आ कडारादेका सञ्ज्ञा
ā kaḍārādekā sañjñā
Sanskrit only: no published translation is held for this verse.
Library·Jayaditya & Vamana: Kasikavrtti·1·1.4
आ कडारादेका सञ्ज्ञा
ā kaḍārādekā sañjñā
Sanskrit only: no published translation is held for this verse.
काडराः कर्मधारये (*२,२।३८) इति वक्ष्यति । आ एतस्मात् सूत्रावधेर्यदित ऊर्ध्वम् अनुक्रमिष्यामः, तत्र एका सञ्ज्ञा भवति इति वेदितव्यम् । का पुनर् असौ ? या परा अनवकाशा च । अन्यत्र सञ्जासमावेशान् नियम-अर्थं वचनम् एकैव सञ्ज्ञा भवति इति । वक्ष्यति - ह्रस्वं लघु (*१,४।१०), भिदि, छिदि - भेत्ता, छेत्ता । संयोगे गुरु (*१,४।११), शिक्षि, भिक्षि - शिक्षा, भिक्षा । संयोग-परस्य ह्रस्वस्य लघुसञ्ज्ञा प्राप्नोति, गुरुसञ्ज्ञा च । एका सञ्ज्ञा इति वचनाद् गुरुसञ्ज्ञा एव भवति । अततक्षत्, अररक्षत्, सन्वल्लघुनि चङ्परे ऽनग्लोपे (*७,४।९३) इत्य् एष विधिर् न भवति ॥ विप्रतिषेधे परं कार्यम्
kāḍarāḥ karmadhāraye (*2,2.38) iti vakṣyati / ā etasmāt sūtrāvadheryadita ūrdhvam anukramiṣyāmaḥ, tatra ekā sañjñā bhavati iti veditavyam / kā punar asau ? yā parā anavakāśā ca / anyatra sañjāsamāveśān niyama-arthaṃ vacanam ekaiva sañjñā bhavati iti / vakṣyati - hrasvaṃ laghu (*1,4.10), bhidi, chidi - bhettā, chettā / saṃyoge guru (*1,4.11), śikṣi, bhikṣi - śikṣā, bhikṣā / saṃyoga-parasya hrasvasya laghusañjñā prāpnoti, gurusañjñā ca / ekā sañjñā iti vacanād gurusañjñā eva bhavati / atatakṣat, ararakṣat, sanvallaghuni caṅpare 'naglope (*7,4.93) ity eṣa vidhir na bhavati // vipratiṣedhe paraṃ kāryam
Sanskrit only: no published translation is held for this verse.
तुल्यबल-विरोधो विप्रतिषेधः । यत्र द्वौ प्रसङ्गाव् अन्यार्थव् एकस्मिन् युगपत् प्राप्नुतः, स तुल्यबल-विरोधो विप्रतिषेधः । तस्मिन् विप्रतिषेधे परं कार्यं भवति । उत्सर्ग-अपवाद-नित्य-अनित्य-अन्तरङ्ग-वहिरङ्गेषु तुल्यबलता न अस्ति इति न अयम् अस्य योगस्य विषयः । बलवतैव तत्र भवितव्यम् । अप्रवृत्तौ, पर्यायेण वा प्रवृत्तौ प्राप्तायां वचनम् आरभ्यते । अतो दीर्घो यञि (*७,३।१०१), सुपि च (*७,३।१०२) इत्य् अस्य अवकाशः - वृक्षाभ्याम्, प्लक्षाभ्याम् । वहुवचने झल्येत् (*७,३।१०३) इत्य् अस्य अवकाशः - वृक्षेषु, प्लक्षेषु । इह+उभयं प्राप्नोति - वृक्षेभ्यः, प्लक्षेभ्यः इति । परं भवति विप्रतिषेधेन ॥ यू स्त्र्य्-आख्यौ नदी
tulyabala-virodho vipratiṣedhaḥ / yatra dvau prasaṅgāv anyārthav ekasmin yugapat prāpnutaḥ, sa tulyabala-virodho vipratiṣedhaḥ / tasmin vipratiṣedhe paraṃ kāryaṃ bhavati / utsarga-apavāda-nitya-anitya-antaraṅga-vahiraṅgeṣu tulyabalatā na asti iti na ayam asya yogasya viṣayaḥ / balavataiva tatra bhavitavyam / apravṛttau, paryāyeṇa vā pravṛttau prāptāyāṃ vacanam ārabhyate / ato dīrgho yañi (*7,3.101), supi ca (*7,3.102) ity asya avakāśaḥ - vṛkṣābhyām, plakṣābhyām / vahuvacane jhalyet (*7,3.103) ity asya avakāśaḥ - vṛkṣeṣu, plakṣeṣu / iha+ubhayaṃ prāpnoti - vṛkṣebhyaḥ, plakṣebhyaḥ iti / paraṃ bhavati vipratiṣedhena // yū stry-ākhyau nadī
Sanskrit only: no published translation is held for this verse.
न-इयङ्-उवङ्-स्थानाव् अस्त्री
na-iyaṅ-uvaṅ-sthānāv astrī
Sanskrit only: no published translation is held for this verse.
पूर्वणातिप्रसक्ता नदीसञ्ज्ञा प्रतिषिध्यते । स्थितिः स्थानम् । इयङ्-उवङोः इति इयङ्-उवङ्-स्थानौ, तौ यू नदीसञ्ज्ञौ न भवतः, स्त्री-शब्दम् वर्जयित्वा । हे श्रीः । हे भ्रूः । अस्त्री इति किम् ? हे स्त्रि ॥ व+आमि
pūrvaṇātiprasaktā nadīsañjñā pratiṣidhyate / sthitiḥ sthānam / iyaṅ-uvaṅoḥ iti iyaṅ-uvaṅ-sthānau, tau yū nadīsañjñau na bhavataḥ, strī-śabdam varjayitvā / he śrīḥ / he bhrūḥ / astrī iti kim ? he stri // va+āmi
Sanskrit only: no published translation is held for this verse.
पूर्वेण नित्ये प्रतिषेधे प्राप्ते आमि विकल्पः क्रिय्ते । इयङ्-उवङ्-स्थानौ यू आमि परतो वा नदीसञ्ज्ञौ न भवतः । श्रियाम्, श्रीणाम् । भ्रुवाम्, भ्रूणाम् । अस्त्री इत्येव, स्त्रिणाम् ॥ ङिति ह्रस्वश् च
pūrveṇa nitye pratiṣedhe prāpte āmi vikalpaḥ kriyte / iyaṅ-uvaṅ-sthānau yū āmi parato vā nadīsañjñau na bhavataḥ / śriyām, śrīṇām / bhruvām, bhrūṇām / astrī ityeva, striṇām // ṅiti hrasvaś ca
Sanskrit only: no published translation is held for this verse.
दीर्घस्य नदीसञ्ज्ञा विहिता, ह्रस्वस्य न प्राप्नोति, इयङ्-उवङ्-स्थानयोश् च प्रतिषिद्धा । तस्मान् ङिति व विधीयते । ङिति परतो ह्रस्वश् च य्वोः सम्बन्धी यः स्त्र्याख्यः, स्त्र्याख्यौ इयङ्-उवङ्-स्थानौ च यू वा नदी सञ्ज्ञौ भवतः । कृत्यै, कृतये । धेन्वै, धेनवे । श्रियै, श्रिये । भ्रुवै, भ्रुवे । अस्त्री इत्य् एव, स्त्रियै । स्त्र्याख्यौ इत्य् एव, अग्नये । वाय्वे । भनवे ॥ शेषो घ्यसखि
dīrghasya nadīsañjñā vihitā, hrasvasya na prāpnoti, iyaṅ-uvaṅ-sthānayoś ca pratiṣiddhā / tasmān ṅiti va vidhīyate / ṅiti parato hrasvaś ca yvoḥ sambandhī yaḥ stryākhyaḥ, stryākhyau iyaṅ-uvaṅ-sthānau ca yū vā nadī sañjñau bhavataḥ / kṛtyai, kṛtaye / dhenvai, dhenave / śriyai, śriye / bhruvai, bhruve / astrī ity eva, striyai / stryākhyau ity eva, agnaye / vāyve / bhanave // śeṣo ghyasakhi
Sanskrit only: no published translation is held for this verse.
ह्रस्वः इति वर्तते । शेषो ऽत्र घिसञ्ज्ञो भवति, सखि-शब्दम् वर्जयित्वा । कश् च शेषः ? ह्रस्वम् इवर्ण-उवर्ण-अन्तं यन् न स्त्र्याख्यम्, स्त्र्याख्यं च यन् न नदीसञ्ज्ञकं, स शेषः । अग्नये । वायवे । कृतये । धेनवे । असखि इति किम् ? सख्या । सख्ये । सख्युः । सख्यौ । घि-प्रदेशाः -- द्वन्द्वे घि (*२,२।३२) इत्य् एवम् आदयः ॥ पतिः समास एव
hrasvaḥ iti vartate / śeṣo 'tra ghisañjño bhavati, sakhi-śabdam varjayitvā / kaś ca śeṣaḥ ? hrasvam ivarṇa-uvarṇa-antaṃ yan na stryākhyam, stryākhyaṃ ca yan na nadīsañjñakaṃ, sa śeṣaḥ / agnaye / vāyave / kṛtaye / dhenave / asakhi iti kim ? sakhyā / sakhye / sakhyuḥ / sakhyau / ghi-pradeśāḥ -- dvandve ghi (*2,2.32) ity evam ādayaḥ // patiḥ samāsa eva
Sanskrit only: no published translation is held for this verse.
षष्ठी-युक्तश् छन्दसि वा
ṣaṣṭhī-yuktaś chandasi vā
Sanskrit only: no published translation is held for this verse.
पतिः इति वर्तते । पूर्वेण नियमेन असमासे न प्राप्नोति इति वचनम् आरभ्यते । षष्ठ्यन्तेन युक्तः पति-शब्दः छन्दसि वषये वा घिसञ्ज्ञो भवति । कुलुञ्चानां पतये नमः, कुलुञ्चानां पत्ये नमः । षस्ठी-ग्रहणं किम् ? मया पत्या जरदष्टिर्यथासः । छन्दसि इति किम् ? ग्रामस्य पत्ये ॥ ह्रस्वं लघु
patiḥ iti vartate / pūrveṇa niyamena asamāse na prāpnoti iti vacanam ārabhyate / ṣaṣṭhyantena yuktaḥ pati-śabdaḥ chandasi vaṣaye vā ghisañjño bhavati / kuluñcānāṃ pataye namaḥ, kuluñcānāṃ patye namaḥ / ṣasṭhī-grahaṇaṃ kim ? mayā patyā jaradaṣṭiryathāsaḥ / chandasi iti kim ? grāmasya patye // hrasvaṃ laghu
Sanskrit only: no published translation is held for this verse.
मात्रिकस्य ह्रस्वसञ्ज्ञा कृता तस्य अनेन लघुसञ्ज्ञा विधीयते । ह्रस्वम् अक्षरं लघुसञ्ज्ञं भवति । भेता । छेत्त । अचीकरत् । अजीहरत् । लघु-प्रदेशाः - पुगन्त-लघु-उपधस्य च इत्य् एवम् आदयः ॥ संयोगे गुरु
mātrikasya hrasvasañjñā kṛtā tasya anena laghusañjñā vidhīyate / hrasvam akṣaraṃ laghusañjñaṃ bhavati / bhetā / chetta / acīkarat / ajīharat / laghu-pradeśāḥ - puganta-laghu-upadhasya ca ity evam ādayaḥ // saṃyoge guru
Sanskrit only: no published translation is held for this verse.
ह्रस्वम् इति वर्तते । पूर्वेण लघुसञ्ज्ञायां प्राप्तायां गुरुसञ्ज्ञा विधीयते । संयोगे प्रतो ह्रस्वम् अक्षरं गुरुसञ्ज्ञं भवति । कुण्डा । हुण्डा । शिक्षा भिक्षा । गुरु-प्रदेशाः - गुरोश् च हलः (*३,३।१०३) इत्य् एवम् आदयः ॥ दीर्घं च
hrasvam iti vartate / pūrveṇa laghusañjñāyāṃ prāptāyāṃ gurusañjñā vidhīyate / saṃyoge prato hrasvam akṣaraṃ gurusañjñaṃ bhavati / kuṇḍā / huṇḍā / śikṣā bhikṣā / guru-pradeśāḥ - guroś ca halaḥ (*3,3.103) ity evam ādayaḥ // dīrghaṃ ca
Sanskrit only: no published translation is held for this verse.
संयोगे इति न अनुवर्तते । सामान्येन सञ्ज्ञा-विधान । दीर्घं च अक्षरं गुरुसञ्ज्ञं भवति । ईहाञ्चक्रे । ईक्षाञ्चक्रे ॥ यस्मात् प्रत्यय-विधिस् तद्-आदि प्रत्यये ऽङ्गम्
saṃyoge iti na anuvartate / sāmānyena sañjñā-vidhāna / dīrghaṃ ca akṣaraṃ gurusañjñaṃ bhavati / īhāñcakre / īkṣāñcakre // yasmāt pratyaya-vidhis tad-ādi pratyaye 'ṅgam
Sanskrit only: no published translation is held for this verse.
