इन्धि भवति इत्य् एताभ्यां परो लिट् प्रत्ययः किड् भवति । समीधे दस्यु हन्तमम् । पुत्र ईधे अथर्वणः । भवतेः खल्व् अपि -- बभूव । बभूविथ । इन्धेः संयोगर्थं ग्रहणम् । भवतेः पिदर्थम् । अत्र-इष्टिः -- श्रन्थिग्रन्थिदम्भिस्वञ्जीनामिति वक्तव्यम् । श्रेथतुः, श्रेथुः । ग्रेथतुः, ग्रेथुः । देभतुः, देभुः । परिषस्वजे, परिषस्वजाते ॥ मृड्-अमृद-गुध-कुष-क्लिश-वद-वसः क्त्वा
indhi bhavati ity etābhyāṃ paro liṭ pratyayaḥ kiḍ bhavati / samīdhe dasyu hantamam / putra īdhe atharvaṇaḥ / bhavateḥ khalv api -- babhūva / babhūvitha / indheḥ saṃyogarthaṃ grahaṇam / bhavateḥ pidartham / atra-iṣṭiḥ -- śranthigranthidambhisvañjīnāmiti vaktavyam / śrethatuḥ, śrethuḥ / grethatuḥ, grethuḥ / debhatuḥ, debhuḥ / pariṣasvaje, pariṣasvajāte // mṛḍ-amṛda-gudha-kuṣa-kliśa-vada-vasaḥ ktvā
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.