द्वितीयादयः शब्दाः पूर्वाचार्यैः सुपां त्रिकेषु समर्यन्ते, तैर् एव अत्र व्यवहारः । कर्मणि कारके या सङ्ख्या तत्र द्वितीया विभक्तिर्भवति । कटं करोति । ग्रामं गच्छति । उभसर्वतसोः कार्या धिगुपर्यादिषु क्रिषु । द्वितीया+आम्रेडितान्तेषु ततो ऽन्यत्र अपि दृश्यते ॥ उभयतो ग्रामम् । सर्वतो ग्रामम् । धिग् देवदत्तम् । उपर्युपरि ग्रामम् । अध्यधि ग्रामम् । अधो ऽधो ग्रामम् । अभितःपरितःसमयानिकषाहाप्रतियोगेषु च दृश्यते । अभितो ग्रामम् । परितो ग्रामम् । समया ग्रामम् । निकाषा ग्रामम् । हा देवदत्तम् । बुभुक्षितं न प्रति भाति किञ्चित् ॥ तृतीया च होश् छन्दसि
dvitīyādayaḥ śabdāḥ pūrvācāryaiḥ supāṃ trikeṣu samaryante, tair eva atra vyavahāraḥ / karmaṇi kārake yā saṅkhyā tatra dvitīyā vibhaktirbhavati / kaṭaṃ karoti / grāmaṃ gacchati / ubhasarvatasoḥ kāryā dhiguparyādiṣu kriṣu / dvitīyā+āmreḍitānteṣu tato 'nyatra api dṛśyate // ubhayato grāmam / sarvato grāmam / dhig devadattam / uparyupari grāmam / adhyadhi grāmam / adho 'dho grāmam / abhitaḥparitaḥsamayānikaṣāhāpratiyogeṣu ca dṛśyate / abhito grāmam / parito grāmam / samayā grāmam / nikāṣā grāmam / hā devadattam / bubhukṣitaṃ na prati bhāti kiñcit // tṛtīyā ca hoś chandasi
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.