करिष्यावः । करिष्यामः । कुण्डानि । पुनः प्रत्यय-ग्रहणं किम् अर्थम् ? लुप्त-प्रत्यये मा भूत् । श्र्य-र्थम् । भ्र्व्-अर्थम् । अङ्ग-प्रदेशाः - अङ्गस्य (*६,४।१) इत्य् एवम् आदयः ॥ सुप्-तिङ्-अन्तं पदम्
kariṣyāvaḥ / kariṣyāmaḥ / kuṇḍāni / punaḥ pratyaya-grahaṇaṃ kim artham ? lupta-pratyaye mā bhūt / śrya-rtham / bhrv-artham / aṅga-pradeśāḥ - aṅgasya (*6,4.1) ity evam ādayaḥ // sup-tiṅ-antaṃ padam
Sanskrit only: no published translation is held for this verse.
सुप् तिङ् इति प्रत्याहार-गरहणम् । सुबन्तं तिङन्तं च शब्द-रूपं पदसञ्ज्ञं भवति । ब्राह्मणाः पथनित् । पदसञ्ज्ञायाम् अन्तग्रहणम् अन्यत्र सञ्ज्ञा-विधौ प्रत्यय-ग्रहणे तद्-अन्त-विधेः प्रतिषेध-अर्थम् । गौरी ब्राह्मणितरा । पद-प्रदेशाः - पदस्य (*८,१।१३), पदात् (*८,१।१७) इत्य् एवम् आदयः ॥ नः क्ये
sup tiṅ iti pratyāhāra-garahaṇam / subantaṃ tiṅantaṃ ca śabda-rūpaṃ padasañjñaṃ bhavati / brāhmaṇāḥ pathanit / padasañjñāyām antagrahaṇam anyatra sañjñā-vidhau pratyaya-grahaṇe tad-anta-vidheḥ pratiṣedha-artham / gaurī brāhmaṇitarā / pada-pradeśāḥ - padasya (*8,1.13), padāt (*8,1.17) ity evam ādayaḥ // naḥ kye
Sanskrit only: no published translation is held for this verse.
क्ये इति क्यच् - क्यङ् - क्यशां सामान्य-ग्रहनम् । न-अन्तं शब्द-रूपं क्ये परतः पदसञ्ज्ञं भवति । क्यच् - राजीयति । क्यङ् - राजायते । क्यश् - चर्मायति, चर्मायते । सिद्धे सत्यारम्भो नियम-अर्थः । न-अन्तम् एव क्ये परतः पदसम्ञ्ज्ञम् भवति, न अन्यत् । वाच्यति । स्रुच्यति ॥ सिति च
kye iti kyac - kyaṅ - kyaśāṃ sāmānya-grahanam / na-antaṃ śabda-rūpaṃ kye parataḥ padasañjñaṃ bhavati / kyac - rājīyati / kyaṅ - rājāyate / kyaś - carmāyati, carmāyate / siddhe satyārambho niyama-arthaḥ / na-antam eva kye parataḥ padasamñjñam bhavati, na anyat / vācyati / srucyati // siti ca
Sanskrit only: no published translation is held for this verse.
यचि भम् (*१,४।१८) इति वक्ष्यति । तस्यायं पुरस्ताद् अपवादः । सिति प्रत्यये परतः पूर्वं पदसञ्ज्ञं भवति । भवतष् ठक्-छसौ (*४,२।११५) - भवदीयः । ऊर्णाया युस् (*५,२।१२३) - ऊर्णायुः । ऋतोर् अण् (*५,१।१०५), छन्दसि घस् (*५,१।१०६) - ऋत्वियः ॥ स्वादिष्व् अ-सर्वनमस्थाने
yaci bham (*1,4.18) iti vakṣyati / tasyāyaṃ purastād apavādaḥ / siti pratyaye parataḥ pūrvaṃ padasañjñaṃ bhavati / bhavataṣ ṭhak-chasau (*4,2.115) - bhavadīyaḥ / ūrṇāyā yus (*5,2.123) - ūrṇāyuḥ / ṛtor aṇ (*5,1.105), chandasi ghas (*5,1.106) - ṛtviyaḥ // svādiṣv a-sarvanamasthāne
Sanskrit only: no published translation is held for this verse.
यचि भम्
yaci bham
Sanskrit only: no published translation is held for this verse.
नभो ऽङ्गिरोमनुषां वत्युपसङ्ख्यानम् । नभ इव नभस्वत् । अङ्गिरा इव अङ्गिरस्वत् । मनुरिव मनुष्वत् । वृषण्वस्वश्वयोः । वृषन् इत्य् एतत् वस्वश्वयोः प्रतो भसञ्ज्ञं भवति छन्दसि विशये । वृषण्वसुः । वृषणश्वस्य मैनासीत् । भप्रदेशाः -- भस्य (*६,४।१२९) इत्य् एवम् आदयः ॥ तसौ मत्व्-अर्थे
nabho 'ṅgiromanuṣāṃ vatyupasaṅkhyānam / nabha iva nabhasvat / aṅgirā iva aṅgirasvat / manuriva manuṣvat / vṛṣaṇvasvaśvayoḥ / vṛṣan ity etat vasvaśvayoḥ prato bhasañjñaṃ bhavati chandasi viśaye / vṛṣaṇvasuḥ / vṛṣaṇaśvasya maināsīt / bhapradeśāḥ -- bhasya (*6,4.129) ity evam ādayaḥ // tasau matv-arthe
Sanskrit only: no published translation is held for this verse.
भम् इति वर्तते । तकार-अन्तं सकार-अन्तं शब्द-रूपं मत्व्-अर्थे प्रत्यये परतो भसञ्ज्ञं भवति । उदश्वित्वान् घोषः । विद्युत्वान् बलाहकः । सकारान्तम् -- पयस्वी । यशस्वी । तसौ इति किम् ? तक्षवान् ग्रामः ॥ अयस्मय-आदीनि छन्दसि
bham iti vartate / takāra-antaṃ sakāra-antaṃ śabda-rūpaṃ matv-arthe pratyaye parato bhasañjñaṃ bhavati / udaśvitvān ghoṣaḥ / vidyutvān balāhakaḥ / sakārāntam -- payasvī / yaśasvī / tasau iti kim ? takṣavān grāmaḥ // ayasmaya-ādīni chandasi
Sanskrit only: no published translation is held for this verse.
अयस्मय-आदीनि शब्दरूपाणि छन्दसि विशये साधूनि भवन्ति । भपद-सञ्ज्ञ-अधिकारे विधनात् तेन सुखेन सधुत्वम् अयस्मय-आदीनां विधीयते । अयस्मयं वर्म । अयस्मयानि पात्राणि । क्वचिद् उभयम् अपि भवति । स सुष्टुभा स ऋक्वता गणेन । पदत्वात् कुत्वं, भत्वाज् जश्त्वं न भवति । छन्दसि इति किम् ? अयोमयं वर्म । आकृतिगणो ऽयम् ॥ बहुषु बहुवचनम्
ayasmaya-ādīni śabdarūpāṇi chandasi viśaye sādhūni bhavanti / bhapada-sañjña-adhikāre vidhanāt tena sukhena sadhutvam ayasmaya-ādīnāṃ vidhīyate / ayasmayaṃ varma / ayasmayāni pātrāṇi / kvacid ubhayam api bhavati / sa suṣṭubhā sa ṛkvatā gaṇena / padatvāt kutvaṃ, bhatvāj jaśtvaṃ na bhavati / chandasi iti kim ? ayomayaṃ varma / ākṛtigaṇo 'yam // bahuṣu bahuvacanam
Sanskrit only: no published translation is held for this verse.
ङ्य्-आप् प्रातिपदिकात् स्वादयः, लस्य तिबादयः इति सामान्येन बहुवचनं विहितं, तस्य अनेन बहुत्व-सङ्ख्या वाच्यत्वेन विधीयते । बहुषु बहुवचनम् भवति । बहुत्वम् अस्य वाच्यं भवति इति यावत् । कर्मादयो ऽप्य् अपरे विभक्तीनाम् अर्था वाच्याः । तदीये बहुत्वे बहुवचनम् । कर्म-आदिषु बहुषु बहुवचनम् इत्य् अर्थः । व्राह्मणाः पठन्ति । यत्र च सङ्ख्या सम्भवति तत्र अयम् उपदेशः । अव्ययेभ्यस् तु निः-सङ्ख्येभ्यः सामान्य-विहिताः स्वादयो विद्यन्त एव ॥ द्व्य्-एकयोर् द्विबचन-एकवचने
ṅy-āp prātipadikāt svādayaḥ, lasya tibādayaḥ iti sāmānyena bahuvacanaṃ vihitaṃ, tasya anena bahutva-saṅkhyā vācyatvena vidhīyate / bahuṣu bahuvacanam bhavati / bahutvam asya vācyaṃ bhavati iti yāvat / karmādayo 'py apare vibhaktīnām arthā vācyāḥ / tadīye bahutve bahuvacanam / karma-ādiṣu bahuṣu bahuvacanam ity arthaḥ / vrāhmaṇāḥ paṭhanti / yatra ca saṅkhyā sambhavati tatra ayam upadeśaḥ / avyayebhyas tu niḥ-saṅkhyebhyaḥ sāmānya-vihitāḥ svādayo vidyanta eva // dvy-ekayor dvibacana-ekavacane
Sanskrit only: no published translation is held for this verse.
कारके
kārake
Sanskrit only: no published translation is held for this verse.
कारके इति वशेषणम् अपादानादिसञ्ज्ञाविषयम् अधिक्रियते । कारके इत्य् अधिकारो वेदितव्यः । यद् इत ऊर्ध्वम् अनुक्रमिष्यामः कारके इत्य् एवं तद् वेदितव्यम् । कारक-शब्दश् च निमित्त-पर्यायः । करकम् हेतुः इत्य् अनर्थ-अन्तरम् । कस्य हेतुः ? क्रियायाः । वक्ष्यति, घ्रुवमपाये ऽपादानम् (*१,४।२४) - ग्रामादागच्छति । पर्वतादवरोहति । कारके इति किम् ? वृक्षस्य पर्णं पतति । कुड्यस्य पिण्डः पतति । अकथितं च (*१,३।५१), अकथितं च कारकं कर्मसञ्ज्ञं भवति - माणवकं पन्थानं पृच्छति । करके इति किम् ? माणवकस्य पितरं पन्थानं पृच्छति । कारकसंशब्दनेषु च अनेन एव विशेषणेन व्यवहारो विज्ञायते ॥ ध्रुवमपाये ऽपादानम्
kārake iti vaśeṣaṇam apādānādisañjñāviṣayam adhikriyate / kārake ity adhikāro veditavyaḥ / yad ita ūrdhvam anukramiṣyāmaḥ kārake ity evaṃ tad veditavyam / kāraka-śabdaś ca nimitta-paryāyaḥ / karakam hetuḥ ity anartha-antaram / kasya hetuḥ ? kriyāyāḥ / vakṣyati, ghruvamapāye 'pādānam (*1,4.24) - grāmādāgacchati / parvatādavarohati / kārake iti kim ? vṛkṣasya parṇaṃ patati / kuḍyasya piṇḍaḥ patati / akathitaṃ ca (*1,3.51), akathitaṃ ca kārakaṃ karmasañjñaṃ bhavati - māṇavakaṃ panthānaṃ pṛcchati / karake iti kim ? māṇavakasya pitaraṃ panthānaṃ pṛcchati / kārakasaṃśabdaneṣu ca anena eva viśeṣaṇena vyavahāro vijñāyate // dhruvamapāye 'pādānam
Sanskrit only: no published translation is held for this verse.
ध्रुवं यद् अपाययुक्तम् अपाये साध्ये यद् अवधिभूतं तत् कारकम् अपादानसञ्ज्ञं भवति । ग्रामाद् आगछ्हति । पर्वताद् अवरोहति । सार्थाद्धीनः । रथात् पतितः । जुगुप्साविरामप्रमादार्थनाम् उपसङ्ख्यानम् । अधर्माज् जुगुप्सते । अधर्माद् विरमति । धर्मात् प्रमाद्यति । अपादानप्रदेशाः - अपादाने पञ्चमी (*२,३।२८) इत्य् एवम् आदयः ॥ भी-त्रा-अर्थानां भय-हेतुः
dhruvaṃ yad apāyayuktam apāye sādhye yad avadhibhūtaṃ tat kārakam apādānasañjñaṃ bhavati / grāmād āgachhati / parvatād avarohati / sārthāddhīnaḥ / rathāt patitaḥ / jugupsāvirāmapramādārthanām upasaṅkhyānam / adharmāj jugupsate / adharmād viramati / dharmāt pramādyati / apādānapradeśāḥ - apādāne pañcamī (*2,3.28) ity evam ādayaḥ // bhī-trā-arthānāṃ bhaya-hetuḥ
Sanskrit only: no published translation is held for this verse.
बिभेत्य्-अर्थानां त्रायत्य्-अर्थानां च धातूनां प्रयोगे भय-हेतुर् यः स्तत् कारकम् अपादानसञ्ज्ञं भवति । चौरेभ्यो बिभेति । चौरेभ्य उद्विजते । त्रायत्य्-अर्थानाम् - चौरेभ्यस् त्रायते । चौरेभ्यो रक्षति । भय-हेतुः इति किम् ? अरण्ये बिभेति । अरण्ये त्रायते ॥ परा-जेर् असोढः
bibhety-arthānāṃ trāyaty-arthānāṃ ca dhātūnāṃ prayoge bhaya-hetur yaḥ stat kārakam apādānasañjñaṃ bhavati / caurebhyo bibheti / caurebhya udvijate / trāyaty-arthānām - caurebhyas trāyate / caurebhyo rakṣati / bhaya-hetuḥ iti kim ? araṇye bibheti / araṇye trāyate // parā-jer asoḍhaḥ
Sanskrit only: no published translation is held for this verse.
