ह्रस्वः इति वर्तते । शेषो ऽत्र घिसञ्ज्ञो भवति, सखि-शब्दम् वर्जयित्वा । कश् च शेषः ? ह्रस्वम् इवर्ण-उवर्ण-अन्तं यन् न स्त्र्याख्यम्, स्त्र्याख्यं च यन् न नदीसञ्ज्ञकं, स शेषः । अग्नये । वायवे । कृतये । धेनवे । असखि इति किम् ? सख्या । सख्ये । सख्युः । सख्यौ । घि-प्रदेशाः -- द्वन्द्वे घि (*२,२।३२) इत्य् एवम् आदयः ॥ पतिः समास एव
hrasvaḥ iti vartate / śeṣo 'tra ghisañjño bhavati, sakhi-śabdam varjayitvā / kaś ca śeṣaḥ ? hrasvam ivarṇa-uvarṇa-antaṃ yan na stryākhyam, stryākhyaṃ ca yan na nadīsañjñakaṃ, sa śeṣaḥ / agnaye / vāyave / kṛtaye / dhenave / asakhi iti kim ? sakhyā / sakhye / sakhyuḥ / sakhyau / ghi-pradeśāḥ -- dvandve ghi (*2,2.32) ity evam ādayaḥ // patiḥ samāsa eva
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.