāsa-śāstre tadupasarjana-sañjñaṃ bhavati / samāse iti samāsa-vidhāyi śāstraṃ gṛhyate / vakṣyati - dvitīyā śrita-atīta-patita-gata-atyasta-prāpta-āpannaiḥ (*2,1.24) iti / dvidīyā-samāse dvitīyā ity etat prathamā-nirdiṣṭaṃ, tṛtīyā-samāse tṛtīyā iti, caturthī-samāse caturthī iti, pañcamī-samāse pañcamī iti, ṣaṣṭhī-samāse ṣaṣṭhī iti, saptamī-samāse saptamī iti / kaṣṭa-śritaḥ / śaṅkulā-khaṇḍaḥ / yūpa-dāru / vṛka-bhayam / rāja-puruṣaḥ / akṣa-śauṇḍaḥ / upasarjana-pradeśāḥ - upasarjanaṃ pūrvam (*2,2.30) ity evam ādayaḥ // eka-vibhākti ca apūrva-nipāte

Sanskrit only: no published translation is held for this verse.

निरादयः क्रान्त्-आअद्य्-अर्थे पञ्चम्या । पूर्व-पदे नानाविभक्तिके ऽप्य् उत्तरपदं पञ्च्म्यन्तम् एव भवति । निष्क्रान्तः कौशाम्ब्या निष्कौशाम्बिः । निष्त्रान्तं कौशाम्ब्या निष्कौशाम्बिम् । निष्क्रान्तेन कौशाम्ब्या निष्कौशाम्बिना । निष्क्रान्ताय कौशाम्ब्या निष्कौशाम्बये । निष्क्रान्तात् कौशाम्ब्या निष्कौशाम्बेः । निष्क्रान्तस्य कौशाम्ब्या निष्कौशाम्बेः । निष्क्रान्ते कौशाम्ब्या निष्कौशाम्बौ । एवं निर्वाराणसिः । एकविभक्ति इति किम् ? राजकुमारी । अपूर्व-निपाते इति किम् ? न हि भवति कौशाम्बीनिः इति ॥ अर्थवद् अधातुर् अप्रत्ययः प्रातिपदिकम्

nirādayaḥ krānt-āady-arthe pañcamyā / pūrva-pade nānāvibhaktike 'py uttarapadaṃ pañcmyantam eva bhavati / niṣkrāntaḥ kauśāmbyā niṣkauśāmbiḥ / niṣtrāntaṃ kauśāmbyā niṣkauśāmbim / niṣkrāntena kauśāmbyā niṣkauśāmbinā / niṣkrāntāya kauśāmbyā niṣkauśāmbaye / niṣkrāntāt kauśāmbyā niṣkauśāmbeḥ / niṣkrāntasya kauśāmbyā niṣkauśāmbeḥ / niṣkrānte kauśāmbyā niṣkauśāmbau / evaṃ nirvārāṇasiḥ / ekavibhakti iti kim ? rājakumārī / apūrva-nipāte iti kim ? na hi bhavati kauśāmbīniḥ iti // arthavad adhātur apratyayaḥ prātipadikam

Sanskrit only: no published translation is held for this verse.

अभिधेय-वचनो ऽर्थ-शब्दः । अर्थवच्-छब्द-रूपं प्रातिपदिक-सञ्ज्ञं भवति धातु-प्रत्ययौ वर्जयित्वा । डित्थः । कपित्थः । कुण्डम् । पीठम् । अर्थवत् इति किम् ? वनम्, धनम् इति न अन्तस्य अवधेर् मा भूत् । नलोपो हि स्यात् । अधातुः इति किम् ? हन्तेर् लङ् । अहन् । अलोपः स्यत् । अप्रत्ययः इति किम् ? काण्डे । कुड्ये । ह्रस्वो नपुंसके प्रातिपदिकस्य (*१,२।४७) इति ह्रस्वः स्यात् । अनर्थकस्य अपि निपातस्य प्रातिपदिक-सञ्ज्ञा इष्यते । अध्यागच्छति । प्रलम्बते । प्रातिपदिक-प्रदेशाः -- ह्रस्वो नपुंसके प्रातिपदिकस्य (*१,२।४७) इत्य् एवम् आद्यः ॥ कृत्-तद्धित-समासाश् च

abhidheya-vacano 'rtha-śabdaḥ / arthavac-chabda-rūpaṃ prātipadika-sañjñaṃ bhavati dhātu-pratyayau varjayitvā / ḍitthaḥ / kapitthaḥ / kuṇḍam / pīṭham / arthavat iti kim ? vanam, dhanam iti na antasya avadher mā bhūt / nalopo hi syāt / adhātuḥ iti kim ? hanter laṅ / ahan / alopaḥ syat / apratyayaḥ iti kim ? kāṇḍe / kuḍye / hrasvo napuṃsake prātipadikasya (*1,2.47) iti hrasvaḥ syāt / anarthakasya api nipātasya prātipadika-sañjñā iṣyate / adhyāgacchati / pralambate / prātipadika-pradeśāḥ -- hrasvo napuṃsake prātipadikasya (*1,2.47) ity evam ādyaḥ // kṛt-taddhita-samāsāś ca

Sanskrit only: no published translation is held for this verse.

