कारके इति वशेषणम् अपादानादिसञ्ज्ञाविषयम् अधिक्रियते । कारके इत्य् अधिकारो वेदितव्यः । यद् इत ऊर्ध्वम् अनुक्रमिष्यामः कारके इत्य् एवं तद् वेदितव्यम् । कारक-शब्दश् च निमित्त-पर्यायः । करकम् हेतुः इत्य् अनर्थ-अन्तरम् । कस्य हेतुः ? क्रियायाः । वक्ष्यति, घ्रुवमपाये ऽपादानम् (*१,४।२४) - ग्रामादागच्छति । पर्वतादवरोहति । कारके इति किम् ? वृक्षस्य पर्णं पतति । कुड्यस्य पिण्डः पतति । अकथितं च (*१,३।५१), अकथितं च कारकं कर्मसञ्ज्ञं भवति - माणवकं पन्थानं पृच्छति । करके इति किम् ? माणवकस्य पितरं पन्थानं पृच्छति । कारकसंशब्दनेषु च अनेन एव विशेषणेन व्यवहारो विज्ञायते ॥ ध्रुवमपाये ऽपादानम्
kārake iti vaśeṣaṇam apādānādisañjñāviṣayam adhikriyate / kārake ity adhikāro veditavyaḥ / yad ita ūrdhvam anukramiṣyāmaḥ kārake ity evaṃ tad veditavyam / kāraka-śabdaś ca nimitta-paryāyaḥ / karakam hetuḥ ity anartha-antaram / kasya hetuḥ ? kriyāyāḥ / vakṣyati, ghruvamapāye 'pādānam (*1,4.24) - grāmādāgacchati / parvatādavarohati / kārake iti kim ? vṛkṣasya parṇaṃ patati / kuḍyasya piṇḍaḥ patati / akathitaṃ ca (*1,3.51), akathitaṃ ca kārakaṃ karmasañjñaṃ bhavati - māṇavakaṃ panthānaṃ pṛcchati / karake iti kim ? māṇavakasya pitaraṃ panthānaṃ pṛcchati / kārakasaṃśabdaneṣu ca anena eva viśeṣaṇena vyavahāro vijñāyate // dhruvamapāye 'pādānam
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.