दिक्-सङ्ख्ये इत्य् अनुवर्तते । तद्धित-अर्थे विषये उत्तरपदे च परतः समाहारे च अभिधेये दिक्-सङ्ख्ये समानाधिकरणेन सुपा सह समस्येते, तत्पुरुषश् च समासो भवति । तद्धित-अर्थे तावत् - पूर्वस्यां शालायां भवः, दिक्पूर्वपदाद् असञ्ज्ञायां ञः (*४,२।१०७), पौर्वशालः । आपरशालः । उत्तरपदे - पूर्वशालाप्रियः । अपरशालाप्रियः । समाहारे दिक्-शब्दो न सम्भवति । सङ्ख्या तद्धित-अर्थे - पाञ्चनापितिः । पञ्चकपालः । उत्तरपदे - पञ्चगवधनः । दशगवधनः । समाहारे - पञ्चपूली । दशपूली । पञ्चकुमारि । दशकुमारि । स नपुंसकम् (*२,४।१७) इति नपुंसकत्वम् । ह्रस्वो नपुंसके प्रातिपदिकस्य (*१,२।४७) इति ह्रस्वत्वम् ॥ सङ्ख्या-पूर्वो द्विगुः
dik-saṅkhye ity anuvartate / taddhita-arthe viṣaye uttarapade ca parataḥ samāhāre ca abhidheye dik-saṅkhye samānādhikaraṇena supā saha samasyete, tatpuruṣaś ca samāso bhavati / taddhita-arthe tāvat - pūrvasyāṃ śālāyāṃ bhavaḥ, dikpūrvapadād asañjñāyāṃ ñaḥ (*4,2.107), paurvaśālaḥ / āparaśālaḥ / uttarapade - pūrvaśālāpriyaḥ / aparaśālāpriyaḥ / samāhāre dik-śabdo na sambhavati / saṅkhyā taddhita-arthe - pāñcanāpitiḥ / pañcakapālaḥ / uttarapade - pañcagavadhanaḥ / daśagavadhanaḥ / samāhāre - pañcapūlī / daśapūlī / pañcakumāri / daśakumāri / sa napuṃsakam (*2,4.17) iti napuṃsakatvam / hrasvo napuṃsake prātipadikasya (*1,2.47) iti hrasvatvam // saṅkhyā-pūrvo dviguḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.