हेतौ इति वर्तते । गुणे हेताव् अस्त्रीलिङ्गे विभाषा पञ्चमी विभक्तिर् भवति । जाड्याद् बद्धः, जाड्येन बद्धः । पाण्डित्यान् मुक्तः, पाण्डित्येन मुक्तः । गुण-ग्रहनं किम् ? धनेन कुलम् । अस्त्रियाम् इति किम् ? बुद्ध्या मुक्तः । प्रज्ञया मुक्तः ॥ षष्ठी हेतु-प्रयोगे
hetau iti vartate / guṇe hetāv astrīliṅge vibhāṣā pañcamī vibhaktir bhavati / jāḍyād baddhaḥ, jāḍyena baddhaḥ / pāṇḍityān muktaḥ, pāṇḍityena muktaḥ / guṇa-grahanaṃ kim ? dhanena kulam / astriyām iti kim ? buddhyā muktaḥ / prajñayā muktaḥ // ṣaṣṭhī hetu-prayoge
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.