कर्तरि करणे च कारके तृतीया विभक्तिर् भवति । देवदत्तेन कृतम् । यज्ञदत्तेन भुक्तम् । करणे - दात्रेण लुनाति । परशुना छिनत्ति । तृतीया-विधाने प्रकृत्यादीनाम् उपसङ्ख्यानम् । प्रकृत्या ऽभिरूपः । प्रकृत्या दर्शनीयः । प्रायेण याज्ञिकः । प्रायेण वैयाकरणः । गार्ग्यो ऽस्मि गोत्रेण । समेन धावति । विषमेण धावति । द्विद्रोणेन धान्यं क्रीणाति । पञ्चकेन पशून् क्रीणाति । साहस्रेण अश्वान् क्रीणाति ॥ सहयुक्ते ऽप्रधाने
kartari karaṇe ca kārake tṛtīyā vibhaktir bhavati / devadattena kṛtam / yajñadattena bhuktam / karaṇe - dātreṇa lunāti / paraśunā chinatti / tṛtīyā-vidhāne prakṛtyādīnām upasaṅkhyānam / prakṛtyā 'bhirūpaḥ / prakṛtyā darśanīyaḥ / prāyeṇa yājñikaḥ / prāyeṇa vaiyākaraṇaḥ / gārgyo 'smi gotreṇa / samena dhāvati / viṣameṇa dhāvati / dvidroṇena dhānyaṃ krīṇāti / pañcakena paśūn krīṇāti / sāhasreṇa aśvān krīṇāti // sahayukte 'pradhāne
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.