परापूर्वस्य जयतेः प्रयोगे ऽसोढो, यो ऽर्थः सोढुं न शक्यते, तत् कारकम् अपादानसञ्ज्ञं भवति । अध्ययनात् पराजयते । असोढः इति किम् ? शत्रून् पराजयते ॥ वारण-अर्थानाम् ईप्सितः
parāpūrvasya jayateḥ prayoge 'soḍho, yo 'rthaḥ soḍhuṃ na śakyate, tat kārakam apādānasañjñaṃ bhavati / adhyayanāt parājayate / asoḍhaḥ iti kim ? śatrūn parājayate // vāraṇa-arthānām īpsitaḥ
Sanskrit only: no published translation is held for this verse.
अन्तर्धौ येन अदर्शनम् इच्छति
antardhau yena adarśanam icchati
Sanskrit only: no published translation is held for this verse.
व्यव्धानम् अन्तर्धिः । अन्तर्धि-निमित्तं येन अदर्शनम् आत्मन इच्छति तत् कारकम् अपादानसञ्ज्ञं भवति । उपाध्यायाद् अन्तर्धत्ते । उपाध्यायान् निलीयते । मा मामुपाध्यायो द्राक्षीत् इति निलीयते । अन्तर्धौ इति किम् ? चौरान् न दिदृक्षते । इच्छति-ग्रहणं किम् ? अदर्शनेच्छायां सत्यां सत्य् अपि दर्शने यथा स्यात् ॥ आख्याता-उपयोगे
vyavdhānam antardhiḥ / antardhi-nimittaṃ yena adarśanam ātmana icchati tat kārakam apādānasañjñaṃ bhavati / upādhyāyād antardhatte / upādhyāyān nilīyate / mā māmupādhyāyo drākṣīt iti nilīyate / antardhau iti kim ? caurān na didṛkṣate / icchati-grahaṇaṃ kim ? adarśanecchāyāṃ satyāṃ saty api darśane yathā syāt // ākhyātā-upayoge
Sanskrit only: no published translation is held for this verse.
आख्याता प्रतिपादयिता । उपयोगः नियम-पूर्वकं विध्या-ग्रहणम् । उपयोगे साध्ये य आख्याता तत् कारकम् अपादानसञ्ज्ञं भवति । उपाध्यायाद् अधीते । उपाध्यायाद् आगमयति । उपयोगे इति किम् ? नटस्य शृणोति ॥ जनि-कर्तुः प्रकृतिः
ākhyātā pratipādayitā / upayogaḥ niyama-pūrvakaṃ vidhyā-grahaṇam / upayoge sādhye ya ākhyātā tat kārakam apādānasañjñaṃ bhavati / upādhyāyād adhīte / upādhyāyād āgamayati / upayoge iti kim ? naṭasya śṛṇoti // jani-kartuḥ prakṛtiḥ
Sanskrit only: no published translation is held for this verse.
जनेः कर्ता जनि-कर्ता । जन्य्-अर्थस्य जन्मनः कर्ता जायमानः, तस्य या प्रकृतिः कारणम्, हेतुः, तत् कारकम् अपादानञ्ज्ञम् भवति । शृङ्गाच्छरो जायते । गोमयाद् वृश्चिको जायते ॥ भुवः प्रभवः
janeḥ kartā jani-kartā / jany-arthasya janmanaḥ kartā jāyamānaḥ, tasya yā prakṛtiḥ kāraṇam, hetuḥ, tat kārakam apādānañjñam bhavati / śṛṅgāccharo jāyate / gomayād vṛściko jāyate // bhuvaḥ prabhavaḥ
Sanskrit only: no published translation is held for this verse.
कर्तुः इति वर्तते । भवनं भूः । प्रभवत्य् अस्मात् इति प्रभाः । भू-कर्तुः प्रभवो यः, तत् कारकम् अपादानसंज्ञम् भवति । हिमवतो गङ्गा प्रभवति । काश्मीरेभ्यो वितस्ता प्रभवति । प्रथमत उपलभ्यते इत्य् अर्थः ॥ कर्मणा यम् अभिप्रैति स सम्प्रदानम्
kartuḥ iti vartate / bhavanaṃ bhūḥ / prabhavaty asmāt iti prabhāḥ / bhū-kartuḥ prabhavo yaḥ, tat kārakam apādānasaṃjñam bhavati / himavato gaṅgā prabhavati / kāśmīrebhyo vitastā prabhavati / prathamata upalabhyate ity arthaḥ // karmaṇā yam abhipraiti sa sampradānam
Sanskrit only: no published translation is held for this verse.
रुच्य्-अर्थानाम् प्रीयमाणः
rucy-arthānām prīyamāṇaḥ
Sanskrit only: no published translation is held for this verse.
रुचिना समान-अर्थाः रुच्य्-अर्थाः अन्यकर्तृको ऽभिलाषो रुदिः । रुच्य्-अर्थानां धातूनां प्रयोगे प्रीयमाणो यो ऽर्थः, तत् कारकं सम्प्रदाना-सञ्ज्ञम् भवति । देवदत्ताय रोचते मोदकः । यज्ञदत्ताय स्वदते ऽपूपः । देवदत्तस्थस्याभिलाषस्य मोदकः कर्ता । प्रीयमाणः इति किम् ? देवदत्ताय रोचते मोदकः पथि ॥ श्लाघ-ह्नुङ्-स्था-शपां ज्ञीप्स्यमानः
rucinā samāna-arthāḥ rucy-arthāḥ anyakartṛko 'bhilāṣo rudiḥ / rucy-arthānāṃ dhātūnāṃ prayoge prīyamāṇo yo 'rthaḥ, tat kārakaṃ sampradānā-sañjñam bhavati / devadattāya rocate modakaḥ / yajñadattāya svadate 'pūpaḥ / devadattasthasyābhilāṣasya modakaḥ kartā / prīyamāṇaḥ iti kim ? devadattāya rocate modakaḥ pathi // ślāgha-hnuṅ-sthā-śapāṃ jñīpsyamānaḥ
Sanskrit only: no published translation is held for this verse.
श्लाघ ह्नुङ् स्था शप इत्य् एतेषाम् ज्ञीप्स्यमानो यो ऽर्थह्, तत् कारकं सम्प्रदान-सञ्ज्ञं भवति । ज्ञीप्स्यमानः ज्ञपयितुम् इष्यमणः, बोध्यितुम् अभिप्रेतः । देवदत्ताय श्लाघते । देवदत्तं श्लाघमानस्ताम् श्लाघां तम् एव ज्ञपयितुम् इच्छति इत्य् अर्थः । एवम् - देवदत्ताय ह्नुते । यज्ञदत्ताय ह्नुते । देवदत्ताय तिष्ठते । यज्ञदत्ताय तिष्ठते । देवदत्ताय शपते । यज्ञदत्ताय शपते । ज्ञीप्स्यमानः इति किम् ? देअदत्ताय श्लाघते पथि ॥ धारेर् उत्तमर्णः
ślāgha hnuṅ sthā śapa ity eteṣām jñīpsyamāno yo 'rthah, tat kārakaṃ sampradāna-sañjñaṃ bhavati / jñīpsyamānaḥ jñapayitum iṣyamaṇaḥ, bodhyitum abhipretaḥ / devadattāya ślāghate / devadattaṃ ślāghamānastām ślāghāṃ tam eva jñapayitum icchati ity arthaḥ / evam - devadattāya hnute / yajñadattāya hnute / devadattāya tiṣṭhate / yajñadattāya tiṣṭhate / devadattāya śapate / yajñadattāya śapate / jñīpsyamānaḥ iti kim ? deadattāya ślāghate pathi // dhārer uttamarṇaḥ
Sanskrit only: no published translation is held for this verse.
धारयतेः प्रयोगे उत्तमर्णो यो ऽर्थः, तत् कारकं सम्प्रदानसञ्ज्ञं भवति । उत्तमम् ऋणं यस्य स उत्तमर्णः । कस्य चोत्तममृणम् ? यदीयं धनम् । धनस्वामी प्रयोक्ता उत्तमर्णः, स सम्प्रदानसञ्ज्ञो भवति । देवदत्ताय शतम् धारयति । यज्ञदत्ताय शतं धारयति । उत्तार्णः इति किम् ? देवदत्ताय शतम् धरयति ग्रामे ॥ स्पृहेर् ईप्सितः
dhārayateḥ prayoge uttamarṇo yo 'rthaḥ, tat kārakaṃ sampradānasañjñaṃ bhavati / uttamam ṛṇaṃ yasya sa uttamarṇaḥ / kasya cottamamṛṇam ? yadīyaṃ dhanam / dhanasvāmī prayoktā uttamarṇaḥ, sa sampradānasañjño bhavati / devadattāya śatam dhārayati / yajñadattāya śataṃ dhārayati / uttārṇaḥ iti kim ? devadattāya śatam dharayati grāme // spṛher īpsitaḥ
Sanskrit only: no published translation is held for this verse.
स्पृह ईप्सायाम् चुरादावदन्तः पठ्यते । तस्य ईप्सितो यो ऽर्थः, तत् कारकं सम्प्रदान-सञ्ज्ञम् भवति । ईप्सितः इत्य् अभिप्रेतः उच्यते । पुष्पेभ्यः स्पृहयति । फलेभ्यः स्पृहयति । ईप्सितः इति किम् ? पुश्पेभ्यो वने स्पृहयति ॥ क्रुध-द्रुह-ईर्ष्य-असूय-अर्थानां यं प्रति कोपः
spṛha īpsāyām curādāvadantaḥ paṭhyate / tasya īpsito yo 'rthaḥ, tat kārakaṃ sampradāna-sañjñam bhavati / īpsitaḥ ity abhipretaḥ ucyate / puṣpebhyaḥ spṛhayati / phalebhyaḥ spṛhayati / īpsitaḥ iti kim ? puśpebhyo vane spṛhayati // krudha-druha-īrṣya-asūya-arthānāṃ yaṃ prati kopaḥ
Sanskrit only: no published translation is held for this verse.
क्रुध-द्रुहोर् उपसृष्ठयोः कर्म
krudha-druhor upasṛṣṭhayoḥ karma
Sanskrit only: no published translation is held for this verse.
राद्ः-ईक्ष्योर् यस्य विप्रश्नः
rādḥ-īkṣyor yasya vipraśnaḥ
Sanskrit only: no published translation is held for this verse.
राधेर् ईक्षेश् च कारकम् सम्प्रदान-सञ्ज्ञं भवति । कीदृशम् ? यस्य विप्रशः । विविधः प्रश्नः विप्रश्नः । स कस्य भवति ? यस्य शुभाशुभं पृच्छ्यते । देवदत्ताय राध्यति । देवदत्ताय ईक्षते । नैमित्तिकः पृष्टः सन् देवदत्तस्य दैवं पर्यालोचयति इत्य् अर्थः ॥ प्रत्य्-आङ्भ्यां श्रुवः पूर्वस्य कर्ता
rādher īkṣeś ca kārakam sampradāna-sañjñaṃ bhavati / kīdṛśam ? yasya vipraśaḥ / vividhaḥ praśnaḥ vipraśnaḥ / sa kasya bhavati ? yasya śubhāśubhaṃ pṛcchyate / devadattāya rādhyati / devadattāya īkṣate / naimittikaḥ pṛṣṭaḥ san devadattasya daivaṃ paryālocayati ity arthaḥ // praty-āṅbhyāṃ śruvaḥ pūrvasya kartā
Sanskrit only: no published translation is held for this verse.
प्रति आङ् इत्य् एवं पूर्वस्य शृणोतेः कारकम् सम्प्रदान-सञ्ज्ञं भवति । कीदृशम् ? पूर्वस्य कर्ता । प्रतिपूर्व आङ्पूर्वश् च शृणोति रभ्युपगमे प्रतिज्ञाने वर्तते । स च अभ्युपगमः परेन प्रयुक्तस्य सतो भवति । तत्र प्रयोक्ता पूर्वस्याः क्रियाया कर्ता सम्प्रदानसञ्ज्ञो भवति । देवचत्ताय गाम् प्रतिशृणोति । देवदत्ताय गामाशृणोति । प्रतिजानीते इत्य् अर्थः ॥ अनु-प्रति-गृणश् च
prati āṅ ity evaṃ pūrvasya śṛṇoteḥ kārakam sampradāna-sañjñaṃ bhavati / kīdṛśam ? pūrvasya kartā / pratipūrva āṅpūrvaś ca śṛṇoti rabhyupagame pratijñāne vartate / sa ca abhyupagamaḥ parena prayuktasya sato bhavati / tatra prayoktā pūrvasyāḥ kriyāyā kartā sampradānasañjño bhavati / devacattāya gām pratiśṛṇoti / devadattāya gāmāśṛṇoti / pratijānīte ity arthaḥ // anu-prati-gṛṇaś ca
Sanskrit only: no published translation is held for this verse.
पूर्वस्य कर्ता इति वर्तते । अनुपूर्वस्य प्रतिपूर्वस्य च गृणातेः कारकम् पूर्वस्याः क्रियायः कर्तृ-भूतं संप्रदान-सञ्ज्ञं भवति । होत्रे ऽनुगृणाति । होता प्रथमं शंसति, तम् अन्यः प्रोत्साहयति । अनुगरः, प्रतिगरः इति हि संसितुः प्रोत्साहने वर्तते । होत्रे ऽनुगृणाति, होतारं शंसन्तम् प्रोत्साहयति इत्यर्थः ॥ साधकतमं करणम्
pūrvasya kartā iti vartate / anupūrvasya pratipūrvasya ca gṛṇāteḥ kārakam pūrvasyāḥ kriyāyaḥ kartṛ-bhūtaṃ saṃpradāna-sañjñaṃ bhavati / hotre 'nugṛṇāti / hotā prathamaṃ śaṃsati, tam anyaḥ protsāhayati / anugaraḥ, pratigaraḥ iti hi saṃsituḥ protsāhane vartate / hotre 'nugṛṇāti, hotāraṃ śaṃsantam protsāhayati ityarthaḥ // sādhakatamaṃ karaṇam
Sanskrit only: no published translation is held for this verse.
