तिष्ठद्ग्व्-आदयः समुदाया एव निपात्यन्ते । तिष्ठद्गु-प्रभृतीनि शब्दरूपाणि अव्ययीभावस्-अञ्ज्ञानि भवन्ति । तिष्ठद्गु कालविशेषः । तिष्ठन्ति गावो यस्मिन् काले दोहनाय स तिष्ठद्गु कालः । खलेयवादीनि प्रथमानतानि विभक्त्यनतरेन्ण न+एव सम्बध्यन्ते ऽन्यपदार्थे च काले वर्तन्ते । चकारो ऽवधारण-अर्थः । अपरः समासो न भवति, परमतिष्ठद्गु इति । तिष्ठद्गु । वहद्गु । आयतीगवम् । खलेबुसम् । खलेयवम् । लूनयवम् । लूयमानयवम् । पूतयवम् । पूयमानयवम् । संहृतयवम् । संह्रियमाणायवम् । संहृतबुसम् । संह्रियमाणाबुसम् । एते कालशब्दाः । समभूमि । समपदाति । सुषमम् । विषमम् । निष्षमम् । दुष्षमम् । अपरसमम् । आयतीसमम् ः प्राह्णम् । प्ररथम् । प्रमऋगम् । प्रदक्षिणम् । अपरदक्षिणम् । संप्रति । असंप्रति । पापसमम् । पुण्यसमम् । इच् कर्मव्यतिहारे (*५,४।१२७) -- दण्डादण्डि । मुसलामुसलि ॥ पारे मध्ये षष्ठ्या वा
tiṣṭhadgv-ādayaḥ samudāyā eva nipātyante / tiṣṭhadgu-prabhṛtīni śabdarūpāṇi avyayībhāvas-añjñāni bhavanti / tiṣṭhadgu kālaviśeṣaḥ / tiṣṭhanti gāvo yasmin kāle dohanāya sa tiṣṭhadgu kālaḥ / khaleyavādīni prathamānatāni vibhaktyanatarenṇa na+eva sambadhyante 'nyapadārthe ca kāle vartante / cakāro 'vadhāraṇa-arthaḥ / aparaḥ samāso na bhavati, paramatiṣṭhadgu iti / tiṣṭhadgu / vahadgu / āyatīgavam / khalebusam / khaleyavam / lūnayavam / lūyamānayavam / pūtayavam / pūyamānayavam / saṃhṛtayavam / saṃhriyamāṇāyavam / saṃhṛtabusam / saṃhriyamāṇābusam / ete kālaśabdāḥ / samabhūmi / samapadāti / suṣamam / viṣamam / niṣṣamam / duṣṣamam / aparasamam / āyatīsamam ḥ prāhṇam / praratham / pramaṛgam / pradakṣiṇam / aparadakṣiṇam / saṃprati / asaṃprati / pāpasamam / puṇyasamam / ic karmavyatihāre (*5,4.127) -- daṇḍādaṇḍi / musalāmusali // pāre madhye ṣaṣṭhyā vā
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.