सङ्ख्या इति निवृत्तम् । नदीग्रहनम् अनुवर्तते । नदीभिः सह सुबन्तम् अन्यपदार्थे वर्तमानं सञ्ज्ञायां विष्ये समस्यते, अव्ययीभावश् च समासो भवति । विभाषा ऽधिकारे ऽपि नित्यसमास एव अयम् । न हि वाक्येन सञ्ज्ञा गम्यते । उन्मत्तगङ्गम् नाम देशः । लोहितगङ्गम् । शनैर्गङ्गम् । कृष्णगङ्गम् । अन्यपदार्थे इति किम् ? कृष्णवेण्णा । सञ्ज्ञायाम् इति किम् ? शीघ्रगङ्गो देशः ॥ तत्पुरुषः
saṅkhyā iti nivṛttam / nadīgrahanam anuvartate / nadībhiḥ saha subantam anyapadārthe vartamānaṃ sañjñāyāṃ viṣye samasyate, avyayībhāvaś ca samāso bhavati / vibhāṣā 'dhikāre 'pi nityasamāsa eva ayam / na hi vākyena sañjñā gamyate / unmattagaṅgam nāma deśaḥ / lohitagaṅgam / śanairgaṅgam / kṛṣṇagaṅgam / anyapadārthe iti kim ? kṛṣṇaveṇṇā / sañjñāyām iti kim ? śīghragaṅgo deśaḥ // tatpuruṣaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.