दिवः कर्म च
divaḥ karma ca
Sanskrit only: no published translation is held for this verse.
पूर्वेण करण-सञ्ज्ञायां करन-सञ्ज्ञायां प्राप्तायाम् कर्मसञ्ज्ञा विधीयते । दिवः साधकतमं यत् कारकम् तत् कर्मसञ्ज्ञम् भवति, चकारात् करणसञ्ज्ञम् च । अक्षान् दीव्यति, अक्षैर् दीव्यति ॥ परिक्रयणे सम्प्रदानम् अन्यतरस्याम्
pūrveṇa karaṇa-sañjñāyāṃ karana-sañjñāyāṃ prāptāyām karmasañjñā vidhīyate / divaḥ sādhakatamaṃ yat kārakam tat karmasañjñam bhavati, cakārāt karaṇasañjñam ca / akṣān dīvyati, akṣair dīvyati // parikrayaṇe sampradānam anyatarasyām
Sanskrit only: no published translation is held for this verse.
साधकतमम् इति वर्तते । पूर्वेन करण-सञ्ज्ञायां प्राप्ताया सम्प्रदान-सज्ञा पक्षे विधीयते । परिक्रयणे साधकतमं कारकम् अन्यतरस्यां सम्प्रदान-सञ्ज्ञं भवति । परिक्रयणम् नियतकालं वेतनादिना स्वीकरणम्, नत्यन्तिकः क्रय एव । शतेन परिक्रीतो ऽनुब्रूहि, शताय परिक्रीतो ऽनुब्रूहि । सहस्रेण परिक्रीतो ऽनुब्रूहि, सहस्राय परिक्रीतो ऽनुब्रूहि ॥ आधारो ऽधिकरणम्
sādhakatamam iti vartate / pūrvena karaṇa-sañjñāyāṃ prāptāyā sampradāna-sajñā pakṣe vidhīyate / parikrayaṇe sādhakatamaṃ kārakam anyatarasyāṃ sampradāna-sañjñaṃ bhavati / parikrayaṇam niyatakālaṃ vetanādinā svīkaraṇam, natyantikaḥ kraya eva / śatena parikrīto 'nubrūhi, śatāya parikrīto 'nubrūhi / sahasreṇa parikrīto 'nubrūhi, sahasrāya parikrīto 'nubrūhi // ādhāro 'dhikaraṇam
Sanskrit only: no published translation is held for this verse.
आघ्रियन्ते ऽस्मिन् क्रियाः इत्य् आधारः । कर्तृ-कर्मणोः क्रियाश्रयभूतयोः धारणक्रियां प्रति य आधारह्, तत् कारकम् अधिकरणसञ्ज्ञं भवति । कटे आस्ते । कटे शेते । स्थाल्यां पचति । अधिकरन-प्रदेशाः -- सप्तम्य्-अधिकरणे च (*२,३।३६) इत्य् एवम् आदयः ॥ अधि-शीङ्-स्था-आसां कर्म
āghriyante 'smin kriyāḥ ity ādhāraḥ / kartṛ-karmaṇoḥ kriyāśrayabhūtayoḥ dhāraṇakriyāṃ prati ya ādhārah, tat kārakam adhikaraṇasañjñaṃ bhavati / kaṭe āste / kaṭe śete / sthālyāṃ pacati / adhikarana-pradeśāḥ -- saptamy-adhikaraṇe ca (*2,3.36) ity evam ādayaḥ // adhi-śīṅ-sthā-āsāṃ karma
Sanskrit only: no published translation is held for this verse.
पूर्वेण अधिकरण-सञ्ज्ञायां प्राप्तायां कर्म-सञ्ज्ञा विधीयते । अधिपूर्वाणां शीङ् स्था आस् इत्य् एतेषाम् आधारो यः, तत् कारकं कर्म-सञ्ज्ञं भवति । ग्रामम् अधिशेते । ग्रामम् अधितिष्ठति । पर्वतम् अध्यास्ते ॥ अभिनिविशश् च
pūrveṇa adhikaraṇa-sañjñāyāṃ prāptāyāṃ karma-sañjñā vidhīyate / adhipūrvāṇāṃ śīṅ sthā ās ity eteṣām ādhāro yaḥ, tat kārakaṃ karma-sañjñaṃ bhavati / grāmam adhiśete / grāmam adhitiṣṭhati / parvatam adhyāste // abhiniviśaś ca
Sanskrit only: no published translation is held for this verse.
उप-अन्व्-अध्य्-आङ्-वसः
upa-anv-adhy-āṅ-vasaḥ
Sanskrit only: no published translation is held for this verse.
उप अनु अधि आ इत्य् एवं पूर्वस्य वसतेर् आधारो यः, तत् कारकं कर्मसञ्ज्ञं भवति । ग्रामम् उपवसति सेना । पर्वतम् उपवसति । ग्रामम् अनुवसति । ग्रामम् अधिवसति । ग्रामम् आवसति । वसेरश्यर्थस्य प्रतिषेधो वक्तव्यः । ग्रामे उपवसति । भोजन-निवृत्तिं करोति इत्य् अर्थः ॥ कर्त्रुर् ईप्सिततमं कर्म
upa anu adhi ā ity evaṃ pūrvasya vasater ādhāro yaḥ, tat kārakaṃ karmasañjñaṃ bhavati / grāmam upavasati senā / parvatam upavasati / grāmam anuvasati / grāmam adhivasati / grāmam āvasati / vaseraśyarthasya pratiṣedho vaktavyaḥ / grāme upavasati / bhojana-nivṛttiṃ karoti ity arthaḥ // kartrur īpsitatamaṃ karma
Sanskrit only: no published translation is held for this verse.
कर्तुः क्रियया यद् आप्तुम् इष्टतमं तत् कारकं कर्मसञ्ज्ञं भवति । कटं करोति । ग्रामं गच्छति । कर्तुः इति किम् ? माषेष्वश्वं बध्नाति । कर्मण ईप्सिता माषाः, न कर्तुः । तम् अब्ग्रहणं किम् ? पयसा ओदनं भुङ्क्ते । कर्म इत्यनुवर्तमाने पुनः कर्म-ग्रहणम् आधार-निवृत्त्य्-अर्थम् । इतरथा आधारस्य+एव हि स्यात् गेहं प्रविशति इति । ओदनं पचति, सक्तून् पिबति इत्य् आदिषु न स्यात् । पुनः कर्म-ग्रहणात् सर्वत्र सिद्ध भवति । कर्म-प्रदेशाः -- कर्मणि द्वितीया (*२,३।२) इत्य् एवम् आदयः ॥ तथा-युक्तं च अनीप्सितम्
kartuḥ kriyayā yad āptum iṣṭatamaṃ tat kārakaṃ karmasañjñaṃ bhavati / kaṭaṃ karoti / grāmaṃ gacchati / kartuḥ iti kim ? māṣeṣvaśvaṃ badhnāti / karmaṇa īpsitā māṣāḥ, na kartuḥ / tam abgrahaṇaṃ kim ? payasā odanaṃ bhuṅkte / karma ityanuvartamāne punaḥ karma-grahaṇam ādhāra-nivṛtty-artham / itarathā ādhārasya+eva hi syāt gehaṃ praviśati iti / odanaṃ pacati, saktūn pibati ity ādiṣu na syāt / punaḥ karma-grahaṇāt sarvatra siddha bhavati / karma-pradeśāḥ -- karmaṇi dvitīyā (*2,3.2) ity evam ādayaḥ // tathā-yuktaṃ ca anīpsitam
Sanskrit only: no published translation is held for this verse.
येन प्रकारेण कर्तुर् ईप्सिततमं क्रियया युज्यते, तेन+एव चेत् प्रकारेन यद् अनीप्सितं युक्तं भवति, तस्य कर्मसञ्ज्ञा विधीयते । ईप्सिताद् अन्यत् सर्वम् अनीप्सितम्, द्वेष्यम, इतरच् च । विषं भक्षयति । चौरान् पश्यति । ग्रामं गच्छन् वृक्ष-मूलान्य् उपसर्पति ॥ अकथितं च
yena prakāreṇa kartur īpsitatamaṃ kriyayā yujyate, tena+eva cet prakārena yad anīpsitaṃ yuktaṃ bhavati, tasya karmasañjñā vidhīyate / īpsitād anyat sarvam anīpsitam, dveṣyama, itarac ca / viṣaṃ bhakṣayati / caurān paśyati / grāmaṃ gacchan vṛkṣa-mūlāny upasarpati // akathitaṃ ca
Sanskrit only: no published translation is held for this verse.
विहिता हि तत्र करणादिसञ्ज्ञा । तद्-अर्थम् आह - अपूर्वविधौ इति । ब्रुविशासि-गुणेन च यत् सचते । ब्रुविशास्योर् गुणः साधनम्, प्रधानं, प्रधानं कर्म, धर्म-अदिकम्, तेन यत् सम्बध्यते, तदकीर्तितम् आचरितं कविना, तदकथितम् औक्तं सूत्रकारेण । दुहि - गां दोग्धि पयः । याचि - पौरवं गां याचते । रुधि - गामवरुणद्धि व्रजम् । प्रच्छि - माणावकं पन्थानं पृच्छति । भिक्षि - पौरवम् गां भिक्षते । चिञ् - वृक्षमविचिनोति फलानि । ब्रुवि - माणवकं धर्मं ब्रूते । शासि - माणवकं धर्मम् अनुशास्ति ॥ गुति-बुद्धि-प्रत्यवसान-अर्थ-शब्द-कर्म-अकर्मकाणाम् अणि कर्ता स णौ
vihitā hi tatra karaṇādisañjñā / tad-artham āha - apūrvavidhau iti / bruviśāsi-guṇena ca yat sacate / bruviśāsyor guṇaḥ sādhanam, pradhānaṃ, pradhānaṃ karma, dharma-adikam, tena yat sambadhyate, tadakīrtitam ācaritaṃ kavinā, tadakathitam auktaṃ sūtrakāreṇa / duhi - gāṃ dogdhi payaḥ / yāci - pauravaṃ gāṃ yācate / rudhi - gāmavaruṇaddhi vrajam / pracchi - māṇāvakaṃ panthānaṃ pṛcchati / bhikṣi - pauravam gāṃ bhikṣate / ciñ - vṛkṣamavicinoti phalāni / bruvi - māṇavakaṃ dharmaṃ brūte / śāsi - māṇavakaṃ dharmam anuśāsti // guti-buddhi-pratyavasāna-artha-śabda-karma-akarmakāṇām aṇi kartā sa ṇau
Sanskrit only: no published translation is held for this verse.
हृ-क्रोर् अन्यतरस्याम्
hṛ-kror anyatarasyām
Sanskrit only: no published translation is held for this verse.
अनि कर्त स णौ इति वर्तते । हरतेः करोतेश् च अण्यन्तयोर् यः कर्ता स ण्यन्तयोर् अन्यतरस्यां कर्मसञ्ज्ञो भवति । हरति भारं मानवकः, हरयति भारं मानवकं, मानवकेन इति वा । करोति कटं देवदत्तः, कारयति कटं देवदत्तं, देवदत्तेन इति वा । अभिवादि-दृशोर् आत्मनेपद उपसङ्ख्यानम् । अभिवदति गुरुं देवदत्तः, अभिवादयते गुरुं देवदत्तं, देवदत्तेन इति वा । पश्यन्ति भृत्या राजानम्, दर्शयते भृत्यान् राजानम्, भृत्यैः इति वा । आत्मनेपदे इति किम् ? दर्शयति चैत्रं मैत्रमपरः । प्राप्त-विकल्पत्वाद् द्वितीयैव । अभिवादयति गुरुं माणवकेन पिता । अप्राप्तविकल्पत्वात् तृतीया+एव ॥ स्वतन्त्रः कर्ता
ani karta sa ṇau iti vartate / harateḥ karoteś ca aṇyantayor yaḥ kartā sa ṇyantayor anyatarasyāṃ karmasañjño bhavati / harati bhāraṃ mānavakaḥ, harayati bhāraṃ mānavakaṃ, mānavakena iti vā / karoti kaṭaṃ devadattaḥ, kārayati kaṭaṃ devadattaṃ, devadattena iti vā / abhivādi-dṛśor ātmanepada upasaṅkhyānam / abhivadati guruṃ devadattaḥ, abhivādayate guruṃ devadattaṃ, devadattena iti vā / paśyanti bhṛtyā rājānam, darśayate bhṛtyān rājānam, bhṛtyaiḥ iti vā / ātmanepade iti kim ? darśayati caitraṃ maitramaparaḥ / prāpta-vikalpatvād dvitīyaiva / abhivādayati guruṃ māṇavakena pitā / aprāptavikalpatvāt tṛtīyā+eva // svatantraḥ kartā
Sanskrit only: no published translation is held for this verse.
