सत् महत् परम उत्तम उत्कृष्ट इत्य् एते पूज्यमानैः सह समस्यन्ते, तत्पुरुषश् च समासो भवति । पूज्यमानैः इति वचनात् पूजावचनाः सदादयो विज्ञायन्ते । सत्पुरुषः । महापुरुषः । परमपुरुषः । उत्तमपुरुषः । उत्कृष्टपुरुषः । पूज्यमानैः इति किम् ? उत्कृष्टो गौः कदर्मात् ॥ वृन्दरक-नाग-कुञ्जरैः पूज्यमानम्
sat mahat parama uttama utkṛṣṭa ity ete pūjyamānaiḥ saha samasyante, tatpuruṣaś ca samāso bhavati / pūjyamānaiḥ iti vacanāt pūjāvacanāḥ sadādayo vijñāyante / satpuruṣaḥ / mahāpuruṣaḥ / paramapuruṣaḥ / uttamapuruṣaḥ / utkṛṣṭapuruṣaḥ / pūjyamānaiḥ iti kim ? utkṛṣṭo gauḥ kadarmāt // vṛndaraka-nāga-kuñjaraiḥ pūjyamānam
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.