कृतस् तद्धिताः समासाश् च प्रातिपदिक-सञ्ज्ञा भवन्ति । अप्रत्ययः इति पूर्वत्र पर्युदासत् कृदन्तस्य तद्धितान्तस्य च अनेन प्रातिपदिक-सञ्ज्ञा विधीयते । अर्थवत्-समुदयानां समास-ग्रहणं नियम-अर्थम् । कृत् -- कारकः । हारकः । कर्ता । हर्त । तद्धितः -- औपगवः । कापटवः । समासः -- राज-पुरुषः । ब्राह्मण-कम्बलः । समास-ग्रहणस्य नियम-अर्थत्वाद् वाक्यस्य अर्थवतः सञ्ज्ञा न भवति ॥ ह्रस्वो नपुंसके प्रातिपदिकस्य

kṛtas taddhitāḥ samāsāś ca prātipadika-sañjñā bhavanti / apratyayaḥ iti pūrvatra paryudāsat kṛdantasya taddhitāntasya ca anena prātipadika-sañjñā vidhīyate / arthavat-samudayānāṃ samāsa-grahaṇaṃ niyama-artham / kṛt -- kārakaḥ / hārakaḥ / kartā / harta / taddhitaḥ -- aupagavaḥ / kāpaṭavaḥ / samāsaḥ -- rāja-puruṣaḥ / brāhmaṇa-kambalaḥ / samāsa-grahaṇasya niyama-arthatvād vākyasya arthavataḥ sañjñā na bhavati // hrasvo napuṃsake prātipadikasya

Sanskrit only: no published translation is held for this verse.

नपुंसक-लिङ्गे ऽर्थे यत् प्रातिपदिकं वर्तते तस्य ह्रस्वो भवति आदेशः अलो ऽन्यस्य अचः । अतिरि कुलम् । अतिनु कुलम् । नपुंसके इति किम् ? ग्रामणीः । सेनानीः । प्रातिपदिकस्य इति किम् ? काण्डे तिष्ठतः । कुड्ये तिष्ठतः । प्रातिपदिक-ग्रहण-सामर्थ्यत् एक-आदेशः पूर्वस्य अन्तवन्-न भवति ॥ गोस्त्रियोर् उपसर्जनस्य

napuṃsaka-liṅge 'rthe yat prātipadikaṃ vartate tasya hrasvo bhavati ādeśaḥ alo 'nyasya acaḥ / atiri kulam / atinu kulam / napuṃsake iti kim ? grāmaṇīḥ / senānīḥ / prātipadikasya iti kim ? kāṇḍe tiṣṭhataḥ / kuḍye tiṣṭhataḥ / prātipadika-grahaṇa-sāmarthyat eka-ādeśaḥ pūrvasya antavan-na bhavati // gostriyor upasarjanasya

Sanskrit only: no published translation is held for this verse.

चित्रगुः । शबलगुः । स्त्रियाः -- निष्कौशाम्बिः । निर्वाराणसिः । अतिखट्वः । अतिमालः । उपसर्जनस्य इति किम् ? राज-कुमारी । स्वरितत्वं किम् ? अतितन्त्रीः । अतिलक्ष्मीः । अतिश्रीः ॥ ईयसो बहुव्रीहेः प्रतिषेधो वक्तवयः । बहु-श्रेयसी । विद्यमान-श्रेयसेई ॥ लुक् तद्धित-लुकि

citraguḥ / śabalaguḥ / striyāḥ -- niṣkauśāmbiḥ / nirvārāṇasiḥ / atikhaṭvaḥ / atimālaḥ / upasarjanasya iti kim ? rāja-kumārī / svaritatvaṃ kim ? atitantrīḥ / atilakṣmīḥ / atiśrīḥ // īyaso bahuvrīheḥ pratiṣedho vaktavayaḥ / bahu-śreyasī / vidyamāna-śreyaseī // luk taddhita-luki

Sanskrit only: no published translation is held for this verse.

स्त्री-ग्रहणम् अनुवर्तते उपसर्जनस्य+इति च । पूर्वेण ह्रस्वत्वे प्राप्ते लुग् विधीयते । तद्धित-लुकि सति स्त्री-प्रत्ययस्य उपस्र्जनस्य लुग् भवति । पञ्चेन्द्राण्यो देवता अस्य पञ्चेन्द्रः । दशेन्द्रः । पञ्चभिः शष्कुलीभिः क्रीतः पञ्चशष्कुलः । आमलक्याः फलमामलकम् । बदरम् । कुवलम् । तद्धित-ग्रहणं किम् ? गार्ग्याः कुलं गार्गी-कुलम् । लुकि इति किम् ? गार्गीत्वम् । उपसर्जनस्य इत्य् एव । अवन्ती । कुन्ती । कुरूः ॥ इद्-गोण्याः

strī-grahaṇam anuvartate upasarjanasya+iti ca / pūrveṇa hrasvatve prāpte lug vidhīyate / taddhita-luki sati strī-pratyayasya upasrjanasya lug bhavati / pañcendrāṇyo devatā asya pañcendraḥ / daśendraḥ / pañcabhiḥ śaṣkulībhiḥ krītaḥ pañcaśaṣkulaḥ / āmalakyāḥ phalamāmalakam / badaram / kuvalam / taddhita-grahaṇaṃ kim ? gārgyāḥ kulaṃ gārgī-kulam / luki iti kim ? gārgītvam / upasarjanasya ity eva / avantī / kuntī / kurūḥ // id-goṇyāḥ

Sanskrit only: no published translation is held for this verse.