स्वतन्त्रः इति प्रधान-भूत उच्यते । अगुणी-भूतो, यः क्रिया-सिद्धौ स्वतन्त्र्येण विवक्ष्यते, तत् कारक्ं कर्तृसञ्ज्ञं भव्ति । देवदत्तः पचति । स्थाली पचति । कर्तृ-प्रदेशाः - कर्तृ-करणयोस् तृतीया (*२,३।१८) इत्य् एवम् आदयः ॥ तत्-प्रयोजको हेतुश् च
svatantraḥ iti pradhāna-bhūta ucyate / aguṇī-bhūto, yaḥ kriyā-siddhau svatantryeṇa vivakṣyate, tat kārakṃ kartṛsañjñaṃ bhavti / devadattaḥ pacati / sthālī pacati / kartṛ-pradeśāḥ - kartṛ-karaṇayos tṛtīyā (*2,3.18) ity evam ādayaḥ // tat-prayojako hetuś ca
Sanskrit only: no published translation is held for this verse.
तत् इति अनन्तरः कर्ता परामृश्यते । तस्य प्रयोजकस् तत्-प्रयोजकः । निपातनात् समासः । स्वतन्त्रस्य प्रयोजको यो ऽर्थः, तत्-कारकं हेतु-सञ्ज्ञं भवति । चकारात् कर्तृ-सञ्ज्ञं च । सञ्ज्ञासमावेश-अर्थश्-चकारः । कुर्वाणं प्रयुङ्क्ते, कारयति । हारयति । हेतुत्वद् णिचो निमित्तं कर्तृत्वाच् च कर्तृ-प्रत्ययेन+उच्यते । हेतु-प्रदेशाः - हेतुमति च (*३,१।२६) इत्य् एवम् अदयः ॥ प्राग्-रीश्वरान् निपाताः
tat iti anantaraḥ kartā parāmṛśyate / tasya prayojakas tat-prayojakaḥ / nipātanāt samāsaḥ / svatantrasya prayojako yo 'rthaḥ, tat-kārakaṃ hetu-sañjñaṃ bhavati / cakārāt kartṛ-sañjñaṃ ca / sañjñāsamāveśa-arthaś-cakāraḥ / kurvāṇaṃ prayuṅkte, kārayati / hārayati / hetutvad ṇico nimittaṃ kartṛtvāc ca kartṛ-pratyayena+ucyate / hetu-pradeśāḥ - hetumati ca (*3,1.26) ity evam adayaḥ // prāg-rīśvarān nipātāḥ
Sanskrit only: no published translation is held for this verse.
च-आदयो ऽसत्त्वे
ca-ādayo 'sattve
Sanskrit only: no published translation is held for this verse.
कुतः । कुत्र । अव । अनु । हाहौ । हैहा । ईहा । आहोस्वित् । छम्बट् । खम् । दिष्ट्या । पशु । वट् । सह । आनुषक् । अङ्ग । फट् । ताजक् । अये । अरे । चटु । बाट् । कुम् । खुम् । घुम् । हुम् । आईम् । शीम् । सीम् । वै । उपसर्ग-विभक्ति-स्वर-प्रतिरूपकाश् च निपाताः । उपसर्ग-प्रतिरूपकाः -- अवदत्तम् विदत्तं च प्रदतं च अदिकर्मणि । सुदत्तम् अनुदत्तं च निदत्तम् इति चेष्यते ॥ अच उपसर्गात् तः (*७,४।४७) इति तत्वम् न भवति । दुर्नीतम् । दुर्नयः । दुर्निर्णयः ॥ उपसर्गात् (*८,४।१४) इति णत्वं न भवति । असत्त्वे इति किम् ? पशुर् वै पुरुषः । पशुः पुरोडशः निपात-प्रदेशाः -- स्वर-आदि-निपतम् अव्ययम् (*१,१।३७) इत्य् एवम् आदयः ॥ प्र-आदयः
kutaḥ / kutra / ava / anu / hāhau / haihā / īhā / āhosvit / chambaṭ / kham / diṣṭyā / paśu / vaṭ / saha / ānuṣak / aṅga / phaṭ / tājak / aye / are / caṭu / bāṭ / kum / khum / ghum / hum / āīm / śīm / sīm / vai / upasarga-vibhakti-svara-pratirūpakāś ca nipātāḥ / upasarga-pratirūpakāḥ -- avadattam vidattaṃ ca pradataṃ ca adikarmaṇi / sudattam anudattaṃ ca nidattam iti ceṣyate // aca upasargāt taḥ (*7,4.47) iti tatvam na bhavati / durnītam / durnayaḥ / durnirṇayaḥ // upasargāt (*8,4.14) iti ṇatvaṃ na bhavati / asattve iti kim ? paśur vai puruṣaḥ / paśuḥ puroḍaśaḥ nipāta-pradeśāḥ -- svara-ādi-nipatam avyayam (*1,1.37) ity evam ādayaḥ // pra-ādayaḥ
Sanskrit only: no published translation is held for this verse.
उपसर्गाः क्रिया-योगे
upasargāḥ kriyā-yoge
Sanskrit only: no published translation is held for this verse.
प्र-आदयः क्रिया-योगे उपसर्गस्-अञ्ज्ञा भवन्ति । प्रणयति । परिणयति । प्रणायकः । परिणायकः । क्रिया-योगे इति किम् ? प्रगतो नायको ऽस्माद् देशात्, प्रनायको देशः । मरुच्-छाब्दस्य च+उपसङ्ख्यानम् कर्तव्यम् । मरुद्भिर् दत्तो मरुतः । सञ्ज्ञाविधानसामर्थ्यादनजन्तत्वे ऽपि अच उपसर्गात् तः (*७,४।४७) इति तत्त्वं भवति । श्रच्-छब्दस्य+उपसङ्ख्यानम् । आत्-अश्-च-उपसर्गे (*३,३।१०६) इति अङ् भवति - श्रद्धा । उपसर्ग। प्रदेशाः -- उपसर्गे घोः किः (*३,३।९३) इत्य् एवम् आदयः ॥ गतिश् च
pra-ādayaḥ kriyā-yoge upasargas-añjñā bhavanti / praṇayati / pariṇayati / praṇāyakaḥ / pariṇāyakaḥ / kriyā-yoge iti kim ? pragato nāyako 'smād deśāt, pranāyako deśaḥ / maruc-chābdasya ca+upasaṅkhyānam kartavyam / marudbhir datto marutaḥ / sañjñāvidhānasāmarthyādanajantatve 'pi aca upasargāt taḥ (*7,4.47) iti tattvaṃ bhavati / śrac-chabdasya+upasaṅkhyānam / āt-aś-ca-upasarge (*3,3.106) iti aṅ bhavati - śraddhā / upasarga. pradeśāḥ -- upasarge ghoḥ kiḥ (*3,3.93) ity evam ādayaḥ // gatiś ca
Sanskrit only: no published translation is held for this verse.
गति-सञ्ज्ञकाश् च प्र-आदयो भवन्ति क्रिया-योगे । प्रकृत्य । प्रकृतम् । यत् प्रकरोति । योग-विभाग उत्तर-अर्थः । उत्तरत्र गति-सञ्ज्ञा+एव यथा स्यात् । उपसर्ग-सञ्ज्ञा मा भूत् । ऊरीस्यात् इत्य् अत्र उपसर्ग-प्रादुर्भ्याम् अस्तिर् य्-अच्-परः (*८,३।८७) इति षत्वं प्रसज्येत । च-करः सञ्ज्ञा-समावेश-अर्थः । प्रणीतम् । अभिषिक्तम् । गतिर् अनन्तरः (*६,२।४९) इति स्वरः, उपसर्गात् (*८,४।१४) (*८,३।६५) इति णत्वषत्वे च भवतः । कारिका-शब्दस्य+उपसङ्ख्यानम् । कारिका-कृत्य । कारिका-कृतम् । यत् कारिका करोति । पुनश्चनसौ छन्दसि गतिसञ्ज्ञौ भवत इति वक्तव्यम् । पुनरुत्स्यूतं वासो देयम् । गतिर् गतौ (*८,१।७०) इति निघातो भवति । चनो हितः । गतिर् अनन्तरः (*६,२।४९) इति स्वरः । गति-प्रदेशाः -- कु-गति-प्र-आदय (*२,२।१८) इत्य् एवम् आदयः ॥ ऊर्य्-आदि-च्वि-डाचश् च
gati-sañjñakāś ca pra-ādayo bhavanti kriyā-yoge / prakṛtya / prakṛtam / yat prakaroti / yoga-vibhāga uttara-arthaḥ / uttaratra gati-sañjñā+eva yathā syāt / upasarga-sañjñā mā bhūt / ūrīsyāt ity atra upasarga-prādurbhyām astir y-ac-paraḥ (*8,3.87) iti ṣatvaṃ prasajyeta / ca-karaḥ sañjñā-samāveśa-arthaḥ / praṇītam / abhiṣiktam / gatir anantaraḥ (*6,2.49) iti svaraḥ, upasargāt (*8,4.14) (*8,3.65) iti ṇatvaṣatve ca bhavataḥ / kārikā-śabdasya+upasaṅkhyānam / kārikā-kṛtya / kārikā-kṛtam / yat kārikā karoti / punaścanasau chandasi gatisañjñau bhavata iti vaktavyam / punarutsyūtaṃ vāso deyam / gatir gatau (*8,1.70) iti nighāto bhavati / cano hitaḥ / gatir anantaraḥ (*6,2.49) iti svaraḥ / gati-pradeśāḥ -- ku-gati-pra-ādaya (*2,2.18) ity evam ādayaḥ // ūry-ādi-cvi-ḍācaś ca
Sanskrit only: no published translation is held for this verse.
आत्ताली । वेताली । धूसी । शकला । संशक्ला । ध्वंसकला । भ्रंशकला । एते शकलादयो हिंसायम् । शकलाकृत्य । संशकलाकृत्य । ध्वंसकलाकृत्य । भ्रंशकलाकृत्य । गुलुगुध पीड-अर्थे - गुलुगुधाकृत्य । सुजूःसह-अर्थे - सजूःकृत्य । फलू, फली, विक्ली, आक्ली इति विकारे - फलू कृत्य । फली कृत्य । विक्ली कृत्य । आलोओष्टी । करली । केवाली । शेवाली । वर्षाली । मस्मसा । मसमसा । एते हिंसायाम् । वषट् । वौषट् । श्रौषट् । स्वाहा । स्वधा । वन्धा । प्रादुस् । श्रुत् । आविस् । च्व्य्-अन्ताः खल्व् अपि -- शुक्लीकृत्य । शुक्लीकृतम् । यच्छुक्लीकरोति । डाच् -- पटपटाक्रृत्य । पटपटाकृतम् । यत्पटपटकरोति ॥ अनुकरणं च अनिति-परम्
āttālī / vetālī / dhūsī / śakalā / saṃśaklā / dhvaṃsakalā / bhraṃśakalā / ete śakalādayo hiṃsāyam / śakalākṛtya / saṃśakalākṛtya / dhvaṃsakalākṛtya / bhraṃśakalākṛtya / gulugudha pīḍa-arthe - gulugudhākṛtya / sujūḥsaha-arthe - sajūḥkṛtya / phalū, phalī, viklī, āklī iti vikāre - phalū kṛtya / phalī kṛtya / viklī kṛtya / ālooṣṭī / karalī / kevālī / śevālī / varṣālī / masmasā / masamasā / ete hiṃsāyām / vaṣaṭ / vauṣaṭ / śrauṣaṭ / svāhā / svadhā / vandhā / prādus / śrut / āvis / cvy-antāḥ khalv api -- śuklīkṛtya / śuklīkṛtam / yacchuklīkaroti / ḍāc -- paṭapaṭākrṛtya / paṭapaṭākṛtam / yatpaṭapaṭakaroti // anukaraṇaṃ ca aniti-param
Sanskrit only: no published translation is held for this verse.
इतिः परे यस्मात् इति बहुव्रीहिः । अनुकरनम् अनितिपरं क्रिया-योगे गति-सञ्ज्ञम् भवति । खाट्कृत्य । खाट्कृतम् । यत्खाट्करोति । अनितिपरम् इति किम् ? खाडिति कृत्वा निरष्ठीवत् ॥ आदर-अनादरयोः सद्-असती
itiḥ pare yasmāt iti bahuvrīhiḥ / anukaranam anitiparaṃ kriyā-yoge gati-sañjñam bhavati / khāṭkṛtya / khāṭkṛtam / yatkhāṭkaroti / anitiparam iti kim ? khāḍiti kṛtvā niraṣṭhīvat // ādara-anādarayoḥ sad-asatī
Sanskrit only: no published translation is held for this verse.
प्रीतिसंभ्रम आदरः । परिभवौदासीन्यम् अनादरः । आदरानादरयोः यथा-क्रमं सद्-असच्-छब्दौ गति-सञ्ज्ञौ भवतः । सत्कृत्य । सत्कृतम् । यत्सत्करोति । असत्कृत्य । असत्कृतम् । यदसत्करोति । आदर-अनादरयोः इति किम् ? सत्कृत्वा काण्डं गतः । असत्कृत्वा काण्डम् गतः ॥ भूषने ऽलम्
prītisaṃbhrama ādaraḥ / paribhavaudāsīnyam anādaraḥ / ādarānādarayoḥ yathā-kramaṃ sad-asac-chabdau gati-sañjñau bhavataḥ / satkṛtya / satkṛtam / yatsatkaroti / asatkṛtya / asatkṛtam / yadasatkaroti / ādara-anādarayoḥ iti kim ? satkṛtvā kāṇḍaṃ gataḥ / asatkṛtvā kāṇḍam gataḥ // bhūṣane 'lam
Sanskrit only: no published translation is held for this verse.
