तद्धित-अर्थ-उत्तरपद-समाहारे च (*२,१।५१) इत्य् अत्र यः सङ्ख्या-पूर्वः समासः स द्विगु-सञ्ज्ञो भवति । तद्धित-अर्थे तावत् - पञ्चसु कपालेशु संस्कृतः पञ्चकपालः । दशकपालः । संस्कृतं भक्षाः (*४,२।१६) इति इह अण्, तस्य द्विगोर् लुग्-अनपत्ये (*४,१।८८) इति लुक् । उत्तरपदे - पञ्चनावप्रियः । नावो द्विगोः (*५,४।९९) इति समासान्तो भवति । समाहारे - पञ्चपूली । द्विगोः (*४,१।२१) इति ङीब् भवति । द्विगुप्रदेशाः - द्विगोः (*४,१।२१) इत्य् एवम् आदयः ॥ कुत्सितानि कुत्सनैः
taddhita-artha-uttarapada-samāhāre ca (*2,1.51) ity atra yaḥ saṅkhyā-pūrvaḥ samāsaḥ sa dvigu-sañjño bhavati / taddhita-arthe tāvat - pañcasu kapāleśu saṃskṛtaḥ pañcakapālaḥ / daśakapālaḥ / saṃskṛtaṃ bhakṣāḥ (*4,2.16) iti iha aṇ, tasya dvigor lug-anapatye (*4,1.88) iti luk / uttarapade - pañcanāvapriyaḥ / nāvo dvigoḥ (*5,4.99) iti samāsānto bhavati / samāhāre - pañcapūlī / dvigoḥ (*4,1.21) iti ṅīb bhavati / dvigupradeśāḥ - dvigoḥ (*4,1.21) ity evam ādayaḥ // kutsitāni kutsanaiḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.