पूर्वेण लुकि प्राप्ते इकारो विधीयते । गोण्यास्-तद्धित-लुकि सति इकार-आदेशो भवति । पञ्चभिर् गोणीभिः क्रीतः पटः पञ्चगोणिः । दशगोणिः । इत् इति योग-विभागः । पण्चभिः सूचीभिः क्रीतः पञ्च-सूचिः । दश-सूचिः । स च एवं विषय एव ॥ लुपि युक्तवद्-व्यक्तिवचने

pūrveṇa luki prāpte ikāro vidhīyate / goṇyās-taddhita-luki sati ikāra-ādeśo bhavati / pañcabhir goṇībhiḥ krītaḥ paṭaḥ pañcagoṇiḥ / daśagoṇiḥ / it iti yoga-vibhāgaḥ / paṇcabhiḥ sūcībhiḥ krītaḥ pañca-sūciḥ / daśa-sūciḥ / sa ca evaṃ viṣaya eva // lupi yuktavad-vyaktivacane

Sanskrit only: no published translation is held for this verse.

लवणः सूपः । लवणा यवागूः । लवणं शाकम् । व्यक्तिवचने इति किम् ? शिरीषाणाम् अदूरभवो ग्रामः शिरीषाः, तस्य वनं शिरीषवनम् । विभाषअ-ओषधि-वनस्-पतिभ्यः (*८,४।६) इति णत्वं न भवति । हरितक्यादिषु व्यक्तिः । हरीतक्याः फलानि हरीतक्यः फलानि । खलतिकादिषु वचनम् । खलतिकस्य पर्वतस्य अदूरभवानि वनानि खलतिकं वनानि ॥ विशेषणानां च अजातेः

lavaṇaḥ sūpaḥ / lavaṇā yavāgūḥ / lavaṇaṃ śākam / vyaktivacane iti kim ? śirīṣāṇām adūrabhavo grāmaḥ śirīṣāḥ, tasya vanaṃ śirīṣavanam / vibhāṣaa-oṣadhi-vanas-patibhyaḥ (*8,4.6) iti ṇatvaṃ na bhavati / haritakyādiṣu vyaktiḥ / harītakyāḥ phalāni harītakyaḥ phalāni / khalatikādiṣu vacanam / khalatikasya parvatasya adūrabhavāni vanāni khalatikaṃ vanāni // viśeṣaṇānāṃ ca ajāteḥ

Sanskrit only: no published translation is held for this verse.

लुपि इति वर्तते । लुब्-अर्थस्य यानि विशेषणानि तेषाम् अपि च युक्तवद् व्यक्ति-वचने भवतः जातिं वर्जयित्वा । पञ्चालाः रमणीयाः, बह्वन्नाः, बहुक्षीरघृताः, बहुमाल्यफलाः । गोदौ रमणीयौ, बह्वन्नौ, बहुक्षीरघृतौ, बहुमाल्यफलौ । अजातेः इति किम् ? पञ्चालाः जनपदः । गोदौ ग्रामः । जात्य्-अर्थस्य चायं युक्तवद्भाव-प्रतिषेधः । तेन जात्-इद्वारेण यानि विशेषणानि तेषाम् अपि युक्तवद्भावो न भवति । पञ्चालाः जनपदो रमणीयो, बह्वन्नः । गोदौ ग्रामो रमणीयो, बह्वन्नः इति । मनुष्यलुपि प्रतिषेधो वक्तव्यः । चञ्चा अभिरूपः । वर्ध्रिका दर्शनीयं ॥ तद् अशिष्यं सञ्ज्ञा-प्रमाणत्वात्

lupi iti vartate / lub-arthasya yāni viśeṣaṇāni teṣām api ca yuktavad vyakti-vacane bhavataḥ jātiṃ varjayitvā / pañcālāḥ ramaṇīyāḥ, bahvannāḥ, bahukṣīraghṛtāḥ, bahumālyaphalāḥ / godau ramaṇīyau, bahvannau, bahukṣīraghṛtau, bahumālyaphalau / ajāteḥ iti kim ? pañcālāḥ janapadaḥ / godau grāmaḥ / jāty-arthasya cāyaṃ yuktavadbhāva-pratiṣedhaḥ / tena jāt-idvāreṇa yāni viśeṣaṇāni teṣām api yuktavadbhāvo na bhavati / pañcālāḥ janapado ramaṇīyo, bahvannaḥ / godau grāmo ramaṇīyo, bahvannaḥ iti / manuṣyalupi pratiṣedho vaktavyaḥ / cañcā abhirūpaḥ / vardhrikā darśanīyaṃ // tad aśiṣyaṃ sañjñā-pramāṇatvāt

Sanskrit only: no published translation is held for this verse.

तत् इति प्रकृतं युक्तवद्भाव-लक्षणं निर्दिश्यते । तद्-अशिष्यं न वक्तव्यम् । कस्मात् ? सञ्ज्ञा-प्रमाणत्वात् । सञ्ज्ञा-शब्दा हि नानालिङ्ग-सङ्ख्याः प्रमाणम् । पञ्चालाः, वरणा इति च, न+एते योग-शब्दाः । किं तर्हि ? जनपद्-आदीनां सञ्ज्ञा एताः । तत्र लिङ्गं वचनं च स्वभाव-संसिद्धम् एव न यत्न-प्रतिपाद्यम्, यथा आपः, दाराः, गृहाः, सिकताः, वर्षाः इति ॥ लुब् योग-अप्रख्यानात्

tat iti prakṛtaṃ yuktavadbhāva-lakṣaṇaṃ nirdiśyate / tad-aśiṣyaṃ na vaktavyam / kasmāt ? sañjñā-pramāṇatvāt / sañjñā-śabdā hi nānāliṅga-saṅkhyāḥ pramāṇam / pañcālāḥ, varaṇā iti ca, na+ete yoga-śabdāḥ / kiṃ tarhi ? janapad-ādīnāṃ sañjñā etāḥ / tatra liṅgaṃ vacanaṃ ca svabhāva-saṃsiddham eva na yatna-pratipādyam, yathā āpaḥ, dārāḥ, gṛhāḥ, sikatāḥ, varṣāḥ iti // lub yoga-aprakhyānāt

Sanskrit only: no published translation is held for this verse.

