यस्य अयम् एकवद् भावो विहितः स नपुंसक-लिङ्गो भवति द्विगुर् द्वन्द्वश् च । पञ्चगवम् । दशगवम् । द्वन्द्वः खल्व् अपि -- पाणिपादम् । शिरोग्रीवम् । परलिङ्गतापवादो योगः । अकारान्त-उत्तरपदो द्विगुः स्त्रियां भाष्यते । पञ्चपूली । दशरथी । वा+आबन्तः स्त्रियाम् इष्टः । पञ्चखट्वम्, पञ्चखट्वी । अनो नलोपश् च वा च द्विगुः स्त्रियाम् । पञ्चतक्षम्, पञ्चतक्षी । पात्रादिभ्यः प्रतिषेधो वक्तव्यः । पञ्चपात्रम् । चतुर्युगम् । त्रिभुवनम् ॥ अव्ययीभावश् च
yasya ayam ekavad bhāvo vihitaḥ sa napuṃsaka-liṅgo bhavati dvigur dvandvaś ca / pañcagavam / daśagavam / dvandvaḥ khalv api -- pāṇipādam / śirogrīvam / paraliṅgatāpavādo yogaḥ / akārānta-uttarapado dviguḥ striyāṃ bhāṣyate / pañcapūlī / daśarathī / vā+ābantaḥ striyām iṣṭaḥ / pañcakhaṭvam, pañcakhaṭvī / ano nalopaś ca vā ca dviguḥ striyām / pañcatakṣam, pañcatakṣī / pātrādibhyaḥ pratiṣedho vaktavyaḥ / pañcapātram / caturyugam / tribhuvanam // avyayībhāvaś ca
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.