स्तोक अन्तिक दूर इत्य् एवम् अर्थाः शब्दाः कृच्छ्र-शब्दश् च पञ्चम्यन्ताः क्तान्तेन सह समस्यन्ते, तत्पुरुषश् च समासो भवति । स्तोकान् मुक्तः । अन्तिकाद् आगतः । अभ्याशाद् आगतः । दूराद् आगतः । विप्रकृष्टाद् आगतः । कृच्छ्रान् मुक्तः । कृच्छ्राल् लब्धः । पञ्चम्याः स्तोक-आदिभ्यः (*६,३।२) इत्य् अलुक् । शतसहत्रौ परेणेति वक्तव्यम् । शतात् परे परश्शताः । सहस्रात् परे परस्सहस्राः । राजदन्तादित्वात् परनिपातः । निपातनात् सुडागमः ॥ सप्तमी शौण्डैः
stoka antika dūra ity evam arthāḥ śabdāḥ kṛcchra-śabdaś ca pañcamyantāḥ ktāntena saha samasyante, tatpuruṣaś ca samāso bhavati / stokān muktaḥ / antikād āgataḥ / abhyāśād āgataḥ / dūrād āgataḥ / viprakṛṣṭād āgataḥ / kṛcchrān muktaḥ / kṛcchrāl labdhaḥ / pañcamyāḥ stoka-ādibhyaḥ (*6,3.2) ity aluk / śatasahatrau pareṇeti vaktavyam / śatāt pare paraśśatāḥ / sahasrāt pare parassahasrāḥ / rājadantāditvāt paranipātaḥ / nipātanāt suḍāgamaḥ // saptamī śauṇḍaiḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.