अयं न वक्तव्यः । किं कारणम् ? योग-अप्रख्यानात् । न हि पञ्चाल वरणाः इति योगः सम्बधः प्रख्यायते । न-एतद् उपलभामहे वृक्षयोगान्नगरे वरणाः इति । किं तर्हि ? सञ्ज्ञा एताः । तस्माद् अत्र तस्य निवासः (*४,२ ६९), अदूर-भवश् च (*४,२।७०) इति तद्धितो न+एव+उत्पद्यते, किं लुपो विधानेन ॥ योग-प्रमाणे च तद्-अभावे ऽदर्शनम् स्यात्

ayaṃ na vaktavyaḥ / kiṃ kāraṇam ? yoga-aprakhyānāt / na hi pañcāla varaṇāḥ iti yogaḥ sambadhaḥ prakhyāyate / na-etad upalabhāmahe vṛkṣayogānnagare varaṇāḥ iti / kiṃ tarhi ? sañjñā etāḥ / tasmād atra tasya nivāsaḥ (*4,2 69), adūra-bhavaś ca (*4,2.70) iti taddhito na+eva+utpadyate, kiṃ lupo vidhānena // yoga-pramāṇe ca tad-abhāve 'darśanam syāt

Sanskrit only: no published translation is held for this verse.

पञ्चाल-आदयः सञ्ज्ञा-शब्दाः, न योग-निमित्ताः इत्य् उक्तम् । तच्-चावश्यम् एव अभ्युपगन्तव्यम् । योग-प्रमाणे हि तद्-अभावे ऽदर्शनं स्यात् । यदि पञ्चालादि-शब्दो योगस्य प्रमाणं योगस्य वाचकः स्यात् ततस् तदभावे ऽदर्शनम् अप्रयोगः स्यात् । दृश्यते च सम्प्रति वनैव क्षत्रिय-सम्बन्धेन जनपदेषु पञ्चालादि-शब्दाः, ततो ऽवसीयते नायं योग-निमित्तकः । किं तर्हि ? रूढिरूपेणैव तत्र प्रवृत्तः इति ॥ प्रधान-प्रत्यय-अर्थवचनम् अर्थस्य अन्य-प्रमाणात्वात्

pañcāla-ādayaḥ sañjñā-śabdāḥ, na yoga-nimittāḥ ity uktam / tac-cāvaśyam eva abhyupagantavyam / yoga-pramāṇe hi tad-abhāve 'darśanaṃ syāt / yadi pañcālādi-śabdo yogasya pramāṇaṃ yogasya vācakaḥ syāt tatas tadabhāve 'darśanam aprayogaḥ syāt / dṛśyate ca samprati vanaiva kṣatriya-sambandhena janapadeṣu pañcālādi-śabdāḥ, tato 'vasīyate nāyaṃ yoga-nimittakaḥ / kiṃ tarhi ? rūḍhirūpeṇaiva tatra pravṛttaḥ iti // pradhāna-pratyaya-arthavacanam arthasya anya-pramāṇātvāt

Sanskrit only: no published translation is held for this verse.

अशिष्यम् इति वर्तते । प्रधानं समासे किंचित् पदं, प्रत्ययस्तव्यदादिः । ताभ्याम् अर्थ-वचनम् अर्थ-अभिधानम् अनेन प्रकारेण भवति इति पूर्व-आचार्यैः परिभाषितम् । प्रधान-उपसर्जने च प्रधान-अर्थं सह ब्रूतः, प्रक्र्ति-प्रत्ययौ सहार्थं ब्रूतः इति । तत् पाणिनिर् आचर्यः प्रत्याचष्टे, अशिष्यम् एतत् अर्थस्य अन्यप्रमाणत्वात् इति । अन्यः इति शास्त्र-अपेक्षया लोको व्यपदिश्यते । शब्दैर् अर्थ-अभिधानम् स्वाभाविकं न पारिभषाकम् अशक्यत्वात् । लोकत एव अर्थ-अवगतेः । यैर् अपि व्याकरणं न श्रुतं ते ऽपि राज-पुरुषम् आनय इत्य् उक्ते राजविशिष्टं पुरुषम् आनयन्ति न राजनम् न अपि पुरुष-मात्रम् । औपगवम् आनय इत्य् उक्ते उपगुविशिष्टम् अपत्यम् आनयन्ति, न+उपगुं न अप्य् अपत्य-मात्रं, न+उभौ । यश् च लोकतो ऽर्थः सिद्धः किं तत्र यत्नेन ॥ काल-उपसर्जने च तुल्यम्

