तत्पुरुषः इति सञ्ज्ञा ऽधिक्रियते प्राग् बहुव्रीहेः । यानित ऊर्ध्वम् अनुक्रमिष्यामः, तत्पुरुष-सञ्ज्ञास्ते वेदितव्याः । वक्ष्यति, द्वितीय श्रित-अतीत-पतित (*२,१।२४) । इति । कष्टश्रितः । पूर्वाचार्यसञ्ज्ञा चेयं महती, तदङ्गीकरणौपाधेर् अपि तदीयस्य परिग्रह-अर्थम्, उत्तरपदार्थ-प्रधानस् तत्पुरुषः इति । तत्पुरुषप्रदेशाः - तत्पुरुषे कृति बहुलम् (*३,३।१४) । इत्य् एवम् आदयः ॥ द्विगुश् च
tatpuruṣaḥ iti sañjñā 'dhikriyate prāg bahuvrīheḥ / yānita ūrdhvam anukramiṣyāmaḥ, tatpuruṣa-sañjñāste veditavyāḥ / vakṣyati, dvitīya śrita-atīta-patita (*2,1.24) / iti / kaṣṭaśritaḥ / pūrvācāryasañjñā ceyaṃ mahatī, tadaṅgīkaraṇaupādher api tadīyasya parigraha-artham, uttarapadārtha-pradhānas tatpuruṣaḥ iti / tatpuruṣapradeśāḥ - tatpuruṣe kṛti bahulam (*3,3.14) / ity evam ādayaḥ // dviguś ca
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.