उपयुकतादन्यः शेषः । षेशः समासो बहुव्रीहि-सञ्ज्ञो भवति । कश् च शेषः समासो न+उक्तः । वक्ष्यति अनेकम् अन्यपदार्थे (*२,२।२४) - चित्रगुः । शबलगुः । कृष्णोत्तरासङ्गः । शेषः इति किम् ? उन्मत्तगङ्गम् । लोहितगङ्गम् । बहुव्रीहि-प्रदेशाः - न बहुव्रीहौ (*१,१।२९) इत्य् एवम् आदयः ॥ अनेकम् अन्यपदार्थे
upayukatādanyaḥ śeṣaḥ / ṣeśaḥ samāso bahuvrīhi-sañjño bhavati / kaś ca śeṣaḥ samāso na+uktaḥ / vakṣyati anekam anyapadārthe (*2,2.24) - citraguḥ / śabalaguḥ / kṛṣṇottarāsaṅgaḥ / śeṣaḥ iti kim ? unmattagaṅgam / lohitagaṅgam / bahuvrīhi-pradeśāḥ - na bahuvrīhau (*1,1.29) ity evam ādayaḥ // anekam anyapadārthe
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.