स्तोक अल्प कृच्छ्र कतिपय इत्य् एतेभ्यो ऽसत्त्व-वचनेभ्यः करणे कारके ऽन्यतरस्यां तृतीया भवति । पञ्चम्य् अत्र पक्षे विधीयते, तृतीया तु करणे इत्य् एव सिद्धा । यदा तु धर्म-मात्रं करणाया विवक्ष्यते न द्रव्यम्, तदा स्तोक-आदीनाम् असत्त्व-वचनता । स्तोकान् मुक्तः, स्तोकेन मुक्तः । अल्पान् मुक्तः, अल्पेन मुक्तः । कृछ्रान् मुक्तः, कृच्छ्रेण मुक्तः । कतिपयान् मुक्तः, कतिपयेन मुक्तः । असत्त्व-वचनस्य इति किम् ? स्तोकेन विषेण हतः । अल्पेन मधुना मत्तः । करणे इति किम् ? क्रियाविशेषणे कर्मणि मा भूत्, स्तोकं मुञ्चति ॥ दूर-अन्तिक-अर्थैः षष्ठ्य्-अन्यतरस्याम्
stoka alpa kṛcchra katipaya ity etebhyo 'sattva-vacanebhyaḥ karaṇe kārake 'nyatarasyāṃ tṛtīyā bhavati / pañcamy atra pakṣe vidhīyate, tṛtīyā tu karaṇe ity eva siddhā / yadā tu dharma-mātraṃ karaṇāyā vivakṣyate na dravyam, tadā stoka-ādīnām asattva-vacanatā / stokān muktaḥ, stokena muktaḥ / alpān muktaḥ, alpena muktaḥ / kṛchrān muktaḥ, kṛcchreṇa muktaḥ / katipayān muktaḥ, katipayena muktaḥ / asattva-vacanasya iti kim ? stokena viṣeṇa hataḥ / alpena madhunā mattaḥ / karaṇe iti kim ? kriyāviśeṣaṇe karmaṇi mā bhūt, stokaṃ muñcati // dūra-antika-arthaiḥ ṣaṣṭhy-anyatarasyām
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.