जातिः इति वर्तते । जातिवाचि सुबन्तं प्रशंसा-वचनैः सह समस्यते, तत्पुरुषश् च समासो भवति । रूढि-शब्दाः प्रशंसा-वचना गृह्यन्ते मतल्लिकादयः । ते च आविष्टलिङ्गत्वाद् अन्यलिङ्गे ऽपि जाति-शब्दे स्वलिङ्गोपादाना एव समानाहिकरना भवन्ति । गोप्रकाण्डम् । अश्वप्रकाण्डम् । गोमत्ल्लिका । अश्वमतल्लिका । गोमचर्चिका । अश्वमचर्चिका । जातिः इति किम् ? कुमारी मतल्लिका ॥ युवा खलति-पालित-वलिन-जरतीभिः
jātiḥ iti vartate / jātivāci subantaṃ praśaṃsā-vacanaiḥ saha samasyate, tatpuruṣaś ca samāso bhavati / rūḍhi-śabdāḥ praśaṃsā-vacanā gṛhyante matallikādayaḥ / te ca āviṣṭaliṅgatvād anyaliṅge 'pi jāti-śabde svaliṅgopādānā eva samānāhikaranā bhavanti / goprakāṇḍam / aśvaprakāṇḍam / gomatllikā / aśvamatallikā / gomacarcikā / aśvamacarcikā / jātiḥ iti kim ? kumārī matallikā // yuvā khalati-pālita-valina-jaratībhiḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.