aśiṣyam iti vartate / pradhānaṃ samāse kiṃcit padaṃ, pratyayastavyadādiḥ / tābhyām artha-vacanam artha-abhidhānam anena prakāreṇa bhavati iti pūrva-ācāryaiḥ paribhāṣitam / pradhāna-upasarjane ca pradhāna-arthaṃ saha brūtaḥ, prakrti-pratyayau sahārthaṃ brūtaḥ iti / tat pāṇinir ācaryaḥ pratyācaṣṭe, aśiṣyam etat arthasya anyapramāṇatvāt iti / anyaḥ iti śāstra-apekṣayā loko vyapadiśyate / śabdair artha-abhidhānam svābhāvikaṃ na pāribhaṣākam aśakyatvāt / lokata eva artha-avagateḥ / yair api vyākaraṇaṃ na śrutaṃ te 'pi rāja-puruṣam ānaya ity ukte rājaviśiṣṭaṃ puruṣam ānayanti na rājanam na api puruṣa-mātram / aupagavam ānaya ity ukte upaguviśiṣṭam apatyam ānayanti, na+upaguṃ na apy apatya-mātraṃ, na+ubhau / yaś ca lokato 'rthaḥ siddhaḥ kiṃ tatra yatnena // kāla-upasarjane ca tulyam

Sanskrit only: no published translation is held for this verse.

जात्य्-आख्यायम् एकस्मिन् बहुवचनम् अन्यतरस्याम्

jāty-ākhyāyam ekasmin bahuvacanam anyatarasyām

Sanskrit only: no published translation is held for this verse.

अशिष्यम् इति निवृतम् । जातिर् नाम अयम् एको ऽर्थः । तद्-अभिधाने एकवचनम् एव प्राप्तम् अत इदम् उद्यते । जातेर् आख्या जात्य्-आख्या । जात्य्-आख्यायाम् एकस्मिन्न् अर्थे वहुवचनम् अन्यतरस्यां भवति । जात्य्-अर्थो बहुवद् भवति इति यावत् । तेन तद्विशेषणानाम् अजाति-शब्दानाम् अपि सम्पन्नादीनां बहुवचनम् उपपद्यते । सम्पन्नो यवः, सम्पन्ना यवाः । सम्पन्नो व्रीहिः, सम्पन्ना व्रीहयः । पूर्ववया ब्राह्मणः प्रत्युत्थेयः, पूर्ववयसो ब्राह्मणाः प्रत्युत्थेयाः । जाति-ग्रहणं किम् ? देवदत्तः । यज्ञदत्तः । आख्यायाम् इति किम् ? काश्यप-प्रतिकृतिः काश्यपः । भवत्ययं जाति-शब्दो न त्वनेन जातिर् आख्यायते । किं तर्हि ? प्रतिकृतिः । एकस्मिन् इति किम् ? व्रीहियवौ । सङ्ख्याप्रयोगे प्रतिषेधो वक्तव्यः । एको ब्रीहिः सम्पन्नः सुभिक्षं करोति ॥ अस्मदो द्वयोश् च

aśiṣyam iti nivṛtam / jātir nāma ayam eko 'rthaḥ / tad-abhidhāne ekavacanam eva prāptam ata idam udyate / jāter ākhyā jāty-ākhyā / jāty-ākhyāyām ekasminn arthe vahuvacanam anyatarasyāṃ bhavati / jāty-artho bahuvad bhavati iti yāvat / tena tadviśeṣaṇānām ajāti-śabdānām api sampannādīnāṃ bahuvacanam upapadyate / sampanno yavaḥ, sampannā yavāḥ / sampanno vrīhiḥ, sampannā vrīhayaḥ / pūrvavayā brāhmaṇaḥ pratyuttheyaḥ, pūrvavayaso brāhmaṇāḥ pratyuttheyāḥ / jāti-grahaṇaṃ kim ? devadattaḥ / yajñadattaḥ / ākhyāyām iti kim ? kāśyapa-pratikṛtiḥ kāśyapaḥ / bhavatyayaṃ jāti-śabdo na tvanena jātir ākhyāyate / kiṃ tarhi ? pratikṛtiḥ / ekasmin iti kim ? vrīhiyavau / saṅkhyāprayoge pratiṣedho vaktavyaḥ / eko brīhiḥ sampannaḥ subhikṣaṃ karoti // asmado dvayoś ca

Sanskrit only: no published translation is held for this verse.

अस्मदो यो ऽर्थस् तस्य+एकत्वे द्वित्वे च बहुवचनम् अन्यतरस्यां भवति । अहं ब्रवीमि , वयं व्रूमः । आवां ब्रूवः, वयं व्रूमः । सविशेषणस्य प्रतिषेधो वक्तव्यः । अहं देवदत्तो ब्रवीमि । अहं गार्ग्यो व्रवीमि । अहं पटुर् ब्रवीमि । युष्मदि गुरावेकेषाम् । त्वं मे गुरुः, यूयं मे गुरवः ॥ फल्गुनी-प्रोष्ठपदानां च नक्षत्रे

asmado yo 'rthas tasya+ekatve dvitve ca bahuvacanam anyatarasyāṃ bhavati / ahaṃ bravīmi , vayaṃ vrūmaḥ / āvāṃ brūvaḥ, vayaṃ vrūmaḥ / saviśeṣaṇasya pratiṣedho vaktavyaḥ / ahaṃ devadatto bravīmi / ahaṃ gārgyo vravīmi / ahaṃ paṭur bravīmi / yuṣmadi gurāvekeṣām / tvaṃ me guruḥ, yūyaṃ me guravaḥ // phalgunī-proṣṭhapadānāṃ ca nakṣatre

Sanskrit only: no published translation is held for this verse.

