निष्ठा इति पूर्वनिपाते प्राप्ते विकल्प उच्यते । आहिताग्न्य्-आदिषु निष्ठान्तं पूर्वं वा प्रयोक्तव्यम् । अग्न्याहितः । आहिताग्निः । जातपूत्रः, पुत्रजतः । जातदन्तः । जातशमश्रुः । तैलपीतः । घृतपीतः । ऊढभार्यः । गतार्थः । आकृतिगनश् च अयम्, तेन गडुकण्ठप्रभृतय इह+एव द्रष्टव्याः ॥ कडाराः कर्मधारये
niṣṭhā iti pūrvanipāte prāpte vikalpa ucyate / āhitāgny-ādiṣu niṣṭhāntaṃ pūrvaṃ vā prayoktavyam / agnyāhitaḥ / āhitāgniḥ / jātapūtraḥ, putrajataḥ / jātadantaḥ / jātaśamaśruḥ / tailapītaḥ / ghṛtapītaḥ / ūḍhabhāryaḥ / gatārthaḥ / ākṛtiganaś ca ayam, tena gaḍukaṇṭhaprabhṛtaya iha+eva draṣṭavyāḥ // kaḍārāḥ karmadhāraye
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.