प्रातिपदिकार्थः सत्ता । लिङ्गं स्त्रीलिङ्ग-पुंलिङ्ग-नपुंसकानि । परिमणं द्रोणः, खारी, आढकम् । वचनम् एकत्व-द्वित्व-बहुत्वानि । मात्र-शब्दः प्रत्येकम् अभिसम्बध्यते । प्रातिपदिकार्थ-मात्रे, लिङ्ग-मात्रे, प्रिमाण-मात्रे, वचन-मात्रे प्रथमा विभक्तिर् भवति । प्रातिपदिकार्थ-मात्रे -- उच्चैः । नीचैः । लिङ्ग-ग्रहणं किम् ? कुमारी, वृक्षः, कुण्डम् इत्य् अत्र अपि यथा स्यत् । परिमाण-ग्रहणं किम् ? द्रोणः, खारी, आढकम् इत्य् अत्र अपि यथा स्यात् । वचन-ग्रहनं किम् ? एकत्व-आदिषु उक्तेष्व् अपि यथा स्यात् । एकः, द्वौ, बहवः । प्रातिपदिक-ग्रहनं किम् ? निपातस्य अनर्थकस्य प्रातिपदिकत्वम् उक्तं, ततो ऽपि यथा स्यात् । प्रलम्बते । अध्यागच्छति ॥ सम्बोधने च
prātipadikārthaḥ sattā / liṅgaṃ strīliṅga-puṃliṅga-napuṃsakāni / parimaṇaṃ droṇaḥ, khārī, āḍhakam / vacanam ekatva-dvitva-bahutvāni / mātra-śabdaḥ pratyekam abhisambadhyate / prātipadikārtha-mātre, liṅga-mātre, primāṇa-mātre, vacana-mātre prathamā vibhaktir bhavati / prātipadikārtha-mātre -- uccaiḥ / nīcaiḥ / liṅga-grahaṇaṃ kim ? kumārī, vṛkṣaḥ, kuṇḍam ity atra api yathā syat / parimāṇa-grahaṇaṃ kim ? droṇaḥ, khārī, āḍhakam ity atra api yathā syāt / vacana-grahanaṃ kim ? ekatva-ādiṣu ukteṣv api yathā syāt / ekaḥ, dvau, bahavaḥ / prātipadika-grahanaṃ kim ? nipātasya anarthakasya prātipadikatvam uktaṃ, tato 'pi yathā syāt / pralambate / adhyāgacchati // sambodhane ca
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.