चकारो द्वयोः इत्य् अनुकर्षण-अर्थः । फल्गुन्योर् द्वयोः प्रोष्ठपदयोश् च द्वयोर् नक्षत्रयोर् बहुवचनम् अन्यतरस्यां भवति । कदा पूर्वे फल्गुन्यौ, कदा पूर्वाः फल्गुन्यः । कदा पूर्वे प्रोष्ठपदे, कदा पूर्वाः प्रोष्ठपदाः । नक्षत्रे इति किम् ? पल्गुन्यौ मणविके ॥ छन्दसि पुनर्वस्वोरेकवचनम्

cakāro dvayoḥ ity anukarṣaṇa-arthaḥ / phalgunyor dvayoḥ proṣṭhapadayoś ca dvayor nakṣatrayor bahuvacanam anyatarasyāṃ bhavati / kadā pūrve phalgunyau, kadā pūrvāḥ phalgunyaḥ / kadā pūrve proṣṭhapade, kadā pūrvāḥ proṣṭhapadāḥ / nakṣatre iti kim ? palgunyau maṇavike // chandasi punarvasvorekavacanam

Sanskrit only: no published translation is held for this verse.

विशाखयोश् च

viśākhayoś ca

Sanskrit only: no published translation is held for this verse.

छन्दसि इति वर्तते । द्विवचने प्राप्ते छन्दसि विषये विशाखयोर् एकवचनम् अन्यतरस्यां भवति । विशाखं नक्षत्रम् इन्द्राग्नीं देवता । विशाखे नक्षत्रम् इन्द्राग्नी देवता ॥ तिष्य-पुनर्वस्वोर् नक्षत्र-द्वन्द्वे बहुवचनस्य द्विवचनं नित्यम्

chandasi iti vartate / dvivacane prāpte chandasi viṣaye viśākhayor ekavacanam anyatarasyāṃ bhavati / viśākhaṃ nakṣatram indrāgnīṃ devatā / viśākhe nakṣatram indrāgnī devatā // tiṣya-punarvasvor nakṣatra-dvandve bahuvacanasya dvivacanaṃ nityam

Sanskrit only: no published translation is held for this verse.

छन्दसि इति निवृत्तम् । निष्यः एकः, पुनर्वसू द्वौ, तेषं द्वन्द्वो बह्व्-अर्थः । तत्र बहुवचने प्राप्ते द्विवचनं विधीयते । निष्यपुनर्वस्वोः नक्षत्र-विषये द्वन्द्वे बहुवचन-प्रसङ्गो नित्यं द्विवचनं भवति । उदितौ तिष्य-पुनर्वसू दृश्येते । तिष्य-पुनर्वस्वोः इति किम् ? विशाखानुराधाः । नक्षत्रे इति किम् ? तिष्यश् च माणवकः, पुनर्वसू माणवकौ, तिष्य-पुनर्वसवो माणवकाः । ननु च प्रकृतम् एव नक्षत्र-ग्रहणं किम्-अर्थं पुनर् उच्यते । पर्यायाणाम् अपि यथा स्यात् । तिष्य-पुनर्वसू । पुष्य-पुनर्वसू । सिद्ध्य-पुनर्वसू । द्वन्द्वे इति किम् ? यस्तिष्यस्तौ पुनर्वसू येषां ते इमे तिष्य-पुनर्वसवः । उन्मुग्धाः तिष्यादय एव विपर्ययेण दृश्यमाना बहुव्रीहिणोच्यन्ते । तेन नक्षत्र-समास एव अयम् । बहुवचनस्य इति किम् ? एकवचनस्य मा भूत् । निष्य-पुनर्वसु इदम् इति । सर्वो द्वन्द्वो विभाषा एकवद् भवति इत्य् अस्य+एतद एव ज्ञापकम् । नित्य-ग्रहणं विकल्प-निवृत्त्य्-अर्थम् ॥ ससूपाणाम् एकशेष एक-विभक्तौ

chandasi iti nivṛttam / niṣyaḥ ekaḥ, punarvasū dvau, teṣaṃ dvandvo bahv-arthaḥ / tatra bahuvacane prāpte dvivacanaṃ vidhīyate / niṣyapunarvasvoḥ nakṣatra-viṣaye dvandve bahuvacana-prasaṅgo nityaṃ dvivacanaṃ bhavati / uditau tiṣya-punarvasū dṛśyete / tiṣya-punarvasvoḥ iti kim ? viśākhānurādhāḥ / nakṣatre iti kim ? tiṣyaś ca māṇavakaḥ, punarvasū māṇavakau, tiṣya-punarvasavo māṇavakāḥ / nanu ca prakṛtam eva nakṣatra-grahaṇaṃ kim-arthaṃ punar ucyate / paryāyāṇām api yathā syāt / tiṣya-punarvasū / puṣya-punarvasū / siddhya-punarvasū / dvandve iti kim ? yastiṣyastau punarvasū yeṣāṃ te ime tiṣya-punarvasavaḥ / unmugdhāḥ tiṣyādaya eva viparyayeṇa dṛśyamānā bahuvrīhiṇocyante / tena nakṣatra-samāsa eva ayam / bahuvacanasya iti kim ? ekavacanasya mā bhūt / niṣya-punarvasu idam iti / sarvo dvandvo vibhāṣā ekavad bhavati ity asya+etada eva jñāpakam / nitya-grahaṇaṃ vikalpa-nivṛtty-artham // sasūpāṇām ekaśeṣa eka-vibhaktau

Sanskrit only: no published translation is held for this verse.

