अहरवयवाः रात्र्यवयवाश् च सप्तम्यन्ताः क्तान्तेन सह समस्यन्ते, तत्पुरुषश् च समासो भवति । पूर्वाह्णकृतम् । अपराह्णकृतम् । पूर्वरात्रकृतम् । अपररात्रकृतम् । अवयव-ग्रहनम् किम् ? एतत् तु ते दिवा वृत्तं रात्रौ वृत्तं च द्रक्ष्यसि । अहनि भुक्तम् । रात्रौ वृत्तम् । बहुल-ग्रहणात् । रात्रिवृत्तम्, सन्ध्यगर्जितम् इत्य् आदयः ॥ तत्र
aharavayavāḥ rātryavayavāś ca saptamyantāḥ ktāntena saha samasyante, tatpuruṣaś ca samāso bhavati / pūrvāhṇakṛtam / aparāhṇakṛtam / pūrvarātrakṛtam / apararātrakṛtam / avayava-grahanam kim ? etat tu te divā vṛttaṃ rātrau vṛttaṃ ca drakṣyasi / ahani bhuktam / rātrau vṛttam / bahula-grahaṇāt / rātrivṛttam, sandhyagarjitam ity ādayaḥ // tatra
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.