अलम् इति प्रतिषेधे, सामर्थ्ये, पर्याप्तौ, भूषणे च इति विशेषनम् उपादीयते । भूवणे यो ऽलं-शब्दः स गति-सञ्ज्ञो भवति । अलङ्कृत्य । अलङ्कृतम् । यदलङ्करोति । भूषणे इति किम् ? अलं भुक्त्वा ओदनं गतः ॥ अन्तर् अपरिग्रहे
alam iti pratiṣedhe, sāmarthye, paryāptau, bhūṣaṇe ca iti viśeṣanam upādīyate / bhūvaṇe yo 'laṃ-śabdaḥ sa gati-sañjño bhavati / alaṅkṛtya / alaṅkṛtam / yadalaṅkaroti / bhūṣaṇe iti kim ? alaṃ bhuktvā odanaṃ gataḥ // antar aparigrahe
Sanskrit only: no published translation is held for this verse.
कणे-मनसी श्रद्धा-प्रतीघाते
kaṇe-manasī śraddhā-pratīghāte
Sanskrit only: no published translation is held for this verse.
कणे-शब्दो मनस्-शब्दश् च श्रद्धा-प्रतीघाते गति-सञ्ज्ञौ भवतः । कणेहत्य पयः पिबति । मनोहत्य पयः पिबति । तावत् पिबति यावद् अस्य अभिलाशो निवृत्तः । श्रद्धा प्रतिहता इत्य् अर्थः । श्रद्धा-प्रतीघाते इति किम् ? कणे हत्वा गतः । मनो हत्वा गतः ॥ पुरो ऽव्ययम्
kaṇe-śabdo manas-śabdaś ca śraddhā-pratīghāte gati-sañjñau bhavataḥ / kaṇehatya payaḥ pibati / manohatya payaḥ pibati / tāvat pibati yāvad asya abhilāśo nivṛttaḥ / śraddhā pratihatā ity arthaḥ / śraddhā-pratīghāte iti kim ? kaṇe hatvā gataḥ / mano hatvā gataḥ // puro 'vyayam
Sanskrit only: no published translation is held for this verse.
असि-प्रत्ययान्तः पुरः-शब्दो ऽव्ययम् । स गति-सञ्ज्ञो भवति । समास-स्वरोपचाराः प्रयोजनम् । पुरस्-कृत्य । पुरस्-कृतम् । यत् पुरस् करोति । अव्ययम् इति किम् ? पूः, पुरौ । पुरः कृत्वा काण्डं गतः ॥ अस्तं च
asi-pratyayāntaḥ puraḥ-śabdo 'vyayam / sa gati-sañjño bhavati / samāsa-svaropacārāḥ prayojanam / puras-kṛtya / puras-kṛtam / yat puras karoti / avyayam iti kim ? pūḥ, purau / puraḥ kṛtvā kāṇḍaṃ gataḥ // astaṃ ca
Sanskrit only: no published translation is held for this verse.
अस्तं-शब्दो म-कारान्तो ऽव्ययम् अनुपलब्धौ वर्तते । स गति-सञ्ज्ञओ भवति । अस्तंगत्य सविता पुनर् उदेति । अस्तं-गतानि धनानि । यद् अस्तं गच्छति । अव्ययम् इत्य् एव, अस्तं काण्डम् । क्षिपतम् इत्य् अर्थः ॥ अच्छ गत्य्-अर्थ-वदेषु
astaṃ-śabdo ma-kārānto 'vyayam anupalabdhau vartate / sa gati-sañjñao bhavati / astaṃgatya savitā punar udeti / astaṃ-gatāni dhanāni / yad astaṃ gacchati / avyayam ity eva, astaṃ kāṇḍam / kṣipatam ity arthaḥ // accha gaty-artha-vadeṣu
Sanskrit only: no published translation is held for this verse.
अच्छ-शब्दः अव्ययम् अभि-शब्दस्य अर्थे वर्तते । स गत्य्-अर्थेषु धातुषु वदतौ च गतिसञ्ज्ञो भवति । अच्छगत्य । अच्छगतम् । यद् अच्छगच्छति । वदतौ - अच्छोद्य । अच्छोदितम् । यद् अच्छवचति । अव्ययम् इत्य् एव, उदकम् अच्छं गच्छति ॥ अदो ऽनुपदेशे
accha-śabdaḥ avyayam abhi-śabdasya arthe vartate / sa gaty-artheṣu dhātuṣu vadatau ca gatisañjño bhavati / acchagatya / acchagatam / yad acchagacchati / vadatau - acchodya / acchoditam / yad acchavacati / avyayam ity eva, udakam acchaṃ gacchati // ado 'nupadeśe
Sanskrit only: no published translation is held for this verse.
अदः-शब्दस्त्यदादिषु पठ्यते, सो ऽनुपदेशे गति-सञ्ज्ञो भवति । उपदेशः परार्थः प्रयोगः । स्वयम् एव तु यदा बुद्ध्या पराम् ऋशति तदा न अस्त्य् उपदेशः इति सो ऽस्य विशयः । अदःकृत्य । अदःकृतम् । यद् अदःकरोति । अनुपदेशे इति किम् ? अदः कृत्वा काण्डं गतः इति परस्य कथयति ॥ तरो ऽन्तर्धौ
adaḥ-śabdastyadādiṣu paṭhyate, so 'nupadeśe gati-sañjño bhavati / upadeśaḥ parārthaḥ prayogaḥ / svayam eva tu yadā buddhyā parām ṛśati tadā na asty upadeśaḥ iti so 'sya viśayaḥ / adaḥkṛtya / adaḥkṛtam / yad adaḥkaroti / anupadeśe iti kim ? adaḥ kṛtvā kāṇḍaṃ gataḥ iti parasya kathayati // taro 'ntardhau
Sanskrit only: no published translation is held for this verse.
विभाषा कृञि
vibhāṣā kṛñi
Sanskrit only: no published translation is held for this verse.
अन्तर्धौ इति वर्तते । प्राप्त-विभाषेयम् । तिरः-शब्दः करोतौ परतो विभाषा गति-सञ्ज्ञो भवति । तरः कृत्य, तिरस्कृत्य । तिरस्कृतम् । यत् तिरस्करोति । तिरः कृत्वा, तिरस्कृत्वा । अन्तर्धौ इत्य् एव, तिरः-कृत्वा काष्ठं तिष्ठति ॥ उपाजे ऽन्वाजे
antardhau iti vartate / prāpta-vibhāṣeyam / tiraḥ-śabdaḥ karotau parato vibhāṣā gati-sañjño bhavati / taraḥ kṛtya, tiraskṛtya / tiraskṛtam / yat tiraskaroti / tiraḥ kṛtvā, tiraskṛtvā / antardhau ity eva, tiraḥ-kṛtvā kāṣṭhaṃ tiṣṭhati // upāje 'nvāje
Sanskrit only: no published translation is held for this verse.
विभाषा कृञि इति वर्तते । उपाजे ऽन्वाजे-शब्दौ विभक्ति-प्रतिरूपकौ निपातौ दुर्बलस्य सामर्थ्याधाने वर्तेते । तौ कृञि विभाषा गति-सञ्ज्ञौ भवतः । उपाजेकृत्य, उपाजे कृत्वा । अन्वाजेकृत्य, अन्वाजे कृत्वा ॥ साक्षात्-प्रभृतीनि च
vibhāṣā kṛñi iti vartate / upāje 'nvāje-śabdau vibhakti-pratirūpakau nipātau durbalasya sāmarthyādhāne vartete / tau kṛñi vibhāṣā gati-sañjñau bhavataḥ / upājekṛtya, upāje kṛtvā / anvājekṛtya, anvāje kṛtvā // sākṣāt-prabhṛtīni ca
Sanskrit only: no published translation is held for this verse.
विभाषा कृञि इति वर्तते । साक्षात्-प्रभृतीनि शब्दरूपाणि कृञि विभाषा गति-सञ्ज्ञानि भवन्ति । साक्षात्प्रभृतिषु च्व्यर्थवचनम् । साक्षात्कृत्य, साक्षात् कृत्वा । मिथ्याकृत्य, मिथ्या कृत्वा । साक्षात् । मिथ्या । चिन्ता । भद्रा । लोचन । विभाषा । सम्पत्का । आस्था । अमा । श्रद्धा । प्राजर्या । प्राजरुहा । वीजर्या । वीजरुहा । संसर्या । अर्थे । लवणम् । उष्णम् । शीतम् । उदकम् । आर्द्रम् । गतिसञ्ज्ञा-संनियोगेन लवणादीनाम् मकारन्तत्वम् निपात्यते । अग्नौ । वशे । विकम्पते । विहसने । प्रहसने । प्रतपने । प्रादुस् । नमस् । आविस् ॥ अनत्याधान उरसि-मनसी
vibhāṣā kṛñi iti vartate / sākṣāt-prabhṛtīni śabdarūpāṇi kṛñi vibhāṣā gati-sañjñāni bhavanti / sākṣātprabhṛtiṣu cvyarthavacanam / sākṣātkṛtya, sākṣāt kṛtvā / mithyākṛtya, mithyā kṛtvā / sākṣāt / mithyā / cintā / bhadrā / locana / vibhāṣā / sampatkā / āsthā / amā / śraddhā / prājaryā / prājaruhā / vījaryā / vījaruhā / saṃsaryā / arthe / lavaṇam / uṣṇam / śītam / udakam / ārdram / gatisañjñā-saṃniyogena lavaṇādīnām makārantatvam nipātyate / agnau / vaśe / vikampate / vihasane / prahasane / pratapane / prādus / namas / āvis // anatyādhāna urasi-manasī
Sanskrit only: no published translation is held for this verse.
विभाषा कृञि इति वर्तते । अत्याधानम् उपश्लेषणम्, तद्-अभावे ऽनत्याधाने उरसि-मनसी शब्दौ विभाषा कृञि गति-सञ्ज्ञौ भवतः । उरसिकृत्य, उरसि कृत्वा । मनसिकृत्य, मनसि कृत्वा । अनत्यावाने इति किम् ? उरसि कृत्वा पाणिं शेते ॥ मध्ये पदे निवचने च
vibhāṣā kṛñi iti vartate / atyādhānam upaśleṣaṇam, tad-abhāve 'natyādhāne urasi-manasī śabdau vibhāṣā kṛñi gati-sañjñau bhavataḥ / urasikṛtya, urasi kṛtvā / manasikṛtya, manasi kṛtvā / anatyāvāne iti kim ? urasi kṛtvā pāṇiṃ śete // madhye pade nivacane ca
Sanskrit only: no published translation is held for this verse.
नित्यं हस्ते पानाव्-उपयमने
nityaṃ haste pānāv-upayamane
Sanskrit only: no published translation is held for this verse.
कृञि इति वर्तते । हस्ते पाणौ इत्य् एतौ शब्दौ कृञि नित्यं गतिसञ्ज्ञौ भवतः उपयमने । उपयमनं दारकर्म । हस्तेकृत्य । पाणौकृत्य । दारकर्म कृत्वा इत्य् अर्थः । उपयमने इति किम् ? हस्ते कृत्वा कार्षापनं गतः ॥ प्राध्वं वन्धने
kṛñi iti vartate / haste pāṇau ity etau śabdau kṛñi nityaṃ gatisañjñau bhavataḥ upayamane / upayamanaṃ dārakarma / hastekṛtya / pāṇaukṛtya / dārakarma kṛtvā ity arthaḥ / upayamane iti kim ? haste kṛtvā kārṣāpanaṃ gataḥ // prādhvaṃ vandhane
Sanskrit only: no published translation is held for this verse.
कृञि इति वर्तते । प्राध्वम् इति मकारान्तम् अव्ययमानुकूल्ये वर्तते । तद्-आनुकूल्यं वन्धन-हेतुकं यदा भवति तदा प्राध्वंशब्दः कृञि नित्यं गतिसञ्ज्ञो भवति । प्राध्वंक्र्त्य । बन्ध्ने इति किम् ? प्राध्वं कृत्वा शकटं गतः ॥ जीविका-उपनिषदाव् औपम्ये
kṛñi iti vartate / prādhvam iti makārāntam avyayamānukūlye vartate / tad-ānukūlyaṃ vandhana-hetukaṃ yadā bhavati tadā prādhvaṃśabdaḥ kṛñi nityaṃ gatisañjño bhavati / prādhvaṃkrtya / bandhne iti kim ? prādhvaṃ kṛtvā śakaṭaṃ gataḥ // jīvikā-upaniṣadāv aupamye
Sanskrit only: no published translation is held for this verse.
कृञि इति वर्तते । जीविका उपनिषद् इत्य् एतौ शब्दौ औपम्ये विषहे कृञि गतिसञ्ज्ञौ भवतः । जीविकाकृत्य । उपनिषत्कृत्य । औपम्ये इति किम् ? जीविकाम् कृत्वा गतः ॥ ते प्राग् धातोः
kṛñi iti vartate / jīvikā upaniṣad ity etau śabdau aupamye viṣahe kṛñi gatisañjñau bhavataḥ / jīvikākṛtya / upaniṣatkṛtya / aupamye iti kim ? jīvikām kṛtvā gataḥ // te prāg dhātoḥ
Sanskrit only: no published translation is held for this verse.
ते गत्युपसर्ग-सञ्ज्ञका धातोः प्राक् प्रयोक्तव्याः । तथा चैवोदाहृताः । तेग्रहणम् उपसर्ग-अर्थम् । गतयो ह्य् अनन्तराः ॥ छन्दसि परे ऽपि
te gatyupasarga-sañjñakā dhātoḥ prāk prayoktavyāḥ / tathā caivodāhṛtāḥ / tegrahaṇam upasarga-artham / gatayo hy anantarāḥ // chandasi pare 'pi
Sanskrit only: no published translation is held for this verse.