समानं रूपम् एषाम् इति सरूपाः । सरूपाणां शब्दानं एकविभक्तौ परत एकशेषो भवति । एकः शिष्यते तरे निवर्तन्ते । वृक्षश् च वृक्षश् च वृक्षौ । वृक्षश् च वृक्षश् च व्र्क्षश् च वृक्षाः । प्रत्यर्थं शब्द-निवेशान् न+एकेन अनेकस्य अभिधानम् । तत्र अनेक-अर्थ-अभिधाने ऽनेक-शब्दत्वं प्राप्तं तस्माद् एकशेषः । सरुपाणाम् इति किम् ? प्लक्षन्यग्रोधाः । रूप-ग्रहणं किम् ? भिन्ने ऽप्यर्थे यथा स्यात् । अक्षाः । पादाः । माषाः । एकग्रहणं किम् ? द्विबह्वोः शेषो मा भूत् । शेषग्रहनं किम् ? आदेशो मा भूत् । एकविभक्तौ इति किम् ? पयः पयो जरयति । ब्राह्मणाभ्यां च कृतं ब्राह्मणाभ्यां च देहि ॥ वृद्धो यूना तल्-लक्षणश् चेद्-एव विशेषः

samānaṃ rūpam eṣām iti sarūpāḥ / sarūpāṇāṃ śabdānaṃ ekavibhaktau parata ekaśeṣo bhavati / ekaḥ śiṣyate tare nivartante / vṛkṣaś ca vṛkṣaś ca vṛkṣau / vṛkṣaś ca vṛkṣaś ca Vrkṣaś ca vṛkṣāḥ / pratyarthaṃ śabda-niveśān na+ekena anekasya abhidhānam / tatra aneka-artha-abhidhāne 'neka-śabdatvaṃ prāptaṃ tasmād ekaśeṣaḥ / sarupāṇām iti kim ? plakṣanyagrodhāḥ / rūpa-grahaṇaṃ kim ? bhinne 'pyarthe yathā syāt / akṣāḥ / pādāḥ / māṣāḥ / ekagrahaṇaṃ kim ? dvibahvoḥ śeṣo mā bhūt / śeṣagrahanaṃ kim ? ādeśo mā bhūt / ekavibhaktau iti kim ? payaḥ payo jarayati / brāhmaṇābhyāṃ ca kṛtaṃ brāhmaṇābhyāṃ ca dehi // vṛddho yūnā tal-lakṣaṇaś ced-eva viśeṣaḥ

Sanskrit only: no published translation is held for this verse.

वत्स्यश् च वात्स्यायनश् च वात्स्यौ । वृद्धः इति किम् ? गर्गश् च गार्ग्यायणश् च गर्गगार्गायणौ । यू ना इति किम् ? गार्ग्यश् च गर्गश् च गार्ग्य-गर्गौ । तल्-लक्षणः इति किम् ? गार्ग्य-वात्स्ययनौ । एवकारः किम्-अर्थः । भागवित्तिश् च भागवित्तिकश् च भागवित्ति-भागवित्तिकौ । कुत्सा सौवीरत्वं च भागवित्तिकस्य अपरो विशेषो विद्यते ॥ स्त्री पुंवच्-च

vatsyaś ca vātsyāyanaś ca vātsyau / vṛddhaḥ iti kim ? gargaś ca gārgyāyaṇaś ca gargagārgāyaṇau / yū nā iti kim ? gārgyaś ca gargaś ca gārgya-gargau / tal-lakṣaṇaḥ iti kim ? gārgya-vātsyayanau / evakāraḥ kim-arthaḥ / bhāgavittiś ca bhāgavittikaś ca bhāgavitti-bhāgavittikau / kutsā sauvīratvaṃ ca bhāgavittikasya aparo viśeṣo vidyate // strī puṃvac-ca

Sanskrit only: no published translation is held for this verse.

शेषः इति वर्तते, वृद्धो यूना इति च सर्वम् स्त्री वृद्धा यूना सहवचने शिष्यते, तल्-लक्षणश् चेद्-एव विशेषो भवति । पुंसः इव अस्याः कार्यं भवति । स्त्र्य्-अर्थः पुम्-अर्थवद् भवति । गर्गी च गर्ग्यायणश् च गार्ग्यौ । वात्सी च वात्स्यायनश् च वात्स्यौ । दाक्षी च दाक्षायाणश् च दाक्षी ॥ पुमान् स्त्रिया

śeṣaḥ iti vartate, vṛddho yūnā iti ca sarvam strī vṛddhā yūnā sahavacane śiṣyate, tal-lakṣaṇaś ced-eva viśeṣo bhavati / puṃsaḥ iva asyāḥ kāryaṃ bhavati / stry-arthaḥ pum-arthavad bhavati / gargī ca gargyāyaṇaś ca gārgyau / vātsī ca vātsyāyanaś ca vātsyau / dākṣī ca dākṣāyāṇaś ca dākṣī // pumān striyā

Sanskrit only: no published translation is held for this verse.

