अनेकम् इति वर्तते । अनेकं सुबन्तं च-अर्थे वर्तमानम् समस्यते, द्वन्द्व-सञ्ज्ञश् च समासो भवति । समुच्चयान्वाचयेतरेतरयोगसमाहाराश् च अर्थाः । तत्र समुच्चयान्वाचययोर् असामर्थ्यात् न अस्ति समासः । इतरेतरयोगे समाहारे च समासो विधीयते । प्लक्षश् च न्यग्रोधश् च प्लक्ष-न्यग्रोधौ । धवश् च खदिरश् च पलाशश् च धव-खदिर-पलाशाः । वाक् च त्वक् च वाक्-त्वचम् । वाग्-दृषदम् । द्वन्द्व-प्रदेशाः - द्वन्द्वे च (*१,१।३१) इत्य् एवम् आदयः ॥ उपसर्जनं पूर्वम्
anekam iti vartate / anekaṃ subantaṃ ca-arthe vartamānam samasyate, dvandva-sañjñaś ca samāso bhavati / samuccayānvācayetaretarayogasamāhārāś ca arthāḥ / tatra samuccayānvācayayor asāmarthyāt na asti samāsaḥ / itaretarayoge samāhāre ca samāso vidhīyate / plakṣaś ca nyagrodhaś ca plakṣa-nyagrodhau / dhavaś ca khadiraś ca palāśaś ca dhava-khadira-palāśāḥ / vāk ca tvak ca vāk-tvacam / vāg-dṛṣadam / dvandva-pradeśāḥ - dvandve ca (*1,1.31) ity evam ādayaḥ // upasarjanaṃ pūrvam
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.