परिभाषेयम् । यः कश्चिदिह शास्त्रे पदविधिः श्रूयते स समर्थो विदितव्यः । विधीयते इति विधिः । पदानां विधिः पदविधिः । स पुनः समासादिः । समर्थः शक्तः । विग्रहवाक्यार्थभिधाने यः शक्तः स समर्थो विधितव्यः । अथ वा समर्थपदाश्रयत्वात् समर्थः । समर्थनां पदानां सम्बद्धार्थानां संसृष्टार्थानां विधिर्वेदितव्यः । वक्ष्यति, द्वितीया श्रित-अतीत-पतित-गत-अत्यस्त-प्राप्त-आपन्नैः (*२,१।२४) - कष्टं श्रितः कष्टश्रितः । समर्थ-ग्रहणं किम् ? पश्य देवदत्त कष्टं, श्रितो विष्णुमित्रो गुरुकुलम् । तृतीया तत्कृत-अर्थेन गुणवचनेन (*२,१।३०) - शङ्कुलया खण्डः शङ्कुलाखण्डः । समर्थ-ग्रहणं किम् ? किं त्वं करिष्यसि शङ्कुलया, खण्डो देवदत्त उपलेन । चतुर्थी तदर्थ-अर्थ-वलि-हित-सुख-रक्षितैः (*२,१।३६) - यूपाय दारु यूपदारु । समर्थ-ग्रहणं किम् ? गच्छ त्वं यूपाय, दारु देवदत्तस्य ग्रेहे । पञ्चमी भयेन (*२,१।३७) - वृकेभ्यो भयं वृकभयम् । समर्थ-ग्रहणं किम् ? गच्छ त्वं मा वृकेभ्यो, भयं देवदत्तस्य यज्ञदत्तात् । षष्ठी (*२,२।८) - राज्ञः पुरुषः राजपुरुषः । समर्थ-ग्रहणं किम् ? भार्या राज्ञः, पुरुषो देवदत्तस्य । सप्तमी शौण्डैः (*२,१।४०) - अक्षेषु शौण्डः अक्षशौण्डः । समर्थ-ग्रहणं किम् ? शक्तस्त्वं अक्षेषु, शौण्डः पिबति पानागारे । पद-ग्रहणं किम् ? वर्णविधौ समर्थपरिभाशा मा भूत् । तिष्ठतु दध्यशान त्वं शाकेन । तिष्ठतु कुमारी च्छत्रं हरदेवदत्तात् । यणादेशो, नित्यश् च तुग् भवति ॥ सुब् आमन्त्रिते पर-अङ्गवत् स्वरे
paribhāṣeyam / yaḥ kaścidiha śāstre padavidhiḥ śrūyate sa samartho viditavyaḥ / vidhīyate iti vidhiḥ / padānāṃ vidhiḥ padavidhiḥ / sa punaḥ samāsādiḥ / samarthaḥ śaktaḥ / vigrahavākyārthabhidhāne yaḥ śaktaḥ sa samartho vidhitavyaḥ / atha vā samarthapadāśrayatvāt samarthaḥ / samarthanāṃ padānāṃ sambaddhārthānāṃ saṃsṛṣṭārthānāṃ vidhirveditavyaḥ / vakṣyati, dvitīyā śrita-atīta-patita-gata-atyasta-prāpta-āpannaiḥ (*2,1.24) - kaṣṭaṃ śritaḥ kaṣṭaśritaḥ / samartha-grahaṇaṃ kim ? paśya devadatta kaṣṭaṃ, śrito viṣṇumitro gurukulam / tṛtīyā tatkṛta-arthena guṇavacanena (*2,1.30) - śaṅkulayā khaṇḍaḥ śaṅkulākhaṇḍaḥ / samartha-grahaṇaṃ kim ? kiṃ tvaṃ kariṣyasi śaṅkulayā, khaṇḍo devadatta upalena / caturthī tadartha-artha-vali-hita-sukha-rakṣitaiḥ (*2,1.36) - yūpāya dāru yūpadāru / samartha-grahaṇaṃ kim ? gaccha tvaṃ yūpāya, dāru devadattasya grehe / pañcamī bhayena (*2,1.37) - vṛkebhyo bhayaṃ vṛkabhayam / samartha-grahaṇaṃ kim ? gaccha tvaṃ mā vṛkebhyo, bhayaṃ devadattasya yajñadattāt / ṣaṣṭhī (*2,2.8) - rājñaḥ puruṣaḥ rājapuruṣaḥ / samartha-grahaṇaṃ kim ? bhāryā rājñaḥ, puruṣo devadattasya / saptamī śauṇḍaiḥ (*2,1.40) - akṣeṣu śauṇḍaḥ akṣaśauṇḍaḥ / samartha-grahaṇaṃ kim ? śaktastvaṃ akṣeṣu, śauṇḍaḥ pibati pānāgāre / pada-grahaṇaṃ kim ? varṇavidhau samarthaparibhāśā mā bhūt / tiṣṭhatu dadhyaśāna tvaṃ śākena / tiṣṭhatu kumārī cchatraṃ haradevadattāt / yaṇādeśo, nityaś ca tug bhavati // sub āmantrite para-aṅgavat svare
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.