तल्-लक्षणश् चेद्-एव विशेषः इति वर्तते । वृद्धो यून इति निवृत्तम् । स्त्रिया सहवचने पुमान् शिष्यते स्त्री निवर्तते । स्त्रीपुंसलक्षणश्चेदेव विशेषो भवति । ब्राह्मणश् च मयूरी च कुक्कुटमयूर्यौ । एवकरः किम्-अर्थः । इन्द्रश् च इन्द्राणी च इन्द्रेन्द्राण्यौ । पुंयोगाद् आख्यायाम् (*४,१।४८) इत्य् अपरो विशेषः । पुमान् इति किम् ? प्राक् च प्राचि च प्राक्प्राच्यौ । प्राक् इत्य् अवययम् अलिङ्गम् ॥ भ्रातृ-पुत्रौ स्वसृ-दुहितृभ्याम्

tal-lakṣaṇaś ced-eva viśeṣaḥ iti vartate / vṛddho yūna iti nivṛttam / striyā sahavacane pumān śiṣyate strī nivartate / strīpuṃsalakṣaṇaścedeva viśeṣo bhavati / brāhmaṇaś ca mayūrī ca kukkuṭamayūryau / evakaraḥ kim-arthaḥ / indraś ca indrāṇī ca indrendrāṇyau / puṃyogād ākhyāyām (*4,1.48) ity aparo viśeṣaḥ / pumān iti kim ? prāk ca prāci ca prākprācyau / prāk ity avayayam aliṅgam // bhrātṛ-putrau svasṛ-duhitṛbhyām

Sanskrit only: no published translation is held for this verse.

यथा सङ्ख्यं भ्रातृ-पुत्र-शब्दौ शिष्येते सहवचने स्वसृ-दुहितृभ्यम् । स्वस्रा सहवचने भ्रातृ-शब्दः शिष्यते । भ्राता च स्वसा च भ्रातरौ । दुहित्रा सहवचने पुत्र-शब्दः शिष्यते । पुत्रश् च दुहित च पुत्रौ ॥ नपुंसकम् अनपुंसकेन-एकवच्-च-अस्य-अन्यतरस्याम्

yathā saṅkhyaṃ bhrātṛ-putra-śabdau śiṣyete sahavacane svasṛ-duhitṛbhyam / svasrā sahavacane bhrātṛ-śabdaḥ śiṣyate / bhrātā ca svasā ca bhrātarau / duhitrā sahavacane putra-śabdaḥ śiṣyate / putraś ca duhita ca putrau // napuṃsakam anapuṃsakena-ekavac-ca-asya-anyatarasyām

Sanskrit only: no published translation is held for this verse.

तल्-लक्षणश् चेद्-एव विशेषः इति वर्तते । नपुंसक-अनपुंसक-मात्र-कृते विशेषे ऽनपुंसकेन सहवचने नपुंसकं शिष्यते, एकवच् च अस्य कार्यं भवति अन्यतरस्याम् । शुक्लश् च कम्बलः, शुक्ला च बृहतिका, शुक्लम् च वस्त्रं, तदिदं शुक्लम् । तानि इमानि शुक्लानि । अनपुंसकेन इति किम् ? शुक्लं च शुक्लं च शुक्लं च सुक्लानि । एकवच्च इति न भवति ॥ पिता मात्रा

tal-lakṣaṇaś ced-eva viśeṣaḥ iti vartate / napuṃsaka-anapuṃsaka-mātra-kṛte viśeṣe 'napuṃsakena sahavacane napuṃsakaṃ śiṣyate, ekavac ca asya kāryaṃ bhavati anyatarasyām / śuklaś ca kambalaḥ, śuklā ca bṛhatikā, śuklam ca vastraṃ, tadidaṃ śuklam / tāni imāni śuklāni / anapuṃsakena iti kim ? śuklaṃ ca śuklaṃ ca śuklaṃ ca suklāni / ekavacca iti na bhavati // pitā mātrā

Sanskrit only: no published translation is held for this verse.

श्वशुरः श्वस्रवा

śvaśuraḥ śvasravā

Sanskrit only: no published translation is held for this verse.

अन्यतरस्याम् इति वर्तते । श्वस्र्वा सहवचने श्वशुर-शब्दः शिष्यते अन्यतरस्याम् । श्वशुरश् च श्वश्रूश् च श्वशुरौ, श्वस्रू-श्वशुरौ इति वा ॥ त्यद्-आदीनि सर्वैर् नित्यम्

anyatarasyām iti vartate / śvasrvā sahavacane śvaśura-śabdaḥ śiṣyate anyatarasyām / śvaśuraś ca śvaśrūś ca śvaśurau, śvasrū-śvaśurau iti vā // tyad-ādīni sarvair nityam

Sanskrit only: no published translation is held for this verse.

तय्द्-आदीनि शब्द-रूपाणि सर्वैः सहवचने नित्यं शिष्यन्ते त्यद्-आदिभिर् अन्यैश् च । सर्व-ग्रहणं सकल्य-अर्थम् । नित्य-ग्रहनं विकल्प-निवृत्त्य्-अर्थम् । स च देवदत्तश् च तौ । यश्च देवदत्तश् च यौ । त्यद्-आदीनां मिथो यद्यत् परं तत्तच् छिस्यते । स च यश् च यौ । यश् च कश्च कौ ॥ ग्राम्य-पशु-सङ्घेष्व् अतरुणेशु स्त्री

tayd-ādīni śabda-rūpāṇi sarvaiḥ sahavacane nityaṃ śiṣyante tyad-ādibhir anyaiś ca / sarva-grahaṇaṃ sakalya-artham / nitya-grahanaṃ vikalpa-nivṛtty-artham / sa ca devadattaś ca tau / yaśca devadattaś ca yau / tyad-ādīnāṃ mitho yadyat paraṃ tattac chisyate / sa ca yaś ca yau / yaś ca kaśca kau // grāmya-paśu-saṅgheṣv ataruṇeśu strī

Sanskrit only: no published translation is held for this verse.