विलक्षणे देवदत्तात् । आराच्-छब्दो दूरान्तिक-अर्थे वर्तते । तत्र दूरान्तिकार्थैः षष्थ्य्-अन्यतरस्याम् (*२,३।३४) । इति प्राप्ते पञ्चमी विधीयते । आराद् देवदत्तात् । आराद् यज्ञदत्तात् । इतर इति निर्दिश्यमान-प्रतियोगी पदार्थ उच्यते । इतरो देवदत्तात् । ऋते इति अव्ययं वर्जन-अर्थे । ऋते देवदत्तात् । ऋते यज्ञदत्तात् । दिक्-शब्दः -- पूर्वो ग्रामात् पर्वतः । उत्तरो ग्रामात् । पूर्वो ग्रीष्मात् वसन्तः । उत्तरो ग्रीष्मो वसन्तात् । द्विक्-शब्द इत्य् अत्र शब्द-ग्रहनं देशकालवृत्तिना ऽपि दिक्-शब्देन योगे यथा स्यात्, इतरथा हि दिग्-वृत्तिनैव स्यात्, इत्यमस्याः पूर्वा इति । इह तु न स्यात्, अयम् अस्मात् पूर्वः कालः इति । अञ्चु-उत्तरपद -- प्राग् ग्रामात् । प्रत्यग् ग्रामात् । ननु चायम् अपि दिक्-शब्द एव । षष्ठ्य्-अतसर्थ-प्रययेन (*२,३।३०) इति वक्ष्यति, तस्य अयं पुरस्तादपकर्षः । आच् -- दक्षिणा ग्रामात् । उत्तरा ग्रामात् । आहि - दक्षिणाहि ग्रामात् । उत्तराहि ग्रामात् ॥ षष्ठ्य्-अतसर्थ-प्रत्ययेन
vilakṣaṇe devadattāt / ārāc-chabdo dūrāntika-arthe vartate / tatra dūrāntikārthaiḥ ṣaṣthy-anyatarasyām (*2,3.34) / iti prāpte pañcamī vidhīyate / ārād devadattāt / ārād yajñadattāt / itara iti nirdiśyamāna-pratiyogī padārtha ucyate / itaro devadattāt / ṛte iti avyayaṃ varjana-arthe / ṛte devadattāt / ṛte yajñadattāt / dik-śabdaḥ -- pūrvo grāmāt parvataḥ / uttaro grāmāt / pūrvo grīṣmāt vasantaḥ / uttaro grīṣmo vasantāt / dvik-śabda ity atra śabda-grahanaṃ deśakālavṛttinā 'pi dik-śabdena yoge yathā syāt, itarathā hi dig-vṛttinaiva syāt, ityamasyāḥ pūrvā iti / iha tu na syāt, ayam asmāt pūrvaḥ kālaḥ iti / añcu-uttarapada -- prāg grāmāt / pratyag grāmāt / nanu cāyam api dik-śabda eva / ṣaṣṭhy-atasartha-prayayena (*2,3.30) iti vakṣyati, tasya ayaṃ purastādapakarṣaḥ / āc -- dakṣiṇā grāmāt / uttarā grāmāt / āhi - dakṣiṇāhi grāmāt / uttarāhi grāmāt // ṣaṣṭhy-atasartha-pratyayena
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.