प्राक् प्रयोगे प्रप्ते छन्दसि परे ऽपि अभ्यनुज्ञायन्ते । छन्दसि विषये गत्युपसर्ग-सञ्ज्ञकाः प्रे ऽपि पूर्वे ऽपि प्रयोक्तव्याः । न च प्रेषां प्रयुज्यमानानां सञ्ज्ञा-कार्यं किञ्चिद् अस्ति । केवलं प्रप्रयोगे ऽपि क्रियायोगे एषाम् अस्ति इति ज्ञाप्यते । याति नि हस्तिना, नियाति हस्तिना । हन्ति नि मुष्टिना, निहन्ति मुष्टिना ॥ व्यवहिताश् च
prāk prayoge prapte chandasi pare 'pi abhyanujñāyante / chandasi viṣaye gatyupasarga-sañjñakāḥ pre 'pi pūrve 'pi prayoktavyāḥ / na ca preṣāṃ prayujyamānānāṃ sañjñā-kāryaṃ kiñcid asti / kevalaṃ praprayoge 'pi kriyāyoge eṣām asti iti jñāpyate / yāti ni hastinā, niyāti hastinā / hanti ni muṣṭinā, nihanti muṣṭinā // vyavahitāś ca
Sanskrit only: no published translation is held for this verse.
व्यवहिताश् च गत्युपसर्ग-सञ्ज्ञकाः छन्दसि दृश्यन्ते आ मन्द्रैरिन्द्र हरिभिर्याहि मयूररोमभिः । आ याहि ॥ कर्मप्रवचनीयाः
vyavahitāś ca gatyupasarga-sañjñakāḥ chandasi dṛśyante ā mandrairindra haribhiryāhi mayūraromabhiḥ / ā yāhi // karmapravacanīyāḥ
Sanskrit only: no published translation is held for this verse.
अनुर् लक्षणे
anur lakṣaṇe
Sanskrit only: no published translation is held for this verse.
अनु-शब्दो लक्षणे ध्योत्ये कर्मप्रवचनीय-सञ्ज्ञो भवति । शाकल्यस्य संहितामनु प्रावर्षत् । अनडुद्यज्ञमन्वसिञ्चत् । अगस्त्यमन्वसिञ्चत् प्रजाः । किम् अर्थम् इदम् उच्यते, यावता लक्षन-इत्थम् भूत-आख्यान (*१,४।९०) इति सिद्धैवानोः कर्मप्रवचनीय-सञ्ज्ञा ? हेत्व्-अर्थं तु वचनम् । हेतु-तृतीयां वाधित्वा द्वितीयआ+एव यथा स्यात् ॥ तृतीया-अर्थे
anu-śabdo lakṣaṇe dhyotye karmapravacanīya-sañjño bhavati / śākalyasya saṃhitāmanu prāvarṣat / anaḍudyajñamanvasiñcat / agastyamanvasiñcat prajāḥ / kim artham idam ucyate, yāvatā lakṣana-ittham bhūta-ākhyāna (*1,4.90) iti siddhaivānoḥ karmapravacanīya-sañjñā ? hetv-arthaṃ tu vacanam / hetu-tṛtīyāṃ vādhitvā dvitīyaā+eva yathā syāt // tṛtīyā-arthe
Sanskrit only: no published translation is held for this verse.
अनुशब्दस् तृतीयार्थे द्योत्ये कर्मप्रवचनीय-सञ्ज्ञो भवति । नदीम् अन्ववसिता सेना । पर्वतम् अन्ववसिता सेना । पर्वतेन सम्बद्धा इत्य् अर्थः ॥ हीने
anuśabdas tṛtīyārthe dyotye karmapravacanīya-sañjño bhavati / nadīm anvavasitā senā / parvatam anvavasitā senā / parvatena sambaddhā ity arthaḥ // hīne
Sanskrit only: no published translation is held for this verse.
हीनः इति न्यूनः उच्यते, स च+उत्कृष्टापेक्षः । तेन+इयम् हीन-उत्कृष्ट-सम्बन्धे सञ्ज्ञा विज्ञायते । हीने द्योत्ये अयम् अनुः कर्मप्रवचनीय-सञ्ज्ञो भवति । अनु शाकटायनं वैयाकरणाः । अन्वर्जुनं योद्धारः ॥ उपो ऽधिके च
hīnaḥ iti nyūnaḥ ucyate, sa ca+utkṛṣṭāpekṣaḥ / tena+iyam hīna-utkṛṣṭa-sambandhe sañjñā vijñāyate / hīne dyotye ayam anuḥ karmapravacanīya-sañjño bhavati / anu śākaṭāyanaṃ vaiyākaraṇāḥ / anvarjunaṃ yoddhāraḥ // upo 'dhike ca
Sanskrit only: no published translation is held for this verse.
उप-शब्दः अधिके हीने च द्योत्ये कर्मप्रवचनीय-सञ्ज्ञो भवति । उप खार्यं द्रोणः । उप निष्के कार्षापणम् । हीने - उप शाकटायनं वैयाकरणाः ॥ अप-परी वर्जने
upa-śabdaḥ adhike hīne ca dyotye karmapravacanīya-sañjño bhavati / upa khāryaṃ droṇaḥ / upa niṣke kārṣāpaṇam / hīne - upa śākaṭāyanaṃ vaiyākaraṇāḥ // apa-parī varjane
Sanskrit only: no published translation is held for this verse.
आङ् मर्यादा-वचने
āṅ maryādā-vacane
Sanskrit only: no published translation is held for this verse.
आङ् इत्य् एषा शब्दो मर्यादा-वचने कर्मप्रवचनीय-सञ्ज्ञो भवति । अवधिर्मर्यादा । वचन-ग्रहणाद् अभिविधिर् अपि गृह्यते । आ पाटलिपुत्राद् वृष्टो देवः । आ कुमारं यशः पाणिनेः । आ सांकाश्यात् । आ मथुरायाः । मर्यादा-वचने इति किम् ? ईषद्-अर्थे क्रियायोगे च मा भूत् ॥ लक्षन-इत्थं-भूत-आख्यान-भाग-वीप्सासु प्रति-पर्य्-अनवः
āṅ ity eṣā śabdo maryādā-vacane karmapravacanīya-sañjño bhavati / avadhirmaryādā / vacana-grahaṇād abhividhir api gṛhyate / ā pāṭaliputrād vṛṣṭo devaḥ / ā kumāraṃ yaśaḥ pāṇineḥ / ā sāṃkāśyāt / ā mathurāyāḥ / maryādā-vacane iti kim ? īṣad-arthe kriyāyoge ca mā bhūt // lakṣana-itthaṃ-bhūta-ākhyāna-bhāga-vīpsāsu prati-pary-anavaḥ
Sanskrit only: no published translation is held for this verse.
लक्षणे, इत्थं-भूत-आख्याने, भागे, वीप्सायां च विशाय-भूतायां प्रति परि अनु इत्य् एते कर्मप्रवचनीय-सञ्ज्ञा भवन्ति । लक्षणे तावत् - वृक्षं प्रति विद्योतते विद्युत् । वृक्षं परि । वृक्षम् अनु । इत्थं-भूत-आख्याने - साधुर् देवदत्तो मातरम् प्रति । मातरम् परि । मातरम् अनु । भागे - यद् अत्र मां प्रति स्यात् । माम् परि स्यात् । मामनु स्यात् । वीप्सायाम् - वृक्षं वृक्षम् प्रति सिञ्चति । परि सिञ्चति । अनु सिञ्चति । लक्षणादिषु इति किम् ? ओदनं परिषिञ्चति । अथ परिशब्द-योगे पञ्चमी कस्मान् न भवति पञ्चम्य्-अप-अङ्-परिभिः (*२,३।१०) इति ? वर्जनविषाये सा विधीयते, अपशब्द-साहचर्यात् ॥ अभिर् अभागे
lakṣaṇe, itthaṃ-bhūta-ākhyāne, bhāge, vīpsāyāṃ ca viśāya-bhūtāyāṃ prati pari anu ity ete karmapravacanīya-sañjñā bhavanti / lakṣaṇe tāvat - vṛkṣaṃ prati vidyotate vidyut / vṛkṣaṃ pari / vṛkṣam anu / itthaṃ-bhūta-ākhyāne - sādhur devadatto mātaram prati / mātaram pari / mātaram anu / bhāge - yad atra māṃ prati syāt / mām pari syāt / māmanu syāt / vīpsāyām - vṛkṣaṃ vṛkṣam prati siñcati / pari siñcati / anu siñcati / lakṣaṇādiṣu iti kim ? odanaṃ pariṣiñcati / atha pariśabda-yoge pañcamī kasmān na bhavati pañcamy-apa-aṅ-paribhiḥ (*2,3.10) iti ? varjanaviṣāye sā vidhīyate, apaśabda-sāhacaryāt // abhir abhāge
Sanskrit only: no published translation is held for this verse.
लक्षन-आदिषु एव भाग-वर्जितेषु अभिः कर्मप्रवचनीय-सञ्ञो भवति । वृक्षम् अभि विद्योतते विद्युत् । साधुर् देवदत्तो मातरम् अभि । वृक्षं वृक्षम् अभि सिञ्चति । अभागे इति किम् ? भागः स्वीक्रियमाणो ऽंशः । यद् अत्र मम अभिष्यत् तद् दीयताम् । यदत्र मम भवति तद् दीयताम् इत्य् अर्थः ॥ प्रतिः प्रतिनिधि-प्रतिदानयोः
lakṣana-ādiṣu eva bhāga-varjiteṣu abhiḥ karmapravacanīya-sañño bhavati / vṛkṣam abhi vidyotate vidyut / sādhur devadatto mātaram abhi / vṛkṣaṃ vṛkṣam abhi siñcati / abhāge iti kim ? bhāgaḥ svīkriyamāṇo 'ṃśaḥ / yad atra mama abhiṣyat tad dīyatām / yadatra mama bhavati tad dīyatām ity arthaḥ // pratiḥ pratinidhi-pratidānayoḥ
Sanskrit only: no published translation is held for this verse.
मुख्य-सदृशः प्रतिनिधिः । दत्तस्य प्रतिनिर्यातनं प्रतिदानम् । प्रतिनिधिविषये प्रतिदानविषये च प्रतिः कर्मप्रवचनीय-सञ्ज्ञो भवति । अभिमन्युर्-अर्जुनतः प्रति । माषानस्मै तिलेभ्यः प्रति यच्छति ॥ अधिपरी अनर्थकौ
mukhya-sadṛśaḥ pratinidhiḥ / dattasya pratiniryātanaṃ pratidānam / pratinidhiviṣaye pratidānaviṣaye ca pratiḥ karmapravacanīya-sañjño bhavati / abhimanyur-arjunataḥ prati / māṣānasmai tilebhyaḥ prati yacchati // adhiparī anarthakau
Sanskrit only: no published translation is held for this verse.
सुः पूजायाम्
suḥ pūjāyām
Sanskrit only: no published translation is held for this verse.
सु-शब्दः पूजायाम् अर्थे कर्मप्रवचनीय-सञ्ज्ञो भवति । सु सिक्तं भवता । सु स्तुतं भवता । धात्व्-अर्थः स्तूयते । उपसर्ग-सञ्ज्ञ-आश्रयं षत्वं न भवति । पूजायाम् इति किम् ? सुषिक्तं किं तवात्र ॥ अतिर् अतिक्रमणे च
su-śabdaḥ pūjāyām arthe karmapravacanīya-sañjño bhavati / su siktaṃ bhavatā / su stutaṃ bhavatā / dhātv-arthaḥ stūyate / upasarga-sañjña-āśrayaṃ ṣatvaṃ na bhavati / pūjāyām iti kim ? suṣiktaṃ kiṃ tavātra // atir atikramaṇe ca
Sanskrit only: no published translation is held for this verse.
अति-शब्दः अतिक्रमणे, च-कारात् पूजयं च कर्मप्रवचनीय-सञ्ज्ञो भवति । निष्पन्ने ऽपि वस्तुनि क्रियाप्रवृत्तिः अतिक्रमणम् । अति सिक्तम् एव भवता । अति स्तुतम् एव भवता । पूजायम् - अति सिक्तं भवता । अति स्तुतम् एव भवता । शोभनं कृतम् इत्य् अर्थः ॥ अपिः पदार्थ-सम्भावन-अन्ववसर्ग-गर्हा-समुच्चयेषु
ati-śabdaḥ atikramaṇe, ca-kārāt pūjayaṃ ca karmapravacanīya-sañjño bhavati / niṣpanne 'pi vastuni kriyāpravṛttiḥ atikramaṇam / ati siktam eva bhavatā / ati stutam eva bhavatā / pūjāyam - ati siktaṃ bhavatā / ati stutam eva bhavatā / śobhanaṃ kṛtam ity arthaḥ // apiḥ padārtha-sambhāvana-anvavasarga-garhā-samuccayeṣu
Sanskrit only: no published translation is held for this verse.
