सञ्ज्ञायां विषये सप्तयन्तं सुपा सह समस्यते, तत्पुरुषश् च समासो भवति । सञ्ज्ञा समुदायोपाधिः । तेन नित्यसमास एव अयम्, न हि वाक्येन सञ्ज्ञा गम्यते । अरण्येतिलकाः । अरण्येमाषाः । वनेकिंशुकाः । वने - बिल्वकाः । कूपेपिशाचकाः । हलदन्तात् सप्तम्याः सञ्ज्ञायाम् (*६,३।९) इत्य् अलुक् ॥ क्तेन अहो-रात्र-अवयवाः
sañjñāyāṃ viṣaye saptayantaṃ supā saha samasyate, tatpuruṣaś ca samāso bhavati / sañjñā samudāyopādhiḥ / tena nityasamāsa eva ayam, na hi vākyena sañjñā gamyate / araṇyetilakāḥ / araṇyemāṣāḥ / vanekiṃśukāḥ / vane - bilvakāḥ / kūpepiśācakāḥ / haladantāt saptamyāḥ sañjñāyām (*6,3.9) ity aluk // ktena aho-rātra-avayavāḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.