उपमेयम् उपमितं , तद्वाचि सुबन्तं व्याघ्र-आदिभिः सामर्थ्याद् उपमान-वचनैः सह सामस्यते, तत्पुरुषश् च समासो भवति, न चेत् सामान्यवाची शब्दः प्रयुज्यते । विशेषणं विशेष्येण बहुलम् (*२,१।५७) इति परनिपाते प्राप्ते विशेष्यस्य पूर्वनिपात-अर्थ आरम्भः । पुरुषो ऽयं व्याघ्र इव पुरुषव्याघ्रः । पुरुषसिंहः । सामान्य-अप्रयोगे इति इम् ? पुरुषो ऽयं व्याघ्र इव शूरः । व्याघ्र । सिंह । ऋक्ष । ऋषभ । चन्दन । वृक्ष । वराह । वृष । हस्तिन् । कुञ्जर । रुरु । पृषत । पुण्डरीक । बलाहक । अकृतिगनश् च अयम्, तेन+इदम् अपि भवति - मुखपद्मम्, मुखकमलम्, करकिसलयम्, पार्थिवचन्द्रः इत्य् एवम् आदि ॥ विशेसनं विशेष्येण बहुलम्
upameyam upamitaṃ , tadvāci subantaṃ vyāghra-ādibhiḥ sāmarthyād upamāna-vacanaiḥ saha sāmasyate, tatpuruṣaś ca samāso bhavati, na cet sāmānyavācī śabdaḥ prayujyate / viśeṣaṇaṃ viśeṣyeṇa bahulam (*2,1.57) iti paranipāte prāpte viśeṣyasya pūrvanipāta-artha ārambhaḥ / puruṣo 'yaṃ vyāghra iva puruṣavyāghraḥ / puruṣasiṃhaḥ / sāmānya-aprayoge iti im ? puruṣo 'yaṃ vyāghra iva śūraḥ / vyāghra / siṃha / ṛkṣa / ṛṣabha / candana / vṛkṣa / varāha / vṛṣa / hastin / kuñjara / ruru / pṛṣata / puṇḍarīka / balāhaka / akṛtiganaś ca ayam, tena+idam api bhavati - mukhapadmam, mukhakamalam, karakisalayam, pārthivacandraḥ ity evam ādi // viśesanaṃ viśeṣyeṇa bahulam
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.