पदार्थे, सम्भावने, अन्ववसर्गे, गर्हायाम्, समुच्चये च वर्तमानः अपिः कर्मप्रवचनीय-सञ्ज्ञो भवति । पदान्तरस्य अप्रयुज्यमानस्य अर्थः पदार्थः - सर्पिषो ऽपि स्यात् । मधुनो ऽपि स्यात् । मात्रा, बिन्दुः, स्तोकम् इत्य् अस्य अर्थे ऽपि शब्दो वर्तते । सम्भावनम् अधिकार्थ-वचनेन शक्तेर् अप्रतिघाताविष्करनम् - अपि सिञ्चेन् मूलक-सहस्रम् । अपि स्तुयाद् राजानम् । अन्ववसर्गः कामचार-अभ्यनुज्ञानम् - अपि सिञ्च । अपि स्तुहि । गर्हा निन्दा - धिग् जाल्मं देवदत्तम्, अपि सिञ्चेत् पलाण्डुम् । अपि स्तुयाद् वृषलम् । समुच्चये - अपि सिञ्च । अपि स्तुहि । सिञ्च च स्तुहि च । उपसर्गसञ्ज्ञाबाधनात् षत्वम् न भवति ॥ अधिर् ईश्वरे
padārthe, sambhāvane, anvavasarge, garhāyām, samuccaye ca vartamānaḥ apiḥ karmapravacanīya-sañjño bhavati / padāntarasya aprayujyamānasya arthaḥ padārthaḥ - sarpiṣo 'pi syāt / madhuno 'pi syāt / mātrā, binduḥ, stokam ity asya arthe 'pi śabdo vartate / sambhāvanam adhikārtha-vacanena śakter apratighātāviṣkaranam - api siñcen mūlaka-sahasram / api stuyād rājānam / anvavasargaḥ kāmacāra-abhyanujñānam - api siñca / api stuhi / garhā nindā - dhig jālmaṃ devadattam, api siñcet palāṇḍum / api stuyād vṛṣalam / samuccaye - api siñca / api stuhi / siñca ca stuhi ca / upasargasañjñābādhanāt ṣatvam na bhavati // adhir īśvare
Sanskrit only: no published translation is held for this verse.
ईश्वरः स्वामी, स च स्वम् अपेक्षते । तद् अयम् स्वस्वामि-सम्बन्धे अधिः कर्मप्रवचनीय-सञ्ज्ञो भवति । तत्र कदाचित् स्वामिनः कर्मप्रवचनीय-विभक्तिः सप्तमी भवति, कदाचित् स्वात् । अधि ब्रह्मदत्ते पञ्चालाः । अधि पञ्चालेषु ब्रह्मदत्तः ॥ विभाषा कृञि
īśvaraḥ svāmī, sa ca svam apekṣate / tad ayam svasvāmi-sambandhe adhiḥ karmapravacanīya-sañjño bhavati / tatra kadācit svāminaḥ karmapravacanīya-vibhaktiḥ saptamī bhavati, kadācit svāt / adhi brahmadatte pañcālāḥ / adhi pañcāleṣu brahmadattaḥ // vibhāṣā kṛñi
Sanskrit only: no published translation is held for this verse.
लः परस्मैपदम्
laḥ parasmaipadam
Sanskrit only: no published translation is held for this verse.
लः इति षष्ठी आदेश-अपेक्षा । ल-आदेशाः परस्मैपद-सञ्ज्ञा भवन्ति । तप्, तस्, झ । सिप्, थस्, थ । मिप्, वस्, मस् । शतृक्वसू च परस्मैपद-प्रदेशाः - सिचि वृद्धिः प्रस्मैपदेषु (*७,२।१) इत्य् एवम् आदयः ॥ तङ्-आनाव् आत्मनेपदम्
laḥ iti ṣaṣṭhī ādeśa-apekṣā / la-ādeśāḥ parasmaipada-sañjñā bhavanti / tap, tas, jha / sip, thas, tha / mip, vas, mas / śatṛkvasū ca parasmaipada-pradeśāḥ - sici vṛddhiḥ prasmaipadeṣu (*7,2.1) ity evam ādayaḥ // taṅ-ānāv ātmanepadam
Sanskrit only: no published translation is held for this verse.
तङ् इति प्रत्याहारो नवानाम् वचनानाम् । आनः इति शानच्-कानचोर्-ग्रहनम् । पूर्वेण परस्मैपदस्-अञ्ज्ञायां प्राप्तायां तङ्-आनयोर् आत्मनेपद-सञ्ज्ञा विधीयते । त, आताम्, झ । थास्, आथाम्, ध्वम् । इट्, वहि, महिङ् । आनह्ः खल्व् अपि - शानच्-कानचौ । लः इत्य् एव, कतीह निघ्नानाः । आत्मनेपद-प्रदेशाः - अनुदत्त-ङित आत्मनेपदम् (*१,३।१२) इत्य् एवम् आदयः ॥ तिङस् त्रीणि त्रीणि प्रथम-मध्यम-उत्तमाः
taṅ iti pratyāhāro navānām vacanānām / ānaḥ iti śānac-kānacor-grahanam / pūrveṇa parasmaipadas-añjñāyāṃ prāptāyāṃ taṅ-ānayor ātmanepada-sañjñā vidhīyate / ta, ātām, jha / thās, āthām, dhvam / iṭ, vahi, mahiṅ / ānahḥ khalv api - śānac-kānacau / laḥ ity eva, katīha nighnānāḥ / ātmanepada-pradeśāḥ - anudatta-ṅita ātmanepadam (*1,3.12) ity evam ādayaḥ // tiṅas trīṇi trīṇi prathama-madhyama-uttamāḥ
Sanskrit only: no published translation is held for this verse.
तिङो ऽष्टादश प्रत्ययाः । नव परस्मैपद-सञ्ज्ञकाः, नव-आत्मनेपद-सञ्ज्ञकाः । तत्र परस्मैप्रदेषु त्रयस्त्रिकाः यथाक्रमं प्रथम-मध्यम-उत्तम-सञ्ज्ञा भवन्ति । तिप्, तस्, झि इति प्रथमः । सिप्, थस्, थ इति मद्यमः । मिप्, वस्, मस् इति उत्तमः । आत्मनेपदेषु - त, आताम्, झ इति प्रथमः । थास्, आथाम्, ध्वम् इति मध्यामः । इट्, वहि, महिङ् इति उत्तमः । प्रथम-मध्यम-उत्तम-प्रदेशाः - शेषे प्रथमः (*१,४।१०८) इत्य् एवम् आदयः ॥ तान्य् एकवचनाद् विवचनबहुवचनान्य् एकशः
tiṅo 'ṣṭādaśa pratyayāḥ / nava parasmaipada-sañjñakāḥ, nava-ātmanepada-sañjñakāḥ / tatra parasmaipradeṣu trayastrikāḥ yathākramaṃ prathama-madhyama-uttama-sañjñā bhavanti / tip, tas, jhi iti prathamaḥ / sip, thas, tha iti madyamaḥ / mip, vas, mas iti uttamaḥ / ātmanepadeṣu - ta, ātām, jha iti prathamaḥ / thās, āthām, dhvam iti madhyāmaḥ / iṭ, vahi, mahiṅ iti uttamaḥ / prathama-madhyama-uttama-pradeśāḥ - śeṣe prathamaḥ (*1,4.108) ity evam ādayaḥ // tāny ekavacanād vivacanabahuvacanāny ekaśaḥ
Sanskrit only: no published translation is held for this verse.
सुपः
supaḥ
Sanskrit only: no published translation is held for this verse.
तिङां त्रिकेषु एकवचनादि-सञ्ज्ञा विहिताः । सम्प्रति सुपाम् त्रिकेषु विधीयन्ते । सुपश् च त्रीणि त्रीणि पदानि एकश एकवचन-द्विवचन-बहुवचन-सञ्ज्ञानि भवन्ति । सु इति एकवचनम् । औ इति द्विवचनम् । जस् इति बहुवचनम् । एवम् सर्वत्र ॥ विभक्तिश् च
tiṅāṃ trikeṣu ekavacanādi-sañjñā vihitāḥ / samprati supām trikeṣu vidhīyante / supaś ca trīṇi trīṇi padāni ekaśa ekavacana-dvivacana-bahuvacana-sañjñāni bhavanti / su iti ekavacanam / au iti dvivacanam / jas iti bahuvacanam / evam sarvatra // vibhaktiś ca
Sanskrit only: no published translation is held for this verse.
युष्मद्य्-उपपदे समान-अधिकरणे स्थानिन्य् अपि मध्यमः
yuṣmady-upapade samāna-adhikaraṇe sthāniny api madhyamaḥ
Sanskrit only: no published translation is held for this verse.
लस्य (*३,४।७७) इत्य् अधिकृत्य सामान्येन तिब्-आदयो विहिताः । तेषाम् अयं पुरुष-नियमः क्रियते । युष्मद्य्-उपपदे सति व्यवहिते चाव्यवहिते सति समानाधिकरणे समान-अभिधेये तुल्य-कारके स्थानिनि प्रयुज्यमाने ऽप्य् अप्रयुज्यमाने ऽपि मध्यम-पुरुषो भवति । त्वं पचसि । युवां पचथः । यूयं पचथ । अप्रयुज्यमाने ऽपि - पचसि । पचथः । पचथ ॥ प्रहासे च मन्य-उपपदे मन्यतेर् उत्तम एकवच् च
lasya (*3,4.77) ity adhikṛtya sāmānyena tib-ādayo vihitāḥ / teṣām ayaṃ puruṣa-niyamaḥ kriyate / yuṣmady-upapade sati vyavahite cāvyavahite sati samānādhikaraṇe samāna-abhidheye tulya-kārake sthānini prayujyamāne 'py aprayujyamāne 'pi madhyama-puruṣo bhavati / tvaṃ pacasi / yuvāṃ pacathaḥ / yūyaṃ pacatha / aprayujyamāne 'pi - pacasi / pacathaḥ / pacatha // prahāse ca manya-upapade manyater uttama ekavac ca
Sanskrit only: no published translation is held for this verse.
प्रहासः परिहासः क्रीडा । प्रहासे गम्यमाने मन्य-उपपदे धातोर् मध्यम-पुरुषो भवति, मन्यतेश् च-उत्तमः, स च एकवद् भवति । एहि मन्ये ओदनम् भोक्ष्यसे इति, न हि भोक्ष्यसे, भुक्तः सो ऽतिथिभिः । एहि मन्ये रथेन यास्यसि, न हि यास्यसि, यात्स्तेन ते पिता । मध्यम-उत्तमयोः प्राप्तयोः उत्तम-मध्यमौ विधीयेते । प्रहासे इति किम् ? एहि मन्यसे ओदनं भोक्ष्ये इति । सुष्ठु मन्यसे । साधु मन्यसे ॥ अस्मद्य् उत्तमः
prahāsaḥ parihāsaḥ krīḍā / prahāse gamyamāne manya-upapade dhātor madhyama-puruṣo bhavati, manyateś ca-uttamaḥ, sa ca ekavad bhavati / ehi manye odanam bhokṣyase iti, na hi bhokṣyase, bhuktaḥ so 'tithibhiḥ / ehi manye rathena yāsyasi, na hi yāsyasi, yātstena te pitā / madhyama-uttamayoḥ prāptayoḥ uttama-madhyamau vidhīyete / prahāse iti kim ? ehi manyase odanaṃ bhokṣye iti / suṣṭhu manyase / sādhu manyase // asmady uttamaḥ
Sanskrit only: no published translation is held for this verse.
उत्तमपुरुषो नियम्यते । अस्मद्य्-उपपदे समानाभिधेये प्रयुज्यमाने ऽप्य् अप्रयुज्यमाने ऽपि उत्तमपुरुषो भवति । अहम् पचामि । आवाम् पचावः । वयम् पचामः । अप्रयुज्यमाने ऽपि - पचामि । पचावः । पचामः ॥ शेषे प्रथमः
uttamapuruṣo niyamyate / asmady-upapade samānābhidheye prayujyamāne 'py aprayujyamāne 'pi uttamapuruṣo bhavati / aham pacāmi / āvām pacāvaḥ / vayam pacāmaḥ / aprayujyamāne 'pi - pacāmi / pacāvaḥ / pacāmaḥ // śeṣe prathamaḥ
Sanskrit only: no published translation is held for this verse.
शेषः इति मध्यम-उत्तम-विषयाद् अन्य उच्यते । यत्र युष्मद्-अस्मदी समनाधिकरणे उपपदे न स्तः, तत्र शेषे प्रथमपुरुषो भवति । पचति । पचतः । पचन्ति ॥ परः संनिकर्षः संहिता
śeṣaḥ iti madhyama-uttama-viṣayād anya ucyate / yatra yuṣmad-asmadī samanādhikaraṇe upapade na staḥ, tatra śeṣe prathamapuruṣo bhavati / pacati / pacataḥ / pacanti // paraḥ saṃnikarṣaḥ saṃhitā
Sanskrit only: no published translation is held for this verse.
पर-शब्दो ऽतिशये वर्तते । संनिकर्षः प्रत्यासत्तिः । परो यः सन्निकर्षः, वर्णानाम् अर्धमात्राकालव्यवधानं, स संहितासञ्ज्ञो भवति । दध्यत्र । मध्वत्र । संहिता-प्रदेशाः -- सिंहितायाम् (*६,१।७२) इत्य् एवम् आदयः ॥ विरामो ऽवसानम्
para-śabdo 'tiśaye vartate / saṃnikarṣaḥ pratyāsattiḥ / paro yaḥ sannikarṣaḥ, varṇānām ardhamātrākālavyavadhānaṃ, sa saṃhitāsañjño bhavati / dadhyatra / madhvatra / saṃhitā-pradeśāḥ -- siṃhitāyām (*6,1.72) ity evam ādayaḥ // virāmo 'vasānam
Sanskrit only: no published translation is held for this verse.